सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १९६

विकिस्रोतः तः
← अध्यायः १९५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९६
[[लेखकः :|]]
अध्यायः १९७ →

श्रीलक्ष्मीरुवाच-
ब्रह्मविष्ण्वोरन्तराले ब्रह्मणः किरणं च यत्। ।
समुत्पन्नस्ततः शर्वः सोऽभवद्वै सदाशिवः । । १ । ।
किरणं तद्ब्रह्मलिंगं श्रुतं तव मुखान्मया ।
निराकारं हि तद्ब्रह्म बाणरूपं निरूप्यते । । २ ।।
तदेव शिवलिंगं वा चान्यद्वा लोकपूजितम् ।
इति मे संशयं छिन्धि यथावृत्तान्तबोधनात् । । ३ । ।
श्रीनारायण उवाच-
शृणु लक्ष्मि कथां दिव्यां साश्चर्यां पापनाशिनम् ।
दैवीं देवचमत्कारमयीं नाऽन्यस्य भाविनीम् ।। ४ ।।
यतस्तपःप्रकर्तारो भवन्ति संयमैर्युताः ।
सस्त्रीका अपि मुनयो ब्रह्मध्यानपरायणाः । । ५ ।।
तथापि कामभावेन क्वचिद्बन्धजवेगतः ।
व्यवहारं समाश्रित्य ब्रह्मत्वमनवाप्य च ।। ६ ।।
अज्ञत्वेन च देवानामनभिज्ञा भवन्ति ते ।
पुरा दारुवने ह्यासन् ऋषयः संशितव्रताः ।। ७ ।।
न च क्रोधेन निर्मुक्ताः केवलं मूढबुद्धयः ।
यद्यपि मुनयः सर्वे काष्ठलोष्ठासमदृशः ।। ८ ।।
वेदं त्वधीयमानाश्च कृताग्निसदनक्रियाः ।
वर्तन्ते स्म च शारीरभावेन गृहमेधिनः ।। ९ ।।
पार्वत्यास्तपसः काले शिवोऽपि चाऽद्वितीयकः ।
सर्वस्वपरित्यागेनाऽवर्तत तापसो यथा ।। 1.196.१० ।।
न चर्म न च कौपीनं नान्यत् किमपि साधनम् ।
रक्षति स्माऽऽवरणार्थं दिगम्बरो ह्यटत्यपि ।। ११ ।।
पुष्पमालां दधन् कण्ठे युवा सर्वांगसुन्दरः ।
वने वने ऋष्याश्रमे प्राऽटत् भिक्षाकपालभृत् ।। १२।।
देहि भिक्षां ततश्चोक्त्वा संभ्रमन्नाश्रमान् ययौ ।
द्विजर्षभाश्च दिवसे समिधार्थं वनं गताः ।। १३ ।।
आसन्नाश्रमवर्येषु ऋषिपत्न्यश्च केवलाः ।
तं विलोक्याऽऽश्रमगतं योषितो ब्रह्मवादिनाम् । । १४।।
विह्वला विस्मिता जाताः काश्चिद्भयमुपागताः ।
काश्चिच्च मोहितास्तत्राऽऽजग्मुर्दर्शनलालसाः ।। १५ ।।
प्रोचुः परस्परं नार्यः पश्याम एहि भिक्षुकम् ।
दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते ।। १६ ।।
परस्परमिति प्रोक्त्वाऽऽदाय मूलफलादिकम् ।
आलिलिंगुस्तथा चान्या करं धृत्वा तथाऽपराः ।। १७ ।।
परस्परं तु संस्पर्शात्संमग्ना ऋषिपत्निकाः ।
गृहाण भिक्षामूचुस्तास्तं देवं मुनियोषितः ।। १८।।
