लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०८
[[लेखकः :|]]
अध्यायः २०९ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो ययौ नारदः सोमकुण्डकम् ।
तपश्चचार भगवान् सोमो यत्र स्थले पुरा ।। १ ।।
अत्रेस्तु तनयः सोमः दिव्यं स्वर्गसुखं महत् । ।
गन्धर्वेभ्योऽसकृच्छ्रुत्वा पितरं प्राप्तिकारणम् ।। २ ।।
पप्रच्छ च पुनः प्राह भवाम्यहं यथा पितः ।
ग्रहनक्षत्रताराणामोषधीनां पतिः परः ।। ३ ।।
तथा मे साधनं ब्रूहि श्रुत्वाऽत्रिः समुवाच तम् ।
तपसा प्राप्यते सर्वं समाराध्य हरिं तथा ।। ४ ।।
न चास्ति दुर्लभं किञ्चित्साधूनामुभयत्र वै ।
तादृशं च परं तीर्थं बद्रिकाश्रममस्ति हि ।। ५ ।।
श्रुत्वा जगाम बदरीं सोमो विष्णोः प्रपूजनम् ।
अष्टाक्षरमनोर्जापपूर्वकं प्रचकार वै ।। ६ ।।
अष्टाशीतिसहस्राणि वर्षाणि भगवत्परः ।
नित्यत्रिषवणस्नायी तपस्तेपेऽतिदारुणम् ।।७ ।।
श्रीहरिस्तत्तपसा च प्रसन्नः सन् समागतः ।
सोमं प्रोवाच तु वरं वरयेति मुहुर्मुहुः ।। ८ ।।
सोमो नत्वा हरिं तत्र दंडवत् प्रहसंस्तदा ।
ग्रहनक्षत्रताराणामोषधीनामहं पतिः ।। ९ ।।
द्विजानामपि सर्वेषां भूयासं ते प्रसादतः ।
हरिः प्राह न ते तादृक् तपोऽस्त्यन्यद्वृणुष्व च ।। 1.208.१ ०।।
सोमो नान्यं ययाचे वै वरं तेपे पुनस्तपः ।
त्रिंशद्वर्षसहस्राणि ततश्च भगवानगात् ।। ११ ।।
वरं वरय सोमं च प्राह सोमोऽपि तादृशम् ।
वव्रे श्रुत्वाऽन्तर्दधे च हरिः सोमः पुनस्तदा ।। १२।।
चत्वारिंशत्सहस्राणि तपस्तेपेऽतिदारुणम् ।
ततस्तुष्टो हरिस्तत्र शंखचक्रगदाब्जधृक् ।। १ ३।।
प्राविर्बभूव चोवाच वृणुष्व वरदानकम् ।
सोमः प्राह यदि तुष्टस्तं वरं संप्रयच्छ मे ।। १४।।
ग्रहनक्षत्रताराणामाधिपत्यं प्रयच्छ मे ।
तथौषधीनां विप्राणां यामिन्याश्च जगत्पते ।। १५।।
भगवानाह सोमं वै प्रार्थितं दुर्लभं त्वया ।
तथापि वितराम्यद्य भव राजा तथाविधः ।। १६।।
ततो दिवौकसः सर्वे मिलिता बदरीवने ।
अभिषिषिचुर्विधिवत्सोमं राजानमादृताः ।। १७।।
ततो विमानमारुह्य राजा भूत्वा निशाकरः ।
दिवं यातश्च तीर्थं तत्सोमकुण्डेति विश्रुतम् ।। १८।।
दर्शनाद्गतदोषाः स्युः सोमलोकं प्रयान्ति च ।
तत्स्पर्शनाद् यद्वा स्नानाद्विष्णुलोकं प्रयान्ति च ।। १९।।
न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि ।
त्रिरात्रेण स्थितो मन्त्रं जपन् सिद्धिं सुविन्दति ।। 1.208.२०।।
सोमतीर्थं तदा कृत्वा ययौ श्रीनारदो मुनिः ।
द्वादशाऽऽदित्यतीर्थे सः स्नानं चक्रे विधानतः ।। २१ ।।
कश्यपस्याऽदितेः पुत्रास्तपस्तप्त्वाऽतिदारुणम् ।
आदित्याः सूर्यतां प्राप्तास्तीर्थं पापहरं हि तत् ।।२२।।
रविवारेषु सप्तम्यां संक्रान्त्यां विधिवज्जनः ।
