लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः २०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २०२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः २०३
[[लेखकः :|]]
अध्यायः २०४ →

श्रीनारायण उवाच-
ब्रह्मा च प्रेरयामास सृष्टिं कर्तुं च नारदम् ।
सर्वेषामपि वन्द्यानां जनकः परमो गुरुः ।। १ ।।
विद्यागुरुर्मन्त्रगुरुर्द्वौ श्रेष्ठौ पित्रपेक्षया ।
तवाऽहं जन्मदाता च विद्यादाता च मन्त्रदः ।। २ ।।
ममाऽऽज्ञया च मत्प्रीत्या कुरुपत्नीपरिग्रहम् ।
गुरोराज्ञाकरः शिष्यः पुत्रः सन्तारयेत् पितॄन् ।। ३ ।।
क्षेमं च लभते नित्यं शाश्वतं लौकिकं तथा ।
सः पण्डितः स च ज्ञानी क्षेमी च पुण्यवान्स च ।। ४ ।।
मेधावी विनयी भाग्यशाली स्वर्गाधिकारवान् ।
गुरोर्वचस्करो यः स्यात् क्षेमं तस्य पदे पदे ।। ५ ।।
सर्वाश्रमाश्रयदाता गृह्याश्रमो हि पुण्यवान् ।
पुत्रपौत्रकलत्राढ्यं भवनं तपसः फलम् ।। ६ ।।
पितरः पर्वकाले च पूजाकाले तु देवताः ।
भिक्षाकाले च मुनयः समायान्ति गृहिगृहम् ।। ७ ।।
नित्यं नैमित्तिकं कार्यमर्जयन्ति गृहाश्रमाः ।
भुक्त्वा सर्वं सुखं त्वत्र यान्ति स्वर्गं महत्सुखम् ।। ८ ।।
गृहस्थो धनवान् कीर्तिधर्मानन्दादिमान् सुखी ।
जीवन्मुक्तो मृतेऽमुत्र मुक्त एव न संशयः ।। ९ ।।
मृतस्यापि यशोदेहो वर्तत स च जीवति ।
जीवतोऽपि यशोदेहो नास्ति मृतः स वै सदा ।। 1.203.१ ०।।
विद्या लभ्या तथा कीर्तिर्लभ्या भक्तिश्च माधवे ।
दारा लभ्याः शुभा लक्ष्मीः स्वर्गं लभ्यं सुतादिभिः ।। ११ ।।
पुण्यं लभ्यं तथाऽऽरोग्यं लभ्यं वै शाश्वतं सुखम् ।
ऐहिकं च तथा पारलौकिकं लभ्यमुत्तमम् ।। १२ ।।
कार्यं भोग्यं गृहिरीत्याऽसंगेन यतिवत् सदा ।
सदा वै बन्धनं नास्तीत्याह नारायणो हि माम् ।। १३ ।।
श्रुत्वैतन्नारदः प्राह सतीष्टत्वे प्रवर्तते ।
न मेऽस्तीष्टसाधनत्वमनिष्टाऽननुबन्धिता ।। १४।।
कथं प्रवर्ते नार्यां वै कारणाऽभावबन्धकात् ।
पूर्वजन्मसु चैतस्य विषयस्य विरोधने ।। १ ५।।
त्वच्छापादभवं मृत्वा गन्धर्वः शूद्रकस्तथा ।
कालेन शापान्मुक्तोऽहं विरोधो न सुखाय वै ।। १ ६।।
स गुरुश्च पिता बन्धुः सुतः स्वामी स रक्षकः ।
यः श्रीनारायणभक्तिं बोधयेत्कारये दृढाम् ।। १ ७।।
असन्मार्गाऽऽस्थितबालनिवृत्तिरुचिता पितुः ।
सन्मार्गरोधके दारमार्गे प्रवर्तयेत् कथम् । । १८।।
पत्नीग्राहो महाग्राहो दुःखायैव हि केवलम् ।
तपःस्वर्गजीवन्मुक्तिमहामुक्तिनिरोधकृत् ।। १९ ।।
नार्यस्त्रेधा विभिद्यन्ते साध्वी स्वार्था विरोधिनी ।
धर्मं मत्वा नाथसेवां करोति सुखदा सदा । । 1.203.२ ० ।।
