लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१६
[[लेखकः :|]]
अध्यायः २१७ →

श्रीनारायण उवाच-
कलेः पञ्चसहस्रे च गते वर्षे भुवः स्थलात् ।
गगाद्यास्तीर्थमूर्धन्याः प्रयान्ति श्रीहरेः पदम् । । १ ।।
शालग्रामो हरेर्मूर्तिर्जगन्नाथश्च देवताः ।
ततः स्वल्पे गते काले प्रयास्यन्ति हरेः पक्ष ।। २ ।।
दीक्षाश्च देवमन्त्राश्च विधयः श्राद्धतर्पणम् ।
सात्त्विकानि च कर्माणि प्रयास्यन्ति हरेः पदम् ।। ३ ।।
हरेः पूजा हरस्यापि तन्नामगुणकीर्तनम् ।
तत्त्वज्ञानानि सर्वाणि प्रयास्यन्ति हरेः पदम् । ४ ।।
व्रतं तपस्याऽनशनं स्वागतं ग्रामदेवताः ।
सूतकाऽद्यभिमन्तारो न भवन्ति युगे कलौ ।। ५ ।।
क्रूराऽहंकारसॆयुक्ता घातका वै महाजनाः ।
पुंसां भेदो मिथो नैव स्त्रीणां नैव च वै कलौ ।। ६ ।।
सर्वपृथ्व्यां स्त्रीवशाश्च पुंश्चल्यश्च गृहे वने ।
तर्जनैर्भर्त्सनौः शश्वत् हन्ति जारं तथा पतिम् ।। ७ ।।
गृहेश्वरी च गृहिणी गृही भृत्याऽधिकोऽधमः ।
चेटिभृत्यासमा वध्वो भवन्त्येव कलौ युगे ।। ८ ।।
कर्तारो बलिनो गेहे योनिसम्बन्धिबान्धवाः!
श्वश्रूश्च श्वशुरश्चैव गृहे मुख्याः कलौ युगे ।। ९ ।।
विद्यासम्बन्धिभिः सार्धॆ संभाषापि न विद्यते ।
स्वकीया बान्धवाद्यास्तु यथा परिचिताः परे ।। 1.216.१ ०।।
म्लेच्छविद्यां प्रपठन्ति देहदैहिकवादिनः ।
उत्तमाः सारहीनाश्च शूद्राणां सेवकाः कलौ ।। ११ ।।
ब्रह्मसूत्रविहीनाश्च त्राणशून्याः कृषिकृतः ।
धर्महीना द्विजा म्लेच्छकर्मकराः कलौ युगे ।। १ २।।
फलहीनाश्च तरवोऽपत्यहीनाश्च योषितः ।
दुग्धहीनास्तथा गावः क्षीरं घृतविवर्जितम् ।। १३।।
दम्पती प्रेमशून्यौ च स्थानिनः सुखवर्जिताः ।
भूपाः सत्ताविहीनाश्च प्रजाश्च करकर्षिताः ।। १४।।
जलहीना नदा नद्यो वाप्यः कूपाः सरांसि च ।
लक्षेषु पुण्यवान् कश्चिन् मिलेद्वा न मिलेदपि।। १९।।
कुत्सिता विकृताकारा नरा नार्यश्च बालकाः ।
कुवार्ताः कुत्सितपथाः प्रजायन्ते कलौ युगे ।। १६।।
न नगराणि न वै ग्रामा वृक्षगर्तनिवासिनः ।
शशवत् पर्णभोज्याश्च भवन्त्येव कलौ चिरम् ।। १७।।
अरण्यानि प्रजायन्ते ग्रामनगरभूमिषु ।
सरित्तडागसस्यानि क्षेत्रारण्यानि वै कलौ ।। १८।।
धनं न दृश्यते क्वापि पाशवीं वृत्तिमाश्रिते ।
धूर्ते सत्यस्य विश्वासः पापे पुण्यस्य मान्यता ।। १९।।
अशिष्टा ये ते तु शिष्टा लम्पटास्ते जितेन्द्रियाः ।
पुंश्चल्यस्ताः सतीपूज्या गण्यन्ते वै कलौ युगे ।। 1.216 .२०।।
जारा ब्रह्मव्रतास्तत्र सर्वस्त्रीकाश्च नैष्ठिकाः ।
तापसा ये गुप्तपापा निन्दकाः सत्यमानिनः ।। २ १।।
घातका ये कारुणिकाश्चौरा ये साधुभूषगाः ।
भिक्षुका ये वंचकास्ते जायन्ते वै कलौ युगे ।।२२।।
नीचसेवा महत्सेवा द्वेषाख्यानैश्च रंजकाः ।
हास्यप्रदा जडा व्याधाः पूज्यास्ते वै कलौ युगे ।।२३।।
बाल्ये व्याधिजरायुक्ताः पलिताः स्वल्पकालजाः ।
महावृद्धाः पञ्चदशवर्षेष्वेव कलौ युगे ।।।२४।।
