लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०६
[[लेखकः :|]]
अध्यायः २०७ →

श्रीलक्ष्मीरुवाच-
तत्राश्रमे च मुनिना तीर्थानि कानि कानि वै ।
कृतानि भगवन् ब्रूहि पावनानि समासतः ।। १ ।।
श्रीनारायण उवाच-
गंगायां नारदः स्नात्वा भूत्वा दिव्यवपुर्धरः ।
ययौ प्राक् बदरीं याऽस्त्यक्षरब्रह्माऽवतारिणी ।। २ ।।
नत्वा स्तुत्वा पूजयित्वा तथा कृत्वा प्रदक्षिणम् ।
पत्रं च बदरं तस्या अत्त्वा प्रसादरूपकम् ।। ३ ।।
स्निग्धं चाऽकण्टकं दिव्यं हरितं पल्लवान्वितम् ।
सपुष्पं सफलं रम्यं ध्यात्वा तद्रूपमान्तरे ।। ४ ।।
जगाम च ततो वह्नितीर्थं वै पावनं मुनिः ।
जलं पपौ तदाख्यानं शुश्राव च नराननात् ।। ५ ।।
पुरा समाजः समभूदृषीणामूर्ध्वस्रोतसाम् ।
गंगायमुनासंयोगे प्रयागे पुण्यभूतले ।। ६ ।।
तत्राऽश्वमेधे हुतभुक् संप्रष्टुमुपचक्रमे ।
सर्वदुर्भक्षणोद्भूतपातकाऽऽलिप्तचेतसः ।। ७ ।।
कथं स्यात्पातकान्मुक्तिर्मम ब्रह्मवित्तमाः ।
व्यासः प्राह तदा वह्निं बदरीं शरणं व्रज ।। ८ ।।
यत्रास्ते भगवान् भक्तपापहाः पुरुषोत्तमः ।
तत्र गंगाजले स्नात्वा हरेः कृत्वा प्रदक्षिणाम् ।। ९ ।।
दण्डवत्प्रणिपातेन सर्वदोषक्षयो भवेत् ।
ततोऽग्निर्बदरीं प्राप्य स्नात्वा गंगांभसि तथा ।। 1.206.१ ०।।
नरनारायणं गत्वा नत्वा स्तुतिं चकार सः ।
अग्नेश्च पावकं चात्मपावकं ब्रह्मपावकम् ।। ११ । ।
मायायाः पावकं तीर्थपावकं प्रणमाम्यहम् ।
ऋषीणां तपसां पुण्यफलदं मोक्षदं प्रभुम् । । १२ ।।
विद्याप्रदं धर्मदं च योगदं तापसं हरिम् ।
सुखदं वल्कलवस्त्रमीडे शक्त्यष्टकं गुरुम् । । १३ ।।
श्रुत्वा नारायणः प्राह वरं वरय पावक ।
अग्निः प्राह हरे सर्वभक्षोऽहं दूषणं महत् । । १४ । ।
दोषनाशः कथं स्याद्वै भयं दोषात् सुदुस्तरम् ।
नारायणस्तदा प्राह क्षेत्रस्याऽस्य तु दर्शनम् । । १५ ।।
मत्प्रसादात्प्राणिनां च तव माऽस्तु च पातकम् ।
यत्र स्नातश्च वह्ने त्वं तदग्नितीर्थमद्यतः ।। १६ ।।
ख्यातं भविष्यति क्ष्मायां सर्वभक्षणपापहृत् ।
तव वासश्च कलया मत्प्रतापात्सदाऽस्तु च ।। १ ७।।
ततः स्नात्वा च तत्तीर्थे नारदो लोकपावनः ।
जगाम च शिलापञ्चतीर्थानि कर्तुमादरात् ।। १८ ।।
नारदी नारसिंही च वाराही गारुडी तथा ।
मार्कण्डेयीति विख्याताः शिलाः परमपावनाः ।। १९ ।।
नारदश्च मुनिर्ब्राह्मः प्रथमे जन्मनि स्वयम् ।
दर्शनार्थं महाविष्णोस्तपस्तेपेऽतिदारुणम् ।। 1.206.२० ।।
षष्टिवर्षसहस्राणि शिलायां वायुभोजनः ।
वृक्षवृत्तिस्थितं तं च विष्णुर्ब्राह्मणरूपधृक् ।। २ १ ।।
