लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१७
[[लेखकः :|]]
अध्यायः २१८ →

श्रीलक्ष्मीरुवाच-
भगवन् श्रोतुमिच्छामि प्रथमे द्वापरे च या ।
भूमिकाऽऽनर्तराज्ञा स्वतपसाऽत्र समाहृता ।। १ ।।
यत्र श्रीकृष्णदेवेन स्ववासः स्थापितः सदा ।
तस्यास्तीर्थसुमाहात्म्यं सेतिहासं वद् प्रभो ।। २ ।।
श्रीनारायण उवाच-
कलौ युगे महाघोरे बहुपाखण्डसंश्रिते ।
तरणाय महत्तीर्थे कथयामि निबोध मे ।। ३ ।।
पश्चिमस्य समुद्रस्य तीरमाश्रित्य तिष्ठति ।
कुशस्थलीति या राज्ञा कुशेन निर्मिता भवेत् ।। ४ ।।
ततोऽपि पूर्वमानर्तराज्ञाऽऽनीता भुवः स्थली ।
आनर्तनगरी सैव सर्वाभ्यः प्राग् बभूव सा ।। ५ ।।
गोमती यत्र वहति सागरेण च संगता ।
द्वारावती च सा पुर्यानर्तानाम्ना प्रकीर्त्यते ।। ६ ।।
तत्र वसति विश्वात्मा सदा मुक्तिप्रदो हरिः ।
कलाषोडशसंयुक्तो मूर्तिद्वादशभिर्युतः ।। ७ ।।
द्वारिका सा तु धन्यैव यत्र कृष्णश्चतुर्भुजः ।
जना मुक्तिं प्रयास्यन्ति तत्र गत्वा युगे युगे ।। ८ ।।
आनर्तो वै महान्भक्तो शर्यातेरात्मजोऽभवत् ।
पित्रा विभज्यमाने च राज्यं वाग्रहीत् स्वकम् ।। ९ ।।
उपादिदेश पितरं भक्तिमानर्तकस्तथा ।
ममाऽयं मानुषो देहो मोक्षायैव हि केवलम् ।। 1.217.१ ०।।
नाऽयं राज्ये क्षयितव्यो दुर्लभः कल्पभूरुहः ।
चिन्तामणिसमेनात्र साध्यो मोक्षो मयैव हि ।। ११ ।।
श्रुत्वा पित्रा तदैवोक्तं न योग्यं मन्यसे च यत् ।
मम वंशे न चाऽराज्यकरो मे रोचते सुतः ।। १२।।
गृहाण राज्यभागं वा यद्वा गच्छान्यभूतले ।
आनर्तस्तत्पितुः श्रुत्वा नत्वाऽगच्छच्च पश्चिमम् ।। १ ३।।
रणं क्षारं समुद्रस्य वालुकाव्याप्तभूतलम् ।
तपस्तेपे बहुकालं कृष्णनाम्ना भजन् हरिम् ।। १४।।
प्रसन्नश्च तदा कृष्णः समेत्य भक्तसन्निधौ ।
आनर्तं प्राह मे भक्त! किं ते मनसि वर्तते ।। १५।।
वरं वरय भद्रं ते ददामि यदभीप्सितम् ।
प्रणम्य दंडवत् प्राह गोलोकं नय मां प्रभो ।। १६।।
न मेऽस्ति कापि तृष्णा वा न चास्ति वर्ष्मवासना ।
नाऽऽदरश्च तपोऽर्थे मे विना त्वत्पादसेवनम् ।। १७।।
प्रहस्य भगवान् प्राह शृणु भक्त! तवाऽर्थकम् ।
विवासितस्तव पित्रा तपः करोषि मत्कृते ।। १८।।
मया देयं महद्राज्यं तेऽतिपितृवशंगतम् ।
