लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०७
[[लेखकः :|]]
अध्यायः २०८ →

श्रीनारायण उवाच-
ततो लक्ष्मि! नारदः स नरेण सहयायिना ।
वैनतेयशिलां नीतः कथिताख्यानकश्च वै ।। १ ।।
कश्यपस्य विनतायां गरुडोऽरुण एव तौ ।
सुतौ चैका च कन्या सौदामिनी नभसि स्थिता ।। २ ।।
गरुडो विष्णुवाहोऽभूदरुणः सूर्यसारथिः ।
विष्णुभक्तौ समर्थौ तौ महाबलपराक्रमौ ।। ३ ।।
बदर्या दक्षिणे गन्धमादने शिखरे हिमे ।
गरुडस्तप आतेपे हरेर्वाहनकाम्यया ।। ४ ।।
क्वचित्फलं क्वचिन्मूलं क्वचिद्वारि ततोऽनिलम् ।
नारायणजपं कुर्वन्स्मरन्मूर्तिं हरेः शुभाम् ।। ५ ।।
पदैकेनोपसंक्रम्य क्ष्मायां जेपेऽतिसंयमः ।
त्रिंशद्वर्षसहस्राणि तपश्चचार दुश्चरम् ।। ६ ।।
ततः प्रसन्नो विष्णुश्च दिव्यपीताम्बरद्वयः ।
चतुर्भुजो निजशस्त्रधरो हास्यसुशोभनः ।। ७ ।।
आविर्बभूव पुरतः कोटीन्दुकान्तिसूज्ज्वलः ।
आजुहाव गरुडं सः वत्स निबोध जागृहि ।। ८ ।।
तथापि नोत्थितो ध्यानाद् दध्मौ शंखं हरिस्तदा ।
तथापि न बहिर्यातस्तदा योगेश्वरो हरिः ।। ९ ।।
ततः प्रविश्य गरुडे प्राणेन्द्रियान्तरात्मसु ।
बहिरानीय च जाग्रतं कृत्वा पुरतः स्थितः । । 1.207.१० । ।
गरुडोऽतिप्रसन्नः सन् दृष्ट्वा ननाम दण्डवत् ।
पुलकांऽकितसर्वांगस्तुष्टाव च कृताञ्जलिः । । ११ । ।
जय त्रिलोकजीवानां प्राणरूप प्रभो हरे ।
अघनाशकगीर्वाणवन्दितचरणाम्बुज । । १२ । ।
सुरारिध्वंससामर्थ्य सुरासुरनमस्कृत ।
स्वभक्तहृद्गतमोहध्वंसकृत् ते नमोनमः ।। १३ ।।
तापत्रयप्रशान्तिकृच्चरणोभ नमोऽस्तु ते ।
जगज्जन्मस्थितिध्वंसकार्यकृत्त्रिस्वरूपक । । १ ४। ।
भक्तमानससद्गम्य शास्त्रवेदादिरूपित ।
सुराऽसुरप्रवन्दितपादपद्म नमोऽस्तु ते ।। १५ । ।
अष्टैश्वर्यसमायुक्त वनमालाविराजित ।
कंजनेत्र तिलपुष्पनासिकाऽलक्त पत्तल । । १६ । ।
स्थलपद्मपत्रतुल्यकरद्वय नमोऽस्तु ते ।
भक्तहृत्कृतनित्यास दिव्यगुणगणान्वित । । १ ७। ।
अवितात्मजन धर्ममूर्ते हरे नमोऽस्तु ते ।
दिव्यैश्वर्यसमजुष्ट पातु मां परमेश्वर । । १८ ।।
एकः सन्नपि सर्वत्राऽनन्तरूपधर प्रभो ।
भक्तकार्यकृते द्राक् चाऽऽयासि नाथ नमोऽस्तु ते ।। १९ । ।
क्वाऽहं पक्षी तमोव्याप्तः क्व त्वं सत्त्वमयः प्रभुः ।
कृपा ते दर्शने हेतुः कृपालोऽस्तु च ते नमः । । 1.207.२० ।।
सापराधस्य लोकस्य रक्षां करोषि सर्वथा ।
हितकृत् सुखकृच्चैव गुणाश्रय नमोऽस्तु ते ।। २१ । ।
यज्ञभुक् विश्वसंपुष्टिकृत् त्राहि मां जनेश्वर ।
कन्याऽम्बराणि नीत्वा च कदम्बवृक्षमास्थित । । २२ । ।
