लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २१०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २१०
[[लेखकः :|]]
अध्यायः २११ →

श्रीनारायण उवाच-
श्रूयतां च महालक्ष्मि! नारदो हरिभक्तिमान् ।
जगाम भवनं स्वस्य ब्रह्मा तुष्टोऽभवद् बहु ।। १ ।।
तीर्थयात्रां विधायाऽभ्यागतस्य नारदस्य च ।
योग्यमुत्सवमारेमे समाहूय सुरादिकान् ।। २ ।।
नारायणः स्वयं कृष्णो विष्णुश्चापि रमापतिः ।
शिवश्चान्ये लोकपालाः ऋषयश्च समागताः ।। ३ ।।
ब्रह्मसभा तदा दिव्या शुशुभे ब्रह्मधामवत् ।
ब्रह्मा पुत्रं नारदं वै सभायां शृण्वतां सताम् ।। ४ ।।
नारदं प्राह धर्म्यं सद्वचः शंकरसन्निधौ ।
उपबर्हणगन्धर्वः पंचाशत्कामिनीपतिः ।। ५ ।।
जन्मान्तरे भवानासीदधुना ब्रह्मणः सुतः ।
तास्वेका च सती मालावती तपसा शंकरम् ।। ६ ।।
आराध्य च वरं लेभे वाञ्छितं नारदं पतिम् ।
सा च सृंजयकन्याऽस्ति स्वर्णष्ठीवीसहोदरा ।। ७ ।।
तां विवाहं कुरुष्वेति शंकराज्ञां प्रपालय ।
सुन्दरीं सुन्दरीष्वेव पातिव्रतपरायणाम् ।। ८ ।।
कमनीयां हरवरात् शश्वत्सुस्थिरयौवनाम् ।
विधात्रा लिखितां भाले विवाहय च नारद ।। ९ ।।
त्वया पूर्वं यथोक्तं वै तीर्थयात्रोत्तरं तथा ।
विवाहभाग्यमापन्नं प्राक्तनं केन वार्यते ।। 1.210.१० ।।
नाऽयुक्तं क्षीयते कर्म कालकोटिशतैरपि ।
अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ।। १ १।।
ब्रह्मणश्च वचः श्रुत्वा पित्राज्ञापालकस्तदा ।
नारदो विनयं कृत्वा ननाम सर्वदेवताः ।। १२।।
पित्राऽऽदिष्टं सदैवेदं धार्यते च मया पुनः ।
भवतां कृपया तत्र बन्धनं मे भवेन्नहि ।। १ ३।।
वरं वृणोमि भगवद्भक्तिमन्मानसं भवेत् ।
कृष्णो नारायणो विष्णुः शिवश्चाहुस्तथास्त्विति ।। १४।।
प्रणम्य प्रययौ देवान् नारदः सृंजयालयम् ।
दृष्ट्वा स मोहितो रम्यां दिव्यां सृंजयकन्यकाम् ।। १५ ।।
तपस्विनीं महाभागां विष्णुव्रतपरायणाम् ।
स्वीकृत्य मनसा तां च शुभां प्रोवाच नारदः ।। १६ ।।
बाले जानासि मां वा न त्वां जानामि तु पूर्वजाम् ।
मालावतीतिविख्यातां गन्धर्वप्रमदोत्तमाम् ।। १७।।
श्रुत्वा मालावती दृष्ट्वा नारदं च मुमोह च ।
प्रत्यभिज्ञाय पूर्वस्य जन्मनः पतिमेव च ।। १८।।
पादयोः पतिता शीघ्रं चुचुम्ब वरणाय सा ।
नारदोऽपि ययाचे तां तत्पितुः पुरतः स्थितः ।। १ ९।।
मालावत्यभिप्रायं च ज्ञात्वा श्रीसृंजयः स्वयम् ।
वाक्दानेन ददौ तस्मै नारदाय स्वपुत्रिकाम् ।। 1.210.२० ।।
