लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१५
[[लेखकः :|]]
अध्यायः २१६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! द्वापरान्तान् कलेर्धर्मांश्च सर्वशः ।
प्रथमे द्वापरे प्राप्ते सृष्टिस्तु युगलोद्भवा ।। १ ।।
मिथुनधर्मजन्या सा नरनारीप्रसंगजा ।
प्रावर्तत यदा तत्र कामजन्याश्च दुर्गुणाः ।। २ ।।
गोप्यकर्म चौर्यकर्म रोषकर्म निजार्थता ।
हिंसाऽनृतं तथा स्तेयं वीर्यनाशः परिग्रहः ।। ३ ।।
अशुद्धिस्तृष्णिका भोगो व्यवसायोऽतिलुब्धता ।
देहदैहिकचिदचिदहन्ताममतादयः ।। ४ ।।
प्रवर्तन्ते प्रतिव्यक्तिं स्वार्थप्रवाहवर्धिताः ।
अपुण्या अल्पपुण्याश्च जायन्ते देहिनस्ततः ।। ५ ।।
मन कालुष्यमाप्नोति बुद्धिर्विपरितायते ।
असत्संकल्पा जायन्ते प्रवर्तन्तेऽप्यसत्पथे ।। ६ ।।
द्यूतं पानं स्त्रियः सूना अधर्माधिस्थलानि वै ।
सुवर्णमनृतं कामो मदो वैरं रजस्तथा ।। ७ ।।
क्लेशस्थानानि पञ्चैव कलेर्वासकृतानि हि ।
म्लेच्छप्राया जनाः सर्वेऽधर्माऽनृतपरास्तथा ।। ८ ।।
स्त्रीबालगोद्विजघ्नाश्च परदारधनादराः ।
उदिताऽस्तमितप्राया फल्गुदास्तीव्रमन्यवः ।। ९ ।।
असंस्कृताः क्रियाहीना अल्पसत्त्वाऽल्पकायुषः ।
रजसा तमसा व्याप्ता म्लेच्छप्राया धनाधिपाः ।। 1.215.१० ।।
तन्नाथाश्च जनपदास्तच्छीलाचारतत्पराः ।
धर्मः सत्यं दया क्षान्तिः शौचमायुः स्मृतिर्बलम् ।। ११ ।।
प्रक्षयं यान्त्यनुदिनं कलेः प्राबल्यसंक्रमे ।
सर्वप्रकारके श्रैष्ठ्ये वित्तमेवोदयप्रदम् ।। १ २।।
धर्मन्यायव्यवस्थायां वित्तं हेतुर्बलं भवेत् ।
दाम्पत्येऽभिरुचिर्वित्तं विषयो वापि कारणम् ।। १३ ।।
विप्रत्वे सूत्रकं लिंगं लुंचायां विजयो मतः ।
पाण्डित्ये तु वितण्डा स्यात् दारिद्र्यं त्यागयोगिनि ।। १४।।
दंभी साधुर्महान् भाव्यो विवाहे स्वीकृतिर्द्वयोः ।
बहिश्चमत्कृतिः स्नानं मृषातेजः प्रसाधनम् ।। १५।।
दूरे वारि भवेत्तीर्थं केशवेषो विभूषणम् ।
उदरंभरता पुण्यं चाऽप्रधृष्यं तु सत्यता ।। १६ ।।
स्वकार्यसाधनं दाक्ष्यं यशोऽर्थं दानसेवनम् ।
द्विशतं च शतं चैव पञ्चाशत् पंचविंशतिः ।। १ ७।।
पञ्चदशान्तं सत्त्वेषु क्षीणेष्वायुस्तदान्तिमम् ।
चौर्याऽनृतवृथाहिंसाव्यवायादिप्रसेविनः ।। १८।।
युवत्यश्चाविवाहिताः स्वल्पवस्त्राः कलौ युगे ।
सर्वस्पर्शा नरा नार्यः सर्वस्वापकरास्तथा ।। १ ९।।
म्लेच्छाप्रायाः सर्ववर्णाश्छागप्रायाश्च धेनवः ।
दारामया आश्रमाश्च धनप्रायाश्च बान्धवाः ।। 1.215.२ ० ।।
तृणप्राया ओषधयः प्रांशुलभ्या महीरुहाः ।
क्षणवृष्टिकरा मेघा वस्तुहीनगृहाणि च ।। २१ ।।
कृते सत्यं दया दानं तपो नास्ति कलौ तु तत् ।
सन्तुष्टाः करुणा मैत्राः शान्ता दान्तास्तितिक्षवः ।। २२ ।।