सोपि भिक्षाकपालं च प्रसार्य योषितः प्रति ।
देहि भिक्षां शिवं तेऽस्तु धनपुत्रवती भव ।। १९ ।।
भिक्षां दत्वा तु ता नार्यो जहसुश्चञ्चला बहु ।
पप्रच्छुश्च त्वया कोऽयं नग्नव्रतविधिर्धृतः ।। 1.196.२ ०। ।
भवान् वै तापसो हृद्यो ब्रूहि स्म यदि मन्यसे ।
शंकरस्तु हसन् प्राह रहस्यं व्रतमस्ति मे ।। २१ ।।
प्रकाशने फलं न स्यादिति मत्वा न पृच्छत ।
इत्युक्तास्ता ब्रह्मपत्न्यः प्रत्यूचुरेहि नो गृहम् । । २२।।
इत्युच्चार्य तदा तं वै जगृहुः पाणिपल्लवैः ।
काश्चित् कण्ठे काश्चित्पृष्ठे काश्चिदुदरमण्डले ।। २३ । ।
काश्चिजान्वोश्च कट्यां च जटासु पार्श्वयोस्तथा ।
काश्चित्तु पादयोः काश्चिन्नासिकायां च कर्णयोः ।। २४।।
एवं समन्ततो भिक्षुकेश्वरं परिवार्य ताः ।
रंजयामासुराकृष्य स्वां स्वां प्रति द्विजांगनाः ।। २५।।।
एतस्मिन्नन्तरे विप्रा आदाय समिधो ययुः ।
स्वगृहाणि च तत्रैतत्कौतुकं तैर्विलोकितम् ।। २६ ।।
विरुद्धं तच्च ते दृष्ट्वा सरोषा ह्यभवन् क्षणात् ।
कोऽयं कीदृक् प्रमत्तोऽयं योषितां क्षोभकारकः ।। २७।।
कोऽसि कस्मादागतोऽसि वस्त्रं न ध्रियते कथम् ।
पृष्ठोऽपि नाऽवदत् किंचित् सोऽवधूतो दिगम्बरः । ।२८ ।।
प्रत्युत तदनाश्रुत्य लिंगे चांचल्यमावहन् ।
प्रमत्तयोगिवत्तत्राऽदर्शयत् कामनाबलम् ।। २९ ।।
क्षोभं विलोक्य भूदेवा ज्ञात्वा प्रमत्तमेव तम् ।
दृष्ट्वा विकारवल्लिंगं जघ्नुर्दर्भशलाकया ।। 1.196.३० ।।
ताडयामासुरत्यर्थं काष्ठपाषाणपत्तलैः ।
समन्त्रया तया दर्भशलाकया तु मूलतः ।। ३१ ।।
लिंगं भुवि प्रपतितं विहाय वृषणौ हतम् ।
शलाकया हतस्याऽस्य खण्डाश्च द्वादशाऽभवन् ।। ३२।।
पातिते तु ततो लिंगे गतोऽन्तर्धानमीश्वरः ।
तदा शोकोऽभवत्तेषामृषीणां भावितात्मनाम् ।। ३३ ।।
वर्तन्ते व्याकुलाः सर्वे विद्मो वयं न शंकरम् ।
कोऽयं योगी कथमायात् किमर्थं तापसः स्वयम् ।। ३४।।
ब्रुवन्त एवं ते सर्वेऽमन्यन्त पापकं कृतम् ।
लिंगखण्डास्तदा सर्वे समुत्पतन्ति चाम्बरे ।। ३५।।
यत्र यत्र च यः खण्डो याति तत्राग्निवत् तदा ।
ददाह पुरतः प्राप्तं पुनरुत्प्लुत्य गच्छति ।। ३६ ।।
यत्र यत्र च यो याति तत्र दहति सर्वथा ।
पाताले च गताः खण्डाः स्वर्गे चापि तथागताः ।। ३७।।
भूमौ सर्वत्र ते याता उड्डयन्ते पतन्ति च ।
दाहयन्त्यखिलं विश्वं स्थिरा नैवाऽभवन् क्वचित ।। ३८ ।।