स्वधर्मनिरता साध्वी सुखदुःखसमा हि सा ।
अथ स्वस्या अर्थसिद्ध्यै कुरुते कान्तसेवनम् ।। २१ ।।
भोगार्थं कान्तसेवां च नान्यथा स्वार्थिनी हि सा ।
वस्त्रालंकारसंभोगस्निग्धाहारधनादिकम् ।। २२ ।।
यावच्च दीयते पत्या तावत्स्वार्था तु सेविका ।
अथ कापट्यभावेन पतिं वाऽन्यं च सेवते ।। २ ३ ।।
स्वस्य वाथ परस्याथ यस्या नास्ति समादरः ।
सर्वे कामप्रदा योग्या नराः प्रकल्पिता यया ।। २४ ।।
सा तु विरुद्धधर्मस्था विरोधिनी तृतीयका ।
हृदयं क्षुरधाराभं शरत्पद्मोत्सवं मुखम् ।। २५ ।।
सुधामधुरं वचनं सर्वं स्वार्थ स्त्रिया मतम् ।
विषतुल्या प्रकोपे स्याद् विश्वासे नाशकारिणी ।। २६ ।।
अभिप्रायेऽतिगूढा स्यात् कर्म स्तेनमयं सदा ।
अविनयस्तथा स्वार्थः साहसं छलमनृतम् ।। २७।।
माया कापट्यमशुचिश्चैतेऽष्टो तत्स्वभावजाः ।
पुंसश्चाष्टगुणः शश्वत्कामदेवोऽतिकालहृत् ।। २८।।
आहारो द्विगुणो नित्यं नैष्ठुर्यं च चतुर्गुणम् ।
क्रोधश्चाथ हठश्चापि षड्गुणास्तत्र सन्ति हि ।। २९ ।।
स्नेहो दशगुणः स्वार्थः षोडशाधिगुणोऽस्ति वै ।
एवं दोषग्रहे नारीदेहे काऽऽस्था पितामह ।।।1.203.३ ० ।।
मलमूत्रादिखन्याख्ये का क्रीडाऽशुद्धवर्ष्मणि ।
भोगे तेजःक्षयः सख्ये कीर्तेर्नाशो धनक्षयः ।। ३ १।।
वपुःक्षयोऽतिसंभोगे कलहे मानसंक्षयः ।
विश्वासे सर्वनाशश्च बन्धने मोक्षरोधनम् ।। ३२।।
हानिरेव तया क्लृप्ता को लाभः प्रमदाग्रहे ।
यावद्धनं युवावस्था तावत्स्वीयाऽन्यथा तु न ।।३ ३ ।।
वृद्धं निःस्वं तथा रुग्णं पतिं सा प्रेक्षतेऽप्रियम् ।
श्ववत् लोकाचारभयाद् ददात्याहारमल्पकम् ।। ३४।।
सर्वं जानासि सर्वज्ञ विदायं देहि साम्प्रतम् ।
कृष्णभक्तिं प्रार्थयामि ययाचे तप उत्तमम् ।। ३५ ।।
नत्वा स्तुत्वा च याचित्वा क्षमां कृत्वा प्रदक्षिणम् ।
गच्छन्तं तनयं दृष्ट्वा क्षणं ब्रह्मा शुशोच ह ।।३६।।
यदि त्वं तपसे यासि किं मे संसारकर्मणि ।
सनकश्च सनन्दश्च तृतीयश्च सनातनः ।। ३७।।
तुर्यः सनत्कुमारश्चेतरः सनत्सुजातकः ।
यतिर्हंसिश्चारुणिश्च वोढुः पंचशिखस्तथा ।।३८।।
पुत्रास्ते तपसे याताः किं मे संसारकर्मणि ।
अन्येऽविवेकिनोऽसाध्याः किं मे संसारकर्मणि ।।३९।।
नोदनालक्षणमर्थं धर्मं वाञ्च्छन्ति पण्डिताः ।
विप्रो धृत्वा यज्ञसूत्रं वेदानधीत्य शक्तितः ।।1.203.४० ।।
परिसमाप्य तत्पश्चात् ददाति गुरुदक्षिणाम् ।
ततः साध्वीं सुकुलजां सुविनीतां समुद्वहेत् ।।४१ ।।
न नारी बन्धनं प्रोक्तं बन्धनं वासना मता ।
अवासनो जनः साध्वीयुक्तोऽपि मुक्तिमृच्छति ।।४२।।
स्त्रीणां दोषाश्च ये प्रोक्ता न ते सत्पतिसंभवे ।