दर्शनं दत्तवान्प्राह किमिति क्लिष्यते मुने ।
यदीप्सितं मम ब्रूहि तपसाऽस्ति शुचिर्भवान् ।। २२ ।।
नारदः प्राह करुणाकरोऽरण्येऽस्ति को भवान् ।
तव दर्शनमात्रेण मनो याति प्रसन्नताम् । । २३ । ।
तावन्नारायणस्तत्र शंखचक्रगदाऽब्जवान् ।
पीताम्बरः सकौस्तुभवनमालोपवीतकः । । २४।।
श्रीवत्सांकितवक्षाश्च कमलास्वर्णरेखकः ।
सुनन्दाद्यैः पार्षदैश्च सेवमानः सुहास्यवान् ।। २५। ।
दर्शयामास रूपं स्वं नारदाय तपस्विने ।
दृष्ट्वा तं सहसोत्थाय नमस्कृत्य कृतांजलिः । । २६ ।।
तुष्टाव परमात्मानं करुणासागरं प्रभुम् ।
जगतामीश्वरं साक्षिरूपं भक्तकृतादरम् ।। २७ । ।
कृपालुं तापसं दिव्यं वन्दे प्रसीद पावन! ।
सतां लोकस्य रक्षायै हिताय तप आदधन् ।। २८ । ।
तपःफलप्रदातर्मे प्रसीद सत्त्वमूर्तिमन्! ।
कोटिकन्दर्पलावण्यविलासः कामवर्जितः ।। २९ ।।
ब्रह्मचार्यसि देवेश प्रसीद सत्यवाग् विभो।
आश्रितानां कल्पवृक्षो दीनानां दुःखहारकः ।। 1.206.३० ।।
ज्ञानेन बन्धहा ब्रह्मसुखदाता प्रसीदताम् ।
जीवान्तरिन्द्रियसूक्ष्मभूताऽन्तर्यामिनीश्वर ।। ३१ ।।
ब्रह्मसुखानुभूते त्वं प्रसीद चिदचिन्मय ।
यदाश्रिताः सुरा दुःखाम्बुधिं तरन्ति गोपदम् ।। ३ २।।
नमस्ते सर्वदा परब्रह्मणे ब्रह्मणे तथा ।
वासुदेवाय कृष्णाय भूम्ने नारायणाय च ।।३३ ।।
महाविष्णुस्वरूपाय वैराजाय च ते नमः ।
नमो हिरण्यकोशाय त्रिदेवेभ्यो नमो नमः ।। २४ ।।
अद्य मे सफलं जन्म चाद्य मे सफलं तपः ।
अद्य मे सफलं ज्ञानं श्रीहरे तव दर्शनात् ।। ३५।।
श्रुत्वा प्राह हरिस्तं च तुष्टोऽहं तपसा तव ।
स्तोत्रेणाऽतिसुतुष्टोऽहं वरदोऽहं तवाऽग्रतः ।। ३६ ।।
सर्वश्रेष्ठो मम भक्तस्त्वं चासि सिद्धकामनः ।
वरं वरय भद्रं ते सर्वं ददामि मा चिरम् ।। ३ ७।।
नारदः प्राह भक्तिं ते पदयोर्देहि निश्चलाम् ।
एषा शिला मे तपसां स्थानं तीर्थं सदाऽस्तु च ।। ३८ ।।
मच्छिलासन्निधानं तु न त्याज्यं भवता क्वचित् ।
मत्तीर्थदर्शनात्स्पर्शात्स्नानादाचमनात् तथा ।। ३९ ।।
पुनर्देहं न चाप्नुयात् तृतीयोऽस्तु वरश्च मे ।
श्रुत्वा नारायणः प्राह एवमस्तु सदाऽनघ ।।1.206.४० ।।
चराचरविदेहोऽहं तव तीर्थे वसाम्यहम् ।
तव भक्तिः शाश्वती च मयि भवतु नारद ।।४ १ ।।
इत्युक्त्वा च हरिस्तत्र मूर्तावन्तरधीयत ।
प्रथमो नारदो हृष्टो ययौ मधुपुरीं ततः ।। ४२ ।।
इत्यस्ति नारदशिला तीर्थं परमपावनम् ।
चतुर्थो नारदस्तत्र तीर्थं कृत्वा ययौ पुनः ।।४३ ।।
मार्कण्डेयशिलायाश्च तीर्थार्थं नरसंयुतः ।
पुरा त्रेतायुगस्याऽन्ते मृकण्डुतनयो महान् ।।४४।।