पञ्चवर्षा तु युवती रजोयुक्ता सुतान्विता ।
षड्मासान्ते प्रसूता स्त्री द्वादशे वृद्धतान्विता ।।।५।।
प्रायशो बहुशो वन्ध्या हतगर्भाः दुरोदराः ।
कन्याविक्रयिणः पुत्रविक्रयिणश्च सर्वशः ।।२६।।
मातृजायावधूनां च जारोपार्जनतत्पराः ।
कन्यानां भगिनीनां च जारोपार्जनजीविनः ।।रे७।।
हरेर्नाम्नां विक्रयिणः कीर्त्यर्थं दानकारिणः ।
देववृत्तेर्ब्रह्मवृत्तेर्गुरोर्वृत्तेश्च हारकाः ।।२८।।
स्नुषाश्वश्रूकन्यकासपत्नीभगिनीभोगिनः ।
भ्रातृजायाभोगिनश्चाऽगम्यागमनकारिणः ।।२९।।
जन्मयोनिं परित्यज्य विहरन्ति कलौ नराः ।
पत्नीनां निश्चयो नास्ति भर्तॄणां च कलौ युगे ।।1.216.३०।।
प्रजानां चैव वस्तूनां ग्रामाणां वाऽधिकारिणः ।
अलीकवादिनः सर्वे चौरा यान्ति बलं कलौ ।। ३१ ।।
नराणां मारका सर्वेऽबलानां मारकास्तथा ।
गुरूणां मारका धर्ममारका वै कलौ जनाः ।। ३२।।
लाक्षालोहरसानां च व्यापारं लवणस्य च ।
पुत्राणां चाथ पत्नीनां प्रकुर्वन्ति कलौ युगे ।। ३३।।
पुंश्चली वार्धुषाऽवीरा कुट्टिनी च रजस्वला ।
रण्डाश्च रन्धनागारे प्रभवन्ति हि याचिकाः ।। ३४।।
अन्नानां निर्णयो नास्ति योनिनां नापि निर्णयः ।
लिंगानां निर्णयो नास्ति बालानां सुतरां नहि ।।३५।।
भूरुहा हस्तमानाश्च वितस्तिमानमानवाः ।
अर्धवितस्तिपशवो भवन्त्यन्ते कलेस्तदा ।। ३६।।
साधूनां च गुरूणां च वधश्चैव तपस्विनाम् ।
अनावृष्टिभयं शश्वद्देशानां विप्लवस्तथा ।।।३७।।
विषोष्ममरणाश्चापि वह्निगोलकनाशिनः ।
नरा नार्यः समस्ताश्च युगपन्नाशिनः कलौ ।।३८।।
दुरिष्टैर्दुरधीतैश्च दुष्कृतैश्च दुरागमैः ।
विप्राणां कर्मदोषैश्च प्रजानां पतनं कलौ ।। ३९।।
हिंसा माया तथेर्ष्या च क्रोधोऽसूयाऽक्षमा नृषु ।
तिष्ये भवन्ति लोकनामुग्रा रामश्च लुब्धता ।।1.216.४०।।
संक्षोभाः कलयः क्लेशाः कलौ तत्र जने जने ।
सर्वेषामन्त्ययोनेश्च सम्बन्धाः सुप्तिभोजनैः ।।४ १ ।।
आयुर्मेधा बलं रूपं कुलं चैव प्रणश्यति ।
डाकिन्यश्चापि मारिण्यो मान्त्रिक्यः प्रमदाः कलौ ।।४२।।
श्वापदानां प्रबलत्वं गवां तत्र ह्युपक्षयः ।
सम्प्रदायविनाशश्च कलौ घोरे प्रवर्तिते ।।४३।।
चित्रवर्षी तदा देवश्चित्रापत्या जना अपि ।
कूटमानाः पण्यजना कुशीला व्याधरूपिणः ।।४४।।
बहुयाचनको लोकः प्रत्युपकारवर्जितः ।
नष्टचित्ताः साहसाश्च मुक्तकेशस्त्रीवेषिणः ।।४५।।
सस्यचौरा वस्त्रचौराश्चौराणां चौरका अपि ।
हर्तॄणां चापि हर्तारो भवन्त्येव कलौ युगे ।।४६।।
कीटमूषकसर्पाश्च धर्षयन्ति तु मानवान् ।
स्त्रीबालगोवधं कृत्वा हत्वाऽन्यद्वा परस्परम् ।।४७।।
अपहत्य कुलं नैजं मार्गयन्ति सुखं कलौ ।
दुःखाद्रोमादधर्माच्चाऽनीतेर्वै तामसाः कलौ ।।४८।।
त्रेतायामाब्धिको धर्मो द्वापरे मासिकः स वै ।
नास्तिकानामशक्तानां कलौ दिवसमात्रकः ।।४९।।
दीक्षालोपो ब्रह्मलोपः संस्कारयज्ञलोपनम् ।
राजस्वल्यसूतकाऽस्पृश्यतालोपः कलौ सदा ।।1.216.५०।।
