लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०४
[[लेखकः :|]]
अध्यायः २०५ →

श्रीनारायण उवाच-
शंभुः प्राह च देवर्षिं नारदं शृणु चाह्निकम् ।
ब्राह्मे मुहूर्ते चोत्थाय गुरुं भाले विचिन्तयेत् ।। १ ।।
ब्रह्मरन्ध्रे हरिं ध्यायेद्धृदये कृष्णमर्चयेत् ।
प्रसन्नवदनं शान्तं प्रोज्ज्वलं च मनोहरम् ।। २ ।।
गुरुणा दीयते देवो मन्त्रः पूजा विधिर्जपः ।
गुरुणा पूयते शिष्यस्तस्माद्देवात्परो गुरुः ।। ३ ।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः प्रकृतिरीशाद्या गुरुश्चन्द्रोऽनलो रविः ।। ४ ।।
गुरुर्वायुश्च वरुणो गुरुर्माता पिता सुहृत् ।
गुरुरेव परंब्रह्म नास्ति पूज्यो गुरोः परः ।। ५ ।।
अभीष्टदेवे रुष्टे च समर्थो रक्षणे गुरुः ।
न समर्था गुरौ रुष्टे रक्षणे सर्वदेवताः ।। ६ ।।
यस्य तुष्टो गुरुः साक्षाज्जयस्तस्य पदे पदे ।
यस्य रुष्टो गुरुस्तस्य विनाशः सर्वशो मतः ।। ७ ।।
असंपूज्य गुरुं देवं केवलं यश्च पूजयेत् ।
दुरितं गुर्वसेवोत्थं न नाशयति देवता ।। ८ ।।
देवाऽपूजनजं पापं गुरुः शक्तो व्यपोहितुम् ।
तस्मादभीष्टदेवाच्च गुरुः पूज्यतमो मतः ।। ९ ।।
गुरुं हरिं च कृष्णं च ध्यात्वा स्मृत्वा सतो जनान् ।
मलमूत्रत्यजनाय गच्छेत् तद्योग्यभूमिकाम् ।। 1.204.१ ०।।
जलदेवालयवृक्षवर्त्मगोष्ठशुभस्थलम् ।
गृहवह्निचतुष्कार्द्रसस्यवल्मीककन्दरम् ।। ११ ।।
उद्यानदर्भफलद्रुश्मशानक्रीडनस्थलम् ।
एवमाद्यस्थलं हित्वा त्याज्यं मलादिकं सदा ।। १ २।।
एकां लिंगे मृदं दद्याद् वामहस्ते चतुष्टयम् ।
उभयोर्हस्तयोद्वै तु मूत्रशौचं प्रकीर्तितम् ।। १३।।।
मैथुनानन्तरं शौचं द्विगुणितं समाचरेत् ।
एका लिंगे गुदे तिस्रस्तथा वामकरे दश ।। १४।।
उभयोः सप्त दातव्या पादयोस्त्रिर्विशुद्ध्यति ।
पुरीषशौचं सर्वेषां सामान्य चैतदेव हि ।। १५।।
गन्धलेपक्षयकरं वस्तुना पयसा मृदा ।
कृतं शौचं हि शौचं तदन्यथाऽशौचमेव वै ।। १६।।
अशुद्धां जन्तुसम्पन्नां मर्दितां वर्जयेन्मृदम् ।
कृत्वा शौचं ततो वार्भिः स्वस्य प्रक्षालयेन्मुखम् ।। १७।।
दन्तकाष्ठेन दन्तांश्च वारिणा च प्रमार्जयेत् ।
सक्षीरं सकण्टकं च काष्ठं दन्तप्रशोधकम् ।। १८।।
अष्टांगुलोत्तर ग्राह्यं जिह्वोल्लेख्याऽर्धचीरया ।
जलस्नानं प्रकुर्वीत स्मृत्वा देवं गुरु हरिम् ।। १ ९।।