मार्कण्डेयस्तपश्चक्रे शिलायां तत्स्थलं ययौ ।
पुरा नाम्ना मृगशृंगो मुनिस्त्वासीत् तपोधनः ।।४५।।
तस्य भार्याश्चतस्रश्च पातिव्रत्यपरायणाः ।
सुवृता कमला चैव विमला सुरसा त्विति ।।४६ ।।
कालेन महिषी तस्य सुवृता सुषुवे सुतम् ।
जातकर्म कुमारस्य पिता चक्रे विधानवत् ।।४७।।
चकार नामकरणं मृकण्डुमिति विश्रुतम् ।
निःशंकाश्च मृगगणाः कण्डूयन्तेऽस्य विग्रहे ।।४८।।
तस्मान्मृकण्डुरिति च नाम सार्थकमेव तत्। ।
कृतोपनयनः पित्रा वेदानध्यैष्ट सर्वशः । ।४९।।
मुद्गलस्य मुनेः कन्यामुपयेमे मरुद्वतीम् ।
मृकण्डुरनपत्योऽभूदिदमेवाऽभ्यचिन्तयत् ।। 1.206.५० ।।
अहं सदारो गच्छामि राजधानीं शिवस्य वै ।
भक्तप्रियः शिवो यत्र कर्णे जपति तारकम् । । ५१ । ।
गत्वा तत्र प्रथमतो मणिकर्ण्यां विधानतः ।
स्नानं कृत्वा महादेवं नत्वोवास यथासुखम् । । ५२ ।।
शंकरं तोषयामास तपसा सह भार्यया ।
तुष्टश्चाह पिनाकी त्वं मत्तो वरं गृहाण च ।।५ ३ ।।
सोऽपि वव्रे वरं शंभो पुत्रं देहीति मा चिरम् ।
शंभुस्तस्याऽनपत्यस्य भालं दृष्ट्वा ह्युवाच तम् ।। ५४ ।।
सप्तजन्मसु तेऽपत्यं नास्तीति वैधसी लिपिः ।
तथापि तपसा तुष्टो ददामि पुत्रमेकलम् । ।५५।।
किमिहेच्छसि पुत्रं त्वं निर्गुणं चिरजीविनम् ।
आहोस्विदेकं सगुणं सर्वज्ञं षोडशाब्दिकम् । ।५६।।
इत्युक्तः सोपि धर्मात्मा नाहमिच्छामि निर्गुणम् ।
अल्पायुरपि पुत्रो वा सर्वज्ञोऽस्तु जगत्पते ।। ५७ । ।
शंभुः प्राह भविता ते षोडशायुः सुतो मुने ।
धार्मिको गुणवान् ख्यातः सर्वज्ञः कीर्तिमाँस्तथा ।। ५८ ।।
इत्युक्त्वा प्रययौ शंभुर्मुनिर्ययौ निजाश्रमम् ।
काले भार्याऽभवत्तस्य चान्तर्वत्नी मरुद्वती ।। ५९ । ।
तनयः समये तस्यां मरुद्वत्यामजायत ।
जातकर्म नामकर्म पिता चकार यत्नतः ।। 1.206.६० ।।
संस्कारान् कृतवान् सर्वान् पञ्चमेऽब्दे व्रतं ददौ ।
वेदान्स विधिनाऽध्यैष्ट विद्यां जग्राह शक्तिमान् ।। ६१ । ।
संप्राप्ते षोडशेऽब्दे तु पिता तस्य मृकण्डुकः ।
शोकमग्नोऽभवत् दृष्ट्वा पुत्रमन्तिकमृत्युकम् ।। ६ २।।
पुत्रोऽपि पितरं प्राह किं ते शोकस्य कारणम् ।
मृकण्डः प्राह तनयं शोचामि तव कारणम् ।। ६३ ।।
आयुः षोडशवर्षाणि तव दत्तं पिनाकिना ।
स कालोऽयं समायातस्तस्माच्छोचामि पुत्रक ।। ६४ ।।
पित्रेति कथितं श्रुत्वा मार्कण्डेयोऽब्रवीदिदम् ।
मन्निमित्तः पितः शोकं कदाचित्त्वपि मा कृथाः ।। ६५।।
प्रयतिष्ये यथा तात यथा यास्याम्यमर्त्यताम् ।
समाराध्य परात्मानं हृदयस्थं हरिं प्रभुम् । । ६६।।
इति निर्णीय तातेन सहितः स ययौ द्रुतम् ।