स्नानेन सप्तजन्माऽऽप्तपापनाशं करोति हि ।।२३।।
पाराककृछ्रव्रतं तु विधिवच्च करोति यः ।
सूर्यलोके सुखं भुक्त्वा विष्णुलोकं प्रयाति सः ।।२४।।
स्नात्वा पीत्वा महारोगान्मुच्यते नात्र संशयः ।
तीर्थं कृत्वा ययौ चतुःस्रोतं तीर्थवरं ततः ।। २५।।
धर्मार्थकाममोक्षाश्च वर्तन्तेऽत्र द्रवात्मकाः ।
पूर्वादिदिक्षु क्रमशो भूतानां मुक्तिरूपकाः ।।२६।।
वर्तन्तेऽत्र परे क्षेत्रे हरेराज्ञानुसारतः ।
नान्यक्षेत्रे मिलन्त्येते देवानामपि दुर्लभः ।।२७।।
पुरुषार्थान्मूर्तिमन्तस्ते पश्यन्त्यत्र सात्त्विकाः ।
यैस्तु पुण्यान्यर्जितानि नारायणस्य सेवया ।। २८।।
पुमर्थतीर्थे ब्रह्माद्याः ऋषयो मुनयस्तथा ।
पर्वणि प्रयताः स्नातुमायान्ति तत्प्रसिद्धये ।।२९।।
तत्तीर्थं समनुष्ठाय ययौ श्रीनारदो नरः ।
तीर्थं सत्यपदं नाम त्रिकोणकुण्डमण्डितम् ।।1.208.३०।।
ब्रह्मा विष्णुश्च रुद्रश्च त्रिकोणस्थाः समाहिताः ।
तपः कुर्वन्ति लोकानां तोषाय सहर्षिभिः ।।३ १ ।।
एकादश्यां हरिस्तत्र स्वयमायाति पावनः ।
ऋषयो मुनयश्चैव सुराश्चान्ये तपोधनाः ।।३२।।
स्नातुमायान्ति कुण्डेऽत्र हरेर्भक्तिपरायणाः ।
जपं तपः स्तुतिं ध्यानं वंदनं पूजनं हरेः ।।३ ३।।
कुर्वतां ब्रह्मणा पुण्यपुञ्जं वक्तुं न पार्यते ।
स्नात्वा कृत्वा चोपवासं पूजयित्वा हरिं प्रभुम् ।। ३४।।
जीवन्मुक्तश्चात्र भूत्वा ब्रह्ममुक्तस्ततो भवेत् ।
स्नात्वा प्राप्य सत्यलोकं ततो मोक्षपदं व्रजेत् ।। ३५ ।।
गन्धर्वाऽप्सरसां यत्र मध्याह्ने हरिवासरे ।
गानं दिव्यं श्रूयते वै सत्यव्रतपरायणैः ।।३६।।
दर्शनात्पातकादीनि लीयन्ते तत्प्रतापतः ।
ययौ तीर्थविधिं कृत्वा नरनारायणाश्रमम् ।।३७।।
तीर्थं तीर्थादिमूर्धन्यं जलं परमनिर्मलम् ।
द्विविधं दृश्यते तत्र श्वेतं चाऽश्वेतमित्यपि ।।३८।।
तत्र स्नात्वा पूजयित्वा हरिं पापात् प्रमुच्यते ।
तत्र तीर्थविधिं कृत्वा ह्युर्वशीतीर्थमुत्तमम् ।।३९।।
ययौ नारायणाऽऽवासशिखरे विमलं जलम् ।
वर्तते यत्र शैत्याढ्यं नारदो मुनिराट् ततः ।।1.208.४० ।।
पप्रच्छ च नरं तस्य वृत्तान्तं प्राह वै नरः ।
धर्मस्य पत्नी मूर्त्यासीन्नरनारायणौ तयोः ।। ४१ ।।
पुत्रौ जातौ तु भगवान् हरिरक्षरधामवान् ।
नरोऽक्षर इति प्रोक्तो नारायणो हरिः स्वयम् ।।४२।।
तौ च तपो विधातुं वै स्थितौ च नगयोर्द्वयोः ।
पित्रोः समाज्ञया शश्वत् तेपाते दारुणं तपः ।।४३।।
प्रजारक्षार्थमेवैतौ धर्मरक्षार्थमित्यपि ।
इन्द्रस्तत्तपसा भीतो राज्यनाशाभिशंकितः ।।४४।।
प्रेषयामास सगणं कामं वसन्तपार्श्वकम् ।
हर्षः प्रेमा तथा बाणाः धनुश्चाप्सरसस्तथा ।।४५।।
पवनश्च सुगन्धाढ्यः शीतलो मोदकृत्तथा ।
मेघकणैर्मिश्रितश्च निशायाः समयः शुभः ।।४६।।