आगच्छ च मया सार्धं दिव्यं ददामि भूतलम् ।। १ ९।।
इति कृत्वा सह नीत्वा ययौ गोलोकधाम सः ।
श्रीकृष्णः स्वस्य गोलोकाद् दिव्यं खण्डं विभज्य च ।।1.217.२०।।
आनर्तायाऽर्पितवाँश्च गृहाणेमं मणिं शुभम् ।
दिव्यं गच्छ च भूलोके यत्र तप्तं तपस्त्वया ।।२१ ।।
तत्रैनं मणिखण्डं वै स्थापयाऽब्धितटे शुभे ।
सोऽयं राज्यप्रदेशो वै स्वतन्त्रस्ते भविष्यति ।।२२।।
इत्याशां समनुग्रह्य नीत्वा गोलोकखण्डकम् ।
समाजगाम चानर्तः पश्चिमाब्धितटस्थलम् ।।२३।।
तत्र यावन्मणिर्मुक्तस्तावद् विशालतां गतः ।
शतयोजनविस्तारो दिव्यभूस्तर उत्तमः ।।२४।।
नवीनं भूतलं जातं दिव्यं राज्यं बभूव तत् ।
आनर्तेन तदा कृष्णं स्मृत्वाऽऽनर्तपुरी ततः ।।२५।।
विनिर्मिता राजधानी कृष्णोद्दिष्टा यथा तथा ।
श्रीकृष्णस्तत्र चागत्य पूजाकाले जगाद् तम् ।। २६।।
मया द्वापरसंप्रान्ते वस्तव्यं चात्र यत्ततः ।
श्रेष्ठां पुरीं रमणीयां सन्निवेशय मत्स्थिताम् ।।२७।।
आनर्तेनापि साश्रेष्ठा कृष्णोक्तवर्त्मना शुभा ।
पुरी सन्निवेशिता च दिव्या गोलोकधामभा ।।२८।।
एवं प्रसादरूपेयं भूमिकाऽऽनर्तसेविता ।
सोऽयं तीर्थमयो भागो मोक्षदोऽस्ति सुराष्ट्रकः ।।२९।।
शृणु लक्ष्मि! ततः कालान्तरे सामुद्रवारिभिः ।
बहुवारं लयं याता नगरी वार्युपप्लवैः ।। 1.217.३० ।।
द्वापरान्ते यदा कृष्णस्तत्राऽऽयातुं मनो दधे ।
तदा न विद्यते ग्रामो नगरी वाऽतिसुस्थली ।।३ १।।
पश्चात् कृष्णः स्वयं भ्रात्रा संकर्षणेन संयुतः ।
प्रणम्य पितरौ स्वस्य सस्मार गरुडं हरिः ।।३२।।
मधुपुर्यां स्थितो वटमूले सस्मार सागरम् ।
सस्मार विश्वकर्माणं नृपवेषं दधार च ।। ३३ ।।
गोपवेषं परित्यज्य चक्रं सस्मार शाश्वतम् ।
सुदर्शनं चाजगाम सूर्यकोटिसमप्रभम् ।।३४।।
तेजसा कृष्णतुल्यं च सर्वशत्रुनिषूद्नम् ।
अव्यर्थमस्त्रमस्त्राणां दधार तत्सुदर्शनम् ।। ३५।।
रत्नयानं पुरस्कृत्य गरुडश्चाप्युपस्थितः ।
विश्वकर्मा कारुभिश्च जग्मुः सागरसन्निधिम् ।।३६।।
जलधिः कम्पितस्ताँश्च दृष्ट्वा नत्वा ह्युपस्थितः ।
श्रीकृष्णः प्राह जलधे स्थलं ते दशयोजनम् ।।३७।।
देहि मे नगरार्थं च मम गोलोकखण्डकम् ।
द्रागेव च समुद्रेण तावद्भूर्निर्जला कृता ।।३८।।