मथुरायां यमुनायां स्नातुं राधयितुं हरिम् ।। ६७।।
गत्वा तत्र यमुनायास्तीरे तस्थौ स्मरन् हरिम् ।
द्वादशाक्षरमन्त्रस्य जपं कुर्वन्पुपूज तम् ।।६८।।
यदृच्छया नारदोऽपि मथुरायामगात्तदा ।
मृकण्डुस्तं निरीक्ष्यैव सपुत्रस्तं ननाम च ।।६९।।
सत्कृतः स्वागताद्यैश्च नारदो म्लानभावतः ।
प्राह दृष्ट्वा पुत्रभाले लेखां मृत्युप्रयायिनीम् ।।1.206.७० ।।
मृकण्डोऽयं तव पुत्रः स्वल्पायुर्दृश्यते खलु ।
मृकण्डुः प्राह देवर्षे दीर्घायुष्यं प्रकल्पय ।।७१ ।।
नारदः प्राह विप्रर्षे लेखां वेधःप्रकल्पिताम् ।
मार्जयितुं न वै शक्ताः सुराऽसुरास्तथाऽपरे ।।७२।।
कर्मसापेक्षका लेखा लिख्यन्ते जन्मना सह ।
आयुर्विद्या च वित्तं च यशो निधनमित्यपि ।।७३।।
पञ्चैवैतानि सृज्यन्ते गर्भस्थस्यैव देहिनः ।
तथापि सन्ति सन्तो वै लिपिं मार्जयितुं क्षमाः ।।७४।।
सतामाशीर्वचनैश्च सदा दुःखं सुखायते ।
कुभाग्यं लीयते चैवोत्पद्यते भाग्यसौष्ठवम् ।।७५।।
पापं प्रलीयते पुण्यं जन्यते च सतां बलात् ।
मायां पापं च कर्म च कालं दुर्भाग्यमित्यपि ।।७६।।
तस्य वै परिवर्तन्ते येन सन्तः प्रतोषिताः ।
महाभागवताः सन्तः ऋषयश्च तपोधनाः ।।७७।।
प्रसन्ना यत्र जायन्ते तत्र भद्राणि कोटिशः ।
सन्तः प्रसन्ना जायन्ते प्रणामस्तुतिसेवनैः ।।७८।।
तस्मादतिथयो ये ये समागच्छेयुरत्र हि ।
तथा च तीर्थयात्रायां मिलेयुर्ये च तारकाः ।।७९।।
तेभ्यः सर्वेभ्य एव द्राक् प्रणतिः सांजलिस्तथा ।
कर्तव्याऽनेन बालेन नाऽऽलस्यं कार्यमेव यत् ।।1.206.८०।।
तत्रैवं च क्वचित्कस्यचिन्महत्पुरुषस्य वै ।
चिरंजीवेत्याशिषाऽयं वर्धितः सभविष्यति ।।८ १।।
तस्मात्तीर्थाटनं सम्यक् कुरु क्षेमं भविष्यति ।
ततो बद्रीमहाक्षेत्रं स्थानं तु नित्यदा हरेः ।।८२।।।
याहि यत्र स्वयं साक्षाद्धरिं पश्यसि चक्षुषा ।
चिरंजीवी तव पुत्रो भविष्यति न संशयः ।।८३।।
श्रुत्वेत्याशीर्वचो लब्ध्वा मृकण्डुः ससुतस्ततः ।
ययौ तीर्थेषु सर्वत्र प्रभासे रैवताचले ।।८४।।
द्वारिकायां पुष्करे च नर्मदायां च भार्गवे ।
सरय्वां यमुनायां च गंगायां त्र्यम्बकेश्वरे ।।८५।।
कावेर्यां ताम्रपर्ण्यां चाऽरुणाचलेऽतिदक्षिणे ।
रामेश्वरेऽथ सामुद्रे तीर्थानि प्रचकार सः ।।८६।।
पितुरनुज्ञां संप्राप्य दक्षिणाऽर्णवरोधसि ।
लिंगं संस्थाप्य विधिवन्मार्कण्डेयो निजाह्वयम् ।।८७।।
कृत्वा त्रिषवणं स्नानं त्रिकालं शिवपूजकः ।
प्रार्थ्यं त्रिकालपूजान्तेऽर्थयित्वा नृत्यति प्रियम् ।।८८ ।।
तेनाऽर्हणेन सन्तुष्टो दिनेनैकेन शंकरः ।