प्रेमभक्तिसमालभ्य दासैककरुणाऽव माम् ।
विश्वदुःखप्रशमन मे दास्यं देहि केशव । । २३ । ।
एवं स्तुतो हरिः साक्षाद् गरुडेन महात्मना ।
समाजुहाव गंगां च पूजार्थं स्वस्य तत्र वै । । २४। ।
ततः पंचमुखी गंगा ह्याविरासीन्नगोपरि ।
तज्जलेन हरेः पूजां चकार विनतासुतः ।। २५ । ।
व्रियतां वर इत्युक्तो गरुडो हरिणा ततः ।
तवैकवाहनः श्रीमान् बलवीर्यपराक्रमः । । २६ । ।
अजेयो देवदैत्यानां स्यामहं ते प्रसादतः ।
शिलेयं मम नाम्ना च तीर्थीभूताऽस्तु सर्वदा । । २७। ।
एतस्याः स्मरणात्पुंसां विषव्याधिर्न जायताम् ।
श्रुत्वा प्राह हरिस्तस्मै सर्वं भवतु तेऽण्डज ।। २८ । ।
बदरीं त्वं प्रयाह्येव नारायणसमीपतः ।
स्नानं नारदतीर्थादावुपवासत्रयं तथा ।।२९।।
कृत्वा मे दर्शनं ते वै सुलभं हि भविष्यति ।
गरुडः शीघ्रमागत्य नत्वा च बदरीं तथा ।। 1.207.३०।।
वह्नितीर्थे कृतस्नानस्तीर्थे च नारदेऽपि च ।
स्नात्वा शिलां समाश्रित्य भक्तिचर्यापरोऽभवत् ।।३ १ ।।
शिला सेयं गारुडी वै कथ्यते तत्प्रसंगतः ।
गन्धमादनपाषाणो वैनतेयी शिलोच्यते ।। ३२।।
तत्रागत्य स्वयं विष्णुर्लीनो नारायणे तदा ।
शिलासान्निध्यमाप्तश्च तेन तीर्थं हि तन्मतम् ।।३३।।
गरुडश्च ययौ विष्णोर्वाहनो विष्णुधाम यत् ।
वैकुण्ठं दिव्यतामाप्तः प्रभोर्योगात्प्रभुर्भवेत् ।।३४।।
वाराह्याः शृणु माहात्म्यं नारदाऽत्र पुरा हरिः ।
रसातलात्समानीय पृथ्वीं संस्थाप्य वारिधौ ।।३५।।
हिरण्याक्षं निहत्यैव बदरीं समुपागतः ।
योगधारणया चात्र वाराहो भगवान् स्थितः ।।३६।।
सेयं शिला च वाराही प्रोच्यते मुक्तिदा सदा ।
गंगाजलेन संस्नात्वा चाहोरात्रे जपेत् स्थितः ।।३७।।
शिलायां दिव्यदृष्टिश्च जायते नात्र संशयः ।
नारसिंह्याश्च माहात्म्यं शिलायाः श्रूयतां शुभम् ।।३८।।
हिरण्यकशिपुं हत्वा गतवान् नृहरिस्तदा ।
अत्युग्रक्रोधदीप्तांगः प्रलयानलसन्निभः ।।३९।।
अभूद्देवैश्च शान्त्यर्थं स्तुतः स्थित्वा सुदूरतः ।
प्रसन्नोऽभूदुवाचैतानावृणीध्वं वरं सुराः ।।1.207.४०।।
श्रुत्वा ब्रह्मा हरिं प्राह रूपं भयावहं तव ।
चात्युग्रं संहर नाथ गृहाण च चतुर्भुजम् ।।४१ ।।
ततो हरिर्विचार्यैव विशालां प्रययौ द्रुतम् ।
गंगाजले स्वयं स्नातः शान्तोऽभूच्च चतुर्भुजः ।।४२।।
यत्र स्थितो हरिः सेयं शिला च नारसिंहिका ।
नृसिंहोपि शिलारूपी जलक्रीडापरोऽभवत् ।।४३ ।।
एवं रूपं शिलाप्रख्यं कृत्वा द्वितीयरूपतः ।
समागच्छद्धरिः सिंहारण्यं रैवतपर्वते ।।४४।।
तत्राऽभवन्महद्युद्धं शरभेण शिवेन वै ।
ततो देहं हि तत्याज नृसिंहो लीलया भुवि ।।४५।।