शुशुभे दिव्यगोलोकस्थली सा तु यथाऽपरा ।
विश्वकर्माणमेवाऽऽह समीकारय भूस्थलीम् ।।३९।।
नगरं कुरु मे कारो त्रिषु लोकेषु शोभनम् ।
रमणीयं महादिव्यं कमनीयं च योषिताम् ।।1.217.४०।।
वाञ्च्छितं चापि भक्तानां परं गोलोकसदृशम् ।
सर्वेषामपि स्वर्गाणां मूर्धन्यं मन्निवासकम् ।।४१ ।।
दिवानिशं गरुड त्वं सन्निधौ विश्वकर्मणः ।
स्थितिं कुरु वस्तुकृते यावन्निर्माति मत्पुरीम् ।।४२।।
दिवानिशं च मत्पार्श्वे सुदर्शन स्थितिं कुरु ।
इत्यादिश्य स्वयं कृष्णो मधुपुर्यां जगाम ह ।।४३।।
सायं सायं सदा विश्वकर्मा कृष्णं प्रयाति वै ।
कार्यं निष्पन्नमाख्याति नूतनं चिन्तयत्यपि ।।४४।।
श्रीकृष्णो विश्वकर्माणं निर्माणक्रममाह च ।
दशयोजनपर्यन्तं नगरं सुमनोहरम् ।।४५।।
पद्मरागैर्मरकतैरिन्द्रनीलाऽतिनीलकैः ।
रुचकैः पारिभद्रैश्च पलंकैश्च स्यमन्तकैः ।।४६।।
गन्धकैर्गालिमैश्चापि सूर्यकान्तादिभिस्तथा ।
चन्द्रकान्तमणिभिश्च स्वर्णवर्षिसुहीरकैः ।।४७।।
स्फटिकैश्च हरिद्वर्णैः श्यामैर्गौरमुखैस्तथा ।
गोरोचनाभिः पीतैश्च दाडीमबीजरूपकैः ।।४८।।
आरसैः पद्मबीजैश्च नीलैः कमलवर्णकैः ।
श्यामैश्च कज्जलतुल्यैः स्वच्छैर्मणिभिरुज्ज्वलैः ।।४९।।
श्वेतैश्चम्पकवर्णाभैस्तप्तकांचनसन्निभैः ।
बहुमूल्यैर्बहुगुणैरारक्तपीतशोभनैः ।।1.217.५० ।।
गरिष्ठैश्च वरिष्ठैश्च सद्रत्नमणिहीरकैः ।
यथाविधि यथायोगं यत्र यच्च यदीप्सितम् ।।५१ ।।
कुरु दिव्यं नु षोडशसहस्रयोषितां मम ।
अन्यपत्नीजनस्यापि चाष्टाधिकशतस्य च ।।५२।।।
शिबिरं श्रेष्ठपरिखं प्रोच्चप्राकारवेष्टितम् ।
द्वादशशालाभियुक्तं सिंहद्वारसुशोभितम् ।।५३।।
त्रिरंगादिसुचित्रितकपाटादिस्वलंकृतम् ।
नाकीयद्रुमसूद्यानवर्तुलादिसुशोभितम् ।। ५४।।
सुलक्षणं घटीयन्त्रं चन्द्रवेधं रविगृहम् ।
नक्षत्रचक्रविज्ञानभूतज्ञानर्तुचक्रकम् ।।५५।।
सभाशालं वैधशालं भूशालं व्योमशालि च ।
श्राव्ययन्त्रप्रशालं च दूरश्रावणशालिकम् ।।५६।।
दूरदृश्यप्रशालं च विद्युच्छालादिसंयुतम् ।
ऋतुज्ञानं पविज्ञानं वायुज्ञानं तथा भवेत् ।।५७।।
भूस्तरस्य प्रविज्ञानं चोत्पातज्ञानशालिकम् ।
तत्सर्वं तत्र नगरे स्थले योग्ये प्रकल्पय ।।५८।।
यदूनामाश्रमान्रम्यान् किंकराणां गृहाणि च ।
