लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २२२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २२१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २२२
[[लेखकः :|]]
अध्यायः २२३ →

श्रीनारायण उवाच-
ततो गच्छेन्महत्तीर्थं कृकलासविमुक्तिदम् ।
नृगतीर्थमितिख्यातं नृगोऽभूच्च महीपतिः ।। १ ।।
अनेकशतसाहस्रा भूमिपालास्तु यद्वशे ।
स नित्यं गुरुभक्तश्च देवपूजनतत्परः ।। २ ।।
महादानानि सुददौ नित्यं नित्यं सहस्रशः ।
विप्रेभ्यो गोसहस्रं च प्रददौ नित्यमेव सः ।। ३ ।।
प्रक्षाल्य चरणौ भक्त्या दत्त्वा क्षौमयुगं तथा ।
चन्दनपुष्पैः सम्पूज्य प्रतिविप्राय गां ददौ ।। ४ ।।
ददौ च दक्षिणां द्रव्यं गवार्थे च तृणानि वै ।
दत्वा ताम्बूलमवदत् विष्णुर्मे प्रीयतामिति ।। ५ ।।
दानानि ददतस्तस्य यज्ञाँश्च कुर्वतस्तथा ।
भोगांश्च भुंजतस्तस्य भजतः श्रीहरिं तथा ।। ६ ।।
धर्मेण पालयतः क्ष्मां ययौ कालः सुखान्वितः ।
एकदा गौतमं विप्रं सर्वदा चाऽपरिग्रहम् ।। ७ ।।
समाहूय च सम्पूज्य तस्मै स गां ददौ नृपः ।
सुवर्णशृंगसहितां रौप्यखुरादिशोभिताम् ।। ८ ।।
गां नीत्वा स्वगृहं यातो गौतमस्तां सवत्सिकाम् ।
सुतृप्तां शोभनां गां च दामबद्धां जलाशयम् ।। ९ ।।
जलं पाययितुं विप्रो गृहीत्वा निर्ययौ गृहात्। ।
मार्गे चोष्ट्रं प्रदृष्ट्वा सा त्रस्ता चाच्छिद्य हस्ततः ।। १.२२२.१० ।।
धावित्वा सा ययौ धेनुः सुमहद्राजगोधनम् ।
विचिन्वन् गौतमो गां तां न प्रापत् स्वगृहं ययौ ।। ११ ।।
द्वितीयेऽह्नि पुनर्विप्रानाहूय नृगभूपतिः ।
ददौ दानानि विधिवद्गोदानानि बहून्यपि ।। १२।।
सम्पूज्य भक्त्या सत्कृत्य वस्त्रालंकारभोजनैः ।
विधिवद्गां ददौ तां च स नृगः सोमशर्मणे ।। १ ३।।
गृहीत्वा राजभवनान्निर्ययौ सोऽपि गां च ताम् ।
गौतमोऽपि विचिन्वानो तामेव च ददर्श गाम् ।। १४।।
संयान्तीं पृष्ठतः सोमशर्मणः समुवाच तम् ।
ममेमां चापहृत्वा त्वं दस्युवत् किं प्रयास्यसि ।। १५।।
श्रुत्वा दस्युं स्वमात्मानं विस्मितोऽभूत् स सोमकः ।
प्राह तं राजतो लब्ध्वा दानेऽद्य नास्मि दस्युकः ।। १६।।
मम स्वत्वं गवि चात्र गां नयामि स्वमन्दिरम् ।
गौतमः प्राह नृपतो ह्यो मया प्रापिता न्वियम् ।। १७।।
दाने ममैव गव्यत्र स्वत्वं भवति ते नहि ।
कथं नयसि सोम त्वं मयि जीवति गौतमे ।। १८।।
