लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २११ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१२
[[लेखकः :|]]
अध्यायः २१३ →

श्रीलक्ष्मीरुवाच-
द्वापरान्ते तदा चाऽऽद्ये काश्यपेयीं च मैथुनीम् ।
सृष्टिं श्रोतुं समिच्छामि वद मे परमेश्वर ।। १ ।।
श्रीनारायण उवाच-
शृणु कश्यपदायादान् वच्मि ते तु यथाक्रमम् ।
दक्षेण स्वस्य पुत्र्स्तु कश्यपाय चतुर्दश ।। २ ।।
दत्ता विवाहविधिना तासां नामानि मे शृणु ।
अदितिर्देवमाताऽभूत् दैत्यमाता दितिस्तथा ।। ३ ।।
कद्रूश्च सर्पमाताऽभूद् विनता पक्षिसूस्तथा ।
सुरभिश्च गवां माता पशूनां चापि सा प्रसूः ।। ४ ।।
सारमेयादिसत्त्वानां सरमा सूश्चतुपदाम् ।
दनुः प्रसूर्दानवानां तिमिर्यादोगणप्रसूः ।। ५ ।।
ताम्रा सूः श्येनगृध्राणां मुनिरप्सरसां प्रसूः ।
क्रोधवशा प्रसूः सर्पदन्दशूकादिरोषिणाम् ।। ६ ।।
इला प्रसूः पादपानां सुरसा यातुधानसूः ।
गन्धर्वप्रसूररिष्टा यासां प्रजामयं जगत्। ।। ७ ।।
इन्द्रश्च द्वादशादित्या उपेन्द्राद्याः सुरास्तथा ।
कथिताश्चादितेः पुत्रा महाबलपराक्रमाः ।। ८ ।।
इन्द्रपुत्रो जयन्तश्च पत्न्यां शच्यामजायत ।
शनैश्चरयमौ सूर्यात् संज्ञायां यमुना तथा ।
उपेन्द्रवीर्यात् पृथ्व्यां तु मंगलः समजायत ।। ९ ।।
उपेन्द्ररूपमालोक्य कामार्ता च वसुन्धरा ।
विधाय सुन्दरीवेषं शय्यायां समुपस्थिता ।। 1.212.१०।।
उपेन्द्रस्तन्मनो ज्ञात्वा शृंगारं प्रचकार ह ।
वीर्याधानं च यज्जातं दुर्बला रक्षितुं च तत् ।। ११ ।।
प्रवालपत्रे पतितं कुमारः समपद्यत ।
तेजसा सूर्यसदृशो नारायणसुतः स्वयम् ।। १२।।
मंगलाख्यः स हरिणा ग्रहेषु स्थापितः शुभः ।
अथ दितेर्हिरण्यकशिपुर्हिरण्यनेत्रकौ ।। १३।।
कन्या च सिंहिका जाता सैहिकेयश्च तत्सुतः ।
निर्ऋतिः सिंहिका सा च तेन राहुश्च नैर्ऋतः ।। १४।।
वाराहेण हिरण्याक्षो जलमध्ये युवा हतः ।
हिरण्यकशिपोः पुत्रः प्रह्लादो वैष्णवाग्रणीः ।। १५।।
विरोचनश्च तत्पुत्रस्तत्पुत्रश्च बलिः स्वयम् ।
बलेर्बाणो महायोगी दितिवंशः प्रकीर्तितः ।। १६।।
अथ कद्र्वा सुताः सर्पाः कालीयो वासुकिस्तथा ।
कर्कोटको धनञ्जयस्तक्षकः पद्म इत्यपि ।। १७।।
ऐरावतो महापद्मः शंकुः शंखस्तथाऽपरः ।
धृतराष्ट्रः संवरणो दुर्धर्षो दुर्जयस्तथा ।। १८।।
दुर्मुखश्च बलश्चैव गोक्षो गोकार्मुकस्तथा ।
विरूपश्चेति प्रवराः सर्वा वै सर्पजातयः ।। १ ९।।
जरत्कार्वीति वै कन्या जरत्कारुस्तु यत्पतिः ।
आस्तीकतनयो विष्णुतुल्यगुणपराक्रमः ।।1.212.२०।।
एतेषां नाममात्रेण नागभीतिर्न वै भवेत् ।
अथ दनोर्द्विमूर्धा च शंकुकर्णो निरामयः ।।२ १ ।।
महाविश्वो गवेष्ठिश्च दुन्दुभिरंगिरावृतः ।
मरीचिरक्षकश्चैव महागार्ग्यो ह्यजामुखः ।।२२।।