कर्मचारिगृहोद्यानविहाराणि च कारय ।।५९।।
सर्वसौधातिगं स्वर्ग्यं चोग्रसेनस्य भूभृतः ।
ह्याश्रमं भवनं सर्वभद्रं कारय शोभनम् ।।1.217.६०।।
तथा सिद्धिप्रसिद्धिभिर्युक्तं दिव्यं विशालकम् ।
कारयाऽऽश्रममूर्धन्यं वसुदेवस्य मत्पितुः ।।६ १ ।।
विश्वकर्मा हरिं प्राह वृक्षप्राशस्त्यवात्र्च्छया ।
केते वृक्षाः प्रशस्ताश्च निषिद्धाश्च तथा च के ।।६२।।
भद्राऽभद्रप्रदाः के च तान्वदस्व जगद्गुरो ।
केषामस्थिनियुक्तं च शिबिरं च सुखासुखम् ।।६३।।
कुत्र दिशि जलं भद्रमभद्रं च वद प्रभो ।
कुत्र दिशि रोपितश्च वृक्षो भद्रं ददाति वै ।।६४।।
गृहाणां प्रांगणानां च प्रमाणं किं वद प्रभो ।
कुत्र दिशि तरुद्यानं पुष्पोद्यानं च भद्रकृत् ।।६५।।
प्राकाराणां परिखाणां द्वाराणां च प्रमाणकम् ।
भवनानां च सौधानां प्रमाणं वद मे प्रभो ।।६६।।
कस्य कस्य च वृक्षस्य काष्ठं शुभं गृहे प्रभो ।
अभद्रं च भवेत् केषां तच्चापि वद मे प्रभो ।।६७।।
कृष्णः प्राह तदा कारुं शृणु ध्यानं विधाय च ।
आश्रमे नारिकेलश्च गृहिणां स्याद्धनप्रदः ।।६८।।
शिबिरस्य यदीशाने पूर्वे पुत्रप्रदस्तरुः ।
सर्वत्र मंगलकरस्तरुराजो मनोहरः ।।६९।।
रसालवृक्षः पूर्वस्मिन् नृणां सम्पत्प्रदो भवेत् ।
बिल्वः पनसो बदरी सुखदाः सर्वदा मताः ।।1.217.७०।।
प्रजाप्रदाश्च पूर्वस्मिन् दक्षिणे धनदाश्च ते ।
सम्पत्प्रदाश्च सर्वत्र तेभ्यो विवर्धते गृही ।।७१ ।।
जम्बूवृक्षो दाडिमश्च कदल्याम्रातकस्तथा ।
बन्धूप्रदाश्च पूर्वस्मिन् दक्षिणे मित्रदाश्च ते ।।७२।।
सुवाको दक्षिणे तद्वत् पश्चिमे सुखहर्षदः ।
धनपुत्रप्रदश्चैव सर्वत्र गृहपार्श्वगः ।।७३।।
गृहपार्श्वे चम्पकस्तु सर्वत्र भद्रभद्रदः ।
ईशाने सुखदश्चैव स्वर्णाद्यापादकस्तथा ।।७४।।
अलाबुश्चाति कुष्माण्डमायाम्बुश्च सकिंशुकः ।
खर्जूरी कर्कटी चापि शिबिरे मंगलायनाः ।।७५।।
वास्तूककारबिल्वश्च वार्ताकश्च सुखप्रदः ।
लताफलं च सुखदं गृहपार्श्वे तु वर्धितम् ।।७६।।
फलवृक्षास्तथा पुष्पवृक्षा मंगलदाः सदा ।
फलवल्ल्यस्तथा पुष्पवल्ल्यो मंगलदास्तथा ।।७७।।
गन्धपुष्पफलवृक्षलतातृणानि सर्वथा ।
मंगलान्येव जायन्ते पुत्रद्रव्यर्द्धिदानि वै ।।७८।।
विचित्ररंगपत्रायणि चित्रपुष्पाणि यानि च ।