रविं विष्णुं हरं लक्ष्मीं सतीं ब्रह्मादिकान्सुरान् ।
नद्यां नदे तडागे वा तीर्थे वाप्यां समुद्रके ।।1.204.२० ।।
कृत्वा संकल्पमेवाऽऽद्यं मृदं गात्रे विलेपयेत् ।
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ।।।२ १।।
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ।
उद्धृताऽसि वराहेण कृष्णेन शतबाहुना ।।।२।।
आरुह्य मम गात्राणि सर्वं पाप प्रमोचय ।
पुण्यं देहि महाभागे स्नानाऽनुज्ञां कुरुष्व माम् ।।२३।।
गंगे च यमुने चैव गोदावरि सरस्वति ।
सिन्धो नर्मदे कावेरि जलेऽस्मिन् सन्निधिं कुरु ।।२४।।
नलिनी नन्दिनी सीता मालिनी पार्वती प्रभा ।
विष्णुपादाब्जसंभूता गंगा माणकी गण्डकी ।।२५ ।।
पद्मावती भोगवती स्वर्णरेखा च कौशिकी ।
दक्षा पृथ्वी च शुभगा विश्वकाया शिवाऽमृता ।।२६।।
विद्याधरी सुप्रसन्ना तथा लोकप्रसाधिनी ।
क्षेमा च कंभरा शान्ता शान्तिदा गोमती सती ।।२७।।
सावित्री तुलसी दुर्गा महालक्ष्मीः सरस्वती ।
कृष्णाप्राणाधिका राधा लोपामुद्रा रतिर्दितिः ।।।२८।।
अहल्या चाऽदितिः संज्ञा स्वधा स्वाहाऽप्यरुन्धती ।
शतरूपा देवहूतिरित्याद्याः संस्मरेत्सुधीः ।।२९।।
स्नात्वा जलेन संधृत्वा योग्ये धौत्रे च वाससी ।
जलेन चन्दनेनापि कुर्यात्तु तिलकं बुधः ।।1.204.३० ।।
बाह्वोर्मूले ललाटे च कण्ठदेशे च वक्षसि ।
तन्मध्ये चन्द्रकं कुर्यात् कौंकुमं वर्तुलं शुभम् ।।३ १।।
आचम्य चासने स्थित्वा ततः सन्ध्यां समाचरेत् ।
ततः पूजां तु देवानां कुर्याच्छोडशसाधनैः ।।३२।।
शालग्रामे मणौ मन्त्रे प्रतिमायां जले स्थले ।
गोपृष्ठे च गुरौ विप्रे प्रशस्त त्वर्चनं हरेः ।। ३३।।
आसनं वसनं पाद्यमर्घ्यमाचमनीयकम् ।
पुष्पं च चन्दनं धूपं दीपं नैवेद्यमुत्तमम् ।। ३४ ।।
सुगन्धतैलं भूषाश्च ताम्बूलं च जलं फलम् ।
अरार्त्रिकादिकं देयं षोडशात्मप्रपूजनम् ।। ३५ ।।
स्नानं पंचामृतैश्चाथाऽभिषेकस्नानमप्यथ ।
वस्त्राणि चन्दनादीनि पुष्पाणि भूषणानि च ।। ३६ ।।
आसनं च प्रदीपश्च धूपो नेवेद्यमित्यपि ।
जलपानं च ताम्बूलं चारार्त्रिकं प्रदक्षिणम् ।। ३७।।
सस्तोत्रनमनं पुष्पांजलिश्चैतेऽपि षोडश ।
उपचारा हरेः पूजाकार्येऽर्प्या भावतः सदा । । ३८ ।।
आदौ कृत्वा भूतशुद्धिं प्राणायामं ततः परम् ।
अंगप्रत्यंगयोर्न्यासं मन्त्रन्यासं ततः परम् । । ३९ ।।
वर्णन्यासं ततः कृत्वा चार्घ्यपात्रं विनिर्दिशेत् ।
