लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१९
[[लेखकः :|]]
अध्यायः २२० →


श्रीनारायण उवाच--
श्रूयतां च महालक्ष्मि! सर्वा तीर्थमयी हि सा ।
द्वारका भगवद्वासा किमु वर्ण्यं विशेषकम् ।। १ ।।
तथापि वर्णयिष्यमि तीर्थानि कानिचिद् यथा ।
तत्र मुख्यां गोमतीं वै प्रगच्छेत् कृष्णसंश्रयाम् ।। २ ।।
यस्या दर्शनमात्रेण मुच्यते सर्वपातकैः।
अमंगलानां पापानां नाशकं स्पर्शमात्रतः ।। ३ ।।
सर्वेच्छापूरकं पुण्यं प्रणमेत् गोमतीजलम् ।
उभश्रेयःपदं गतिप्रदं वै गोमतीजलम् ।। ४ ।।
एकार्णवे पुरा जाते नष्टे स्थावरजंगमे ।
ब्रह्मा जज्ञे नाभिपद्मे तेन वै सनकादयः ।। ५ ।।
समुत्पादिता आज्ञप्ताः सृष्टिकार्यार्थमेव च ।
अगृहीतवचसस्ते ययुर्वै तपसे ततः ।। ६ ।।
पश्चिमां दिशमादाय तीरे नदनदीपतेः ।
तेजोमयस्वरूपस्य द्रष्टुकामा हरेस्तदा ।। ७ ।।
हरौ मनः समाधाय तेपिरे दारुणं तपः ।
बहुवर्षसहस्रैश्च प्रसन्नो भगवान् स्वयम् ।। ८ ।।
बभूव प्रेरयामास चक्रं स्वीयं सुदर्शनम् ।
पृथ्वीं भित्त्वा जलं नीत्वा तेजोमयं सुदर्शनम् ।। ९ ।।
बहिरायात् सूर्यसमं सहस्रारं दुरासदम् ।
दैत्यदानवहन्तृ च भक्तरक्षा करं सदा ।। 1.219.१० ।।
दृष्ट्वा चक्रं विस्मिताश्च ब्रह्मपुत्राः परस्परम् ।
तदा नभोगता वाणी प्राह तांश्च कुमारकान् ।। ११ ।।
भो ब्राह्मणा योगिसिद्धाः स्वयं नारायणो हरिः ।
प्रसन्नस्तपसा साक्षाच्छीघ्रमाविर्भविष्यति ।। १२।।
तस्याऽर्हताकृते चेतज्जलमाविर्बभूव ह ।
जलेनानेन पूतेन शीघ्रमर्घं प्रयच्छत ।। १३ ।।
यदिदं तेजसा व्याप्तमायुधं तत्सुदर्शनम् ।
श्रीहरेर्लोकनाथस्य तस्मादर्घं प्रयच्छत ।। १ ४।।
तच्छ्रुत्वा च सनकाद्यास्तुष्टुवुर्वै सुदर्शनम् ।
नमो ज्योतिःस्वरूपाय ब्रह्मशस्त्राय ते नमः ।। १५ ।।
नमो भक्तसुरक्षाय विष्णुशस्त्राय ते नमः ।
सहस्राशय सूर्यायाऽमोघाय ते नमो नमः ।। १६ ।।
इति स्तुत्वः नमस्कृत्वा पूजयामासुरक्षतैः ।
पुष्पैः पत्रैर्जलैः स्तोत्रैः प्रणेमुश्च पुनः पुनः ।। १७।।
हरिर्ब्रह्मा वसिष्ठश्च समायाताश्च तत्स्थले ।
पुत्राणां तपसा हृष्टा ददुः स्वदर्शनं तदा ।। १८ ।।
सत्यलोकस्थिता गंगा मूर्तापि तत्र चागता ।
ब्रह्मा प्राह तदा गंगां वशिष्ठं मम पुत्रकम् ।। १९ ।।
अनुयाहि समुद्रान्तं जलं भूत्वा जले वस ।
यत्र सुदर्शनाद्वारि पुण्यं चात्र समुद्गतम् ।। 1.219.२० ।।
तत्र स्थानं सदा ते स्यात् तीर्थं सर्वाघनाशनम् ।
श्रीकृष्णस्य पादस्पर्शात् सदा पुण्या सुते भव ।। २१ ।।
गवां किरणमुख्यानां जले सुदर्शनोद्भवे।
स्थितिमत्त्वात् सदा ते वै संज्ञाऽस्तु गोमती शुभा ।।२२।
वशिष्ठस्याऽनुगा भूत्वा नदीरूपा सुते भव ।
पितेव पुत्रीति यथा वशिष्ठतनया भव ।। २३ ।।
बाढमित्येव तानुक्त्वा प्रस्थिता जलभावतः ।
वसिष्ठश्चाग्रतो याति गंगा तं पृष्ठतोऽन्वगात् ।। २४।।
तां दृष्ट्वा मानवाः सर्वे देवाश्च तीर्थकोटयः ।
नमश्चक्रुर्महापुण्यां गच्छन्तीं पश्चिमार्णवम् ।। २५।।