स्तम्बान्यपि च सौम्यानि सुखदानि भवन्ति च ।।७९।।
प्रशस्तानि कथितानि निषिद्धानि निशामय ।
वन्यवृक्षा निषिद्धाश्च फलपुष्पविहीनकाः ।।1.217.८० ।।
गृहे सौधे समुद्याने नगरे गोपुरे तथा ।
अरण्यतरवो व्यर्था निषिद्धा न शुभा मताः ।।८ १।।
यत्र गृध्रकंकधूकवासो भूतपिशाचकाः ।
वसन्ति यत्र च ते वै निषिद्धा गन्धहीनकाः ।।८२।।
वटो निषिद्धः शिबिरे नित्यं चौरभयप्रदः ।
नगरेषु विशालायां भूमौ दृष्टस्तु पुण्यदः ।।८३।।
शिविरे नगरे ग्रामे शाल्मलिर्न प्रशस्यते ।
क्षितिपानां तु सततं दुःखदः परिगण्यते ।।८४।।
ग्रामे .वा नगरे वा च न निषिद्धो बहिः स्थले ।
विद्यास्थले निषिद्धश्च सततं दुःखदो यतः ।।।८५।।
तिन्तिडीद्रुर्धनहानिकरः प्रजाविनाशकः।
शिबिरेतिनिषिद्धश्च नगरे किञ्चिदेव सः ८६।।
न निषिद्धः क्वचित् सिद्धा ग्रामेषु नगरेषु च ।
विद्याऽस्थले निषिद्धश्च प्राज्ञस्तद्वर्जयेत् सदा ।।८७।।
खर्जुरश्च गहुश्चैव निषिद्धौ शिबिरे ह्युभौ ।
ग्रामे वा नगरे वा च निषिद्धो न बहिः स्थले ।। ८८ ।।
वृक्षाश्च चणकादीनां धान्यानि मंगलानि वै ।
ग्रामे वा नगरे वापि शिबिरे च गृहेऽभितः ।।८९।।
इक्षुदण्डाः शुभकराः सततं स्मृद्धिवर्धकाः ।
अशोकश्च शिरीषश्च कदम्बश्च शुभप्रदः ।।1.217.९० ।।
हरिद्रा शुभदा बोध्या ह्यार्द्रकाः शुभदास्तथा ।
हरीतक्यश्च शुभदा आमलक्यः शुभप्रदाः ।।९ १ ।।
गजानामस्थि शुभकृत् वाजिनामस्थि सौख्यकृत् ।
वानराणां नराणां च गर्दभानां गवामपि ।।९५।।
कुक्कुटानां शृगालानां मार्जाराणामभद्रकम् ।
भेटकानां सूकराणां त्वस्थि वस्तौ शुभप्रदम् ।। ९३।।
ईशाने च तथा पूर्वे पश्चिमे चोत्तरे तथा ।
शिबिरस्य जलं भद्रमन्यत्राऽभद्रमेव तत्। ।।९४।।
निम्ने प्रस्थेऽसमाने विषमे कुर्यान्न मन्दिरम् ।
चतुरस्रे गृहे सौधे गृहिणां धननाशनम् ।।९५।।
दैर्घ्ये शून्येन रहितं त्रयेण रहितं तथा ।
भद्रं गृहं च नगरं शून्यॆ शून्यप्रदं नृणाम् ।।९६।।
प्रस्थे हस्तद्वयात्पूर्वं दीर्घं हस्तत्रयं तथा ।
गृहाणां शुभदं द्वारं प्राकारस्य गृहस्य च ।।९७।।
न मध्यदेशे कर्तव्यं किञ्चिन्यूनाधिके शुभम् ।
चतुरस्रं चन्द्रवेधं शिबिरं मंगलप्रदम् ।।९८।।
अभद्रदं सूर्यभेदं शिबिरं मंगलाऽप्रदम् ।