लोकाश्च व्याकुला जाताः ऋषयस्तेऽतिदुःखिताः ।
न शर्म लेभिरे केऽपि सुराऽसुरर्षिमानवाः ।। ३९ ।।
शान्त्युपायविहीनास्ते ब्रह्माणं शरणं ययुः ।
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं तदा ।। 1.196.४० ।।
प्रलये तु निमित्तास्ते लज्जयाऽधोमुखाः स्थिताः ।
तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे ।। ४१ ।।
ज्ञात्वा तच्छांकरं कृत्यं ब्रह्मा वचनमब्रवीत् ।
अहो विप्राः सदा क्रुद्धा जानन्त्येव न तात्त्विकम् ।।४२। ।
न धर्मं च क्रियां कांचिज्जानन्ति मूढबुद्धयः ।
ब्रह्मतत्त्वं विजानन्ति ब्राह्मणास्ते प्रकीर्तिताः ।।४३ ।।
ब्रह्मणि नैव कामोऽस्ति विकृतिर्न कुतश्च रुट् ।
देहधर्मा न वै देहाऽध्यक्षे सन्ति यथार्थतः ।।४४।।
आत्मधर्मा न वै देहे इति जानन्ति भूसुराः ।
ह्येतज्ज्ञानविहीना ये देहाहंममतान्विताः ।।४५।।
क्रुध्यन्ति देहमाश्रित्य घातयन्ति पराँस्ततः ।
द्रुह्यन्त्यपि च पारक्यस्वीयभेदसमाश्रिताः ।।४६।।
ततः कर्मवशास्ते वै भुंजते स्वर्गनारकान् ।
तन्मनः शोधयेद्धीमान् ज्ञानयोगात्मभावनैः ।।४७।।
तस्मिन् शुद्धे ह्यन्तरात्मा स्वयमेवाऽविकारवान् ।
न क्लिश्यति वपुःक्लेशैर्वपुर्धर्मैः शुभाऽशुभैः ।।।४८।।।
तथा सति च नाऽऽवेशः कामक्रोधादिमूलकः ।
तद्भावे च नाऽनर्थः समुत्पद्येत चेदृशः ।। ४९।।
भवन्तः क्रोधकामाभ्यामभिभूताऽऽश्रमे स्थिताः ।
ज्ञानिनामाश्रमे क्रोधकामाभिभवनं वृथा ।।1.196.५० ।।
वस्तुतो नास्ति नारीणां देहो नारीति नामभाक् ।
नापि नरस्य देहोऽपि नर इत्यपि नामभाक् ।।५१।।
उभयोस्तु सदा शारीराऽऽत्मास्ति नरशब्दभाक् ।
नृभोग्यशरीरं यत् तन्नारीति संप्रकीर्त्यते ।।५२।।
श्मश्रुलोऽश्मश्रुलको वा देहो नारीति वोच्यते ।
देहस्यैवोपभोगोऽस्ति नान्यदेहस्य कस्यचित् ।।।५३।।
परदेहसुखदुःखे न भुज्येते परात्मना ।
स्वीयदेहसुखदुःखे भुज्येते हि निजात्मना ।।५४।।
तस्मात् केयं कस्य नारी कोऽयं कस्या नरस्तथा ।
क्व च न्यस्तसमस्तेच्छा क्व च नारीमयो भ्रमः ।।।५५।।
क्व क्रोध ईदृशो घोरो येनात्मानं न जानथ ।
सक्रोधो यजते यच्च ददाति च जपत्यपि ।।५६।।
जुहोत्यपि न वै तस्य फलमाप्नोति मोघकृत् ।
ज्ञातारच्च भवन्तो वै कुर्वते गर्हितं द्विजाः ।।५७।।
अज्ञातारस्तर्हि कुर्युः किं तत्राश्चर्यमूह्यते ।
शिवं विरुद्ध्य कुशलं कस्य जातं च वा भवेत् ।।५८।।