तिलकं भोजनं कृत्वा वस्त्रशाटीं प्रदाय च ।
नारदः श्वशुरं नत्वा श्वश्रूं पृष्ट्वा प्रियां तथा ।। २१ ।।
ययौ ब्रह्मसभां रम्यां सर्वदेवाधिवासिताम् ।
प्रणम्य पितरं शान्तः सर्वं तत्त्वमुवाच तम् ।। २२।।
ब्रह्मा प्रहृष्टवदनः श्रुत्वा वाक्ग्दानमंगलम् ।
चक्रे समुत्सवं श्रेष्ठं सर्वानाहूय चेश्वरान् ।। २३ । ।
मुनीनृषींस्तथा पितॄन् देवान् दैत्यांश्च दानवान् ।
काश्यपीश्च प्रजाः सर्वाश्चकाराऽऽहूय मंगलम् ।। २४।।
सृंजयः प्रेषयामास विप्रेण लग्नपत्रिकाम् ।
ब्रह्मा स्वीकृत्य तां पुत्रं लोकाचारमकारयत् ।। २५।।
विवाहस्य मुहूर्तं च वाचयामास तत्र वै ।
भोजनानि विविधानि कारयामास विश्वसृट् ।। २६ ।।
दानयानोपकरणपेयाऽऽधेयानि कृत्स्नशः ।
भोज्यजातानि वस्तूनि कारयामास विश्वसृट् ।। २७।।
शुभे क्षणे स्वयं ब्रह्मा कोट्यब्जाऽर्बुदकोटिभिः ।
सुरासुरैर्जनवाहैस्तत्तन्नारीसमन्वितैः ।। २८ ।।
सहितो रत्नयानैश्च वरयात्रामकल्पयत् ।
पुत्रं कृत्वा च पुरतो जनसेनां सुशोभिताम् ।। २९ ।।
महीमानाऽर्बुदकोटिकोट्यर्बुदसमन्विताम् ।
नीत्वा शंभ्वच्युतयुक्तो ययौ सृंजयमन्दिरम् ।। 1.210.३० ।।
सृंजयः सत्कृतयेऽभिययौ स्वजनबान्धवैः ।
वरस्य वाहिनीं स्वस्योद्याने चास्थापयत्क्षणम् ।। ३१ ।।
जलपानं च विश्रान्तिं कारयित्वा च भोजनम् ।
वरं सायं भूषयित्वा निनाय मण्डपं प्रति ।। ३२।।
कन्यायाश्च कृते वस्त्रभूषगानि बहूनि च ।
प्रेषयामास रम्याणि ब्रह्मा वै स्वानुरूपतः ।। ३२ ।।
द्वारे पूजां शिष्टाचारं विधाय सृंजयः ।
लोकाचारं विधायाऽथाऽपूजयन्नारदं वरम् ।। ३४।।
मुख्याग्निवेदिकायाश्च समीपेऽतिष्ठिपद्वरम् ।
कन्यां शृंगारशोभाढ्यामानयामास तत्र च ।। ३५ ।।
ब्राह्मणैर्मुनिभिस्तत्र सप्तर्षिभिश्च भूसुरैः ।
मांगल्यमन्त्राः पठिता देहशुद्धिश्च कारिता ।। ३६ ।।
वस्त्रग्रन्थिं बन्धयित्वा वरमालां समर्प्य च ।
कन्याहस्तं वरहस्ते ददौ सृंजयराट् स्वयम् ।। ३७।।
वेदघोषास्तदा जाता वाद्यान्यवादयँस्तथा ।
वधूः कवलमादाय नारदास्ये ददौ तदा ।। ३८।।
नारदोऽपि नववध्वा मुखे ग्रासं ददौ शुभम् ।
अग्नेः प्रदक्षिणं कृत्वा होमकार्यं चकार वै ।। ३९ ।।
शिष्टाचारं परं कृत्वा दत्त्वा दानानि भूरिशः ।
विवाहकार्यं सर्वं सः समाप्तमकरोत्तदा ।।1.210.४ ० ।।
कन्यायाश्च यौतद्रव्यं वरस्यापि प्रपूजनम् ।
दत्तं कृतं जनैः सर्वैर्भोजनं स्वीकृतं ततः ।।४ १ ।।
निद्रां कृत्वा समाजश्च प्रातर्मंगलवादनम् ।