पूजितश्च महाभक्त्या मार्कण्डेयेन वस्तुभिः ।।८९ ।।
तावत्तत्राऽर्णवे स्नातुं सप्तर्षय उपस्थिताः ।
मार्कण्डेयः समुत्थाय ननामर्षींश्च पादयोः ।। 1.206.९० ।।
चिरंजीवेति सप्तोक्तः प्रहर्ष परमं ययौ ।
मृकण्डुः प्राह सप्तर्षीन् नाऽस्याऽऽयुर्वर्धतेऽधिकम् ।। ९१ ।।
कथं चिरायुर्भविता सत्यवाचां वचो मृषा ।
यद्वा ललाटलेखा सा वेधसोऽलीकतां व्रजेत् ।। ९२ ।।
महर्षिभिस्तदालोक्य नीतो द्राक् ब्रह्मणः सभाम् ।
नत्वा च तिष्ठति चाग्रे चिरंजीवेत्यजो जगौ ।। ९३ । ।
ऋषिभिः कथितं चास्य रेखा संपूर्णतां गता ।
कथं चिरंजीवनोऽयं संभवेत्तव वाक्यतः ।। ९४।।
यदि वाक्यं तव तथ्यं रेखामन्यां विधापय ।
श्रत्वा च वेधसा लेखा चिरंजीवेति निर्मिता ।। ९५ ।।
द्रागेव सः ऋषिभिरानीतो दक्षिणसागरे ।
तावदायात एवात्र कालो मृत्युसहायवान ।। ९६।।
वृत्तरक्तान्तनयनः सर्पवृश्चिकरोमवान् ।
दंष्ट्राकरालवदनश्चूर्णितांजनसन्निभः ।। ९७।।
समागत्य च तस्याऽसौ यमस्याऽऽज्ञानुसारतः ।
अदृष्ट्वा नूतनां रेखां पूर्वरेखाविधानतः ।। ९८ ।।
पाशमवासृजत्कालो मार्कण्डेयस्तमब्रवीत् ।
काल तावत्प्रतीक्षस्व पूजां निर्वर्तयाम्यहम् ।। ९९।।
महेश्वरः प्रसीदतात् सततं पूजयाऽनया ।
तमब्रवीत् ततः कालो मार्कंडेयं हसन्मुहुः ।। 1.206.१०० ।।
सप्तर्षीणां शृण्वतां च नीतिवाक्यानि तत्र ह ।
प्रथमे वयसि पुण्यं यो न करोति शुच्यते ।। १०१ ।।
मासाऽष्टकेन तत्कुर्याद् येन वर्षाः सुखं वसेत् ।
दिवसे चैव तत्कुर्याद् येन रात्रिं सुखं वसेत् ।। १० २।।
पूर्वे वयसि तत्कुर्याद्येन वृद्धः सुखं वसेत् ।
यावजीवं तु तत्कुर्याद् येन प्रेत्य सुखं वसेत् ।। १०३ ।।
श्वः कार्यमद्य कुर्वीत पूर्वाङ्गे चाऽपराह्णिकम् ।
न च प्रतीक्षते कालः कृतमस्य न वा कृतम् ।। १० ४।।
इद्ं कृतमिदं कार्यमिदमन्यत्कृताऽकृतम् ।
एवमीहासमायुक्तं कृतान्तः कुरुते वशे ।। १० ५।।
नाऽप्राप्तकालो म्रियते विद्धः शरशतैरपि ।
कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति । । १०६ । ।
चक्रवर्तिसहस्राणि पुरन्दरशतानि च ।
प्रापितानि मया याभ्यां प्राप्तकालस्त्वमेहि च । । १०७ ।।
मार्कण्डेयस्तदा प्राह त्वया नैतच्छ्रुतं च किम ।
नॄणामीश्वरभक्तानां न भवन्त्यापदः क्वचित् । । १०८ ।।
ब्रह्मादयोऽपि तान् क्रुद्धा न शक्ता हन्तुमीश्वराः ।
कालः प्राह च यावत्यो गंगायां सिकता मुने । । १०९ ।।
तावन्त एव ब्रह्माणो मया कालेन संहृताः ।
त्वां च नयामि सामर्थ्याद् यस्य भक्तः स रक्षतु । । 1.206.११० ।।
तेनैवं गर्जता तत्र कालेनाऽसौ महामुनिः ।
