लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०९
[[लेखकः :|]]
अध्यायः २१० →

श्रीनारायण उवाच-
शृणु लक्ष्मि ययौ पश्चान्नारदो मेरुसंज्ञकम् ।
स्थलं तीर्थं शुभं ब्रह्मकुण्डाद्दक्षिणतः स्थितम् ।। १ ।।
नराऽऽवासगिरिर्मेरुः स्थापितो हरिणाऽत्र सः ।
यदा भगवता वासो विशालायां कृतः शुभः ।। २ ।।
तदा मेरुं विहायैव सविद्याधरचारणाः ।
देवा महर्षयः सिद्धा हरेर्दर्शनलालसाः ।। ३ ।।
विशालायां सदा स्थातुं समायाताः समुत्सुकाः ।
भगवद्दर्शनलब्धितिरस्कृततदालयाः ।। ४ ।।
मेरुर्देवादिहीनो ३ जातः शोकं चकार ह ।
भूत्वा दीनो ययौ नारायणं प्रार्थनहेतवे ।। ५ ।।
प्राह हे भगवन् सर्वे तव दर्शनलालसाः ।
मां विहायाऽत्र संयाता विनाऽहं वसतिं शुभाम् ।। ६ ।।
शोभे नातो मया तत्र नैव वस्तव्यमेव ह ।
अहमप्यत्र वसितुमिच्छामि चरणे तव ।। ७ ।।
भगवाँश्च तदा प्राह नैवं क्षेमाय वै भवेत् ।
तव स्थित्या चतुर्दशभुवनानां स्थितिर्मता ।। ८ ।।
तस्माद्देवादिभिस्तत्र स्थातव्यं वै मदाज्ञया ।
द्वितीयस्वस्वरूपैश्च स्थातव्यमत्र चैव यत् ।। ९ ।।
त्वयाऽप्यत्र द्वितीयेन स्वरूपेण ममाश्रमे ।
सदा स्थातव्यमेवाऽत्र मत्सेवा लाभसंभवात् ।। 1.209.१० ।।
इत्याज्ञां समनुप्राप्य मेरुशृंगाणि सर्वशः ।
रूपं द्वितीयमासाद्य समायातानि सूक्ष्मतः ।। १ १।।
तानि कांचनरूपाणि हरिणा स्वकरेण हि ।
गृहीतानि स्थापितानि सर्ववासाय तत्र वै ।। १ २।।
सर्वे चालोक्य शृंगाणि स्वर्णरूपाणि हर्षिताः ।
प्रसन्नास्तुष्टुवुर्देवं नारायणं कृपाकरम् ।। १३ ।।
दयालुर्भगवान् देवो दिवानां सुखहेतवे ।
मेरोः 'शृंगाण्यानिनाय तस्मै नमो विधेम च ।। १४।।
भक्तकृपाल्पभक्तेस्तु बहुधा फलदोऽस्ति यः ।
सोऽयं कृपालयो देवस्तुष्यतां श्रीनरायणः ।। १५।।
सकरुणः सदा शिक्षां पितेव विधाति नः ।
करुणासागरः कृष्णः प्रपायाद् विपदोऽपि नः ।। १६।।
विद्याधराणां सिद्धानामृषीणां मानसेष्टदः ।
सदा रक्षतु नश्चात्र भगवान् भक्तरक्षकः ।। १७।।
ततस्तुष्टो हि भगवान् वरं वृणुध्वमाह तान् ।
देवाः प्राहुर्मेरुशृंगाणि पश्यन्ति च ये जनाः ।। १८।।
तेषां तव प्रसादेन मेरौ वासौ हि जायताम् ।
त्वया नैतत्स्थलं त्याज्यं मेरुस्त्याज्यो न वै तथा ।। १९।।
मेरौ वासं च लब्धानां भोगाऽन्तेऽस्तु लयस्त्वयि ।
एवमस्त्विति संभाष्य तत्रैवाऽन्तर्हितो हरिः ।।1.209.२०।।
ततः प्रभृति देवाद्या नरनारायणाश्रमे ।
क्वचिन्मेरौ क्वचित्स्वर्गे क्वचिद्वै रैवताचले ।।२१।।
निर्विशंका निवसन्ति यत्र नारायणो नरः ।
एवं वै नारदो मेरुतीर्थं कृत्वा ययौ ततः ।। २२।।
लोकपालैरधिश्रितं तीर्थं सौम्यं सरोयुतम् ।
हरिः स्वयं गतो मेरौ दृष्टास्तत्र च देवताः ।।२३।।
ऋषयश्चाथ मुनयो लोकपालाः सुरादयः ।
दृष्ट्वाऽऽह लोकपालान्सः यूयं राजान एव वै ।। २४।।