विवदन्तौ तथा विप्रौ राजद्वारमुपागतौ ।
कुर्वाणौ कलहं घोरं द्वाःस्थौ प्रणयपूर्वकौ ।। १९।।
नृगा द्वारि द्विजौ दृष्ट्वा नत्वा पुपूज तौ पुनः।
प्रार्थयामास कलहं शामयितुं नृपोत्तमः ।।१.२२२.२० ।।
एकस्या गोः प्रति द्रव्यं लक्षं सुवर्णमुद्रिकाः ।
सहस्रं च गवां चापि ददामि प्रतिभूधनम् ।।२ १।।
एको गां प्रतिगृह्णातु चैनां दत्ता मया द्विजौ ।
अन्यो गवां सहस्रं च सहस्रस्वर्णमुद्रिकाः ।।।२ २।।
गौतमश्च तथा सोमः प्राहतुर्वै प्रगर्वतः ।
हठावेशाच्चोचतुर्गां गृह्णावो न सहस्रकम् ।। १३।।
गौतमः प्राह गामेनां गृह्णाम्येव हि मामकीम् ।
सोमः प्राह च गामेनां गृह्णाम्येव च मद्वशाम् ।।२४।।
न गृह्णामि सहस्रं तु गवां स्वर्णसहस्रकम् ।
नैव प्रयोजनं द्रव्ये सहस्रेऽपि तु मद्गवि ।।।२५।।
राज्ञा बहुप्रार्थितौ बोधितौ च पूजितावपि ।
कोपव्याकुलचेतस्कौ त्रिरात्रं समुपोषितौ ।।२६ ।।
अवज्ञातौ नृपेणाथ कुपात्रे मूर्खभूसुरौ ।
गच्छतं स्वगृहं विप्रौ मूर्खौ स्थो भानवर्जितौ ।। २७।।
प्राप्ते विषमसमये मार्गं कुर्यात् स वै बुधः ।
एकेन भाव्य नम्रेण चान्येन रुषता यदा ।।२८।।
मानं त्याज्यं हठस्त्याज्यो यत्र नान्या गतिस्तदा ।
तत्तु न क्रियते विप्रौ किं करोमि समानके ।।२९।।
एकस्मिन् वस्तुनि त्वत्र क्लिष्टावुभौ भविष्यथः ।
तस्माद् गच्छ तमत्युग्रौ यथेष्टं कुरुतं द्विजौ ।। १.२२२.३० ।।
एवमुक्तौ तदा विप्रौ राजानं प्रति क्रोधतः ।
ऊचतुः कुपितौ वाक्यं समर्थौ नृपतिं प्रति ।।३ १।।
अवमानयसे त्वस्मान्न न्यायं च ददासि यत् ।
भविष्यति भवानस्मात् कृकलासो न संशयः ।। ३ २।।
एवं शप्त्वा तदा विप्रौ परित्यज्य च गामुभौ ।
दुःखितौ स्वगृहं गन्तुमुद्यतौ च तदा नृपः ।। ३३।।
नृगो द्वारं समागत्य दण्डवत्प्रणिपत्य च ।
चक्रे च प्रार्थनां यूयममोघवचना द्विजाः ।। ३४।।
ममोपरि कृपां कृत्वा शापान्तं दिशताऽऽशु यत् ।
सोमशर्मा तदा प्राह द्वापरान्ते हरिः स्वयम् ।। १५ ।।
द्वारकायां समागत्य तव मुक्तिं करिष्यति ।
वासुदेवः स वै कृष्णस्त्वां गोलोकं च नेष्यति ।। ३६ ।।
इत्युक्त्वा तौ तदा विप्रौ जग्मतुः स्वनिकेतनम् ।
राजा नृगोऽपि तच्छापात्कालधर्ममुपेयिवान् ।। ३७।।
धर्मराजगृहं प्राप्तः पृष्ठश्च भोग्यकर्मणि ।
प्रथमं भोक्ष्यसे पुण्यं पापं वा ब्रूहि सत्वरम् ।। ३८ ।।
