लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २१२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१३
[[लेखकः :|]]
अध्यायः २१४ →

श्रीलक्ष्मीरुवाच-
ऋषिवंशमह श्रोतुमिच्छामि पावनं प्रभौ ।
संक्षेपात् तत समाख्याहि श्रुत्वा हृत् पावनायते ।। १ ।।
श्रीनारायण उवाच-
कश्यपो गोत्रकामस्तु चचार परमं तपः ।
गोत्रसूत्रौ सुतौ मे च भवेतामित्यचिन्तयत् ।। २ ।।
असितोऽपि च वत्सारो व्रह्मरूपौ बभूवतुः ।
वत्सारस्य निध्रुवश्च रैभ्यश्चेति सुतावुभौ ।। ३ ।।
रैभ्याश्च ऋषयो रैभ्याः संजाता बहुकीर्तयः ।
निध्रुवस्य सुमेधाश्च जाताश्च कुण्डपायिनः ।। ४ ।।
असितस्यैकपर्णायां ब्रह्मिष्ठः समजायत ।
निध्रुवाः शाण्डिला रैभ्यास्त्रयः एते तु काश्यपाः ।। ५ ।।
देवलस्य वरा प्रख्या ऋषयो ह्यभवँस्तथा ।
मानसस्य च रिष्यन्तस्तस्य दम इति स्मृतः ।। ६ ।।
दमस्य तृणबिन्दुश्च महर्षिः समजायत ।
तृणबिन्दुसुता त्विडविला पुलस्त्यसंप्रिया ।। ७ ।।
तस्माच्च विश्रवा जातस्तत्पत्नी देववर्णिनी ।
बृहस्पतेर्बृहत्कीर्तिस्तस्यैषा कन्यका मता ।। ८ ।।
तस्यां वैश्रवणः कुबेरो वै जातः कुरूपकः ।
अत्रेर्दत्तश्च दुर्वासाश्चद्रश्चेति त्रयः सुताः ।। ९ ।।
कश्यपान्नारदश्चैव पर्वतोऽरुन्धती तथा ।
अरुन्धत्यां वशिष्ठस्य शक्तिः पुत्रोऽभवच्छुभः ।। 1.213.१ ०।।
पुलस्त्यस्य रावणश्च कुंभकर्णो विभीषणः ।
तद्वंशा राक्षसा जाता ब्राह्मणा अपि साक्षराः ।। ११ ।।
भृगोः ख्यातिरजीजनत् धातृविधातृसंज्ञकौ ।
एकां कन्यां श्रीं च पत्नी ज्येष्ठा नारायणस्य सा ।। १ २।।
साध्वि! नारायणीयौ च बलोत्साहौ सुतौ मम ।
धातुर्भार्या नियतिश्च विधातुस्त्वायतिर्मता ।। १ २।।
तयोः पुत्रौ क्रमात् पाण्डुर्मृकण्डुश्च सनातनौ ।
मृकण्डोश्च मनस्विन्यां मार्कण्डेयो व्यजायत ।। १४।।
तस्य वेदशिराः पुत्रो मूर्धन्यायां व्यजायत ।
तस्य वंशोऽभवत् सर्वो मार्कण्डेय इतिप्रथः ।। १५।।
पाण्डोः पुण्डरिकायां च द्युतिमान् सृजमानकः ।
तयोः पुत्राः प्रपौत्राश्च भार्गवास्ते प्रकीर्तिताः ।। १६।।
पत्नी मरीचेः संभूतिः पूर्णमासम व्यजीजनत् ।
कुष्टिं पुष्टिं त्विषां चाऽपचितिं कन्याचतुष्टयम् ।। १७।।
पूर्णमासः सरस्वत्यां विरजं पर्वसं सुतौ ।