ऋष्यादिवसतौ वासो न योग्यौ भवतां कृते ।
आगच्छन्तु मया क्लृप्ते स्थाने योग्ये भवत्कृते ।।२५।।
निवसन्तु च तत्रैव मम सान्निध्यमाश्रिताः।
इत्यानीता लोकपाला मेरुमध्यप्रदेशतः ।। २६।।
स्थापितास्तत्सुखार्थं च जलाशयो महान् कृतः ।
दण्डेन च भुवं हत्वा क्रीडापुष्करिणी कृता ।।२७।।
लोकपालाश्च गन्धर्वा गीर्वाणाः प्रमदायुताः ।
विचरन्त्यनुमोदन्ते प्रगायन्ति च सर्वदा ।।२८।।
वनानि कुसुमामोदरम्याणि च कृतानि वै ।
भगवानपि सर्वेषामत्यानन्दं समावहन् ।।२९।।
द्वादश्यां पौर्णमास्यां च स्वयमायाति मज्जने ।
दृश्यते परमं तेजो जले मध्याह्नकालतः ।।1.209.३ ०।।
सर्वतीर्थावगाहस्य फलं तत्रैव लभ्यते ।
दण्डपुष्करिणीतीर्थमिहाऽमुत्र फलप्रदम् ।।३ १ ।।
पिण्डदानाच्च जायेत गयातोऽष्टगुणं फलम् ।
द्वादश्यां शुक्लपक्षस्य ज्येष्ठमासेऽत्र पुष्करे ।।३२। ।
यज्ञं दानं तपः कृत्वा कृतकृत्यो भवेज्जनः ।
अक्षय्यं फलमश्नाति मोक्षं याति ततः परम् ।।३३।।
बदरीतीर्थमध्ये तु गुप्तमेतद्धि वर्तते ।
बहुप्रसूतपुण्या वै पश्यन्त्येतन्न चेतरे ।।३४।।
इति दण्डोदकं तीर्थं कृत्वा च नारदो ययौ ।
गंगायां मानसोद्भेदसंगमे तीर्थसूत्तमे ।।३५।।
त्रिंशद्वर्षसहस्राणि प्रयागे तपसः फलम् ।
तत्फलं मानसोद्भेदे तीर्थे स्नानकृतं भवेत् ।।३६।।।
संगमाद्दक्षिणे भागे धर्मस्य भवनं शुभम् ।
यत्र मूर्त्यां जन्म चाप्तौ नरनारायणावृषी ।।३७।।
यत्र धर्मश्चतुष्पादः सत्यं यज्ञस्तपस्तथा ।
दानं चेति वर्तते स्माऽनुष्ठितस्याऽक्षयं फलम् ।। ३८।।
ततो दक्षिणदिग्भागे उर्वशीसंगमाभिधम् ।
कूर्मोद्धारस्ततस्तीर्थं स्नानात्सत्त्वस्य शुद्धिकृत् ।। ३९।।
ब्रह्मावर्तस्ततस्तीर्थं ब्रह्मलोकप्रदं हि तत् ।
एवं बहूनि तीर्थानि भवन्ति बदरीवने ।।1.209.४०।।
दर्शनात्स्मरणात्स्नानात्पानादाचमनात्तथा ।
मार्जनात्पापहन्तॄणि मोक्षदानि च योगतः ।।४१।।
कृत्वा सर्वाणि तीर्थानि नारदः पुनराययौ ।
नरस्याऽऽश्रममादिव्यं स्थित्वा नरमुखात्ततः ।।४२।।
शुश्राव क्षेत्रमाहात्म्यं शान्त्यैकाग्रधियाऽऽर्त्तिहृत् ।
बदर्याख्यं हरेः क्षेत्रं त्रिषु लोकेषु दुर्लभम् ।।४३।।
स्मरणाश्चास्य पापानि नश्यन्ति दारुणान्यपि ।
अन्यतीर्थे कृतं पुण्यं बदर्याः स्मरणाद्भवेत् ।।४४।।
अश्वमेधसहस्राणां वायुभोज्यस्य यत्फलम् ।
क्षेत्रान्तरे बदर्यां तु तत्फलं क्षणमात्रतः ।।४५।।
कृते मुक्तिप्रदा नाम्ना त्रेतायां योगसिद्धिदा ।
विशाला द्वापरे नाम्ना कलौ बद्र्याश्रमो हि सः ।।४६।।
मुक्तेः प्रदा च योगस्य सिद्धिदा सर्वथा यथा ।
शालात्मकस्य देहस्य विशाला तु विनाशनात् ।।४७।।
बदरीतरुयोगाद्धि बदरिकाश्रमो हि सः ।
त्यजेत्सर्वाणि तीर्थानि काले युगान्तरेऽपि च ।।४८।।
बदरीं तु हरिर्नारायणो मुञ्चति नैव हि ।