त्रिकोणमण्डलं कृत्वा तत्र कूर्मं प्रपूजयेत् ।।1.204.४० । ।
जलेनाऽऽपूर्य शंखं च कूर्मे संस्थापयेत्तथा ।
जले तीर्थावाहनं च कृत्वा वस्तूनि मार्जयेत् ।।४ १ । ।
घण्टां च पूजयेच्छंखं पूजयेत्कलशं तथा ।
शालग्रामं पूजयेच्च ततौ वै पूजयेद्धरिम् ।। ४२ ।।
षोडशोपकरणैः संपूज्य देवान् विसर्जयेत् ।
देवयज्ञं तथा श्राद्धं कुर्याद्वित्तानुसारतः । ।४२ ।।
अतिथिपूजने भूतयज्ञं कुर्याश्च शक्तितः ।
वृद्धान्वन्देत सूर्यादीन्नमस्कुर्याच्च सर्वदा ।। ४४।।
पोष्याँश्च भोजयित्वा वै गृही भुञ्ज्यात्तु नित्यशः ।
हविष्यान्नं ब्राह्मणानां प्रशस्तं गृहिणां सदा ।।४५ ।।
नारायणोच्छिष्टमिष्टमभक्ष्यमनिवेदितम् ।
नित्यं नैवेद्यभोजी यः श्रीविष्णोः स हि वैष्णवः । ।४६ ।।
अन्नं जलं फलं पुष्पं पत्रं श्रीहरयेऽर्पितम् ।
भक्ष्यं पेयं तदन्यत्त्वपेयं चाऽभक्ष्यमित्यथ ।। ४७ ।।
जातिदुष्टं रूपदुष्टमाकृतिदुष्टमेव यत् ।
गुणदुष्टं परिणामदुष्टं न भक्ष्यमेव तत् ।। ४८ ।।
व्रतेष्वन्नं न वै भक्ष्यं न भक्ष्यं प्राक् प्रपूजनात् ।
अहिंसासत्यमस्तेये ब्रह्मचर्याऽपरिग्रहौ ।। ४९ ।।
यमा ह्येते रक्षणीयाः सुखदा मोक्षदा अपि ।
शौचं तुष्टिस्तपः पाठः कृष्णपूजा च मोक्षदाः ।।1.204.५ ० ।।
निन्दनं नैव कर्तव्यं क्वचित्कस्यापि केनचित् ।
परपीडाकरं सत्यं न वाच्यं दुःखदं हि तत् ।।५ १ ।।
प्रेरणालक्षणो ह्यर्थो धर्मो नानर्थ एव यः ।
कृतघ्नता न कर्तव्या शाठ्यं कार्यं न कुत्रचित् ।।५२ ।।
व्यवहार्यं यथान्यायं चोपार्ज्यं द्रव्यमित्यथ ।
धनधान्यजीविकाश्चोद्यमः कार्यो यथाबलम् ।।५३।।
मिथ्याऽभिशंसनीयं न परस्वं नाहरेत् क्वचित् ।
दिवसे चोद्यमः कार्यः सायं सन्ध्याजपादिकम् ।।।५४।।।
हरेर्मन्दिरगमनं स्तवनं कीर्तनादिकम् ।
कृत्वा चायव्ययमन्त्रं सुप्तव्यं गृहमेधिभिः ।।५५।।
प्रमदाः सर्वथा रक्ष्याः सन्तोष्टव्याश्च वस्तुभिः ।
न चोद्वेगवता भाव्यं क्लेशः कार्यो न वै क्वचित् ।।५६।।
आत्मानात्मविचारादि कर्तव्यं वै मुमुक्षुभिः ।
परमात्मा परब्रह्म सर्वदेहिष्ववस्थितः ।।५७।।
साक्षी च फलदाता च वर्तते देहिकर्मणाम् ।
पञ्चप्राणाः स्वयं विष्णुस्तर्पितव्यः सुभोजनैः ।।४६८।।
मनो ब्रह्मा तर्पितव्यश्चानन्दरञ्जनादिभिः ।
इन्द्रो रुद्रश्चेन्द्रियाणां तर्पितव्यः सदर्थकैः ।।५९।।
