लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०५
[[लेखकः :|]]
अध्यायः २०६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! चातिरम्यं बदरीवनसंयुतम् ।
जगामाऽऽश्रमवर्यं श्रीनारदश्च ददर्श तम् ।। १ ।।
दिव्यवृक्षरम्यवल्लीमहाभूरुहशोभितम् ।
चातकमेनकाकीरपुँस्कोकिलरुतश्रुतम् ।। २ ।।
शरभकेसरिव्याघ्रकरिगोवेष्टितम् ।
नरनारायणयोगाद्धिंसाभयविवर्जितम् ।। ३ ।।
सिद्धर्षिमुनिगन्धर्वत्रिकोट्याश्रममण्डितम् ।
कल्पचन्दनतुलसीपारिजातवनान्वितम् ।। ४ ।।
दिव्यं दिव्यचिदचिद्वस्तुजातसमन्वितम् ।
शान्तिप्रदं महारण्यमगम्यं भूमिवर्ष्मभिः ।। ५ ।।
नारायणो नरो यत्र तापसौ लोकरक्षकौ ।
भगवन्तौ सुराजेतेऽसंख्याता मुनयोऽपरे ।। ६ ।।
बदरीच्छायया राजद्रम्याऽनिलसुगन्धिनि ।
बदर्यधः सभास्थाने मुनिमध्ये मनोहरौ ।। ७ ।।
ददर्श भगवन्तौ तौ रत्नसिंहासनस्थितौ ।
जपन्तौ परमं ब्रह्म श्रीकृष्णं परमेश्वरम् ।। ८ ।।
प्रणनाम च तौ दृष्ट्वा योगिनां परमौ गुरू ।
उत्थाय तौ तमालिङ्ग्य युयुजाते शुभाशिषः ।। ९ ।।
पप्रच्छतुश्च कुशलं चक्रातेऽतिथिपूजनम् ।
रत्नसिंहासने निषादयामासतुरादरात् ।। 1.205.१० ।।
आसने निवसन् रम्ये वर्त्मश्रमविवर्जितः ।
उवाच तावृषिश्रेष्ठौ भगवन्तौ सनातनौ ।। ११ ।।
अधीत्य वेदान्सकलान् पितुरेव हि सार्थकान् ।
ज्ञानं मन्त्रं च संप्राप्य कैलासे शंकरादहम् ।। १ २।।
लब्धुं ज्ञानविशेषं च कृपां च पारमेश्वरीम् ।
आगतोऽस्मि भगवन्तौ वन्दे संसारतारकौ ।। १३ ।।
इत्युक्त्वा स्वीयतन्त्र्या संजगौ स्तोत्रं सुछन्दसा ।
सुस्वरेण सुनृत्येन सतालेन च नारदः ।। १४।।
 जय जय हरिकृष्ण! स्वामिन्! नारायण राधारमणकरम् ।
जय सति! सिद्धपते! त्रयविक्रम । रणमोचन! दहरम् ।।
रणमोचनदहरं, नुमस्त्वां ब्रह्मपरं ग्रहरम् ।
जय सति! सिद्धपते! त्रयविक्रम! रणमोचनदहरम् ।। १५।।
जय जय सदसत्तदितरकल्पन! तत्वमसिश्रुतिसञ्चरणम् ।
अश्वत्थाख्यतरूर्ध्वकमूलं चिदचित्तनुधरणम् ।।
चिदचित्तनुधरणं स्तुमँस्त्वां व्यष्टिसमष्ट्यरणम् ।
अश्वत्थाख्यतरूर्ध्वकमूलं चिदचित्तनुधरणम् ।। १ ६।।
जय जय विश्वंभर ! विश्वात्मन्! स्वात्मनि जगदुः सुविवरणम्।
परिणतिमध्यसितिं श्रुतयस्त्वयि जगतस्त्वधिकरणम् ।।
जगतस्त्वधिकरणं इमँस्त्वां दुरितदलनचरणम् ।
परिणतिमध्यसितिं श्रतयस्त्वयि जगतस्त्वधिकरणम् ।। १७।।
जय जय भूत्रय । सगुण! त्रीश्वर! वृषसुत ! तत्त्वत्रयभरणम् ।
अङ्कहृदयपार्श्वस्थितदेव्या वर्तितपरिचरणम् ।।
वर्तितपरिचरणं वृणीमोवित्त्यवयुनहरणम् ।
अङ्कहृदयपार्श्वस्थितदेव्या वर्तितपरिचरणम् ।। १८ ।।
जय जय शास्त्रच्छन्दांगाद्यभिवेद्य! व्याहृतिफलफलनम् ।