शिलो वामनसश्चैव विक्षोभ्यः सुहृदस्तथा ।
सुकेतुश्च सुवीर्यश्च चेन्द्रजित् विश्वजित्तथा ।।२३।।
सुरविमर्दनश्चैकचक्रश्च तारकस्तथा ।
महाबलः सुवाहश्च पुलोमा च प्रवीणकः ।।२४।।
वैश्वानरो महाशिराः स्वर्भानुर्मुण्डकस्तथा ।
वृषपर्वा धृतराष्ट्रः सूक्ष्मश्च तापिनस्तथा ।।२५।।
ऊर्णनाभो महागिरिरसिलोमा सुकेशकः ।
सदश्च बलकश्चैव कुंभनाभो महोदरः ।।२६ ।।
प्रमोदाहो व्योममूर्धा कुपथो हयमस्तकः ।
असुरश्च विरूपाक्षः शतमायुश्च शम्बरः ।।२७।।
शरभः शलभश्चैव दनोः पुत्राः प्रकीर्तिताः ।
तेषामपरिसंख्येयं पुत्रपौत्राद्यनन्तकम् ।।२८।।
सिंहिकायामथोत्पन्ना विप्रचित्तिसुतास्त्विमे ।
शतगालश्च बलवान् न्यासः शाम्बस्तथाऽपरः ।।२९।।
इल्वलो नमुचिश्चापि वातापी दसृयाजकः ।
हरकल्पः कालनाभो भौमश्च नरकस्तथा ।।1.212.३० ।।
राहुश्चैते सैंहिकेया दशसाहस्रसंख्यकाः ।
भवन्त्येव वंशपरम्पराजाताः सुरारिणः ।।३ १ ।।
चित्रसेन उग्रसेन ऊर्णायुरनघस्तथा ।
धृतराष्ट्रः पुलोमा च सूर्यवर्चास्तथैव च ।।३२।।
युगपत् तृणपत् कालिदितिश्चित्ररथस्तथा ।
भ्रमिशिराश्च पर्जन्यः कलिश्च नारदस्तथा ।।३३।।
इत्येते देवगन्धर्वा मौनेयाः परिकीर्तिताः ।
मिश्रकेशी तथा चाशी पर्णिनी चाऽप्यलम्बुषा ।।३४।।
मारिची पुत्रिका चैव विद्युद्वाणी तिलोत्तमा ।
अद्रिका लक्षणा चैव देवी रंभा मनोरमा ।।३५।।
सुवरा च सुबाह्वी च पूर्णिता च प्रतिष्ठिता ।
पुण्डरिका सुगन्धा च सुदन्ता सुरसा तथा ।।३६।।
हेमा शारद्वती चैव सुवृत्ता कमला तथा ।
सुभुजा हंसपादा च लौकिक्योऽप्सरसस्तथा ।।३७।।
गन्धर्वाऽप्सरसो ह्येता मौनेयाः परिकीर्तिताः ।
सुयशाया दुहितरश्चतस्रोऽप्सरसः स्मृताः ।।३८।।
लौहेयी भरता चैव कृशांगी च विशालिका ।
विशालेन च ताभ्यस्तु यक्षा उत्पादिता यथा ।। ३९।।
लौहेया भरतेयाश्च कृशांगेया विशालजाः ।
शिवा च सुमना चैव कन्ये द्वेऽपि सुलोचने ।।1.212.४० ।।
ताभ्यां विश्रवसा विद्याधरा उत्पादिताः समम् ।
विक्रान्तेन च तेनैवोत्पादिताः किन्नरा अपि ।।४१।।
समुद्रसेनः कालिन्दो महानेत्रो महाबलः ।
सुवर्णघोषः सुग्रीवो महाघोषश्च वीर्यवान् ।।४२।।
हयाननानामेवं च किन्नराणां गणस्तथा ।
नरमुखाः किन्नराश्चोत्पादिताः शांशपायनाः ।।।४३।।
हरिषेणः सुषेणश्च वारिषेणश्च वीर्यवान् ।
रुद्रदत्तेन्द्रदत्तौ च चन्द्रद्रुममहाद्रुमौ ।।४४।।
बिन्दुश्च बिन्दुसारश्च चन्द्रवंशा हि किन्नराः ।
लौहेया दुहिता सुरविन्देति नामधारिणी ।।४५।।
भूतास्तस्याः समुत्पन्ना आवेशकनिवेशकाः ।
सुतारः कालभवनाऽनिर्देशकविदेशकाः ।।४६।।
वृक्षाग्रमात्रमाकाशं ते चरन्ति तरुस्थिताः ।
पैशाचेन विवाहेन सुदत्यां बुद्धवाहनः ।।४७।।
कन्याद्वयं जनयामासेति ते हि पिचाशिके ।
