लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १९७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९७
[[लेखकः :|]]
अध्यायः १९८ →

श्रीलक्ष्मीरुवाच-
आचार्यपूजनं व्यासपूजनं गुरुपूजनम् ।
ब्रूहि मे भगवन्देव नित्यपूजात्मकं तु यत् ।। १ ।।
श्रीनारायण उवाच-
पूजयेद्विधिवद्भक्त्याऽऽचार्यं व्यासं गुरुं तथा ।
पूजापात्रं सोपचारं नीत्वा गत्वा गुरोः पुरः ।। २ ।।
नमस्कुर्यात्प्रथमं वै शिरसा पादयोः स्पृशेत् ।
जलेन दक्षिणपादांगुष्ठाभिषेचनं ततः ।। ३ ।।
स्थाल्यां कुर्यात् ततस्तत्र सपुष्पकुंकुमाऽक्षताम् ।
अर्पयेच्चन्दनं चैव लेपयेत् तत्र बिन्दुना ।। ४ ।।
पश्चात् तच्चन्दनं भाले लेपयेदूर्ध्वरेखया ।
चन्द्रकं कौंकुमं मध्ये साक्षतं कल्पयेच्छुभम् ।। ५ ।।
मस्तके पट्टकं दद्यात् बहुमूल्यं समुज्ज्वलम् ।
स्वर्णतारावलिप्रोतं रंगाढ्यं दीर्घमुत्तमम् ।। ६ ।।
गलपट्टं तथा दद्यादौर्णं सत्कंचुकं तथा ।
उत्तरीयं स्वर्णतारं धौत्रे द्वे च तथा विधे ।। ७ ।।
कटिवस्त्रं स्नानवस्त्रं तथा प्रावरणं नवम् ।
दद्याच्च गेन्दुकं रम्यं मृदु वै गुप्तदोरकम् ।। ८ ।।
मञ्चं दद्याच्च कशिपुं वस्त्रखण्डाँश्च नक्तकम् ।
पत्त्राणे कोमले दद्याद्यज्ञोपवीतमित्यपि ।। ९ ।।
स्कन्धपट्टं तथा दद्यादासनं श्रेष्ठमित्यपि ।
पार्श्वके द्वे च कार्पासे दद्यात् तूलपटीं तथा ।। 1.197.१० ।।
स्थालिकाद्वयमेवं च वाटिकाद्वयमित्यपि ।
आचमनीं होमपात्रं पूजापात्रं त्रिभाणकम् । । ११ । ।
वृत्तपात्रं तथा पानपात्रं च कलशं वरम् ।
ताम्बूलपात्रं सच्छत्रमुपानहौ सुकोमलौ । । १२। ।
पादुके यष्टिकां चैव कटिबन्धनमुत्तमम् ।
दद्याद्विविधधातूनां द्रव्याणां कारितानि वै ।। १३ ।।
कर्णयोः स्वर्णभूषाश्च कण्ठभूषास्तथा शुभाः ।
हस्तभूषाः कटिभूषाः पादभूषाश्च सर्वशः ।। १४।।
शृंखलाः कटकान् मालाश्चोर्मिकाः कण्ठिका वराः ।
रशनां पौरटीं दद्यात् सुगन्धिद्रव्यमुत्तमम् ।। १५।।
कस्तूरीं कर्पूरकं च स्नेहं विविधसौरभम् ।
श्रांगारिकं च शारीरं दद्याद्वै बहुभावतः ।। १६ ।।
यानं विमानं गन्त्रीं च वाहनं गां च दुग्धदाम् ।
दासान् दासींस्तथा द्रव्यं स्वर्णं रूप्यं विशेषतः ।। १ ७।।
दद्याच्च विविधं स्वन्नं धान्यं च द्विदलादिकम् ।
संस्कारवस्तु पात्रादि जीरकादि तथाम्लकम् ।। १८।।
ऐक्षवं नवनीतं च घृतं भोज्यं च नैकधा ।
दद्याच्छ्रीगुरवे साक्षान्नारायणाय योगिने ।। १९।।
ब्रह्मणे ज्ञानदात्रे च मन्त्रदात्रे कृपालवे ।
यद्यत्स्वस्य भवेत् हृद्यं तत्तच्छ्रीगुरवेऽर्पयेत् ।।1.197.२० ।।
एवं सर्वं विधायांऽकसमीपे च ततः पुनः ।