नर्तनं गायनं गन्धर्वाप्सरसां व्यलोकयत् ।।४२ ।।
बहुदानानि दत्तानि भोजनानि च सर्वथा ।
कारितानि सृंजयेन प्राघूणिकाः समानिताः ।।४३ ।।
सर्वस्वं दक्षिणां दत्त्वा मणिमुक्तादिकं तथा ।
पुटांजलियुतो भूत्वा परिहारं चकार सः ।।४४।।
सृंजयश्च शुभो राजा कन्यां समर्प्य भावतः ।
वाहिनीं यापयामास विनयेन मुदान्वितः ।।४५ ।।
सृंजयस्तस्य पत्नी च कन्यावियोगसंभवम् ।
सेहाते न तदा दुःखं रुरुदाते क्षणं ततः ।। ४६ ।।
कन्यापि रुरुदे स्नेहाद् वियोगार्तिसुमिश्रितात् ।
प्रणम्य पितरौ कन्या रुदन्तौ मातरं तथा ।। ४७।।
आश्लिष्य धैर्यमादाय चाऽऽरुरोह रथं विधेः ।
गृहीत्वा च सभार्यं तं पुत्रं धाता मुदान्वितः ।।४८ ।।
लोकाचारं च सत्कृत्य ब्रह्मलोकं ययौ सुखम् ।
ऋषीन्मुनींस्तथा देवान् पितॄन् सिद्धाँश्च मानवान् ।। ४९।।
विप्राँश्च भोजयामास सांऽगे मंगलकर्मणि ।
दानानि दापयामास वादयामास दुन्दुभिम् ।।1.210.५ ० ।।
यापयामास सर्वांश्च महीमानान्सुराऽसुरान् ।
नारदस्तु मुनिश्रेष्ठो लिखितेन स्वकर्मणा ।।५ १ ।।
सुरम्ये पुष्पतल्पे च सुगन्धिचन्दनार्चिते।
स रेमे रमया सार्धं बुबुधे न दिवानिशम् ।।५२।।
एकदा नारदस्तत्र वटमूले व्यवस्थितः ।
तत्राऽऽजगाम नग्नश्च प्रज्वलन् ब्रह्मतेजसा ।।।५३।।
सनत्कुमारो भगवान् बालकः पञ्चहायनः ।
अचूडोऽनुपनीतश्च वेदसन्ध्याविहीनकः ।।५४।।
कृष्णमन्त्रं जपन् त्रिभिर्भ्रातृभिः सहितस्तदा ।
वैष्णवानामग्रणीशो ज्ञानिनां च गुरोर्गुरुः ।।५५।।।
नारायणो गुरुर्यस्य दर्शनान्मुक्तिदो मुनिः ।
आराद् दृष्ट्वा नारदस्तं भ्रातरं च सतां वरम् ।।५६।।
नत्वा च दण्डवत् भूमौ ददावासनमुत्तमम् ।
उवाच बालकस्तत्र प्रहस्य नारदं शुभम् ।।५७।।
अये भ्रातः किं करोषि कुशलं युवतीपते ।
स्त्रीपुंसोर्वर्धते प्रेम कामवेगान्नवं नवम् ।।५८।।
अर्गलं ज्ञानमार्गस्य भक्तिमार्गनिरोधकम् ।
मोक्षमार्गव्यवधानं शश्वद्बन्धनदं मतम् ।।५९।।
नारायणाऽमृतं त्यक्त्वा विषं विषियजाऽमृतम् ।
विषयेऽतिप्रसक्तो वै मत्वा भुंक्तेऽतिमूढवत् ।।1.210.६०।।
सुधां त्यक्त्वा विषं चाऽत्ति मायामोहवशंगतः ।
त्वं तु भक्तश्चात्मवेत्ता जीवन्मुक्तोऽसि सर्वदा ।।६ १।।
निर्गच्छ तपसे भ्रातर्मायां पत्नीं विहाय वै ।
स्थिते नारायणे पृथ्व्यां भज तं तपसा सदा ।।६२।।
गृहाण मम मन्त्रं च कृष्ण इत्यक्षरद्वयम् ।
नारायणान्मया लब्धस्ते मन्त्रं तं ददाम्यहम् ।।६३।।
इत्युक्त्वा प्रददौ मन्त्रं ददौ शुभाशिषं तथा ।