जय भोक्तर्! होतर्! जय हव्य! स्वात्मरमणकलनम् ।।
स्वात्मरमणकलनं भजामो मुनिजनकरललनम् ।
जय भोक्तर्होतर्जय हव्य! स्वात्मरमणकलनम् ।। १ ९।।
जय जय नैष्ठिकगुणपोषक! जय तापस! करुणाकरशरणम् ।
जय दक्षिण! जय सव्य! द्व्यात्मन् प्राकृतमतिहरणम् ।।
प्राकृतमतिहरणं नमामः स्वांघ्रिसुगतिकरणम् ।
जयदक्षिण! जय सव्य! द्व्यात्मन्! प्राकृतमतिहरणम् ।।।1.205.२० ।।
स्तुत्वैवं दण्डवत् कृत्वा पुलकांचितविग्रहः ।
अश्रुप्राविलचक्षुष्कः प्रणनाम मुहुर्मुहुः ।।२ १।।
श्रुत्वा नारायणश्चातिप्रसन्नः प्राह नारदम् ।
अहो गन्धर्ववर्याऽद्य श्रत्वा गीतिं सनृत्यकाम् ।।२२।।
सतालां सस्वरां सार्द्रमानसां भावगर्भिताम् ।
प्रसन्नोऽस्म्यतिगान्धर्वे पारावारोऽत्र सं भव ।।।२३ ।।
भक्तिप्रवर्तको मे स्याः सदाराधनकृद्भव ।
सर्वविद्यागुणाब्धिः स्याः शाश्वतस्थिरयौवनः ।।।२४।।
अनेनैव हि देहेन मुक्तदेहोऽक्षरो भव ।
न ते मृत्युर्न ते व्याधिर्न जरा न विवर्तनम् ।।२५।।
नरो यथा यथा चाहं तथा त्वं मानसं मम ।
मत्स्वरूपः सदा तिष्ठ भक्तोऽपि भगवान् भव ।।२६ ।।
इत्याशीर्वादमासाद्याऽवतारो ब्रह्मणः स्वयम् ।
कलांशो ह्यभवत्सोऽयं नारायणप्रसादतः ।।।२७।।।
नारायणः पुनः प्राह मूर्ध्नि स्पृष्ट्वा करेण वै ।
ममाऽद्य हृद्यं त्वं वै स्वीकृतोऽसि महामुने ।।।२८।।
मयि यादृक् सुसार्वज्ञ्यं त्वय्यप्यस्त्वनिवर्तनम् ।
मम भक्तिप्रदं शास्त्रं विधेहि पञ्चरात्रकम् ।।२९।।
विष्णुः शिवो विश्वसृट् च शेषो गणपतिः सुराः ।
मनवो मुनयश्चेशा भजन्ते यं च तं भज ।।।1.205.३० ।।
लक्ष्मीः शिवा च सावित्री रमार्द्धिसिद्धिदेविकाः ।
मानव्य ईश्वरिण्यश्च भजन्ते यं च तं भज ।।३ १।।
गंगा च गोमती रेवा गण्डकी च सरस्वती ।
यमुना स्वर्णरेखा च भजन्ते यं च तं भज ।। ३२।।
पार्वती च प्रभा चैवाऽमृता लक्ष्मीश्च माणिकी ।
दीपोत्सवी तथा राधा भजन्ते यं च तं भज ।।३३।।
संसारसागरं तर्तुं भवदावं विलंघितुम् ।
जगत्सर्पादवितुं च हरेर्दास्यं गृहाण वै ।।३४।।
जन्मारण्यं समुल्लंघ्य मृत्युशैलमुल्लंघितुम् ।
धामदेशमभियास्यन् श्रय कृष्णविमानकम् ।।३५।।
रोमसु यस्य विश्वानि दशनाग्रे समग्रभूः ।
गोवर्धनोऽङ्गुलिप्रान्ते भूस्थं कृष्णं च तं भज ।।३६।।
यस्याऽऽस्ये निगमाः सन्ति सोऽयं यस्माद्विनिःसृतः ।
अखिलागमसञ्चारिश्रीकृष्णं भज नारद ।।३७।।
कालमायापापकर्मस्वभावयमकिंकराः ।
यच्छक्त्यंशादीश्वरास्ते तं कृष्णं सर्वदा भज ।।३८।।
भूः सीता भार्गवी पद्मा गोप्यो वृन्दा च कुब्जिका ।
शबरी पिंगला देव्यो भजन्ते यं च तं भज ।।३९।।
विराट् यस्य कला मुक्ताः कलाश्च मनवः कलाः ।