मध्याह्नसमये प्राप्तमतिथिं न परामृशेत् ।
तस्यैव सुकृतं नीत्वा दत्वा स्वीयं च दुष्कृतम् ।।५९।।
निर्यात्यतिस्थितद्वासात् किं पुनर्यत्र शंकरः ।
यावल्लिंगं स्थिरं न स्यान्न वै स्याज्जगतां शुभम् ।।1.196.६० ।।
भवद्भिस्तु तथा कार्यं यथा स्वास्थ्यं भवेदिह ।
श्रुत्वैतत् ऋषयः प्राहुर्ब्रह्मन् तत्त्वं समादिश ।।६१ ।।
ब्रह्मोवाच समाराध्य हरं सुखमवाप्नुमः ।
गच्छामः शरणं देवं कैलास तु शिवालयम् ।।६२।।
जग्मुश्च संहतास्तत्र ददृशुः शंकरं स्थितम् ।
अलिंगं च ततः स्तोतुं समारब्धाः सुरास्तदा ।।६३ ।।
अलिंगाय महाज्वालानलरूपाय ते नमः ।
दिगम्बरायाऽविकृतये पराऽऽकृतये नमः । । ६४।।
दिव्यलीलाप्रर्कत्रे ते क्षमाशीलाय ते नमः ।
नमः शान्तस्वरूपाय घोरलिंगाय ते नमः ।।६५।।।
नोऽपराधान् क्षमस्वाऽत्र महादेव नमोऽस्तु ते ।
स्वलिंगं पतितं देव प्रभो समुपसंहर ।।६६।।
त्रैलोक्यं दहति वह्निमयं द्वादशरूपभाक् ।
कृपां कुरु महादेव तव लीलामयं जगत् ।।६७।।
एवं स्तुतः प्रसन्नश्च प्राहर्षीन् शंकरस्तदा ।
यस्य द्रोहः कृतस्तस्य पूजनं कुरुत द्विजाः ।।६८ । ।
तदा भविष्यति शान्तिर्लिगं स्थाने लगिष्यति ।
सलिंगोऽहं तथा स्यां वै येन मे प्रीतिरुत्तमा । । ६९। ।
यथाऽभिलषितं सौख्यं ततः प्राप्स्यथ भूसुराः ।
देवा ऋषयो मुनयो ब्राह्मणा ह्यसुरास्तथा । । 1.196.७० । ।
मिलित्वा मम लिंगस्य पूजां कुर्वन्तु षोडशैः ।
उपचारैस्ततः शान्ता भविष्यन्त्येव द्वादश । ।७१ । ।
शकला मम लिंगस्य नान्यथा तु कदाचन ।
कुरुक्षेत्रे तथाऽन्यत्र यत्र यत्र पतन्ति ते । ।७२। ।
तत्र तत्र योनिपीठे स्थापयन्तु द्विजा नु तान्। ।
प्रथमं कुरुक्षेत्रे च यूयं गच्छन्तु संहताः । ।७३ । ।
तत्र सरसि संस्नात्वा कुरुतैकस्य पूजनम् ।
तस्य शान्तौ भविष्यन्ति तदन्ये शान्तवह्नयः । ।७४।।
लिंगखण्डा यत्र यत्र पतितास्तत्र पूजनम् ।
प्रकुर्वन्तु महाभागा गच्छन्तु मा चिरं यतः । ।७५। ।
आराध्य प्राग्भवीयां मे पत्नीं सतीं स्थिरायनाम् ।
योनिरूपां प्रसंकृत्वा स्थापयन्तु च तत्र तत् ।।७६। ।
कुभमेकं च संस्थाप्य कृत्वाऽष्टदलमुत्तमम् ।
दुर्वायवांऽकुरैस्तीर्थोदकैरापूरयन्तु तम् ।।७७। ।
वेदमन्त्रैस्ततस्तं च कुंभं प्रमन्त्रयन्तु च ।
पूजयित्वा कलशं तं तज्जलेनाऽभिषेचनम् । ।७८ । ।