वशिष्ठमनुगच्छन्ती प्रस्थिता वरुणालयम् ।
समाकिरन् महाभागा सुमनोभिश्च तां नदीम् ।। २६।।
दिव्यैर्माल्यैः सुगन्धैश्च गर्न्धैर्धूपैस्तथाऽक्षतैः ।
पूजयामासुराश्चर्यसमेता वै सुरादयः ।। २७।।
अस्या दर्शनमात्रेण मुक्तिं यास्यन्ति मानवाः ।
किं पुनः स्नानदानादि कृत्वा यान्ति हरेः पदम् ।। २८ ।।
इत्युक्त्वा चार्पयित्वाऽर्घ्यं श्रीकृष्णमीडिरे हरिम् ।
पीतकौशेयवसनं वनमालाविभूषितम् ।। २९।।
दिव्यगन्धसुगन्धाढ्यं दिव्यस्वर्णांगदान्वितम् ।
दिव्याभरणहेतिं च मकराकारकुण्डलम् ।। 1.219.३० ।।
ज्वलत्किरीटमुकुटं श्रीवत्सांकितवक्षसम् ।
भक्ताऽभयप्रदहस्तं प्रलम्बितचतुर्भुजम् ।। ३१ ।।
घनश्यामं प्रसन्नास्यं लक्ष्मीसेवितपत्कजम् ।
नताः स्मश्च नता स्मश्च तुष्टुवुश्च पुनः पुनः ।। ३२ ।।
नारायणो हरिः कृष्णः प्रसन्नमनसा द्विजान् ।
उवाच परमप्रीत्या सुरान् कुमारकाँस्तथा ।। ३३ ।।
यूयं सर्वे तिष्ठतात्र चाऽस्पृष्टा मम मायया ।
ज्ञानिनो मोक्षिणश्चैव पावना वसतात्र वै ।। ३४।।
इयं वै गोमती गंगाऽऽनीता भवत्कृते मया ।
सर्वेषां भवतां चैव तीर्थानां श्रैष्ठ्यमास्थिता ।। ३५।।।
मोक्ष्यर्थिभिः कुमारैश्चाप्यहमत्र प्रसादितः ।
तस्मादिदं परं तीर्थं गोमत्याख्यं च मोक्षदम् ।। ३६।।
अनुग्रहाय भवतां मया चक्रं सुदर्शनम् ।
दर्शितं प्रथमं विप्रा भुवं भित्वा जलं तथा ।। ३७।।
भित्वा तेजोमयं दिव्यं समायातं ममाग्रतः ।
चक्रतीर्थमिति ख्यातं गोमत्यां संभविष्यति ।। ३८ ।।
ममापि नियतं वासो भवतामपि सर्वथा ।
चक्रतीर्थे सदावासो भविष्यति हि शाश्वतः ।। ३९ ।।
गोमत्यर्णवसंयोगे ये स्नास्यन्ति जनादयः ।
चक्रतीर्थे च ये स्नातास्तेषां मुक्तिः करे स्थिता ।।1.219.४० ।।
गोमत्यां सागरे सर्वतीर्थानि प्रवसन्ति हि ।
सर्वे देवाश्च ऋषयः प्रवसन्ति हि संगमे ।।४१।।
सनकादिभिराचम्य स्नात्वा पीत्वा जलं तदा ।
हरेश्चरणौ प्रक्षाल्य धृतं मूर्ध्नि जलं तदा ।।।४२।।
सर्वदेवैस्तथा चतुर्दशलोकनिवासिभिः ।
गोमती पूजिता तत्र पीतं पुण्यं जलं तथा ।।४३।।
मूर्ध्नि धृतं जलं तस्याः पादौ प्रक्षालितौ हरेः ।
गोमती चापि कन्या च भूत्वा धृत्वा घटे जलम् ।।४४।।
अवनीज्य हरेः पादौ मूर्ध्ना जलमधारयत् ।
कृत्वाऽर्घं श्रीहरये च दत्वा सा च जलांजलिम् ।।४५।।
विकीर्य कुसुमान्यत्र प्रविष्टा वरुणालये ।
सनकाद्या महर्षयो देवाश्च मुनयस्तथा ।।४६।।
ये ये तत्र च तीर्थानि पूर्योऽरण्यानि चाययुः ।
ते ते तत्र कृतस्थानास्तीर्थरूपैः समस्थिताः ।।४७।।
एवं सा गोमती सर्वतीर्थमयी महोदया ।
संजाता श्रीहरेर्योगात् पावनी मोक्षदा शुभा ।।४८।।
हरिश्च पश्यतां सर्वतीर्थानां वै तिरोऽभवत् ।
सर्वे देवादयो नत्वा तां दिशं स्वालयान् ययुः ।।४९।।
एवं सा गोमती लक्ष्मि! संजाता सागरंगमा ।
कृष्णयोगात्सर्वपापहरा गंगा सरिद्वरा ।।1.219.५०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गोमतीतीर्थचक्रतीर्थेतिहासमाहात्म्यकथननामैकोनविंशाऽधिकद्विशततमोऽध्यायः ।। २१९ ।।