ज्ञानरूपा तर्पितव्या माया तु श्रवणादिभिः ।
आत्मा साक्षी स्वयंब्रह्म तृप्तव्यं यावदर्पणैः ।।1.204.६०।।
परब्रह्म हरिकृष्णश्चेतनेषु सदा स्थितः ।
तदधीनाश्चेतना वै आत्मानो भिन्नकर्मठाः ।।६ १।।
कर्मफलान्विता जीवा जडेषु वृत्तिजीविनः ।
जडाः परार्थाः परेण युज्यन्ते भोग्यताऽऽप्तये ।।६२।।
चेतनाश्च सदर्थैर्वै युज्यन्ते भोगलब्धये ।
त्रिगुणात्मा जडा माया महत्तत्त्वं ततो ह्यभूत् ।। ३३ ।।
अहंकारस्ततो जातस्तस्मादिन्द्रियदेवताः ।
सूक्ष्मभूतानि सूक्ष्मेभ्यः स्थूलभूतानि निर्ययुः ।।६४।।
तेषां कलेवरं लब्धं चेतनेन स्वकर्मभिः ।
ज्ञानेन कर्मणा नाशो वैराग्येणाऽविबन्धनम् ।।६५।।
धर्मेणाऽग्रगतेः पुण्य भक्त्या यानं हरेर्गृहे ।
कर्तापि नैव मन्तव्यः करोति भगवान् ननु ।।६६।।
आत्मा देही न च कर्ता कर्ता धर्ता हरिः स्वयम् ।
बद्धा मुक्ता स्वभावेन प्रकृतिर्न तु चेतनः ।।६७।।
शरीरं भूतसंघातैर्जायते नात्मनो जनिः ।
शरीरं शीर्यते भावैर्न त्वात्मनो विशीर्णता ।।६८।।
सजातीयं सजातीयदेहेन भुज्यते सदा ।
शरीरं तु शरीरेण भुज्यते भोगवद्धि तत् ।।६९।।
स्थूलं भोगाश्रयं सूक्ष्मं विविधं रूपमास्थितम् ।
इदं लब्धं चानुभूतं सुख्यहं चेति चान्तरे ।।1.204.७०।।
अहंकारकृते बुद्धितत्त्वे भवति नात्मनि ।
अन्यत्र भवति स्वस्मिन् जानात्येषो भ्रमो ननु ।।७ १ ।।
भ्रम इत्यपि संसारस्तज्जन्यवासनान्वितः ।
भ्रमाऽभावे गृहाऽभावः संसाराऽभाव एव वै ।। ७२।।
भ्रमसत्त्वे गृहसत्त्वं गृहिणीभावना तथा ।
क्व गृहं क्व गृहिणी च वासना सर्वमुच्यते । । ७३ ।।
तद्भावे क्व गृहं च गृहिणी क्व सुतादयः ।
शरीरं चापि नास्त्येव का कथा तत्सुयोगिनाम् ।।७४।।
तस्मादात्मा परब्रह्मभक्तोऽस्ति किरणं हरेः ।
मायागुणैः रहितोऽस्ति न कालेन स लिप्यते ।।७५ ।।
कर्मणाऽपि न लेपोऽस्ति स्वभावो नास्ति तत्र च ।
निर्गुणस्य चित आनन्दमूर्तेर्बन्धनं नु किम् ।।७६।।
प्रभुः करोति सर्वं वै मन्तव्यं त्वेवमेव हि ।
वपते कर्षुको बीजं जलं सिञ्चति कर्षुकः ।। ७७।।
रक्षति कर्षुकः खाद्यं ददात्यपि च कर्षुकः ।
लुनाति धान्यं कृषिकृद्भक्षयत्यपि कर्षुकः ।।७८ ।।
करोति सर्वं कृषिकृत् सस्यं नैव करोति सः ।
महाँस्तु कर्षुकः कृष्णो बीजमुत्पादयत्ययम् ।।७९।।
बीजं त्ववति गर्भे सः ददाति जन्म माधवः ।