आत्मारामाः समदृशः सर्वेऽपि तु कृते जनाः ।
त्रेतायां धर्मपादांशाः पादोनास्ते ह्रसन्ति वै ।। २३ ।।
विशन्त्यधर्मपादाश्चानृतं हिंसा च तृष्णिका ।
विग्रहश्च जनास्तत्र प्रवर्तन्ते स्वभावतः ।। २४।।
किन्तु जनास्तपोनिष्ठा नातिहिंस्रा न लम्पटाः ।
धर्मार्थकामनाप्राया भवन्ति त्रितसंयुगे ।। २५।।
वर्णा ब्रह्मोत्तराश्चापि जायन्ते वृत्तिदूषिताः ।
तपःसत्यदयादानेष्वर्धं ह्रसति द्वापरे ।। २६।।
हिंसातृष्णाऽनृतद्वेषैर्निन्दामात्सर्यभर्त्सनैः ।
कलौ वृषाशस्तुर्योऽपि नश्यत्यधर्मदुर्गुणैः ।। २७।।
निर्दया वैरिणो लुब्धाः सतृष्णाः सर्वभक्षिणः ।
दुराचारा सर्वपेयभोग्यव्यसनसूत्सुकाः ।। २८ ।।
भवन्त्येव प्रजाः सर्वा जैह्वशैश्नप्रयोजनाः ।
कापट्यं चानृतं निद्राऽऽलस्यं द्वेषो विषादनम् ।।२९ ।।
शोको मोहो भयं दैन्यं प्रत्यहं तु कलौ जने ।
द्रव्यहीना व्ययधौर्या मद्यपानाः कुदृष्टयः ।।1.215.३ ० ।।
नरा नार्यः स्वार्थपराः काममूलाश्च सर्वशः ।
देशा दस्युमया वेदा देवाः पाखण्डनाशिताः ।।३ १ ।।
प्रजाभक्षाश्च राजानो जनाः शिश्नोदरतृपाः ।
व्रतहीनाश्च काषायाः सदारा भिक्षुकास्तदा ।।३२।।
तप कापट्यलाभार्थं न्यासोप्यर्थप्रलब्धये ।
वामनाश्चातिभोज्याश्च बह्वपत्या बहुस्त्रियः ।। ३३।।
स्त्रियोऽपि गालिकामिष्टभाषिण्यो नग्नवस्त्रिकाः ।
कूटकार्यपणाः क्षुद्र्योऽसत्पथप्रेमपांसुलाः ।।३४।।
पतिं त्यजन्ति निर्द्रव्यं हित्वा कुटुम्बमित्यपि ।
पितृभ्रातृसुहृदश्च त्यक्त्वा प्रयान्ति कामुकम् ।।३५।।
सर्वे दानं प्रगृह्णन्ति सर्वे वै याजकास्तथा ।
सर्वे मन्त्राधिकाराश्च म्लेच्छा ब्राह्माभिमानिनः ।।३६।।
उपदिशन्ति च शठाः शिष्यान् शाट्यसमन्वितान् ।
शठं गुरुं श्रयन्त्येव शठाः शिष्याः स्वभाववत् ।।३७।।
अधर्मिणो धर्मवाचो भवन्ति च विधर्मिषु ।
स्वधर्मिषु सदा द्वेषनिन्दामात्सर्यकारिणः ।। ३८।।
अन्नधनाम्बरहीना गृहहीना ह्यभोजनाः ।
म्रियन्ते तु विना मृत्युं प्राप्ते घोरे कलौ युगे ।।३९।।
अनावृष्टिरतिशत्रुरतिरोगातुरा जनाः ।
स्वल्पस्वार्थस्य सिद्ध्यर्थं घातिनो वै कलौ युगे ।।1.215.४० ।।
न वृद्धौ पितरौ पुत्रा रक्षयन्ति कलौ खलाः ।
न पत्नीं वा सतीं भार्यां रक्षयन्ति खला वराः ।।४१ ।।
यथेष्टं विषयानन्दां रक्षयन्ति स्त्रियं कलौ ।
धनदं रतिदातारं त्वाश्रयन्ति स्त्रियो जनम् ।।४२।।
कपर्दिकाकृते क्लेशं प्रकुर्वन्ति बिडालवत् ।
प्राणाश्चैवाऽप्यनृतार्थे त्यजन्त्यपि कलौ जनाः ।।४३ ।।
संप्रघ्नन्ति स्वकाँश्चापि स्वल्पार्थे स्वार्थघातिनः ।
आचार्या गुरवः श्रेष्ठाः पाखण्डव्याप्तचेतसः ।।४४।।
न सुखं नापि निर्वाणं न शान्तिं यान्ति वै कलौ ।