ब्रह्मधना जन्तुधना ताभ्यां पिशाचकोटयः ।।४८।।
राक्षसाश्चापि चोत्पन्नाः कोटिकोट्यर्बुदाश्च ते ।
यक्षमाता क्रतुस्थली चाप्सरो हि मता शुभा ।।४९।।
यक्षो रजतनाभस्तु गुह्यकानां पितामहः ।
चत्वारो विंशतिश्चैव पुण्याः पुण्यजना मताः ।।1.212.५०।।
मणिभद्रात्पुण्यजन्यामेते पुण्यजनाः स्मृताः ।
एवं मणिवरस्यैते यक्षाश्च गुह्यकाः सुताः ।।५१।।।
खशायाश्च प्रपुत्रास्ते राक्षसाः कामरूपिणः ।
विकचायां च राक्षस्यां नैर्ऋतिना पिशाचकाः ।।५२।।।
पूतनाश्चोत्पादितास्ते बालनाशकरा मताः ।
क्रोधायां कन्यका जाता द्वादश ह्यात्मसंभवाः ।।५३।।
मृगी च मृगमन्दा च हरिभद्रा इरावती ।
भूता कपिशा दंष्ट्रा च निशा तिर्या तथैव च ।।५४।।
श्वेता चैव स्वरा चैव सुरसा चेति विश्रुताः ।
मृग्यास्तु हरिणाः पुत्रा मृगाश्चान्ये शशास्तथा ।।५५।।
न्यंकवः शरभा ये च रुरवः पृषताश्च ये ।
मृगराजा मृगमन्दा गवयाश्चापरे तथा ।।५६।।।
महिषोष्ट्रवराहाश्च खङ्गगौरमुखास्तथा ।
हरेस्तु हरयः पुत्रा गोलांगुलास्तरक्षवः ।।।५७।।
वानराः किन्नराश्चैव व्याघ्राः किंपुरुषास्तथा ।
इरावत्याः सुतो गज ऐरावत इति स्मृताः ।।५८।।
द्विदन्ताश्च चतुर्दन्ता अष्टदन्तास्तथाऽपरे ।
तत्पुत्रपौत्रादयोऽपि गजा जाता अनन्तशः ।।५९।।
अथ भूत्याः सुता भूताः सर्वे ते ह्यूर्ध्वरेतसः ।
भवभक्ताश्च ते सर्वे भार्यापुत्रविहीनकाः ।।1.212.६०।।
कुष्माण्डी कपिशान्पुत्रान् कपिशेभ्यः पिशाचकान् ।
सुषुवे षोडशान्येषां युग्मानि पिशिताशिनाम् ।।६१।।
छगलः छगली चैव वक्रो वक्रमुखी तथा ।
सूचिः सूचीमुखी चैव कुंभी च कुंभपात्रकः ।।।६२।।
वज्रदंष्ट्रश्च दुन्दुभिः उपचारोऽपचारिका ।
उलूखली उलूखलो ह्यनकाऽनर्क इत्यपि ।।६३।।
कुखण्डिका कुखण्डकः पांशुः पांशुमती तथा ।
पाणिपात्रः पाणिपात्री निपुणा निपुणस्तथा ।।६४।।
नितुण्डश्च नितुण्डी च प्रस्कन्दः स्कन्दिका तथा ।
छलादोच्छेषणा चैव गणाश्चानन्तवंशगाः ।।६५।।
अजामुखा बकमुखाः कुष्माण्डानां गणाः स्मृताः ।
सर्वांगकेशा वृत्ताख्या दंष्ट्रिणो नखिनस्तथा ।।६६।।
तिर्यंगाः पुरुषादाश्च पिशाचास्ते ह्यधोमुखाः ।
ऋषायाश्च मीना माता वृत्ता परिवृत्ता तथा ।।६७।।
अनुवृत्ता दुहितरः तासां वै शृणुत प्रजाः ।
सहस्रदन्ता मकराः पाठिनास्तिमिरोहिताः ।।६८।।
एते मैनो गणः प्रोक्तो ग्राहाश्च शिशुमारकाः ।
वृत्ता कूर्मविकाराणि जनयामास शंखलान् ।।६९।।
मण्डुकानां विकाराणि ह्यनुवृत्ता ह्यजीजनत् ।
ऐणेयान् शंबूकाँश्चैव शुक्तीन् वराटकाँस्तथा ।।1.212.७० ।।
तथा शंखविकाराणि परिवृत्ता व्यजीजनत् ।
स्वेदायाः पुत्रपौत्राद्याः कोटिकोट्यंशवंशजाः ।।७१। ।
जलजा नृक्षजास्तिर्यग्जाताश्चेतनजास्तथा ।
पृथिवीजलजाताश्च वर्षायोगसमुद्भवाः । ।७२। ।