विविधानि फलान्येव शुष्काण्यार्द्राणि वा तथा ।।२ १।।
दद्याच्छ्रीगुरवे यो वै मोक्षं दानं ददाति च ।
ततश्चरणयोर्नत्वाऽबीरं गुलालमित्यपि ।।२२।।
दद्याछ्रीतुलसीपत्रं पुष्पाणि विविधानि च ।
दुग्धप्रक्षालनं कुर्याच्चरणयोः पवित्रयोः ।।२३। ।
स्नपनं चापि दुग्धेन गुरोः कुर्याद्विधानतः ।
एवं पञ्चामृतैः स्नपयित्वा शुद्धोदकेन च ।।।२४।।
मलनाशकद्रव्येण स्नपयित्वा पुनः पुनः ।
परिश्रमविनाशार्थं गुर्वंगानि प्रमर्दयेत् ।।२५।।
वस्त्रैः सम्मार्जयेद्देहं सुगन्धं त्वर्पयेत्ततः ।
वस्त्राण्याधारयेद्भूषाः शृंगाराणि च धारयेत् ।।२६।।
चन्दनाऽक्षतमालाभिः कज्जलैर्गन्धमूर्धकैः ।
स्वर्णहारैश्च मणिभिर्हीरकादिभिरादरात् ।।२७।।
पूजयेद्धूपदीपैश्च नैवेद्यैर्विविधैः शुभैः ।
मिष्टैर्हृद्यैः स्वादुतमैः पूजयेद्भोजयेत् सुखम् ।।२८।।
जलं सुगन्धं पानार्थं दद्यात्ताम्बूलमुत्तमम् ।
फलं दद्यात्तथा सौम्यं चारार्त्रिकं विधापयेत्। ।।२९।।
दण्डवत् सुस्तुतिं नमस्कारान् क्षमापनं ततः ।
प्रदक्षिणं प्रांजलिं च पुष्पाञ्जलिं समर्पयेत् ।। 1.197.३० ।।
आशीर्वादान् गुरूक्तांश्च गृहीत्वाऽत्त्वा प्रसादकम् ।
आपृच्छ्य च गृहं गच्छेत् सह नीत्वा प्रसादिकम् ।।३ १ ।।
स्वसम्बन्धिजनेभ्यश्च दत्वा प्रसादमेव तम् ।
गुरुं ध्यात्वा सदा प्रातः पूजयेत् क्रमशस्तथा ।।३२।।
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः ।
गुरुः साक्षात्परब्रह्म मोक्षदः पावको हि सः ।।३३।।
नास्ति गुरुसमं द्रव्यं नास्ति देवो गुरोः परः ।
नास्ति मोक्षो गुरोरन्यो नास्ति पुण्यं गुरोः परम् ।।३४।।
गुरोर्देहे परब्रह्म सर्वदा राजते हरिः ।
मूर्धनि चाऽक्षरं ब्रह्म वासुदेवो ललाटके ।।३५।।
नेत्रयोः सूर्यचन्द्रौ च नस्यश्विनीकुमारकः ।
मुखे नारायणो यज्ञो जिह्वायां वेदमण्डलम् ।। ३६।।
सरस्वती गुरोर्वाण्यां हृदि विष्णुः स्वयं स्थितः ।
उदरे भगवान्वैश्वानरो वसति सर्वदा ।। ३७।।
हस्ते पद्मं च कमला महालक्ष्मीस्तु मानसे ।
चरणे वसवः सन्ति तीर्थानि पावनानि च ।। ३८।।
सर्वेन्द्रियेषु तत्त्वानि देवताः सन्ति रोमसु ।
गुरोर्मूर्तिः पुण्यमूर्तिर्मन्त्रमूर्तिर्महेश्वरी । ।३९।।
स्वर्गं सत्यं च वैकुण्ठं गुरोर्मूर्तौ व्यस्थितम् ।
ब्रह्मानन्दो गुरावस्ति शाश्वतो निरुपाधिकः ।। 1.197.४० ।।
आनन्दो ब्रह्मणो विद्वान् गुरुरेव न चाऽपरः ।
गपदं किरणे ज्ञाने रपद्ं द्रव्यदानयोः ।।४१ ।।
ज्ञानदानाद्गुरुः प्रोक्तः प्रकाशद्रव्यवान् स्वयम् ।
गपदं मन्त्रविज्ञानं रपदं दापनं तथा ।।४२।।
मन्त्रदापनसामर्थ्याश्रयो गुरुर्हरिः स्वयम् ।
गुरवे भोजनं दत्तं राजसूयफलं क्रियात्। ।।४३।।