अभद्रदं सूर्यभेदं प्रांऽगणं मंगलाऽप्रदम् ।।९९।।
शिबिराभ्यन्तरे भद्रा रोपिता तुलसी सदा ।
द्रव्यापत्यप्रदात्री च धर्मदा मोक्षदा तथा ।। 1.217.१०० ।।
मालती यूथिका कुन्दो माधवो केतकी तथा ।
नागचम्पको मल्लिका धत्तूरो बकुलः शुभाः ।। १०१ ।।
शुभदहा चाऽपराजिता तासामुद्यानमर्थदम् ।
पूर्वे च दक्षिणे चैव शुभदः सुखदस्तथा ।। १ ०२।।
ऊर्ध्वं षोडशहस्तेभ्यो नैव कुर्याद् गृहं गृही ।
ऊर्ध्वं विंशतिहस्तेभ्यः प्राकारो न शुभप्रदः ।। १०३।।
तैलकारं स्वर्णकारं हीरकादिक्रयार्थिनम् ।
सूत्रधारं वाटिकायां ग्राममध्ये न वासयेत् ।। १ ०४।।
ब्राह्मणः क्षत्रियो वैश्यः सच्छूद्रो गणकः शुभाः ।
भद्रं वैद्यं पुष्पकारं स्थापयेत् शिबिरान्तिके ।। १ ०५।।
प्राकारे परिखापानं शतहस्तं प्रशस्यते ।
शिबिराणां परितस्तु दशहस्तं प्रशस्यते ।। १ ०६।।
गुप्तं च परिखाद्वारं ससंकेतं प्रशस्यते ।
तिन्तिड्यश्चापि शाल्मल्यो हिन्तालाः सिन्धुवारकाः ।। १ ०७।।
निम्बाश्चोदुम्बरा धत्तूरा एरण्डा वटास्तथा ।
न शुभा दुःखदास्तस्माच्छिबिरे तन्न वर्धयेत्। ।। १ ०८।।
वृक्षं तु वज्रहस्तं च राजा तु वर्जयेत् सदा ।
पुत्रदारधनं हन्यात् तस्मान्न स्थापयेत्तु तम् ।। १ ०९।।
इत्यादेशं हरेः प्राप्य विश्वकर्मा वटस्थले ।
अब्धितीरे च सुष्वाप स्वप्ने ददर्श द्वारिकाम् ।। 1.217.११ ०।।
विश्वकर्माणमालोक्य देवकार्यसुकारवः ।
प्रस्वपन्तं हसन्ति स्म द्वारिका यैस्तु निर्मिता ।। १११ ।।
रात्रावेव सुनिष्पन्ना स्वप्ने दृष्टा यथा तथा ।
प्रातः प्रबुध्य कारुस्तु पश्यति द्वारिकां शुभाम् ११ २।।
बुद्धो ददर्श पूर्णां तां विश्वकर्मा विलज्जितः ।
श्रीकृष्णेन यथोक्तां च दशयोजनविस्तृताम् ।। ११३ ।।
ब्रह्मादीनां नगरीश्च विजित्योत्कर्षराजितम् ।
द्वितीयां द्यां च तेजोभी रत्नराशिपरिष्कृतम् ।। १ १४।।
एतस्मिन्नन्तरे लक्ष्मि! द्वारावतीं विलोकितुम् ।
समाजग्मुश्चतुर्दशलोकेशाः प्रातरेव यत् ।। ११५ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वारिकामाहात्म्ये शर्यातिपुत्राऽऽनर्ताऽऽनीतगोलोकखण्डात्मकसौराष्ट्रे शुभाऽशुभवृक्षवल्यादिसहित-
द्वारिकानिर्मितनिरूपणनामा सप्तदशाधिकद्विशततमोऽध्यायः ।। २ १७।।