पुण्यं चानन्तकं तेऽस्ति पापं गोवैपरीत्यजम् ।
श्रुत्वा नृगः समुवाच भोक्ष्यं स्वल्पं हि दुष्कृतम् ।। ३ ९।।
यमस्यानुमतेनाऽय कृकलासोऽभवन्महान् ।
सोऽयं वर्षसहस्राणि कूपतडागसंस्थितः ।।१.२२२.४० ।।
जातिस्मरोऽभवद् भुंक्तेऽन्नकणादीन् वनौषधीन् ।
एकदा यदुबालैराकृष्यमाण इतस्ततः ।।४ १ ।।
रेमे तैः स्वमोक्षकालं मन्यमानो हरिं स्मरन् ।
किन्तु गुरुशरीरः स श्रमयुक्तोऽभवद् यदा ।।४२।।
पृथ्व्यां मूर्छां गतो भूत्वा पपात न चचाल वै ।
स्थूलात् स्थूलतमं देहं कृत्वा योगेन संस्थितः ।। ४३ ।।
बहुभिर्बालकैः कृष्यमाणोपि न चचाल सः ।
अतीव स्थौल्यमापन्नो वर्धते च क्षणे क्षणे ।।४४।।
बाला दृष्ट्वा चकिताश्च भययुक्ताश्च केचन ।
कृष्णं निवेदयामासुः कृष्णोऽप्यवेत्य तं मृगम् ।।४५ ।।
समागत्य च हस्तेन पस्पर्श तं नृगं तदा ।
शापबन्धाद् विनिर्मुक्तो दिव्यो राजा नृगोऽभवत् ।।४६ ।।
देवतुल्यशरीरः सः तदा भक्त्या कृतांजलिः ।
तुष्टाव परमेशानं मोक्षदं कृष्णमुत्तमम् ।।४७।।
भगवन् कर्म सम्पूर्णं भुक्तं नान्यच्च विद्यते ।
शुभं ते शरणे न्यस्तं मोक्षं कुरु ममाऽच्युत ।।४८ ।।
तदा कृष्णश्च तं प्राह मम योगाच्च पार्थिव ।
याहि पुण्यकृतान् लोकान् भुक्त्वा भोगाननुत्तमान् ।।४९ ।।
प्राप्नोष्यन्ते मम धाम चाऽपुनर्भवलक्षणम् ।
उवाच च नृगः कृष्णं यदि तुष्टोऽसि मे हरे ।१.२२२.५ ० ।।
गर्तोऽयं मम नाम्ना च तीर्थं भवतु पुण्यदम् ।
अत्र स्नात्वा तर्पणं च पितॄणां यः करिष्यति ।।५१ ।।
त्वत्प्रसादेन पितरो गच्छन्तु तव धाम ते ।
अत्र यात्रां च ये कुर्युस्ते स्युर्वै मोक्षभागिनः ।।५ २ ।।
तथास्त्विति नृपं तूक्त्वा ततः कृष्णस्त्वपासरत् ।
राजा दिव्यविमानेन ययौ यज्ञकृतां गृहम् ।।५३ ।।
वैकुण्ठं द्वितीयं यद्वै वैराजपदमुच्यते ।
तदारभ्य नृगकूपस्तीर्थोत्तममभूद्भुवि ।।५४।।
अर्घं नृगाय कृष्णाय दद्यात् स्नायाज्जलं पिबेत् ।
सन्तर्पयेत् पितॄन् देवान् मनुष्यान् श्राद्धमाचरेत् ।।५५ ।।
दद्याच्च दक्षिणां स्वर्णां दानानि विविधानि च ।
अक्षय्यं फलमाप्नोति चान्ते वै परमां गतिम् ।।५६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नृगराज्ञो गोदानव्यत्यासे कृकलासजन्म श्रीकृष्नाकृतमुक्तता नृगकूपतीर्थं चेति निरूपणनामा द्वात्रिंशत्यधिकद्विशत-
तमोऽध्यायः । । २२२ ।।