इत्येवं नारदः पञ्चशिलातीर्थं विधाय च ।
श्रुत्वा सहेतुकं सर्वं नरेण कथितं तदा ।।४६ ।।
ययौ स्नात्वा तीर्थविधिं कृत्वा तीर्थान्तरं ततः ।
ब्रह्मतीर्थं ययौ तत्र श्रुतवान् वृत्तमेव सः ।।४७।।
एकदा नाभिकमले स्थितस्य ब्रह्मणो मुखात् ।
वेदान्नीत्वा ह्यसुरौ द्वौ जग्मतुर्मधुकैटभौ ।। ४८ ।।
तदा हतस्मृतिर्ब्रह्मा किचित्कर्तुं शशाक न ।
अतो बदरिकामेत्य तुष्टाव परमेश्वरम् ।।४९ ।।
ततः कुण्डात्समुत्पन्नो हयशीर्षो निजायुधः ।
पीताम्बरधरः शुक्लस्वर्णवर्णश्चलच्छटः ।।1.207.५ ० ।।
ब्रह्मणा प्रार्थितोऽसुरविनाशाय ययौ प्रभुः ।
विनिहत्याऽसुरौ वेदानादाय ब्रह्मणोऽन्तिकम् ।।५ १ ।।
उपाययौ हयशीर्षा भगवान् प्रददौ च तान् ।
यत्र स्थले ददौ वेदान् स्वस्थोऽभवच्च विश्वसृट् ।। ५२।।
लीनोऽभवच्च भगवान् तत्तीर्थोत्तममुच्यते ।
ब्रह्मकुण्डमिति ख्यातं दिव्यं ज्ञानप्रदं शुभम् ।।। ५३ ।।
दर्शनात्पापनाशश्च ब्रह्मलोकगतिर्भवेत् ।
स्नानाद्विष्णोस्तु वैकुण्ठं यान्ति प्राणधरा यतः ।।५४।।
सिद्धैस्तत्र स्तुता वेदा धर्तुं रूपं द्वयं द्वयम् ।
एकान्ते द्रवरूपेण मूर्तिर्वोऽत्राऽवतिष्ठताम् ।।५५।।
द्वितीया ब्रह्मणा सार्धं ब्रह्मलोकं व्रजेत्पुनः ।
ततो वेदास्तु चत्वारो द्वैधीकृतात्मरूपकाः ।।५६ ।।
ब्रह्मणा ब्रह्मलोकं ते ययुः सार्धं प्रहर्षिताः ।
द्रवरूपा बदर्यां चाऽवसन् शाश्वतसंस्थिताः ।।५७।।
ऋग्यजुःसामाऽथर्वाणो भगवत्पार्श्ववर्तिनः ।
वर्तन्ते तीर्थरूपास्ते तत्र स्नानादिकं कृतम् ।।५८ ।।
नारदेनाथ वेदानामुदगस्ति सरस्वती ।
तत्र जले कृतं स्नानं तीर्थे सारस्वते शुभे ।।५९।।
दर्शनस्पर्शनस्नानपूजास्तुत्यभिवन्दनैः ।
सरस्वत्या न विच्छेदः कुले तस्य कदाचन । ।1.207.६ ० ।।
मन्त्रसिद्धिश्च जायेत वाणी वाग्विभवप्रदा ।
द्रवरूपधरा तत्र तीर्थकृतां हि जायते ।।६ १ ।।
तत्र कृत्वा तीर्थविधिं ततोऽर्वाग्दक्षिणे मनाक् ।
द्रवधाराऽस्ति यत्रेन्द्रस्तपश्चक्रे तु पूर्वजे ।। ६२।।
इन्द्रपदं च तन्नाम द्वितीयमपि विश्रुतम् ।
तपः कृत्वा महाघोरं प्रसन्तुष्य नरायणम् ।।६ ३ ।।
लेभे चेन्द्रपदं सर्वसुरासुरनमस्कृतम् ।
प्रतिमासं त्रयोदश्यां शुक्लायां हरितोषणे ।। ६४।।
उपवासद्वयं कृत्वा पूजयित्वा जनार्दनम् ।
सर्वपापविनिर्मुक्तः शक्रलोके महीयते ।।६५।।
तत्रैव मानसोद्भेदनामकं तीर्थमस्ति हि ।
यत्र स्थल्यां महर्षीणां वासोऽस्ति नित्यदा मतः ।।६६ ।।
मानसं चिदचिद्ग्रन्थिमुद्ग्रथ्नन्ति च सर्वशः ।
भिन्दन्ति हृदयग्रन्थीश्छिन्दन्ति बहुसंशयान् ।।६७।।