चान्द्रज्योत्स्नापि धवला कोकिलाश्चातकास्तथा ।
मयूरा गायकाश्चैव नर्तका वादकास्तथा ।।४७।।
एवं सर्वे मिलित्वैव न न्यूनं साधनं भवेत् ।
तथेन्द्रस्याऽऽज्ञया सर्वे कामेन सह संगताः ।।४८।।
ययुर्यत्र नरनारायणौ तपतः सन्मुनी ।
प्रथमं चन्द्रमास्तत्र ज्योत्स्नां विस्तारयन् स्थितः ।।४९।।
सर्वं शान्तं च धावल्यधौतमिवाऽभवत्तलम् ।
निशाऽपि राजसं वेगमच्छतिमिरभासया ।।1.208.५० ।।
समप्रासारयत्तत्र समयोऽपि च राजसः ।
रजःसंकल्पमादधन् प्रोत्तेजकोऽभवन्मुहुः ।।५ १।।
कोकिला देवलोकस्था मेनाश्चैव मयूरकाः ।
कूजनानि मिष्टशब्दान् केकाश्चारेभिरे शनैः ।।५ २।।
आम्राः पुष्पैर्मञ्जरीभिः शोभन्ते कामबोधकाः ।
वसन्तो वृक्षवल्लीषु सुरभिपुष्परूपभाक् ।।५३ ।।
सुगन्धाढ्यास्तदा जातो मन्दश्च शीतलोऽनिलः ।
गायका नर्तकाः सर्वे वादकाश्चानुरूपतः ।।५४।।
गायनं नर्तनं वाद्यं ह्यकुर्वन् काममिश्रितम् ।
हर्षः प्रेमा विविशतुर्नरनारायणौ तदा ।।५५।।
धनुषा मोहनाद्याश्च बाणाः क्षिप्ता मनोभुवा ।
अप्सरसां गणो दिव्यो हावभावविलासकृत् ।।५६।।
विविधांगप्रचालनप्रदर्शनप्रमोहनम् ।
चकारोनपञ्चदशवर्षरूपधरस्तदा ।।५७।।
नरनारायणयोश्च पादौ ममर्द भावतः ।
चुचुम्ब बहुधा पार्श्वे गत्वा गत्वा पुनः पुनः ।।५८।।
कामस्पर्शांस्तथा चक्रे गण्डहस्तकसक्थिषु ।
कामो मुमोच वै बाणान् परिश्रममगात् ततः ।।५९।।
सर्वविकारयोगेऽपि नरनारायणौ यथा ।
स्थितौ तु निश्चलनेत्रौ तपस्येव तथा स्थितौ ।।1.208.६०।।
मनागपि न चलितौ ध्यानमग्नौ तथा स्थितौ ।
समाजश्च तदा कामदेवस्य निष्फलोऽभवत् ।।६१।।
तपोध्वंसं प्रकर्तुं ते समर्था नाऽभवन्यदा ।
विमनस्का गताः सर्वे महेन्द्रमूचुरस्थिराः ।।६२।।।
न तत्राऽस्मद्बलं किञ्चिद्विक्रमते हि निष्फलम् ।
सर्वं जातं कृतं यद्यत् कूर्मश्चाज्ञां यथा हरेः ।।६३।।
इन्द्रः श्रुत्वा च तान्सर्वान् नीत्वा तत्स्थलमाययौ ।
पुनः कामप्रयोगाँश्च कारयामास ताँस्तथा ।।६४।।
निष्फला अभवन् सम्यक् समाधिस्थहरेः पुरः ।
नारायणः स्वयं ध्यानादुत्थायाऽऽह समागतान् ।।६५।।
किमर्थमागता यूयमातिथ्यं गृह्यतामिति ।
इत्युक्त्वा फलमूलानि तेभ्यो ददौ स भूरिशः ।।६६।।
नारायणस्ततः प्राह नरं पश्येन्द्रमण्डलम् ।
अप्सरोभिर्महेन्द्रोऽयं गर्वं करोति मानसे ।।६७।।
नैतादृश्योऽन्यत्र सन्ति मोहिका वै सुरांगनाः ।
न च जानात्ययं मे त्वैश्वर्यलेशं विमोहितः ।।६८।।
मयैव रचिताः सर्वा मयि लीना भवन्ति च ।
मयैव पोषिता रूपवत्यो जानाति नैव सः ।।६९ ।।
तस्मादानय चाम्राणां मञ्जरीर्गच्छ मा चिरम् ।
ताश्च वामेन सक्थ्ना त्वं मर्दयाऽत्र हि सन्निधौ ।।1.208.७०।।
नरैणैवं कृते तत्रोत्पन्ना नारी महोज्ज्वला ।
ऊरोर्जाता चोर्वशी सा द्वादशाद्वापि कामुकी ।।७१ ।।