गोलोकं प्रययौ द्रष्टुं भगवन्तं सनातनम् ।। ६४।।
नारदो मालया नित्यं जपति द्व्यक्षरं मनुम् ।
श्रीकृष्णे निश्चलां भक्तिं पूर्वकर्मनिकृन्तनीम् ।।६५।।
चकाराऽभ्यासवैराग्यसहितामात्मवेदिनीम् ।
भार्यां द्विलक्षवर्षाणि भुक्त्वा सुताः सुताँस्तथा ।।६६ ।।
लक्षानुत्पाद्य गन्धर्वान् गन्धर्वीर्लक्षकन्यकाः ।
सर्वापत्यानि गान्धर्वलोके संस्थाप्य शक्तितः ।।६७।।
सर्वांश्च वैष्णवान् कृत्वा भक्तिं निर्दिश्य माधवे ।
पत्नीं च रागरहितां कृत्वा भक्तिं प्रदिश्य च ।।६८।।
तत्कौशल्यं सुतेभ्यश्च विनिर्दिश्य ययौ मुनिः ।
कृतमालानदीतीरे तपसे स मनोऽकरोत् ।।६ ९।।
तत्र ददर्श शंभुं सः पूर्वगुरुं सनातनम् ।
दृष्ट्वा च नारदो मूर्ध्ना प्रणनाम शिवं गुरुम् ।।1.210.७०।।
शिवः प्रोवाच दृष्ट्वा त्वां प्रसन्नोऽहं भवामि वै ।
भक्तानां दर्शनं यत्र सुदिनं तच्छरीरिणाम् ।।७ १ ।।
अयं हि परमो लाभो भक्तानां संगमो यदा ।
स स्नातः सर्वतीर्थेषु यो ददर्श च वैष्णवम् ।।७२ ।।
गोलोके कृष्णदत्तो वै मन्त्रो द्व्यक्षर एव यः ।
कृष्ण इति मया प्राप्तो धर्मेण ब्रह्मणा तथा ।।७३ ।।
धर्मो नारायणायाऽर्थसहितं प्रददौ ततः ।
ब्रह्मा सनत्कुमाराय तुभ्यं दत्तश्च तेन वै ।।७४।।
मन्त्रग्रहणमात्रेण नरो नारायणो भवेत् ।
पञ्चलक्षजपेनाऽस्य पुरश्चरणमुच्यते । ।७५ ।।
ध्यानं च पापदहनं कृष्णं ध्यायेत्तु वैष्णवः ।
किशोरमूर्तिं जीमूतसमवर्णं मनोहरम् ।।७६ ।।
पीताम्बरं घनश्यामं कोटिकन्दर्पसुन्दरम् ।
अमूल्यरत्नखचिताभूषणादिविभूषितम् ।।७७।।
चन्दनोक्षितसर्वांगं कौस्तुभेन विराजितम् ।
मयूरबर्हचूडं च रत्नमालाविराजितम् ।।७८ ।।
प्रसन्नहास्यविलसन्मुखं सौन्दर्यभाजनम् ।
भक्तानुग्रहकर्तारं श्रीकृष्णं सर्वदा भजे ।।७९ ।।
शंभुरेवं स्मारयित्वाऽदृश्यभावं गतस्ततः ।
नारदोऽपि हरिं स्मृत्वा तपः कृत्वा सुदारुणम् ।।1.210.८ ० ।।
भक्त्या नारायणं प्राप्य देहं दिव्यं विधाय च ।
नित्यमुक्तस्वरूपोऽभूत् गोलोकाद्यहतसृतिः ।।८ १ ।।
इति ते कथितं लक्ष्मि! नारदस्य विवाहनम् ।
यच्छ्रुत्वापि विरज्येत किमन्यच्छ्रोतुमिच्छसि ।।८२ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारदस्य ब्रह्मसभागमनं, ब्रह्मणा विवाहाय कथितम्, सृंजयस्य पुत्र्या मालावत्या विवाहाय नारदस्य वरयात्रा, लग्नं, लक्षपुत्रान् लक्षपुत्रींश्चोत्पाद्य द्विलक्षवर्षोत्तरं कृतमालातीरे तपसे गमनमित्यादिनिरूपणनामा दशाऽधिकद्वि-शततमोऽध्यायः ।। २१० ।।