पक्वाऽपक्वादिशुद्धिश्च मुखगण्डुषशोधनम् ।
शवश्मशानशौचादि विनश्यन्ति कलौ युगे ।।।५१।।
मन्दिराणि प्रतिमाश्च पूज्यता महतां तदा ।
परोपकारसत्राणि विनश्यन्ति कलौ युगे ।।५२।।
सधवाविधवाभेदा गृह्यगृहिविभागगाः ।
मान्यमर्यादितभेदा विनश्यन्ति कलौ युगे ।।५३।।
दण्ड्याऽदण्ड्यविवेकाश्च पाल्याऽपाल्यप्रणालिकाः ।
सेव्याऽसेव्यविवेकाश्च विनंक्ष्यन्ति कलौ युगे ।।५४।।
नार्यो गावश्च कन्याश्च युगन्धराः कलौ तदा ।
न्यायालयेऽपि नार्यश्च श्वपचाश्च नृपासनाः ।। ५५।।
सर्वं श्वपचसाम्राज्यं जायन्ते वै कलौ तदा ।
लुंचाराज्यं यौनराज्यं स्वार्थराज्यं कलौ सदा ।।५६।।
बलिराज्यं शठराज्यं नग्नराज्यं कलौ भवेत् ।
दृष्ट सत्यं तदन्यच्चाऽप्रमाणं वै कलौ मतम् ।।५७।।
द्रव्यसाम्यं सौधसाम्यं दायसाम्यं कलौ द्रुतम् ।
जनसाम्यं क्रियासाम्यं नग्नसाम्यं कलौ युगे ।।५८।।
नारीसाम्यं नरसाम्यं वृद्धसाम्यं च गुह्यके ।
कर्मसाम्यं वर्मसाम्यं दुःखसाम्यं कलौ युगे ।।५९।।
मुखसाम्यं केशसाम्यं स्तनसाम्यं च मस्तके ।
नग्नसाम्यं सक्थिसाम्यं गर्भसाम्यं कलौ तदा ।।1.216.६० ।।
तैलघृतस्नेहसर्पिर्वारिसाम्यं च रंकता ।
दुग्धदधिहैयंगवीनादिसाम्यं तदा कलौ ।।६ १।।
इक्षुकन्दफलमूलसितागूडादिशर्कराः ।
मिष्टक्षारकटुतिक्तरसास्तुल्याः कलौ युगे ।।६२।।
वाणीसाम्यं क्रियासाम्यं रूपसाम्यं च वेषता ।
देवमानवयक्षार्तिनागसाम्यं कलौ समा ।।६३।।
उत्सवशोकशृंगारयानासनसमानता ।
बालयुवस्थवीरादिमनःसाम्यं कलौ तदा ।।६४।।
स्वपरान्यसुहृच्छत्रुस्वार्थहानिसमानता ।
ह्राससाम्यं व्ययसाम्यं क्षुधासाम्यं कलौ युगे ।।६५।।
ऋतुसाम्यं वर्षसाम्यं निशादिवसुसाम्यता ।
निद्राजाग्रदवस्थानां सुप्तिसाम्यं कलौ तदा ।।६६।।
मञ्चखट्वाबृसीकुसूलोदकुम्भीसमानता ।
दुर्गप्राकारगोपुरांगनसाम्यं मतं तदा ।।६७।।
वनोद्यानारण्यण्यखेटग्रामवाससमानता ।
मनुष्यपशुपक्ष्यादेः कीटसाम्यं कलौ युगे ।।६८।।
आज्ञोपदेशविध्यादेर्जल्पवितण्डिकाः समाः ।
सद्धेतूनां नियमानामसिद्धिसाम्यता कलौ ।।६९।।
सरस्वत्याश्च लक्ष्म्याश्च विधवासाम्यता कलौ ।
विदुषां स्वात्मवृत्तीनां क्लीबसाम्यं कलौ युगे ।।1.216.७० ।।
वृष्टीनां व्योमसाम्यं च कृषीणां कालसाम्यता ।
भुवः कूर्मपृष्ठसाम्यं भवत्येव हि तिष्यके ।।७१ ।।
मुखानां ग्रहणैः साम्यं हृदां फोटरसाम्यता ।
प्रेम्णां रणेन साम्यं वै भवत्येव कलौ युगे ।।७२।।
धार्मिककर्मणां वृद्धेन्द्रियसाम्यं हि तिष्यके ।
आस्तिकत्वे नान्यतरचिह्नसाम्यं कलौ युगे ।।७३।।
पुनः कृतयुगे प्राप्ते जगत् सजीवनं पुनः ।
हरेर्योगात् तथाभावि ब्रह्मशक्त्यन्वितं सुखम् ।।७४।।
सर्वस्मृद्धिमयं सर्वधर्मकर्मगुणान्वितम् ।
इति ते कथितं कल्पं किमन्यच्छ्रोतुमिच्छसि ।।७५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कलिधर्माणां विशेषतो निरूपणं नाम षोडशाधिकद्विशततमोऽ ध्यायः ।। २१६ ।।