लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२०
[[लेखकः :|]]
अध्यायः २२१ →

श्रीनारायण उवाच-
गत्वा च गोमतीतीरे प्रणम्य दण्डवच्च ताम् ।
हस्तपादौ च संशोध्य जलेन कुशहस्तकः ।। १ ।।
अक्षताँश्च फलं दधन् दद्यादर्घं च प्राङ्मुखः ।
सर्वपापविशुद्ध्यर्थं ददाम्यर्घं च गोमति ।। २ ।।
त्रैलोक्यवन्दिते देवि पापं मे हर गोमति ।
इत्युच्चार्य मृदं लब्ध्वा विष्णुं स्मृत्वा ह्युदीरयेत् ।। ३ ।।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।
उद्धृतासि वराहेण कृष्णेन शतबाहुना ।। ४ ।।
मृत्तिके हर मे पापं यन्मया पूर्वसंचितम् ।
त्वया हतेन पापेन सर्वपापैः प्रमुच्यते ।। ५ ।।
इत्येवं मृत्तिकां धृत्वा स्नानं कुर्यान्नदीजले ।
कुरुक्षेत्रे सूर्यग्रहे यत्पुण्यं तच्च लभ्यते ।। ६ ।।
स्नानमात्रेण विधिना गोमत्यां कृष्णसन्निधौ ।
देवान् पितॄन् मनुष्यांश्च तर्पयेद्भावसंयुतः ।। ७ ।।
गोमतीनीरदानेन मुक्तिं यान्ति न संशयः ।
विप्रानाहूय वेदज्ञान् पितॄणां श्राद्धमाचरेत् ।। ८ ।।
दद्याच्च दक्षिणां स्वर्णं रजतं चाम्बरादिकम् ।
सुवर्णशृंगसहितां खुरराजतभूषिताम् ।। ९ ।।
रत्नपुच्छां दुग्धयुतां ताम्रपृष्ठां सवत्सकाम् ।
दद्याद् धेनुं समभ्यर्च्य वस्त्रालंकारभूषणैः ।। 1.220.१० ।।
सप्तधान्यानि दद्याच्च विष्णुर्मे प्रीयतामिति ।
गोमती गोरजःस्नानं गोदानं गोपिचन्दनम् ।। १ १।।
गोपीशदर्शनं चेति गकाराः पंच दुर्लभाः ।
गोमत्यां श्राद्धकरणात् प्रेता मुक्ता भवन्ति वै ।। १२।।
नारकाः स्थावराश्चैव वायवः कीटतां गताः ।
सर्वे ते मुक्तिमायान्ति गोमत्यां श्राद्धदानतः ।। १ ३।।।
हयमेधस्य यज्ञस्य प्रयागाऽऽप्लवनस्य च ।
प्रत्यहं हुतभोक्तुश्च फलं तद्गोमतीजलात् ।। १४।।
विष्णुलोकं हि गच्छन्ति पितरस्त्रिकुलोद्भवाः ।
अनेकजन्मसाहस्रं वाङ्मनःकर्मभिः कृतम् ।। १५।।
पापं प्रविलयं याति गोमतीदर्शनेन वै ।
गोमत्यां कार्तिके स्नातुः प्रसन्नः श्रीयुतो हरिः ।। १६।।
सम्पूर्णे कार्तिके मासे सम्प्राप्ते बुधवासरे ।
पंचामृतेन तीर्थस्य जलेन स्नापयेद्धरिम् ।। १७।।
कस्तुरीकेसरमिश्रश्रीखण्डं च विलेपयेत् ।
पुष्पहारैः फलैर्दीपैर्धूपैश्च पूजयेद्धरिम् ।। १८।।
नैवेद्यं रुचिरं दद्याद् विष्णुर्मे प्रीयतामिति ।
गीतवाद्यकथास्तोत्रनृत्यैर्जागरणं चरेत् ।। १९।।
कार्तिकान्ते गोमतीसंगमेऽब्धौ स्नानमाचरेत् ।
रमापतिं प्रपूज्यैव व्रतं सम्पूर्णतां व्रजेत् ।।1.220.२०।।
माघस्नानं च गोमत्यां कर्तुः श्रीसंयुतो हरिः ।
प्रसन्नो भवति तत्र मुक्तिं चापि ददाति सः ।।२१।।
तिला हिरण्यं रजतं मोदका गुडमिश्रिताः ।
दक्षिणाश्चापि दातव्या ब्राह्मणाय सरित्तटे ।।२२।।
तिलैराज्येन धान्यैश्च फलैर्होमोपि सम्मतः ।
व्रतान्ते रक्तसद्वस्त्रकंचुकोष्णीषमित्यपि ।।।२३।।।
दद्यादुपानहौ चैव मिष्टान्नं चापि भोजनम् ।
तैलपक्वं घृतपक्वं विष्णुर्मे प्रीयतामिति ।।।२४।।
सर्वदानफलं तस्य सर्वतीर्थफलं तथा ।
सर्वान्कामानवाप्नोति विष्णुलोकं सनातनम् ।। २५।।
