लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१४
[[लेखकः :|]]
अध्यायः २१५ →

श्रीलक्ष्मीरुवाच -
कल्पान्मनूँश्च संक्षेपाच्छ्रोतुमिच्छामि माधव ।
द्वापरान्ते कलेर्धर्मान् श्रोतुमिच्छामि तद्वद् ।। १ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! चतुर्दशमनून्प्रत्यहजाँस्तथा ।
दशशतानि जायन्ते कल्पा वर्षे तु वेधसः ।। २ ।।
दशशतानि च युगचतुष्टयानि कल्पके ।
एष कल्पस्तु विज्ञेयः सर्वकल्पेषु सदृशः ।। ३ ।।
वाराहः प्रथमः कल्पो लोकादौ प्रथितः खलु ।
द्वितीयस्तु भुवः कल्पस्तृतीयस्तप उच्यते ।। ४ ।।
भवश्चतुर्थो विज्ञेयः पंचमो रंभ उच्यते ।
ऋतुकल्पस्तथा षष्ठः सप्तमस्तु क्रतुः स्मृतः ।। ५ ।।
अष्टमस्त्वभवद् वह्निर्नवमो हव्यवाहनः ।
सावित्रो दशमः कल्पो भावस्त्वेकादशः स्मृतः ।। ६ ।।
उशिको द्वादशस्तत्र कुशिकस्तु त्रयोदश ।
चतुर्दशस्तु गन्धर्वो गान्धारो यत्र वै स्वरः ।। ७ ।।
ऋषभस्तु ततः कल्पो ज्ञेयः पञ्चदशः प्रिये ।
षड्जस्तु षोडशः कल्पः षड्जना यत्र चर्षयः ।। ८ ।।
शिशिरश्च वसन्तश्च निदाघो वर्ष इत्यपि ।
शरद्धेमन्त इत्येते मानसा ब्रह्मणः सुताः ।। ९ ।।
ततः सप्तदशः कल्पो मार्जालीय इति स्मृतः ।
ततस्तु मध्यमो नाम कल्पोऽष्टादश उच्यते ।। 1.214.१ ०।।
ततस्त्वेकोनविंशस्तु कल्पो वैराग्यसंज्ञकः ।
वैराजो यत्र समभूत् मनुर्वै ब्रह्मणः सुतः ।। ११ ।।
ततो विंशतिकः कल्पो निषादः परिकीर्तितः ।
एकविंशतिकः कल्पो विज्ञेयः पञ्चमः प्रिये ।। १२।।
ब्रह्मणो मानसाः पुत्राः पञ्चप्राणाः स्वरोऽभवत् ।
द्वाविंशस्तु तथा कल्पो विज्ञेयो मेघवाहनः ।। १ ३।।।
त्रयोविंशतिकः कल्पो विज्ञेयश्चिन्तकस्तथा ।
चतुर्विंशतिकश्चापि ह्याकुतिः कल्प उच्यते ।। १४।।
पंचविंशतिकः कल्पो विज्ञातिः परिकीर्तितः ।
षड्विंशस्तु ततः कल्पो मन इत्यभिधीयते ।।१५।।
सप्तविंशतिकः कल्पो भावो वै कल्पसंज्ञितः ।
अष्टाविंशतिकः कल्पो बृहदित्यभिसंज्ञितः ।। १६ ।।
एकोनत्रिंशकः कल्पो विज्ञेयः श्वेतलोहितः ।
ततस्त्रिंशत्तमः कल्पो रक्तो नाम प्रकीर्तितः ।। १७।।
एकत्रिंशत्तमः कल्पः पीतवासा इति स्मृतः ।
द्वात्रिंशत्तमकल्पस्तु सितकल्पो हि नामतः ।। १८।।
त्रयस्त्रिंशत्तमः कल्पः कृष्णकल्पो हि नामतः ।
चतुस्त्रिंशत्तमः कल्पो विश्वरूपस्तु नामतः ।। १ ९।।
एवमेते भवनानामृतूनां नामतस्तथा ।
क्रतूनां नामतश्चैव वह्नीनां नामतस्तथा ।।1.214.२०।।
स्वराणां नामतश्चैव प्राणानां नामतस्तथा ।
आकूतीनां तथा शंभोर्विष्णोश्च नामतस्तथा ।।२ १।।
कल्पा ह्येते चतुस्त्रिंशत्प्रोक्तास्तद्योगतश्च ते।