कर्माणि क्षपयन्त्यस्मान्मानसोद्भेद इत्यभूत् ।
परितः ऋषयस्तत्र वसन्ति तापसाः सदा ।।६८।।
गिरिदरीषु फलसुमूलवार्यनिलाऽशनाः ।
ते त्रिषवणस्नातारः सदा जीतेन्द्रियान्तराः ।।६९।।
यदा तत्र जलबिन्दुं लभते पुण्यवान् जनः ।
भवति व्याससदृशो यमपितृसमः क्रमात् ।।1.207.७०।।
सकामो वा च निष्कामो मानसोद्भेदके च यत् ।
भुक्तिं मुक्तिं समिच्छन्वा करोति कर्म सद्विधम् ।।७ १।।
फलं भुक्त्वा पुनर्मुक्तिं लभते हि न संशयः ।
स्वर्गादिषु फलं भुक्त्वा पुरुषार्थं परं लभेत् ।।७२।।
अथ तस्मात्पश्चिमेऽस्ति वसुधारेतिसंज्ञितम् ।
तीर्थं तत्र ययौ सोऽयं नारदो नरसंयुतः ।।७३।।
त्रिलोक्यां सर्वतीर्थेभ्यः श्रेष्ठो बदरिकाश्रमः ।
श्रुत्वेति वसवश्चाष्टौ नारदात्प्रथमात् ययुः ।।७४।।
त्रिंशद्वर्षसहस्राणि दलांबुप्राशनास्तपः ।
चक्रुरुपाययुः सिद्धिं नारायणस्य दर्शनम् ।।७५।।
दर्शनेन प्रसंहृष्टा अवापुः सुखमुत्तमम् ।
वैष्णवीं प्राप्य दीक्षां ते ययुः स्थानं स्वकं स्वकम् ।।७६।।
अत्र पुण्यवतां ज्योतिर्दृश्यते जलमध्यतः ।
तत्र स्नात्वा पूजयित्वा नारायणं नरं तथा ।।७७।।
इह सर्वं सुखं भुक्त्वा यान्त्यन्ते चाऽक्षरं पदम् ।
दिनत्रयमुपोषिताः सिद्धान्पश्यन्ति साधवः ।।७८।।
आमो भवश्च सोमश्च धरश्चैव नलोऽनिलः ।
प्रत्यूषश्च प्रभावश्च वसवोऽष्टौ वसन्ति ये ।।७९।।
तानपि तत्र पश्यन्ति दिव्यरूपाँश्च तैर्थिकाः ।
मलिनाश्चापि शुद्ध्यन्ति मुक्तिभाजो भवन्ति च ।।1.207.८० ।।
वसुधारात्मके तीर्थे स्नात्वा च नारदस्ततः ।
पञ्चधारात्मकं तीर्थं ययौ नैर्ऋत्यदिग्भवम् ।।८ १।।
प्रभासं पुष्करं कुरुक्षेत्रं गयां च नैमिषम् ।
एतानि पञ्चतीर्थानि पापिनां पापदोषतः । ।८२।।
मलिनानि ययुर्विश्वसृजं नैर्मल्यहेतवे ।
श्रुत्वा ब्रह्माऽऽगमहेतुं स्मृत्वा बदरिकाश्रमम् ।।८३ ।।
प्राह प्रगच्छत क्षिप्रं हरेर्बदरिकाश्रमम् ।
यत्र प्रवेशमात्रेण पुण्यं स्यात्पापनाशकम् ।।८४।।
ततो नत्वा ययुः सर्वतीर्थानि बद्रिकाश्रमम् ।
तत्र प्रवेशमात्रेण निरैनांसि बभूविरे ।।८५।।
ततो द्विरूपमास्थाय तिष्ठन्ति द्रवरूपतः ।
स्वस्थानेऽपि गतान्येव वसन्ति स्वीयरूपतः ।।८६।।
तेषु स्नात्वा हरिं नत्वा पञ्चोपवासकृज्जनः ।
इह भोगान्बहून् भुक्त्वा हरेः सालोक्यमाप्नुयात् ।।८७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वैनतेयशिला गारुडीशिला पंचमुखीगंगा नारसिंहीशिला-ब्रह्मतीर्थ सरस्वतीतीर्थ द्रवधारेन्द्रपदतीर्थ मान-सोद्भेद वसुधारा पंचधारातीर्थादिनिरूपणनामा सप्ताधिकद्विशततमोऽध्यायः ।।२०७।।