प्राप्नोति चात्र गोमत्यां माघस्नानेन वै जनः ।
माघं समापयेन्माघ्यां गोमत्युदधिसंगमे ।।२६।।
ब्राह्मणाऽनुज्ञया सर्वं न्यूनं सम्पूर्णतां व्रजेत् ।
ब्रह्मदेवस्वहर्तॄणां पापं स्नानाद्विनश्यति ।।२७।।
मित्रद्रोहगुरुघातपापं नश्यति स्पर्शनात् ।
ब्रह्मरुद्रपदादूर्ध्वपदं प्राप्नोति दर्शनात् ।। २८।।
भीताऽभयप्रदानेन यत्फलं लभते जनः ।
तत्फलं समवाप्नोति गोमतीवारिसंगमात् ।।।२९।।
कृतकृत्यो भवेन्नीरं गोमत्याः पातियो जनः ।
गण्डूषं पिबति यश्च ऋणान्मुच्येत वै त्रयात् ।। 1.220.३० ।।
गोमतीसेविनो भक्ता वसन्ति कृष्णसन्निधौ ।
वनमालाश्चतुर्भुजा दिव्यगन्धानुलेपनाः ।। ३१ ।।
नरा विष्णुस्वरूपाश्च नार्यो लक्ष्मीस्वरूपिकाः ।
भूत्वा विष्णुपदं यान्ति चाऽपुनर्भवलक्षणम् ।।३२।।
कृत्वा च गोमतीतीर्थं गच्छेद्वै चक्रतीर्थकम् ।
चक्रांकिताश्च पाषाणा दृश्यन्ते यत्र सर्वथा ।।३३ ।।
गले धृतश्च पाषाणो धारकं तीर्थकृन्नरम् ।
गोलोके प्रेषयत्येषश्चक्रलांछनसद्बलात् ।। ३४।।
यत्रास्थि पतितं यस्य सोपि याति परां गतिम् ।
प्रयागादधिकं चैतच्चक्रतीर्थं विमुक्तिदम् ।। ३५।।
यत्र चक्रांकनं लब्धं तत्र षण्माससंस्थितेः ।
विधूय सर्वपापानि नरो याति हरेर्गृहम् ।।३६।।
चक्रतीर्थे जनो गत्वा प्रक्षाल्य पादहस्तकान् ।
आचम्य च पुनः कृष्णं प्रणमेद् दण्डवत् ततः ।। ३७।।
गृहीत्वा पंचरत्नानि पत्रं पुष्पं तथाऽक्षतान् ।
गन्धं फलं सुवर्णं च चन्दनं चार्घमित्यपि ।।।३८।।।
विलोक्य च समुद्रं वै दद्याच्चक्राय विष्णवे ।
नमो विष्णुस्वरूपाय विष्णुचक्राय ते नमः ।। ३९।।
गृहाणाऽर्घ्यं मया दत्तं सर्वकामप्रदो भव ।
अग्नियोनिर्यज्ञदेहो विष्णुबलश्च मुक्तिदः ।।1.220.४०।।
विष्णुचक्रधरोऽब्धिस्त्वं चक्रतीर्थान्वितः सदा ।
स्नानं करोमि तीर्थेऽत्र मुक्तिं देहि रथांगधृक् ।।४१ ।।
मृदं शिरसि धृत्वा च स्नात्वा भजन् हरिं तदा ।
सन्तर्प्य देवताः पितॄन् नरान् हरिं च पार्षदान् ।।४२।।
अर्घयित्वा तथा कृष्णं सहस्राश्वयजेः फलम् ।
स्नानमात्रेण लभ्येत चक्रतीर्थे विधानतः ।।४३।।
विश्वेदेवाः स्वर्णदानाद् रूप्यदानातु पितृकाः ।
भोजनेनापि संतृप्ता भवन्ति चक्रतीर्थके ।।४४।।
दीनेभ्यः कृपणेभ्यश्च देयं वस्त्रविभूषणम् ।
रथदानं मुख्यमुक्तं वाहोपस्करस्मृद्धयः ।।४५।।
अश्वा वृषाः प्रदातव्या गन्त्र्यश्चापि विशेषतः ।
दक्षिणा चापि दातव्या प्रीणनार्थं जगत्पतेः ।।४६।।
पितरस्त्रिकुले जाताः प्रेताः कीटाश्च नारकाः ।
सर्वे ते मुक्तिमायान्ति चक्रतीर्थप्रभावतः ।। ४७।।
श्राद्धे गयाफलं बोध्यं स्नाने यज्विगतिर्मता ।
तर्पणे सोमपर्वोत्थं दाने सूर्यग्रहाधिकम् ।।४८।।
फलं लभ्येत चक्रांकं ग्राह्यं बाह्वोस्तु मानवैः ।
मनोवाक्कर्मभिर्जन्यं पापं स्नानाद् विनश्यति ।।४९।।
इति ते कथितं लक्ष्मि! चक्रतीर्थमपि ध्रुवम् ।
तीर्थकृतो जनाः शुद्धा विष्णुसायुज्यमाप्नुयुः ।।1.220.५० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोमतीतीर्थचक्रतीर्थविधिफलादिकथननामा विंशत्यधिकद्विशततमोऽध्यायः ।। २२० ।।