पतिः कुपथगामी स्यात् तदा किं स्त्रीविदूषणम् ।।४३।।
सति स्वामिनि पत्न्याश्च दोषा भवन्ति सद्गुणाः ।
गुणागुणौ पत्यधीनौ यथा स्वामी तथा सती ।।४४।।
न दोषोऽस्ति च कन्यानां यथाबीजं तथाफलम् ।
क्षेत्रं तु सर्वथा शुद्धं यथा खाद्यं तथाऽङ्कुरम् ।।४५।।
स्त्रियस्तु सुखलाभाय नराणां वै विनिर्मिताः ।
सहन्ते सर्वमाक्रोशं वशीभवन्ति सर्वदा ।।४६ ।।
दुःखं स्वयमनुगृह्य सुखाकुर्वन्ति सत्पतिम् ।
तापत्रयविदग्धस्य नरस्याऽऽरामसाधनम् ।।४७।।
नारीरत्नं मया सृष्टं न दोषं दातुमर्हसि ।
पित्रा पराय दत्ता सा कन्या सर्वं विहाय वै ।।४८।।
याति गौरिव निर्दुःखा रंकां मा निन्द नारद ।
पराधीना सदा त्वन्याश्रया दासीव किंकरी ।।४ ९ ।।
मानं विहाय सेवायां स्थितां मा निन्द नारद ।
आकरे पद्मरागाणां जन्म काचमणेः कुतः ।।1.203.५० ।।
तद् वत्स सुखदाः सर्वा योषितः कमलांशजाः ।
निर्गुणं स्वामिनं साध्वी सेवते च प्रशंसति ।।५१ ।।
साधुः सद्वंशजां कन्यां गृह्णीयाद्धर्मनेत्रवान् ।
तस्यां पुत्रान्समुत्पाद्य वार्धक्ये तपसे व्रजेत् । । ५२ ।।
मत्तोऽधीतस्त्वया वेदो मह्यं च गुरुदक्षिणाम् ।
पुत्र देहीदमेवेह कुरु पत्नीपरिग्रहम् ।।५ ३ ।।
वत्स त्वं कुलजां कन्यां पूर्वपत्नीं च मालतीम् ।
मनुवंशीयसृंजयपुत्रीं तपःपरायणाम् ।।५४ । ।
गृह्णीष्व तां तव पत्नीं विवाहं कुरु पुत्रक ।
वैष्णवस्तं गृहे तिष्ठ कुरु भक्तिं हरेः सदा ।।५५ ।।
आदौ ब्रह्म ततो नारी ततो वनगतिस्ततः ।
अन्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ।।५ ६ ।।
नान्तर्बाह्ये हरिर्यस्य तस्य किं तपसा सुत ।
नारीं प्राप्य हरिं रक्ष नार्यां हरिरवस्थितः ।।५७।।
पुत्रा हरिकृता बोध्या नरकत्राणका यतः ।
तपसाऽपि हरिः सेव्यः सेवा हि परमं तपः ।।५८ । ।
तपसा सेवया चैव मुक्तिर्लभ्येति तत्फलम् ।
वत्स मद्वचनेनैव गृहे स्थित्वा हरिं भज । ।।५९ । ।
पितृप्रसादः प्राप्तव्योऽपाकर्तव्यमृणं पितुः ।
दाराग्रहणसाध्यं तत् कुरु वै दारसंग्रहम् ।। 1.203.६० ।।
दारासुखं कामसुखं चोपस्पर्शसुखं महत् ।
ततः सुखतमं पुत्रदर्शनं तद् गृही भव ।। ६१ ।।
पुत्रप्रयोजना कान्ता सर्वेभ्यः प्रेयसी हि सा ।
शतकान्ताप्रियः पुत्रो नास्ति पुत्रात् परः प्रियः ।। ६२।।
सर्वेभ्यो जयमन्विच्छेत्पुत्राच्छिष्यात्पराभवम् ।
पुत्र आत्मा सुतो बन्धुर्न्यस्येत् तत्राऽऽत्मसद्धजम् ।।६३ । ।
श्रुत्वैतन्नारदः प्राह पितर्जानन्नपि स्वयम् ।
जलबुद्बुदतुल्येऽत्र प्रवर्तयसि मां कथम् ।। ६४।।
विहाय हरिदास्यं मे मा भूत् नृजन्म निष्फलम् ।
कस्य पत्नी सुतः कस्य पतिः कस्याश्च बान्धवाः ।। ६५। ।