शतरुद्रीयमन्त्रैश्च प्रोक्षणं शान्तिमित्यपि ।
कुर्वन्तु योनिरूपायां बाणं शान्तिं गमिष्यति ।।७९। ।
संस्थाप्यैवं लिंगखण्डं लिङ्गाऽग्रे चाऽऽह्वयन्तु माम् ।
सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा । ।1.196.८० ।।
नैवेद्यादिकपूजाभिस्तोषयन्तु परेश्वरम् ।
प्रणामैः संस्तवैर्नृत्यैर्गीतैश्चापि प्रदक्षिणैः ।।८ १ ।।
ततः स्वस्त्ययनं कृत्वा जयेति व्याहरन्तु च ।
सर्वशान्तिं कुरु देव प्रसन्नो भव सर्वथा ।।८ २ ।।
शान्तो भव महादेव रक्षां कुरु च नः सदा ।
एवं कुर्वन्तु भो विप्रा गच्छन्तु मा चिरं यतः ।।८ ३ ।।
इत्युक्तास्ते द्विजदेवादयो नत्वा महेश्वरम् ।
प्राप्ताः प्रसन्नमनसः कुरुक्षेत्रे सरस्तटम् ।।८४।।
तत्र त्वाराधिता देवी सती संस्मृत्य भूसुरैः ।
द्रागेव सा शंकरार्थं दिव्या ह्युपस्थिता ह्यभूत् ।।८५ ।।
ब्राह्मणैर्वन्दिता योनिरूपा दिव्याऽभवत्तदा ।
तत्र तु ब्राह्मणैर्मन्त्रैर्लिंगाग्रं स्थापितं तथा ।।८६।।
सर्वं रक्तादि संक्षाल्य मर्दनाद्यैः समीकृतम् ।
षोडशोपचारकैस्तद् वेदमन्त्रैः सुरादिभिः ।।८७।।
लिङ्गाग्रं पूजितं तत्र भक्त्या यथोपवस्तुभिः ।
सुप्रसन्नो महादेवो ह्याविरास च मूर्तिमान् ।।८८ ।।
स्वर्णवर्णोऽतितेजस्वी किरणैः परिवेष्टितः ।
प्रसन्नवदनः शान्तः सर्वानाह ततो हरः ।।८९ ।।
शान्तं च ब्राह्मणा युष्मत्कृतं द्रोहाख्यकर्म तत् ।
शान्ताश्च सकला यत्र यत्र सन्ति च ते तथा ।। 1.196.९० ।।
इदं तु पूजितं सत्या योन्यां संस्थाप्य यन्मम ।
लिंगाग्रं तत् हाटकेशसंज्ञं ख्यातिं गमिष्यति ।। ९१ ।।
वसतु तच्च पाताले हाटकेश्वरसंज्ञया ।
अत्र च सृष्टिकृद् ब्रह्मा लिंगं शैलमयं तदा ।। ९२।।
आद्यं लिंगं समास्थाप्य स्वयं पूजितवाँस्ततः ।
तस्य स्थाण्वीश्वरनाम्ना ब्रह्मणा ख्यातिरास्थिता ।। ९३ ।।
ततः कालान्तरे तद्वै ख्यातिं नागेश्वराभिधाम् ।
दारुकावनमाश्रित्य समेष्यतीति जानथ ।। ९४।।
अथ देवा यत्र खण्डाः पतिता ह्यभवँस्तदा ।
तत्र गत्वा पुपूजुस्तान् योनिपीठान् विधाय च ।। ९५।।
तत्र तत्र च ते खण्डाः पूजां संगृह्य भक्तितः ।
स्वयमहृश्यतां याता योजिताश्च यथाक्रमम् ।। ९६।।
लिंगाग्रं चापि पातालात्समुत्थाय समागतम् ।
तच्चापि च यथास्थानं संयोगं लब्धवत्तदा ।।९७।।
एवं सम्पूर्णतां यातं लिंगं सचेतनं ततः ।
शिवस्य वृषणौ प्राप्य यथास्थानमवस्थितम् ।।९८ ।।