तथा शुष्कविकारेभ्यो गोमयादिभ्य एव च ।
कर्दमादिसमुत्पन्नाः सूर्योष्मासंभवास्तथा ।।७३।।
काश्यपीयं प्रजा योनिजन्याश्चाऽयोनिजास्तथा ।
सरमायाः प्रजा तूलात्श्वकः कोलः शिवा तथा ।।७४। ।
श्यामश्च शबलश्चैव ह्यर्जुनो हरितस्तथा ।
कृष्णो धूम्रारुणश्चैव तूलाऽलाबूश्च कद्रुकाः ।।७५।।
सुरसाऽजीजनत्पुत्रशतमेकं शिरोमृतान् ।
सर्पान् तक्षकमूर्धन्यान् नागान् वासुकिशोभनान् ।।७६ ।।
ताम्रायां पुलहसुतात् श्येनी भासी शुकी तथा ।
धृतराष्ट्री तथा क्रौंची जज्ञिरे श्येनिरारुणात् ।।७७।।
सम्पातिं च जटायुं चाजीजनत् पक्षिसत्तमौ ।
जटायुषस्तु पुत्राद्याः काकगृध्राश्च कर्णिनः ।।७८।।
शुकी गरुत्मतः पुत्रान् सुषुवे गरुडान् बहून् ।
चतुर्दशसहस्राणि विस्तरः पन्नगाशिनाम् ।।७९।।
भासीपुत्राः स्मृता भासा उलूकाः काककुक्कुटाः ।
मयूराः कलविंकाश्च कपोता लावतित्तिराः ।।1.212.८० ।।
क्रौंची वार्धीणसाद् श्येनी कुररान् सारसान् बकान् ।
धृतराष्ट्री तु हंसाँश्च कलहंसाँश् भामिनी ।।८ १।।
चक्रवाकांश्च विहगान् तया द्विजानन्तकान् ।
इलायास्तिस्रः पुत्र्यश्च लता वल्ली च वीरुधा ।।८२।।
लता वनस्पतीन् पुत्रान् ह्यपुष्पान् पुलिनस्थितान् ।
एवं पुष्पफलवृक्षाँश्चापि ह्युद्यानसंस्थितान् ।।८३ ।।
अथ वल्ली तु गुल्मांश्च त्वक्साराँश्च तृणादिकान् ।
विरुधा विरुधान् पुत्रान् पत्रसाराँश्च मूलकान् ।।८४।।
एतासां च प्रजानां वै देशकालविगौणके ।
रूपक्रियाविभेदैश्च वैरूप्यं संप्रजायते ।।८५।।
क्षेत्रभेदे तु बीजस्य रूपं संकरतां व्रजेत् ।
बीजभेदे च गर्भस्य रूपं रूपान्तरं व्रजेत् ।।८६।।
लतावल्लीविरुधानामनेकयोगसम्भवे ।
विविधास्ता भवन्त्येव नान्तस्तासां हि विद्यते ।।८७।।
वृक्षद्रुमतरूणां च विभिन्नयोगसम्भवे ।
रूपात् रूपान्तरं तत्र जायतेऽनेकजातिकम् ।।८८।।
देवर्षिमानवानां च यक्षराक्षसरोषिणाम् ।
सांकर्ये च प्रजाश्चान्या भिन्नरूपा भवन्ति हि ।।८९।।
पार्थिवानां जलीयानां तैजसा चापि देहिनाम् ।
यथाविकृतिरूपाणि विभिद्यन्ते नवानि वै ।।1.212.९०।।
सृष्टौ सृष्ट्यन्तरे गोलान्तरे प्रलयजान्तरे ।
कति किदृक् किं च जातं पारयेऽहं न पद्मजे ।।९ १।।
संक्षेपात् काश्यपी सृष्टिर्मया प्रोक्ता प्रसिद्धिगा ।
सृष्टेर्विस्तारसत्त्वेऽपि वर्णने न प्रयोजनम् ।।९२।।
कालो ह्ययं निरवधिः सृष्टेश्चान्तो न विद्यते ।
मुख्यं मुख्यं कथितं ते किमन्यच्छ्रोतुमिच्छसि ।।९३।।
इति श्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने दितेरदितेः कद्रवा विनतायाः सुरभेः सरमाया दनोस्तिमेस्ताम्राया मुनेः क्रोधाया इलायाः सुर-
साया अरिष्टायाश्च काश्यपीप्रजायाश्चतुर्दशभुवनीयाया निर्देशनामा द्वादशाधिकद्विशततमोऽध्यायः ।। २१२ ।।