विरजस्य सुधामाऽभूत् तस्य वैराजनामकः ।। १८।।
गौरीपुत्रः सुधर्मा च लोकपालोऽभवत् तदा ।
पर्वसः पर्वसायां तु यज्ञवामं च काश्यपम् ।। १ ९।।
आंगिरसः स्मृतिर्व्यजीजनत् कन्याचतुष्टयम् ।
सिनीवालीं कुहूं राकामनुमतिं च कन्यकाः ।।1.213.२० ।।
भरताग्निं कीर्तिमन्तं पुत्रौ द्वौ लोकविश्रुतौ ।
अग्नेः पुत्रस्तु पर्जन्यः सहत्यां समजायत ।।१ १ ।।
हिरण्यरोमा पर्जन्यात् मारीच्यां समभूत्सुतः ।
क्षमा तु सुषुवे पुत्रान् पुलहस्य प्रजापतेः ।।२२।।
कर्दमश्चाम्बरीषश्च सहिष्णुश्चेति ते त्रयः ।
ऊर्जायां तु वसिष्ठस्य वासिष्ठा बहवोऽभवन् ।।२३।।
वाशिष्ठेषु काश्यपेषु तथा भग्वंगिरोऽत्रिषु ।
पञ्चस्वेतेषु जायन्ते गोत्रेषु ब्रह्मवादिनः ।।२४।।
क्रतोः पुत्रा वालखिल्या भृगोः शुक्रः सुतोऽभवत् ।
त्वष्टा वरूत्री शण्डश्चाऽमर्कश्चेति कवेः सुताः ।।२५।।
यजन्यां देवयानी च शुक्रस्य दुहिताऽ भवत्। ।
त्रिशिरा विश्वरूपस्तु त्वष्टुः पुत्रोऽभवन्महान् ।। २६।।
यशोधरायामुत्पन्नो विश्वकर्माऽनुजः सुतः ।
प्रचेतसश्च्यवनोऽभूत् च्यावनेयास्ततो मताः ।। २७।।
भार्गवस्य आत्मवाँश्च दधीचश्चेत्युभौ सुतौ ।
आत्मवतश्चोरुदेशादौर्वः प्रसमजायत ।। २८ ।।
ऋचीकस्य जमदग्निः सत्यवत्यां व्यजायत ।
जमदग्नेः पर्शुरामो रेणुकायां व्यजायत ।। २९।।
अथर्वणस्य दायादो बृहस्पतिश्च धिष्णुकः ।
संवर्तश्च विचित्तिश्च ह्युतथ्यो वामदेवकः ।। 1.213.३० ।।
उतथ्यस्य शरद्वाँश्च ह्येते आथर्वणा मताः ।
बृहस्पतेर्भरद्वाजो भारद्वाजश्च तत्सुतः ।। ३१ ।।
मरीचेस्त्वरिष्टनेमिः कश्यपश्चेति वै सुतौ ।
सोमस्य तु बुधः पुत्रो बुधस्य तु पुरूरवा ।। ३ २।।
तस्य ह्यमावसुरत्तस्य भीमस्तस्य च कांचनः ।
तस्य सुहोत्रस्तस्य जह्नुर्यज्जानोस्तु जाह्नवी ।। ३३ ।।
जह्नोर्भार्या च कावेरी तस्यां जातः सुहोत्रकः ।
तस्याऽजकश्च तस्यापि बलाकाश्च इतीरितः ।। ३४।।
तस्य कुशस्तस्य सुतः कुशिको गाधिनामकः ।
तस्य विश्वामित्रः पुत्रो ब्रह्मर्षिरभवत्पुरा । । ३५।।
विश्वामित्रस्य पुत्रस्तु देवरात इति स्मृतः ।
कौशिका बहवो जाताः ऋषयो वै तपोधनाः ।। ३ ६।।
विश्वामित्रश्च मान्धाता संस्कृतिश्च कपिस्तथा ।
कपेस्तु पुरुकुत्सश्च सत्यश्चानृहवानृथुः ।। ३७।।
आर्ष्टिषेणोऽजमीढश्च भागान्योऽन्यस्तथैव च ।