संयोजितं यथावत्तत् शिवेनाऽद्भुतकर्मणा ।
ब्रह्मा वा शंकरो वाऽथ विष्णुर्वा शक्नुयात्तथा ।। ९९।।
नाऽन्यस्यैतद्धि सामर्थ्यं मारणे योजने गतौ ।
पूजनार्थं तु सर्वेषां चमत्कारः कृतो ह्ययम् ।। 1.196.१०० ।।
चैत्रस्य कृष्णपक्षे वै लिंगपातोऽभवत्तदा ।
तत्र दिनेऽर्हणीयानि लिंगानि दश च द्वयम् ।। १० १।।
चैत्रे मासे त्रयोदश्यां दिव्यनक्षत्रयोगतः ।
शुक्राऽर्कचन्द्रसंयोगे दिने पुण्यतमे शुभे ।। १० २।।
प्रतिष्ठितं स्थाणुलिंगं ब्रह्मणा लोकधारिणा ।
ऋषिभिर्देवसंघैश्च पूजितं शाश्वतीः समाः ।। १०३ ।।
एवं द्वादशलिंगानि ज्योतिर्लिंगानि तानि वै ।
शंकरस्य महाज्योतिर्मयलिंगानि सन्ति हि ।। १ ०४।।
सचेतनस्वरूपाणां खण्डानां यत्र संस्थितिः ।
पूजनं च प्रतिष्ठानं कृतं स एव शंकरः ।। १ ०५।।
साक्षादस्तीति तान्येव मूर्तिमान् शंकरः स्वयम् ।
विराजते महद्ब्रह्म ज्योतीरूपः स सर्वदा ।। १०६।।
ज्योतिर्लिंगानि तान्येव कथयामि शृणु प्रिये ।
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।। १०७ ।।
उज्जयिन्यां महाकालमोंकारे चाऽमरेश्वरम् ।
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम् ।। १ ०८।।
वाराणस्यां च विश्वेशं त्र्यम्बकं गोमतीतटे ।
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।। १० ९।।
सेतुबन्धे च रामेशं घुश्मेशं च शिवालये ।
ग्राह्यमेषां तु नैवेद्यं भोजनीयं प्रयत्नतः ।। 1.196.११ ०।।
ततस्तत्तत्स्थले ह्रासे स्थापितानि पुनः पुनः ।
भक्तैर्लिंगानि तान्यत्र कथयामि शृणु प्रिये ।। १११ ।।
सौराष्ट्रे सोमनाथस्तु चन्द्रदुःखक्षयंकरः ।
चन्द्रसंस्थापितो देवः प्रत्यक्षो लीनतां गतः ।। ११२। ।
क्षयकुष्ठादिरोगाणां नाशकः पूजनात् प्रिये ।
शिवावतारः सोमेशो लिंगरूपेण संस्थितः । । ११३ ।।
मल्लिकार्जुनसंज्ञश्चावतारः शंकरस्य वै ।
द्वितीयः श्रीगिरौ प्रोक्तो लिंगरूपेण संस्थितः । । १ १४। ।
गणेशस्य विवाहेन कार्तिकेयस्तु रोषतः ।
व्रह्मचारिव्रतप्रतिज्ञां कृत्वा संययौ यदा ।। १ १५।।
तत्र पुत्रवियोगेन सशोकः शंकरो ययौ ।
संस्थितो लिंगरूपेण द्वितीयः स हरः स्वयम् ।। ११६ ।।
उज्जयिन्यां नगर्यां तु महाकालाभिधाहरः ।
वेदविप्रस्य रक्षार्थं मूर्तिमान् शंकरो ययौ ।। १ १७।।
वेदधर्मविलोप्तारं दूषणाऽऽख्यासुरं तदा ।