सप्तर्षीणां नामतश्च सप्तकल्पास्तथा परे ।।२२।।
अष्टवस्वभिधानाश्च ह्यष्टौ कल्पास्तथा परे ।
नवग्रहसमायोगान्नवकल्पास्तथेतरे ।। २३ ।।
अष्टानां दिक्प्रपालानां कल्पा ह्यष्टौ तथाऽपरे ।
ब्रह्मणश्च स्वीयकल्पश्चैकः कल्पस्तथा मतः ।। २४।।
त्रिगुणानां च देवानां त्रयः कल्पास्तथाऽपरे ।
एकादशानां रुद्राणामेकादश च कल्पकाः ।। २५ ।।
चतुर्दशमनूनां च नाम्ना कल्पाश्चतुर्दश ।
चतुर्दशमहेन्द्राणां तथा कल्पाश्चतुर्दश ।। २६ ।।
सप्तविंशतिनक्षत्रनाम्ना तावन्त एव ते ।
एकोनपञ्चाशन्मरुन्नाम्ना तावन्त एव ते ।। २७।।
चतुर्विंशत्यवतारनाम्ना कल्पास्तथाऽपरे ।
एकोनपंचाशद्वह्निकल्पास्तावन्त एव ते ।। २८ ।।
चतूर्णां धर्मपादानां नाम्ना चत्वार एव ते ।
विद्यानां च त्रयीनां च नाम्ना कल्पास्त्रयस्तथा ।। २९ ।।
इत्येवं सृष्टिसंरंभे यद्यद्योगो भवेत्पुरा ।
ब्रह्मणः स्मृतिमार्गे च यस्य योगो भवेत्पुरा ।। 1.214.३० ।।
तत्तन्नाम्ना च कल्पास्ते दिवसा ब्रह्मणो मताः ।
सहस्रं संभवत्येव कल्पा हि ब्रह्मवत्सरे ।। ३१ ।।
त एते ब्रह्मणः सर्वे पुनर्वर्षान्तरे तथा ।
एवं विपरिवर्तन्ते शतवर्षीयजीवने ।। ३२।।
कल्पास्तु वेधसश्चात्र सृष्टौ प्रवाहलीलया ।
एते ह्येव प्रजायन्ते नास्तीति नियमोऽपि वै ।। ३३ ।।
अन्येऽपि नामिनः कल्पा लक्ष्मीकल्पा भवन्त्यपि ।
रमाकल्पास्तथा पद्माकल्पाः श्रीकल्पकास्तथा ।। ३४।।
शिवाकल्पा योगिनीनां कल्पाः सतीप्रकल्पकाः ।
शचिकल्पास्तथा कालीकल्पाः शक्तिदिनानि च ।। ३५ ।।
विद्याकल्पास्तथा चान्ये त्वाद्यव्यक्तिदिनानि च ।
भवन्तीश्वरकल्पाश्च देवकल्पास्तथाऽपरे ।। ३६।।
देवीकल्पा अप्सराणां कल्पा भक्तदिनानि च ।
तत्त्वकल्पास्तथा चाद्यकार्यकल्पा भवन्त्यपि ।। ३७ ।।
यन्नवं वेधसः प्रातर्दृश्यते मुख्यमुत्तम् ।
तन्नाम्ना ते तु कल्पा वै ब्रह्मणा हि प्रधारिताः ।। ३८ ।।
इन्द्राश्च मनवः कल्पे चतुर्दश चतुर्दश ।
एको मनुर्दीर्घकालं भुंक्ते ह्येकं तु सप्ततिम् ।। ३९ । ।
चतुष्कीनां चतुष्की तु चतुर्युगं समीरितम् ।
द्वादशाब्दसहस्राणि चतुर्युगं विदुः सुराः ।।1.214.४० ।।
चतुष्कीणां सहस्रं तु कल्पे गच्छति वेधसः ।
चतुष्कीणां सहस्रं च रात्रौ गच्छति वेधसः ।।४ १ ।।
द्वे सहस्रे चतुष्कीणां ब्रह्मणस्तद्दिवानिशम् ।
एतत्क्रमेण वेधास्तु शतवर्षाणि जीवति । ४२। ।
वैराजस्यैकदिवसस्तदा वै परिकल्पितः ।
ह्येतत्क्रमेण वैराजः शतवर्षाणि जीवति ।।४३।।
महाविष्णोरेकदिनं तदा वै परिकल्पितम् ।
एतत्क्रमान्महाविष्णुः शतवर्षाणि जीवति ।। ४४।।