गुरवे वस्त्रदानादि ज्योतिष्टोमफलप्रदम् ।
गुरुपूजा हरेः पूजा गुरुर्योगफलं मतम् ।।४४।।
गुरुर्व्रतं गुरुर्यज्ञः समाधिर्गुरुरेव च ।
सम्प्रदायो गुरुः प्रोक्तः साक्षात्कारो गुरुर्मतः ।।४५।।
गुरोः प्रसन्नतायां स्युर्यमाश्च नियमाः शमः ।
साधनानि च सर्वाणि गुरौ तुष्टे कृतानि वै ।।४६।।
जन्मदौ पितरौ प्रोक्तौ गुरू नामकरो गुरुः ।
भाषायाः शिक्षिका माता कार्यादिशिक्षिका स्वसा ।।४७।।।
यज्ञोपवीतदो विप्रः शास्त्राध्यापक एव च ।
मन्त्रदो ज्ञानदश्चैव मोक्षदो गुरुरुत्तमः ।।४८।।
अनाद्यज्ञानमग्नोऽयमात्मा भ्रमति योनिषु ।
तस्याऽज्ञानं विनाश्यैव ज्ञानदानेन नित्यदा ।।।४९।।
वासनानां कर्मणां च कारयित्वा क्षयं ततः ।
हर्याराधनया भुक्तिमार्गं दर्शयति ध्रुवम् ।।1.197.५० ।।
मोक्षस्थितिं गमयति सोऽयं सर्वप्रदो गुरुः ।
दुःखहर्ता सुखदाता कोन्यस्तस्मात्परो गुरुः ।।५ १ ।।
गुरोः शक्तिर्ज्ञानरूपा शिष्यात्मनि प्रविश्य च ।
स्वाऽपरोक्षानुभूत्या च मोक्षं संप्रापयेद् गुरुः ।।५२।।
शक्तिज्ञानवंती दीक्षा शिष्यदेहं प्रविश्य च ।
मुक्ततां नयते दानात् क्षालनाच्च गुरोर्बलात् ।।५३।।
दीक्षाशिक्षानुसारेण शिष्योऽनुग्रहमर्हति ।
दीक्षाशिक्षावियोगे तु न विद्यासिद्धिमुक्तयः ।।५४।।
अतो दीक्षाख्यसंस्कारात् शिक्षाख्यज्ञानसंग्रहात् ।
गुरुद्वारा सदा शिष्यः शुद्धतां प्राप्नुयात् क्रमात् ।।५५।।
शिष्यस्तु शिक्षणीयत्वाद् गुरोर्गौरवकारणात् ।
व्यवहाराच्च शिष्टानां गुरोर्गौरवमाचरेत् ।।५६।।
यो गुरुः स हरिः प्रोक्तो यो हरिः स गुरुः स्मृतः ।
गुरुर्हरिः स्वयं कृष्णो विद्याशिक्षात्मकः स्थितः ।।५७।।
यथा कृष्णस्तथा विद्या यथा विद्या तथा गुरुः ।
कृष्णविद्यागुरूणां च पूजया सदृशं फलम् ।।५८।।
सर्वदेवात्मकश्चासौ सर्वमन्त्रमयो गुरुः ।
शिष्यः सर्वप्रयत्नेन गुर्वाज्ञां शिरसा वहेत् ।।५९।।
श्रेयोर्थी यदि गुर्वाज्ञां मनसापि न लंघयेत् ।
गुर्वाज्ञापालकः शिष्यो ज्ञानसम्पत्तिमश्नुते ।।1.197.६ ० ।।
गच्छँस्तिष्ठन्स्वपन्भुंजन् गुरोर्वचनमाचरेत् ।
गुर्वाज्ञयाऽन्यकर्माणि कुर्यादात्मनिवेदिवत् ।।६ १ ।।
समक्षं कर्म कुर्वीत सर्वं चानुज्ञया गुरोः ।
गुरोर्गृहे समक्षं वा न यथेष्टासनो भवेत् ।।६२।।
गुरुर्देवो यतः साक्षात्तद्गृहं देवमन्दिरम् ।
यथेह वह्निसम्पर्कान्मलं त्यजति कांचनम् ।।६३।।
यथा वह्निसमीपस्थं घृतं प्रलीयते द्रुतम् ।
यथा प्रज्वलिते वह्नौ शुष्कं काष्ठं प्रदह्यति ।।६४।।
तथैव गुरुसम्पर्कान्मलं त्यजति मानवः ।
पापं विलीयते सर्वं वासना च प्रदह्यति ।।६५।।
मनसा कर्मणा वाचा गुरोः क्रोधं न कारयेत् ।