बाल्ये यौवने वार्धक्ये स वै रक्षति केशवः ।।1.204.८ ० ।।
अन्नं जलं च वस्त्रं च ददाति कृष्ण एव वै ।
मृत्युं प्रेरयति कृष्णो लयं नयति माधवः ।।८ १ ।।
करोति सर्वं साक्षी श्रीकृष्णो नाहं करोमि वै ।
एवं सर्वं समर्प्यं वै कृष्णे निर्बन्धनाय तत् ।।८२।।
उपासना सदा कृष्णे ह्याराधनाऽपि माधवे ।
भक्तिः सेवा च या काचित् सर्वं वै कमलापतौ ।।८ ३ ।।
समर्प्यं सर्वथा तद्वै मोक्षणं चात्र जीवतः ।
सर्वत्र व्यापकश्चान्तर्यामी श्रीपतिरीश्वरः ।।८४।।
सर्वदिव्यगुणैर्युक्तो गोलोके चाक्षरे परे ।
वैकुण्ठे श्वेतभूमौ च बदर्यां चाऽमृतेऽम्बरे ।।८५।।
कृष्णो हरिर्नरावासो नारायणः श्रियः पतिः ।
राधापतिः प्रभास्वामी माणिक्याधिपतिः स हि ।।८६ ।।
लक्ष्मीपतिः कम्भरासत्पतिः श्रीहरिरेव सः ।
सीतापतिः सतीस्वामी पार्वतीपतिरेव सः ।।८७।।
सर्वपतिः स्वयं कृष्णः श्रीकृष्णः साकृतिः सदा ।
परो व्यूहो विभवश्चाऽन्तर्यामि मूर्तिरेव सः ।।८८ ।।
स्वरूपश्चेति षड्रूपो वर्तते भगवान् हरिः ।
निराकारश्च साकारो भूमा सुमूर्तिकोऽपि सन् ।।८ ९ । ।
अदृश्योऽपि सुदृश्योऽस्ति तादृच्चक्षुर्युतैः स हि ।
योगिनां ध्यानविषयो भक्तानां प्रेमबन्धनः ।। 1.204.९० ।।
नारीणां भर्तृविषयो दीनानां दीनतात्मकः ।
दृश्याऽदृश्योऽपि दिव्येन चक्षुषा दृश्य एव सः ।।९१ ।।
ध्यायन्ते योगिनो नित्यं तं वै कृष्णं परात्परम् ।
परमानन्दरूपं च सर्वकारणकारणम् ।।९२।।
यथा मृदा कुलालो हि घटं निर्माति तत्तथा ।
परब्रह्म प्रकृत्या च सृष्टिं निर्माति सर्वथा ।।९३।।
नित्यं तत्परमं ब्रह्म नित्या वै प्रकृतिर्मता ।
तद्ब्रह्मशक्तिः प्रकृतिः शरीरं बीजरूपिणी ।।९४।।
प्रकृतिशक्तिमद्ब्रह्म तेजोयुक्तं सदास्ति वै ।
यस्य तेजश्च तत्रास्ति स वै परमपूरुषः ।।९५।।
कारणेन विना कार्यं कुतो वा वर्तते कथम् ।
तस्य तेजो महत्कार्यं न स्याद्वै पुरुषं विना ।।९६।।
वैष्णवाः सर्वथा तस्य सौम्यं रूपं मनोहरम् ।
दिव्यं मुक्तादिसंसेव्यं ध्यायन्ते परमात्मनः ।।९७।।
नवीननीरदश्यामं किशोरवयसं प्रभुम् ।
शरन्मध्याह्नमार्तण्डप्रभोद्भासिसुलोचनम् ।।९८।।
शरत्पार्वणपूर्णेन्दुकोट्यधिकप्रभाननम् ।
कोटिकन्दर्पलावण्यलीलाऽऽनन्दितमन्मथम् ।।९९।।
पुष्टं सर्वांगसौन्दर्यमाधुर्यपूरिताऽऽभरम् ।
सस्मितं मूरलीहस्तं पीताम्बरधरं हरिम् ।। 1.204.१ ००।।