प्रधानपुरुषस्यैकदिनं तत्परिकल्पितम् ।
एतत्क्रमात् प्रधानना शतवर्षाणि जीवति ।।४५।।
प्रकृतिपुरुषस्यैकदिनं तत्परिकल्पितम् ।
पुंप्रकृतेस्तस्य सृष्टिः शतवर्षं प्रवर्तते ।।४६।।
ततो महाप्रलयो वाऽऽत्यन्तिकलय आप्यते ।
ततो ब्रह्ममुक्तिलोको वर्तते सपरेश्वरः ।।४७।।
तावति समये याते ईक्षते स पुनस्तथा ।
बहु स्यामिति सृष्ट्यर्थं प्रकृतिपूरुषक्रमात् ।। ४८।।
कल्पे कल्पे मनूनां च तथैवाऽस्ति प्रभावनम् ।
ब्रह्माण्डानां भुवनानां तथैवाऽस्त्युत्सुभावनम् ।।४९।।
चतुर्दशमनून् नाम्ना कथयामि शृणु प्रिये ।
क्रतुसंज्ञेऽत्र वाराहे कल्पे च प्रथमो मनुः ।।1.214.५ ० ।।
स्वायंभुवो मनुः प्रोक्तो ब्रह्मणः पुत्र एव सः ।
स्वारोचिषो द्वितीयो वै मनुरग्नेः सुतोऽभवत् ।।५१ ।।
औत्तमश्च तृतीयो वै प्रियव्रतसुतो मनुः ।
तामसश्च चतुर्थ उत्तमभ्राता च वै मनुः ।। ५२।।
रैवतः पञ्चमः प्रोक्तो मनुस्तामससोदरः ।
षष्ठश्च चक्षुषः पुत्रः चाक्षुषो नाम वै मनुः ।।५३ ।।
स्वारोचिषोत्तमौ चैव तामसो रैवतस्तथा ।
प्रियव्रताऽन्वया ह्येते चत्वारो मनवो मताः ।।५४।।
उत्तानपादस्य वंशे चाक्षुषो मनुरुच्यते ।
कश्यपस्याऽदितेः पुत्रा द्वादशादित्यसंज्ञकाः ।।५५।।
तत्र विवस्वतः पुत्रः श्राद्धदेव इति श्रुतः ।
वैवस्वतो मनुः सोऽयं सप्तमो मनुरुच्यते ।।५६।।
छायायां सूर्यपुत्रश्च सावर्णिश्चाष्टमो मनुः ।
नवमो दक्षसावर्णिर्मनुर्वरुणसंभवः ।।५७।।
दशमो ब्रह्मसावर्णिरुपश्लोकसुतो मनुः ।
मनुर्वै धर्मसावर्णिरेकादशः समुच्यते ।।५८।।
भविता रुद्रसावर्णिर्नाम्ना द्वादशको मनुः ।
मनुस्त्रयोदशो देवसावर्णिः सुनृतासुतः ।।।५९।।
सत्यसहसो दायादो वेदसावर्णिरेव सः ।
मनुश्च हीन्द्रसावर्णिश्चतुर्दशः स उच्यते ।।1.214.६ ०।।
प्रिये चतुर्दशैतानि कल्पे कल्पे भवन्ति वै ।
प्रोक्तैरेभिर्मितः कल्पो युगसाहस्रपर्ययः ।।६ १ ।।
अकल्पश्च निशा तस्य युगसाहस्रपर्यया ।
युगचतुष्टये युगशब्दोऽत्र बोध्य एव वै ।।६२।।
एवं कल्पान्तरो चाऽन्ये मनवश्च चतुर्दश ।
इन्द्रास्तथा भवन्त्येव ह्यन्येऽन्ये वै चतुर्दश ।।६३ ।।
ऋषयश्च भवन्त्यन्ये सप्त सप्त तथाविधाः ।
दिक्पाला लोकपालाश्च भवन्त्यन्ये तथाक्रियाः ।। ६४।।
वेदव्यासाः प्रतिचतुर्युगं भवन्ति चापरे ।
अवतारा हरेः प्रतिचतुष्की चतुर्विंशतिः ।। ६५ ।।
अंशाऽऽवेशकलांऽशांशास्त्वनन्ताः प्रतिसाधिकाम् ।
भवन्त्येवाऽवताराश्च लोककल्याणहेतवे ।।६६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने बहूनां कल्पानां चतुर्दशमनूनां च निर्देशनामा चतुर्दशाधिकद्विशततमोऽध्यायः ।। २१४ ।।