काक्षीवश्चैव शिजयस्तथाऽन्ये च महारथाः ।। ३८ ।।
रथीतरश्च रुन्धश्च विष्णुवृद्धादयो नृपाः ।
क्षत्रोपेताः स्मृता ह्येते तपसा ऋषितां गताः ।। ३ ९।।
पुरुरवसस्त्वायुस्तस्य सुतहोत्रसंज्ञकः ।
तस्य गृत्समदस्तस्य शुनकस्तस्य शौनकः ।।1.213.४० ।।
सुहोत्रस्य शलस्तस्य ह्यार्ष्टिषेणस्तपोनिधिः ।
सुहोत्रस्य सुतः काशस्तस्य दीर्घतपाः सुतः ।। ४१ ।।
दीर्घतपसः सुपुत्रो विद्वान् धन्वन्तरिः प्रभुः ।
धन्वन्तरे केतुमाँश्च दिवोदासश्च तत्सुतः ।।४२।।
तस्य प्रतर्दनः पुत्रस्तस्य गर्गश्च वत्सकः ।
वत्सपुत्रो ह्यलर्कश्च सन्नतिस्तस्य चात्मजः ।।४३ ।।
तस्य वंशे च गार्ग्यो वत्सस्य वात्स्योऽभवदृषिः ।
ब्राह्मणाः क्षत्रियाश्चैते महर्षयोऽभवंस्तथा ।।४४।।
मरुत्तो ह्यभवद्राजा महर्षिः सात्वतः परः ।
नहुषस्य ययात्याद्या धार्मिका ह्यभवन् नृपाः ।।४५।।
ऊशिजो ममतायां च दीर्घतमा ह्यजायत ।
बलेः क्षेत्रे सुदेष्णायां दीर्घतमोऽकरोत्सुतम् ।।४६।।
स कक्षीवानभवच्च तत्पुत्रास्तु सहस्रशः ।
आत्रेयो वंशजो मेधातिथिः काण्ठायना द्विजाः ।।४७।।
वृहस्पतेर्ममतायां भरद्वाजोऽभवत् सुतः ।
तस्य वंशेऽभवत् त्रय्यारुणिर्नामर्षिपुंगवः ।।४८।।
बृहत्क्षत्रस्य पुत्रोऽभूत् सुहोत्रसंज्ञकः ऋषिः ।
तस्य वंशेऽभवन्मेधातिथिर्नाम ऋषिर्महान् ।।४९।।
पौरवश्च कौथुमोऽभूत् सामवेदस्य शाखया ।
रिक्षस्य मुद्गलः पुत्रो मौद्गल्यास्तस्य वंशजाः ।।1.213.५०।।
अहल्यायाः शतानन्दस्तस्य सुतश्च सुव्रतः ।
च्यवनस्योपरिचरवसुस्तस्य कुशाग्रकः ।।५ १ ।।
कुशाग्रस्य सुतः ऋषभाख्यस्तस्यार्षभर्षयः ।
ब्रह्मक्षत्रा इमे प्रोक्ताः ऋषयो लोकपावनाः ।।५२।।
भवन्त्यन्येऽपि पृथिव्यामृषयो वेदबोधकाः ।
तापसाश्चापि जायन्ते तैर्वै संरक्षितं जगत् ।।५३ ।।
कर्मकाण्डपराः केचित् केचिद्ब्रह्मपरास्तथा ।
केचिद्योगपराश्चान्ये तपोमात्रपरास्तथा ।।५४।।
सिद्धिपरास्तथा चान्ये ह्युपासनादितत्पराः ।
भवन्त्येव परश्रेयः प्रदास्ते पुण्यशालिनः ।।५५।।
मुख्या ह्येते महर्षयो मदंशसंभवाः खलु ।
कथितास्ते महालक्ष्मि! किमन्यच्छ्रोतुमिच्छसि ।।५६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मक्षत्रर्षाणां वंशादिप्रदर्शननामा त्रयोदशाधिकद्विशततमोऽध्यायः ।।२१३।।