हुंकारेणैव तूर्णं वै भस्मसात् कृतवान् हरः ।। १ १८।।
महाकालाभिधः सोऽयं लिंगरूपेण संस्थितः ।
देवैः सम्प्रार्थितः शंभुर्ज्योतिर्लिंगस्वरूपवान ।। १ १९ ।।
अथ विन्ध्याचलध्यातो मूर्तिमान् शंकरः स्वयम् ।
ब्रह्मणा स्थापितस्तत्र ज्योतिर्लिंगचतुर्थकम् ।। 1.196.१ २ ० । ।
ओंकारेश्वरमित्याख्यं शंभुस्तत्र व्यवस्थितः ।
केदारे पर्वते साक्षात्स्वयं हिमगिरौ हरः ।। १२१ ।।
केदारेश्वर इत्याख्यो नरनारायणेच्छया ।
तिष्ठति पञ्चमो दिव्यो मूर्तिमान् बाणरूपतः । । १२२ ।।
अथ षष्ठः शिवज्योतिर्लिंगावतार उत्तमः ।
सुदक्षिणाख्यं राजानं कामरूपाधिपं हरः ।। १२३ ।।
संररक्षाऽसुरं भीमं हत्वा भीमेश्वरो हि सः ।
ज्योतिर्लिंगस्वरूपेण डाकिन्यां संस्थितः स्वयम् । । १२४ । ।
मन्दराद्रेः समागत्य स्वयं काश्यां तु यः स्थितः ।
ज्योतिःस्वरूपः काशीविश्वेश्वरः स तु सप्तमः ।। १२५ ।।
अथ गौतमसंस्तुत्या प्राविर्भूतो हरः स्वयम् ।
गोदावर्यास्तटे त्र्यम्बकेश्वराख्यस्तथाऽष्टमः । । १२६ ।।
अथ रावणसंस्तुत्या चिताभूमौ हरः स्वयम् ।
आविर्भूतो वैद्यनायेश्वरो ज्योतिर्व्यवस्थितः ।। १२७ ।।
दशमो दारुकसंज्ञं राक्षसं हतवान् हरः ।
ररक्ष भक्तं वैश्यं सः सुप्रियाख्यं ततः स्वयम् ।। १२८ ।।
सन्तस्थौ साम्बिकः शंभुर्ज्योतिर्लिंगस्वरूपधृक् ।
अथैकादशसंख्याको रामादित्यप्रतिष्ठितः ।। १२९ ।।
रामेश्वरस्वरूपः स ज्योतिर्लिंगात्मकः स्वयम् ।
शंभुर्विराजते भक्तेभ्यो विजयवरप्रदः । । 1.196.१३० ।।
भक्तेन घुष्मना संराधितो हरः स्वयं ययौ ।
घुष्मापुत्रस्य रक्षार्थं सुदेह्येन हतस्य वै ।। १३१ ।।
ततो घूष्मेश्वरज्योतिर्लिंगरूपो विराजते ।
इति ते कथिता लक्ष्मि हरद्वादशमूर्तयः ।। १३२।।
तान् दृष्ट्वा च समभ्यर्च्य ध्यात्वा श्रुत्वाऽपि मानवः ।
मुच्यते सर्वपापेभ्यो भुक्तिं मुक्तिं च विन्दति ।। १३३ । ।
एवं निमित्तमालम्ब्य ज्योतिर्लिंगानि चाऽभवन् ।
अथ कालान्तरे स्थानह्रासाच्च युगभेदतः ।। १ ३४।।
अन्येऽन्ये स्थापयिष्यन्ति प्रजीर्णोद्धारकर्मभिः ।
युगान्तरप्रभेदेन किमन्यच्छ्रोतुमिच्छसि । । १ ३५। ।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दारुवने भिक्षार्थं गतस्य नग्नस्य शंकरस्य दर्भशलाकया लिंगपतनं द्वादशखण्डाश्च ज्योतिर्लिंगानीतिनिरूपणनामा षण्णवत्यधिकशततमोऽध्यायः ।। १९६ ।।