रूपानुरूपाऽवयवा यदग्रेऽप्सरसोऽसिताः ।
निस्तेजस्कास्तदा जाताः कामोऽपि गर्वखण्डितः ।।७२।।
इन्द्रो म्लानाननो जातो दृष्ट्वोर्वशीं नवीकृताम् ।
यस्य स्पर्शेन पुष्पाद्वै श्रेष्ठं त्रिलोकसुन्दरम् ।।७३।।
नारीरत्नं समुत्पन्नं कस्तं मोहयितुं क्षमः ।
मत्वैवं च क्षमायाचनार्थं नारायणं ययौ ।।७४।।
पतितः पादयोः शीघ्रं त्राहि कृतापराधतः ।
उवाच विह्वलो भूत्वा चापराधीव मानवः ।।७५।।
नारायणस्तदा प्राह तव कार्यं कृतं त्वया ।
गणयामि नाऽपराधं स्वर्गं याहि सुखी भव ।।।७६ ।।
तपश्चरामि लोकानां प्रसुखार्थं न तृष्णया ।
राज्यस्य तव चान्यस्य पारमेष्ठ्यस्य वा कृते ।।७७।।
न मे तृष्णास्ति राज्यस्य न ते राज्ये स्पृहा मम ।
वैकुण्ठं चिदचित्सर्वं मम राज्यं हि शाश्वतम् ।।७८।।
मया कृतमिदं विश्वं नाहं मुह्यामि तत्र वै ।
त्वं यथा प्राकृतं मत्वा मोहयितुं च तापसम् ।।७९।।
कृतवान्वै श्रमं सर्वं वृथा नारायणे मयि ।
इन्द्रो नारायणं नत्वा मोहितो चोर्वशीमये ।।1.208.८०।।
मायाकार्ये सुरूपे च ययाचे तां हरेः पुनः ।
भगवन्नीदृशं रत्नं तापसानां च विघ्नकृत् ।।८ १ ।।
स्वर्गयोग्यं च मे भाति नाऽनया ते प्रयोजनम् ।
देहि तस्माच्च मे नाथ याचेऽहं किंकरस्तव ।।८२।।
पुनर्नैवाऽपराधं वै करिष्ये ते तपोविधौ ।
नारायणेन श्रुत्वैतद्दत्तोर्वशी च सुन्दरी ।।।८३।।
इन्द्राय सोऽपि हृष्टः सन् ययौ स्वर्गं समण्डलः ।
यत्रोर्वशी समुत्पन्नानरसक्थिप्रमर्दनात् ।।८४।।
तत्स्थले जलसम्पन्नमुर्वशीकुण्डतीर्थकम् ।
तत्र स्नात्वा विधानेन ह्युपोष्य रजनीद्वयम् ।।८५।।
पूजयित्वा हरिं तत्र नरो नारायणो भवेत् ।
सकामस्य चोर्वशीसन्निभा देवी भवेद् दिवि ।।८६।।
उर्वशीकुण्डमासाद्य कामनाप्रबलो जनः ।
उर्वशीलोकमाप्नुयात् स्नानमात्रेण भावतः ।।८७।।
सदैव भगवाँस्तत्र चोर्वशीकुण्डसन्निधौ ।
प्राणिनां कम्पयन् श्रेयस्तपोमूर्तिर्व्यवस्थितः ।।८८।।
कीटाः पतंगाः शकुन्ता हसन्ति दिवि देवताः ।
भुक्तिमुक्तिसमायुक्ता वयं यूयं विमुक्तिदाः ।।८९।।
उर्वशीकुण्डमासाद्य दिनमेकं वसेन्नरः ।
उर्वशीदक्षिणे भागे ह्यायुधानि जगत्पतेः ।।1.208.९०।।
विद्यन्ते दर्शनात्तेषां न शस्त्रभयभाग्भवेत् ।
बहूनि सन्ति तीर्थानि गिरौ नारायणाश्रिते ।।९१ ।।
तान्यहं वेद सर्वाणि नान्यो वै प्राकृतो जनः ।
य इदं शृणुयाद्भक्त्या श्रावयेद्वा समाहितः ।।९२।।
पठेद्वा पाठयेत्तस्य तत्तत्तीर्थफलं भवेत् ।
सर्वपापानि निर्धूय सालोक्यं प्राप्नुयाद्धरेः ।।।९३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सोमकुण्डतीर्थादित्यतीर्थ चतुःपुरुषार्थतीर्थोर्वशीसमुत्पत्तितीर्थादिवर्णननामाऽष्टाऽधिकद्विशत-
तमोऽध्यायः ।। २०८ ।।