हठाद्ग्रसितुं चारब्धः क्षिप्तः पाशः गलोपरि । । १११ ।।
तावल्लिंगात्समुत्तस्थौ शंभुर्हुंकारगर्जनः ।
उद्धृत्य पादकमलं प्रजहार भुजान्तरे । । ११२ । ।
पाशो विच्छिन्नतां यातो दूरे मृत्युः पपात ह ।
सप्तर्षयोऽपि सत्तोयैरवर्धयन् मृकण्डुजम् । । ११३ । ।
प्राहुर्मृत्युं पश्य मृत्यो चिरंजीवेति नूतनाम् ।
रेखां ललाटलिखितां ब्रह्मणा परमेष्ठिना । । ११४ । ।
एतस्मिन्नन्तरे चित्रगुप्तायाऽवेदितं नवम् ।
श्रावणैः पितृभिर्लेख्यं चिरंजीव मृकण्डुजः । । ११५ ।।
तावद् दूताः प्रेषिताश्चाऽपरे दत्वाऽमृताऽऽवलिम् ।
माऽऽनयन्तु मृकण्डोश्च सुतं कल्पान्तरेष्वपि । । ११६ । ।
इति मृत्युश्च कालश्च दूताश्च विफला ययुः ।
मार्कण्डेयः प्रलयेऽपि क्षीराब्धौ विष्णुसन्निधौ । । ११७ । ।
समाधौ तिष्ठते नैव म्रियते चिरजीवनः ।
स्वस्थानमृषयो जग्मुः शंभुर्लिंगे तिरोऽभवत् । । ११८ । ।
मृकण्डुश्च ययौ स्वस्याश्रमं पुत्रश्च केवलः ।
नारदस्योपदेशेन ययौ बदरिकाश्रमम् ।। ११९ । ।
स्नात्वा चालकनन्दायां शिलामुपाविशत्ततः ।
जजापाऽष्टाक्षरं मन्त्रं त्रिरात्र्यन्ते नरायणः । । 1.206.१२० । ।
प्रसन्नश्चाऽऽजगामाशु दर्शनं मंगलं ददौ ।
शंखचक्रगदापद्मवनमालाविभूषितम् । । १२१ । ।
हरिं दृष्ट्वा समुत्थाय प्रेमगद्गदया गिरा ।
तुष्टाव प्रणतो भूत्वा मार्कण्डेयो नरायणम् । । १२२ ।।
अशाश्वतेऽत्र संसारेऽशाश्वते वर्ष्मणि स्थितम् ।
चेतनं मां कृथाश्चिरजीविनं मुक्तमेव हि । । १२३ । ।
कालमृत्यू कृतौ दूरौ शंभुरूपेण सर्वथा ।
मृतं जीवन्तं भ्रान्तं मां सदैवं त्राहि केशव ।। १ २४।।
ऋषिस्त्वं चर्षिरूपेण मृतान् जीवयसे विभो ।
शाश्वतेऽमृतधामाख्ये सदा जीवय मां प्रभो ।। १२५ ।।
देहि दीक्षां वैष्णवीं मे पूजायां दर्शनं तव ।
निश्चलां देहि मे भक्तिं शिलायां तव सन्निधिम् ।। १२६ ।।
तथेत्युक्त्वा नरनारायणः श्रीभगवान्स्वयम् ।
ददौ च वैष्णवीं दीक्षां मन्त्रमष्टाक्षरं शुभम् ।। १२७।।
शिलायां हरिसान्निध्यं पूजायां दशनं सदा ।
ददौ तस्मै चिरजीविमार्कण्डेयाय योगिने । । १२८ ।।
मार्कण्डेयो वैष्णवोऽभूच्छिलायामत्र नारद ।
नारायणस्तथा चात्र शिलायां समवस्थितः ।। १२९ ।।
मार्कण्डेयशिला चेयं द्वितीया कीर्तिता च ते ।
हरिस्तिरोऽभवत्तत्र ययौ गृहं मृकण्डुजः ।। 1.206.१३० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने वह्नेः सर्वभक्षित्वदोषपरिहारकाग्नितीर्थ नारदातपःस्थलनारदशिलातीर्थ-मार्कण्डेयचिरजीवित्वाख्यान मार्कण्डेयशिलातीर्थमिति निरूपणनामा षडधिकद्विशततमोऽध्यायः ।। २०६ ।।