चन्दनोक्षितसर्वांगं कौस्तुभेन विराजितम् ।
आजानु मालतीमालावनमालाविराजितम् ।। १०१ ।।
त्रिभंगभंग्या तिष्ठन्तं मणिरत्नादिभूषितम् ।
मयूरपिच्छचूडं च हीरकमुकुटोज्ज्वलम् ।। १० २।।
रत्नकेयूरवलयरत्नमञ्जीरराजितम् ।
रत्नकुण्डलयुग्मेन गण्डस्थलसुशोभितम् ।। १ ०३।।
मुक्ताभदशनं पक्वबिम्बौष्ठं शुकनासिकम् ।
स्थिरयौवनयुक्ताभिः सस्मिताभिश्च सादरम् ।। १०४।।
वीक्षितं गोपिकाभिश्च रमाराधाजयादिभिः ।
भक्तप्रियं भक्तनाथं भक्तानुग्रहकारकम् ।। १०५।।
रासेश्वरं सुरसिकं महामुक्तैः सुसेवितम् ।
अक्षरं परमं ब्रह्म भगवन्तं सनातनम् ।। १ ०६।।
एवंरूपं हरिं लक्ष्मि! चात्र ध्यायन्ति वैष्णवाः ।
स एव भगवानादिगोलोके द्विभुजः प्रभुः ।। १ ०७।।
गोपवेषैश्च गोपालैः पार्षदैः परिसेवितः ।
परिपूर्णतमः श्रीमान् श्रीकृष्णो राधिकापतिः ।। १०८।।
सर्वान्तरात्मा सर्वत्र प्रत्यक्षो भक्तभावतः ।
कृषिश्च सर्ववचनो नकारश्चात्मवाचकः ।। १० ९।
सर्वात्मा च परब्रह्म स्वयं कृष्णः प्रकीर्तितः ।
कृषिश्च सर्ववचनो नकारश्चाऽऽदिवाचकः । । 1.204.११० ।।
सर्वादिपुरुषो व्यापी स्वयं कृष्णः प्रकीर्तितः ।
कृषिर्भू(र्मू?)वाचकः शब्दो णश्च निर्वृत्तिवाचकः ।। १११ ।।
आनन्दभूः परब्रह्म कृष्ण इत्यस्ति सर्वथा ।
कृषिस्तु वासनानाशो नश्च स्वालय प्रापणम् । । ११२।
शुद्धस्य मुक्तिदस्तस्मात् स्वयं कृष्णः प्रकीर्तितः ।
कृषिश्च कर्षणं नश्च नयनं दिव्यमक्षरे ।। ११३ ।।
नीत्वा धाम्नि स्वयं साक्षाद् भवति कृष्ण एव सः ।
स एवांशेन भगवान् वैकुण्ठे तु चतुर्भुजः । । १ १४।।
चतुर्भुजैः पार्षदैः संसेवितः कमलापतिः ।
स एव फलया विष्णुः पाता रमापतिः स्वयम् । । ११५ ।।
स एव श्वेतलोकेऽब्धिकन्यास्वामी चतुर्भुजः ।
स एव क्षीरवार्धिस्थशेषशायी हरिः स्वयम् ।। ११६ ।।
स एव कारणं सर्वरूपाणामक्षरे स्थितः ।
परब्रह्म श्रीहरिर्वै परमात्मा परमेश्वरः ।। ११७ ।।
एतत्सर्वं कथितं ते चिन्तनीयः स हि त्वया ।
इत्युक्त्वा विरमन्तं नारदः शंभुं प्रतुष्टुवे ।। ११८ ।।
ज्ञानमासाद्य मन्त्रादि सर्वमासाद्य नारद ।
प्रणम्य शंकरं दिव्यं ययौ नारायणाश्रमम् ।। ११९ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारदाय शंकरेणाऽऽह्निकं नारायणपूजनं तत्त्वज्ञानं भक्ष्याऽभक्ष्यं परब्रह्मादि च कथितमितिनिरूपणनामा
चतुरधिकद्विशततमोऽध्यायः ।। २०४ । ।