कालग्रस्ताः प्रजाः शीघ्रं सदोद्वेगा विनाशगाः ।।४५।।
अल्पप्रसादा अनृता महाक्रोधा अधार्मिकाः ।
प्रजायन्ते मानवा वै यवनैः परिमिश्रिताः ।।४६।।
स्त्रीणां बालवधेनैव हत्वा चैव परस्परम् ।
युगदोषदुराचारा भुञ्जते मानवाः कलौ ।।४७।।
उदितोदित वंशाश्च ह्युदिताऽस्तमितास्तथा ।
चाण्डालभोज्याः सर्वे वै नृपा विप्राः श्वपाकवत् ।।४८ ।।
धर्मकामार्थहीनाश्च म्लेच्छाचाराश्च सर्वशः ।
तदा विनाशमापन्नाः प्रजा नास्तिकतान्विताः ।।४९।।
तदाऽल्पनरवर्गे च बहुस्त्रीके कलौ युगे ।
लवाल्लवं भ्रश्यमाना आयूरूपबलश्रुतैः ।।1.215.५ ० ।।
म्लेच्छैश्चोपहता म्लेच्छाः प्रयान्ति वै क्षयं मुहुः ।
हतस्वा व्याधिभूयांसोऽनावृष्ट्यादिविनाशिताः ।।५ १ ।।
अनाथा वृत्तिहीनाश्च भविष्यन्ति वनौकसः ।
पुरग्रामादिनाशश्च भ्रष्टस्नेहास्तथा मिथः ।।।५२।।
सांकर्यमाश्रिताः कुब्जाः सरित्पर्वतसंश्रयाः ।
धीवरा इव जायन्तेऽरण्यगा मत्स्यभोजिनः ।।५३ ।।
मृगैर्मीनैर्विहंगैश्च श्वापदैस्तर्क्षुभिस्तदा ।
मधुशाकफलैर्मूलैर्वर्तयन्ति च जन्तुभिः । ।५४।।
चीरं पर्णं च विविधं वल्कलान्यजिनानि च ।
धारयन्ति च कौपीनं पाशवं जीवनं श्रिताः ।।५५।।
अजैडकं खरोष्ट्रं च पालयन्ति नदीश्रिताः ।
बह्वपत्या अन्नहीनाः शौचाचारविवर्जिताः ।।५६।।
हीनाद्धीनान् तदाऽधर्मान् स्वीकुर्वन्ति पशुश्रितान् ।
विप्राः शूद्रात्मका मन्त्राभिचारादिविधायिनः ।।५७। ।
नारीसन्मन्त्रिणी गेहे श्यालकाश्च प्रधानकाः ।
दाम्पत्यं विक्रयाधीनं निर्मनस्त्वं वियोगगम् ।।५८।।
तीर्थानि यवनाऽऽर्तानि देवाश्चाण्डालधर्षिताः ।
म्लेच्छैर्नष्टान्यायतान्येकाकारं कलौ युगे ।।५९ ।।
न योगी नैव सिद्धो न ज्ञानी वा ब्रह्मभावनः ।
शांढ्येन शून्यः कश्चिन्न पश्य लक्ष्मि! कलेर्बलम् ।।1.215.६०।।
अन्नहीना जनपदाः कथाविक्रयिणो द्विजाः ।
रामा रतिविक्रयिण्यो भवन्त्येव कलौ सदा ।।६ १ ।।
सर्वे त्वघासुरायन्ते सारहीनाः शठाः खलाः ।
पदार्थास्तुषमात्रा वै कणशून्या निरंकुराः ।।६२।।
श्रूयते च कथा सर्वैः पाल्यते नहि केनचित् ।
कलौ श्रावणकल्याणे कथासारो गतो भवेत् ।।६३।।
स्नान्ति तीर्थे निवसन्ति पालयन्ति व्रतानि न ।
कलौ तैर्थिककल्याणे कथासारो गतो भवेत् ।।६४।।
कामक्रोधभयलोभतृष्णाव्याकुलचेतसाम् ।
कलौ तापसकल्याणे तपःसारो गतो भवेत् ।।६५।।
मनसश्चाऽजयाल्लोभाद्दंभात्पाखण्डसंश्रयात् ।
कलौ ध्यानजकल्याणे ध्यानसारो गतो भवेत् । ।६६।।
वस्तुसारो लयमेवं प्रयात्येव स्थले स्थले ।
युगबलाद्धि तत्सर्वं नास्ति कस्यापि दूषणम् ।।६७। ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कलियुगस्वभावगुणदोषप्रवर्तनदर्शननामा पञ्चदशाधिकद्विशततमोऽध्यायः ।। २१५ ।।