षष्टिवर्षसहस्राणि योगात्काश्यां तु यत्फलम् ।।४९।।
बदर्या तु दिनैकेन तत्फलं समवाप्यते ।
देवतीर्थर्षीणां शाला विशिष्टाः सन्ति यत्र हि ।।1.209.५०।।
विशाला च मता सार्था शाला ज्ञानस्य वेस्तथा ।
विशालाऽनादिसिद्धा सा यथा वेदा हरेस्तनुः ।।५ १।।
अन्यत्र मरणान्मुक्तिः स्वधर्मविधिपूर्वकात् ।
बदरीदर्शनादेव मुक्तिं पुंसां करे स्थिता ।।५२।।
धर्माधर्मौ विजित्याऽथ बदरीशं नरायणम् ।
दृष्ट्वा मुक्तिं तूपयाति विनाऽऽयासं जनोऽत्र वै ।।५३।।
सर्वयुगेषु भगवान् वैकुण्ठसदृशीं शुभाम् ।
बदरीं समनुप्राप्य साक्षादेवाऽवतिष्ठते ।।५४।।
विना ज्ञानेन योगेन तीर्थाटनपरिश्रमैः ।
एकेन जन्मना जन्तुः कैवल्यपदमश्रुते ।।५५।।
जन्मान्तरसहस्रैश्च येन चाराधितो हरिः ।
स गच्छेद् बदरीं द्रष्टुं यत्र गत्वा न शोचति ।।५६।।
बदरीबदरीत्युक्त्वा प्रसंगान्मुक्तिभाग्भवेत् ।
विशालां बदरीं दृष्ट्वा पुंसो मृत्युभयं कुतः ।।५७।।।
सशैलकानना पृथ्वी दशधा दक्षिणीकृता ।
हरेः प्रदक्षिणं भूमौ बदर्यां तु पदे पदे ।।५८।।
अश्वमेधस्य यज्ञस्य वाजपेयशतस्य च ।
हरेः प्रदक्षिणायाश्च पुण्यं पदे पदेत्र वै ।।५९।।
बदर्यां भगवानत्ति यदन्नं दिव्यतां गतम् ।
तत्सत्त्वशुद्धये सर्वैर्भोक्तव्यमविचारितम् ।।1.209.६०।।
अमरा हरिनैवेद्यं भोक्तुं भवन्ति तत्पराः ।
बाल्ययौवनवार्धक्ये कृतं प्राणान्तपातकम् ।।६ १।।
विष्णोर्निवेदितं भुक्त्वा बदर्यां तन्निवर्तते ।
नैवेद्यभक्षणादत्र सालोक्यं लभते हरेः ।।६२।।
हृदि रूपं मुखे नाम नैवेद्यमुदरे हरेः ।
पादोदकं सनिर्माल्यं मस्तके यस्य सोऽच्युतः ।।६३।।
ब्रह्महत्यादिपापानि नश्यन्ति चरणामृतात् ।
किं दानैस्तपसा तीर्थैर्नियमैश्च परिश्रमैः ।।६४।।
बदर्या विष्णुपादादेर्बिन्दुमात्रं मिलेद् यदि ।
सूर्यग्रहे कुरुक्षेत्रे महादानफलं हि यत् ।।६५।।
बदर्यां ग्रासमात्रेण चातुर्मास्यफलाधिकम् ।
वेदान्तश्रवणात्पुण्यं बदर्यां चरणामृतात् ।।६६।।।
बदर्यां वैष्णवीं दीक्षां ये गृह्णन्ति जडा अपि ।
मुक्तिः करतले तेषां भूमिकादर्शनादपि ।।६७।।
य इदं शृणुयान्नित्यं श्रावयेच्चापि पाठयेत् ।
पठेद्वा पापमुक्तः सः पदं विष्णोः प्रपद्यते ।।६८।।
राजा विजयमाप्नोति सुतार्थी लभते सुतम् ।
कन्यार्थी लभते कन्यां कन्या विन्दति सत्पतिम् ।।६९।।
धनार्थी धनमाप्नोति व्याध्याध्यधननाशनम् ।
दौर्भाग्याऽपमृत्युग्रहदुःस्वप्नादिविनाशनम् ।।1.209.७ ० ।।
श्रुत्वा नत्वा नरनारायणौ भुक्त्वा प्रसादकम् ।
ययौ सत्यं ब्रह्मलोकं विवाहार्थं स नारदः ।।७ १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मेरुतीर्थदण्डपुष्करिणीमानसोद्भेदनरनारायणजन्मस्थानधर्मोर्वशीसॆगमकूर्मोद्धारब्रह्मावर्तादितीर्थ-
तत्क्षेत्रप्रसादचरणामृतमाहात्म्यादिनिरूपणनामा नवाऽधिकद्विशततमोऽध्यायः ।।२०९।।।