सर्वं कर्मकृतं जालं बन्धनं चेतनात्मकम् ।
यो वै मोचयति तस्मात् स पिता स गुरुः सखा ।। ६६।।
बन्धनं तु ददात्येषु विनिर्बन्धनचेतनम् ।
मोक्षात्तु पातयन् तं स रिपुः संसारयोजकः ।। ६७ ।।
किन्तु मुमुक्षुणा ग्राह्यं पितुर्वाक्यं चतुर्थकम् ।
नांगीकृतं त्रिवारं ते तत्फलं प्राप्तमार्तिदम् ।।६८।।
प्रथमे मानसे पुत्रे तवाऽऽज्ञा नैव पालिता ।
तेन मृत्युर्मम जातो मारीचो ह्यभवँस्ततः ।।६९।।
पुनर्मृतेश्च गन्धर्वस्ततो मृत्योश्च शूद्रजः ।
ततो मृतेरयं ब्राह्मो भवाम्यत्र चतुर्थकः ।।1.203.७० ।।
तस्माद् योग्याऽप्ययोग्या वा तवाऽऽज्ञा शिरसि धृता ।
प्रसन्नो भव मे ब्रह्मन् येनाऽहं स्यां सदा सुखी ।।७ १।।
आदौ यास्यामि भगवन्नरनारायणाश्रमम् ।
नारायणकथां श्रुत्वा करिष्ये दारसंग्रहम् ।।७२।।
यथाऽहं दारयोगेऽपि निर्बन्धः स्यां सदा पितः ।
तथाऽऽशिषः प्रदातव्या न निरुद्ध्येत मोक्षणम् ।।७३ ।।
देहि मे कृष्णमन्त्रं च सार्थं तद्गुणवर्णनम् ।
ब्रह्मा प्राह तदा पुत्रं सर्वज्ञानाऽऽकरं प्रियम् ।।७४।।
पत्युर्मन्त्रं पितुर्मन्त्रं न गृह्णीयात् कदाचन ।
गुरुर्महेश्वरस्तेऽस्ति प्राक्तनो गच्छतं प्रति ।।७५।।
श्रुत्वा प्रणम्य पितरं शिवलोकं ययौ मुनिः ।
द्वितीयमिव वैकुण्ठं सर्वस्मृद्धिसमन्वितम् ।।७६।।
कोट्यब्जाऽर्बुदलक्षैश्च गणैश्च पार्षदोत्तमैः ।
विकटैर्भैरवैः क्षेत्रैः कल्पवृक्षैश्च शोभितम् ।।७७।।
शिवं ददर्श मध्यस्थं गणानां दिव्यसंसदि ।
त्रिनेत्रं पञ्चवक्त्रं च गंगाढ्यं चन्द्रशेखरम् ।।७८।।
स्वर्णचंचज्जटाजूटं जपन्तं मालया हरिम् ।
नीलकण्ठं सर्पसूत्रं योगिसिद्धादिवन्दितम् ।।७९।।
प्रसन्नं शान्तिदं भक्तप्रियं परमवैष्णवम् ।
गत्वा नमाम तुष्टाव त्रितन्त्रीं क्वणयन् जगौ ।।1.203.८०।।
ददौ च शंकरस्तस्मै चासनं योग्यमर्हणम् ।
पप्रच्छाऽऽगमसद्ध्येयं चातिथ्यं प्रचकार च ।।८ १ ।।
मुनिर्निवेदनं चक्रे मन्त्रार्थागमनादिकम् ।
श्रुत्वा शंभुः प्रसन्नोऽभूत्प्राह नारदमोमिति ।।८२।।
हरिस्तोत्रं च कवचं मन्त्रं श्रीहरये नमः ।
ध्यानं ज्ञानं नारदाय ददौ सम्यङ्महेश्वरः ।।८३ ।।
नारदः प्राह देवेशं चाह्निकं मे वद् प्रभो ।
शंभुर्ब्राह्मणधर्मांश्च कथयामास तं ततः ।।८४।।
संक्षेपेण सदाचारान् इहाऽमुत्र सुखप्रदान् ।
शृणु लक्ष्मि च ते सर्वान् कथयामि सनातनान् ।।८५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने ब्रह्मणा नारदाय सृष्ट्यर्थमुपदिष्टम्, नारदेन ज्ञानद्वारा तदंगीकृतम् वैष्णवगुरुमन्त्रार्थं कैलासगमनं चेत्यादिनिरूपणनामा त्र्यधिकद्विशततमोऽध्यायः ।। २० ३।।