तस्य क्रोधेन दह्यन्ति ह्यायुःश्रीज्ञानसत्क्रियाः ।।६६।।
तत्क्रोधकारिणो ये स्युस्तेषां यज्ञाश्च निष्फलाः ।
यमाः सनियमाश्चापि निष्फलाः संभवन्ति हि ।।६७।।
कदापि न गुरोर्मर्मभेदि विरुद्धमावदेत् ।
वदेद् यदि महागर्वाद् याति शिष्यो ह्यधोगतिम् ।।६८।।
मनसा कर्मणा वाचा न मिथ्याचारमाचरेत् ।
गुरोर्हितं प्रियं कुर्यादादिष्टो वा नवा सदा ।।६९।।
असमक्षं समक्षं वा गुरोः प्रियकरो भवेत् ।
स्वकार्यं परितस्त्यक्त्वा गुरोः कार्यं समाचरेत् ।।1.197.७० ।।
संवित्संजनन तत्त्वं परमानन्दमिश्रितम् ।
येनात्र विदित लोके स एवात्र प्रमुक्तिदः ।।७ १।।
आश्रितं तारयेन्नौका किं शिला तारयेच्छिलाम् ।
ब्रह्महीने कुतो बोधः कुतो ह्यात्मपरिग्रहः ।।७२।।
ब्रह्मतत्त्वसमेतोऽत्र मुक्तो मोचयति प्रजाः ।
यस्याऽनुभवसन्तुष्टा बुद्धिरानन्दकाष्ठिका ।।७३।।
तस्य दर्शनमात्रेण परानन्दोऽभिजायते ।
तस्य सेवनकार्येण नैष्कर्म्यं सिद्ध्यति ध्रुवम् ।।७४।।
तस्य शुश्रूशया सर्वं सिद्धं भवति देहिनः ।
स एवानन्दपूर्णस्तु सेवनीयो मुमुक्षुभिः ।।७५।।
यस्माद् विद्या चात्मवित्तिर्ब्रह्मलब्धिर्न मुक्तता ।
आनन्दोऽपि न चाप्येत न भाव्यः स गुरुस्थितौ ।।७६।।
गुरोर्भ्रातॄंस्तथा पुत्रान् बोधदान् भक्तिसंग्रहान् ।
सेवेत भावतो नित्यं गुरुमाराधयेत्सदा ।।७७।।
सर्वाऽभयप्रदातारं करुणाऽऽक्रान्तमानसम् ।
तोषयेद् बहुधा भक्त्या सर्वस्वाऽर्पणपूजया ।।७८।।
तावदाराधयेच्छिष्यः प्रसन्नोऽसौ भवेद्यथा ।
गुरौ प्रसन्ने शिष्यस्य सद्यः पापक्षयो भवेत् ।।७९।।
तस्माद्धनानि रत्नानि क्षेत्राणि च गृहाणि च ।
भूषणानि च वासांसि यानशय्यासनानि च ।।1.197.८ ० ।।
एतानि गुरवे दद्याद्भक्त्या वित्तानुसारतः ।
वित्तशाठ्यं न कुर्वीत यदीच्छेच्छ्रेयमात्मनः ।।८१ ।।
स एव जनको माता भर्ता बन्धुर्धनं सुखम् ।
सखा मित्रं च यत् तस्मात्सर्वं तस्मै निवेदयेत् ।।८२।।।
आक्रूष्टास्ताडिता वापि ये विषादं न यान्त्यपि।
अहिंसका दयावन्तो मोक्षोद्यतसुचेतसः ।।।८३।।
अमानिनो बुद्धिमन्तस्त्यक्तस्पर्धाः प्रियंवदाः ।
ऋजवो मृदवः स्वच्छा विनीताः स्थिरचेतसः ।।८४।।
एतादृशा नित्यसत्त्वमया नारीनराः शुभाः ।
श्रयेयुः सद्गुरुं शिष्याः कन्यकाश्च कुमारकाः ।।८५।।
शिष्याः परिश्रिताः सेवां गुरोः कुर्वन्ति नैव ये ।
अस्वातन्त्र्यकृतो दोषो नास्ति तेषां परार्थतः ।।८६।।
बहुनाऽत्र किमुक्तेन योपि कोपि गुरुश्रितः ।
ब्रह्ममार्गगतो भावी मुक्तिभाङ्नात्र संशयः ।।८७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सप्तनवत्यधिकशततमोऽध्यायः ।। १९७।।