कलाकलांशाश्च मुनयस्तं हरिं भज सर्वथा ।।1.205.४० ।।
पृथ्वी सहस्रशीर्षाणं शेषः कूर्मं जलं स च ।
तत्तेजस्तन्महोतेजस्तदाधारं हरिं भज ।।४१ ।।
धामस्था लोकधीष्ण्यस्था योगस्था ब्रह्मणि स्थिताः ।
स्वस्थितस्य न वै पारं यान्त्यपारं हरिं भज ।।।४२।।
यस्य मुक्तास्त्वसंख्याता दास्यश्चानन्तसंख्यकाः ।
श्रुतयः सृष्टयोऽनन्तास्तमनन्तं हरिं भज ।।४३।।
श्रियो लक्ष्म्यो धियो ब्राह्म्यः साध्व्यो मायाश्च शक्तयः ।
मूर्तेर्यस्य कलैकांशास्तं च नारायणं भज ।।४४।।
नारायणी हरेः शक्तिस्तदंशाः प्रमदाः कृताः ।
पत्नीं विवाह्य वत्स त्वं नारायणीं वधूं भज ।।४५।।
ममाज्ञां पितुराज्ञां च त्वाज्ञारूपां वधूं भज ।
एवं धर्मप्रतिपालः पूज्यश्च विजयी भव ।।४६ ।।
स्वपत्नीं रंजयेद्यो वै वस्त्रालंकारवस्तुभिः ।
तस्य नारायणी तुष्टा तारयत्येव कृष्णवत् ।।४७।।
लक्ष्मीर्नारायणशक्तिः सा वै योषित्स्वरूपिणी ।
योषितामवमानेन पराभूता तु सा भवेत् ।।४८।।
तयाऽवमानितया च नरोऽवमानितो भवेत् ।
तयाऽवमानितोऽभाग्यः सौख्यं क्वापि न विन्दते ।।४९।।
दिव्या स्त्री पूजिता येन तदभीष्टप्रदायिना ।
सती पुत्रवती सा स्यात् सर्वमंगलदायिनी ।।1.205.५०। ।
मूलप्रकृतिरेका सा पूर्णब्रह्मस्वरूपिणी ।
सा चास्ति षट्स्वरूपा वै पूजनीया शुभार्थिभिः ।।५१।।
श्रीकृष्णप्राणरूपैका प्रेयसी राधिका हि सा ।
लक्ष्मीः सम्पत्प्रदा नारायणप्राणा द्वितीयका । ।५२। ।
वागधिष्ठातृदेवी या सरस्वती तृतीयका ।
सावित्री वेदमाता या ब्रह्मप्राणा चतुर्थिका । ।५३ ।।
शंकरप्राणरूपा च सती पार्वती पंचमी ।
कन्या विवाहिता सा तु वधूः सर्वस्य देहिनः ।।५४।।
मूलप्रकृतिरूपैषा षष्ठी बोध्या च वंशदा ।
तां च सेवय योगीन्द्रो भूत्वा कृष्ण इवाऽपरः ।।५५।।
मा तेऽस्तु बन्धनं तत्र मत्स्वरूपो मया कृतः ।
इति ज्ञानं मया दत्तं सदा धारय नारद ।।५६।।
नारदश्च हरेराज्ञामासाद्य प्रणनाम च ।
कृत्वा च दण्डवत् प्रेम्णा विधाय च प्रदक्षिणम् ।।५७।।
ध्यात्वा नारायणं तं च कर्तुं तीर्थानि तत्र च ।
ययौ नरेण सार्धं स तर्तुं च तारितोऽपि सन् ।।५८ । ।
प्राग्वै चालकनन्दायां सस्नौ शीतेन वारिणा ।
तावद्दिव्यमभूत्तस्य वर्ष्म नारायणस्य तत् ।।५९।।
देशतः कालतो वस्तुतश्चाऽबाध्यमभूत्तदा ।
चिन्मात्रं सर्वसामर्थ्याश्रयं कृष्णस्य वर्ष्मवत् ।। 1.205.६० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारदस्य बदरिकाश्रमगमनं, नरनारायणदर्शनं, गीत्या स्तवनम्, दिव्यताप्रापणं, भक्त्युपदेशनं, विवाहकरणाऽऽज्ञापनं चेत्यादिनिरूपणनामा पञ्चाधिकद्विशततमोऽध्यायः ।। २०५ ।।