लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १९५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९५
[[लेखकः :|]]
अध्यायः १९६ →

श्रीलक्ष्मीरुवाच-
हिमवद्भूभृतः पुत्री कालीति वर्णतोऽभवत् ।
कामरूपधरा सा च विवाहसमये तु वै ।। १ ।।
गौरं रूपं धृतवती पुनः काल्येव साऽभवत् ।
नित्यं गौरी कथं जाता कथां तां वद केशव ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि प्रवक्ष्यामि रूपं गृहस्थकृत्प्रियम् ।
कांचनसदृशं यद्वा स्थलपद्मादिसदृशम् ।। ३ ।।
कौमुदीसदृशं यद्वा प्रियं विद्युत्समं त्वति ।
काल्या आकृतिः सर्वापि सुघटाऽऽसीद् यथास्थला ।। ४ ।।
पितृकुलस्य वर्णस्तु नीलो ह्यासीन्निसर्गजः ।
शंभुः शिवा स्वकैलासे रमेते स्मातिभावतः ।। ५ ।।
शंभुना नर्मभावेन कालीत्यभिहिता शिवा ।
हास्यं चकार बहुधा शिवः कालीति संवदन् ।। ६ ।।
यस्य गृहे नीलवर्णा पत्नी नीला प्रजा भवेत् ।
अपत्येषु च नीलेषु कुलं कृष्णं ततो भवेत् ।। ७ ।।
यावत्पश्यामि कालीति मोहो गच्छति लीनताम् ।
कुटुम्बिनां सम्बन्धिनां नारीषु न प्रभा भवेत् ।। ८ ।।
काल्या न गौरवं किंचित्प्रभवेत् गृहवासिनः ।
किं करोमि यथाभाग्यं तथाऽऽप्ता नीलमोहिनी ।। ९ ।।
यदि ते न विरोधोऽस्ति त्वन्यां गौरीं नयाम्यहम् ।
लग्नं करोमि देवानां वार्षीणां कन्यया सह ।। 1.195.१ ०।।
वद देवि महाकालि चात्रार्थे देहि मन्त्रणाम् ।
इत्युक्ता तु महादेवी द्राक् जाता भग्नमानसा ।। १ १।।
प्रत्युवाच मम वर्णे रतिर्नो भवतोऽस्ति चेत् ।
एतावन्तं चिरकालं कथमत्रैव रक्षिता ।। १२।
यदि नाऽहं प्रिया तेऽस्मि कथं नाभिहितं पुरा ।
अरत्या च मया साकं दिवसा भवतो यदि ।। १ ३।।
अमनस्काश्च निर्यान्ति किं मे नाभिहितं पुरा ।
अमनस्कगृहे स्थातुं किं मे चात्र प्रयोजनम् ।। १ ४।।
अरत्या वर्तमानश्चेत् कथं वै रमसे मया ।
ईश्वरस्य समर्थस्याऽशक्यं न प्रमदाऽर्जनम् ।। १५।।
कथं नैतावताऽऽनीता चम्पकपुष्पसन्निभा ।
यद्वाऽऽत्माराममुक्तस्य न रतिः सुखसाधनम् ।। १६।।
जानेऽत एव भवता स्मरोऽपि भस्मितः पुरा ।
मन्ये ममासि तपसि पञ्चसाहस्रवर्षजे ।। १७।।
अत एव समागत्य निषिद्धं बहुधा तदा ।
विवाहश्चाऽमनस्केन प्रसह्य च कृतस्त्वया ।। १८।।
भवतु वै तत्तु भूतं नान्यथाभावि वै भवेत् ।
सर्वावयवसौम्यापि भर्तुस्तोषाय नो भवेत् ।। १ ९।।
साऽनेकगुणयुक्तापि व्यर्थैव गृहवासिनी ।
ममेयं व्यर्थता चाद्य प्रकाशितेति सुकृतम् ।।1.195.२०।।
करिष्ये च तथा यत्नो यथा स्यां गौरवर्णिका ।
भर्तुः सर्वस्वसौख्यस्य स्थानं नारीति निर्मिता ।।२ १।।
तत्र यदि ने संतोषः किं भर्तृत्वे रसस्तदा ।
भर्तुर्भागार्ध एवास्ति नारीसर्गोऽत्र सर्जने ।।२२।।
यदि सा न प्रियाभर्तुस्तर्हि कुत्रोपयोगिनी ।
विवाहितया काल्या चेद्भर्तुस्तोषो भवेन्नहि ।।२३।।
नान्यतोषोऽपि भवति न स्वयं तुष्टिमाप्नुयात् ।
किं फलं चात्र तत्काल्यास्तस्माद् गौरी भवाम्यहम् ।।।२४।।
तस्माच्छिवस्य तोषाय नास्ति यो वर्ण उज्ज्वलः ।
तं त्यक्ष्यामि च तपसा प्राप्स्यामि गौरवर्णकम् ।।२५।।
यद्वा त्यक्त्वा पुनर्वर्ष्म नवं प्राप्स्यामि जन्मतः ।
गौराद्गौरतरं यत् स्यात् प्रथमांऽगुलिदेशनम् ।।।२६।।
इत्युक्त्वोत्थाय सहसा काली जगाद गद्गदम् ।
ययाचेऽनुमतिं शंभो तपोजिगमिषास्ति मे ।।२७।।
श्रुत्वा स्तब्धोऽभवच्छंभुर्हास्ये हानिरजायत ।
नर्माऽपि नाशकृन्नैव वाच्यं केनापि जानता ।।२८।।।
पार्वत्या मे वियोगः स्यादिति ज्ञात्वा नमन् सतीम् ।
शंभुः प्राह प्रिये नर्मवचसा कूपिता कथम् ।। २९।।
त्वां विना मे रतिः क्वास्ति रतिभूश्चाऽसि मे सति ।
नित्यौ नित्यरतौ देवौ पार्वतीपरमेश्वरौ ।। 1.195.३० ।।
तयोर्नित्या रतिश्चापि ह्यविनाभावधर्मतः ।
नोद्वेगं वह वाक्येन मा खेदं कुरु भामिनि ।। ३१ ।।
आवयोः कामभावस्तु नित्य एव न कृत्रिमः ।
पृथग्जनानां रतये कृत्रिमो जनितस्ततः ।। ३२ ।।
सकामो मां देवतासामान्यं मत्वा बलादपि ।
पराभावयितुं प्राप्तो मया सः भस्मसात्कृतः ।। ३३ ।।
नैतावता स्वं कालीति मत्वा सः भस्मितो मया ।
उज्जीवितस्त्वदर्थं स महाकालेन वै मया ।। ३ ४।।
अहं चास्मि महाकालस्त्वं काली विषमौ न वै ।
द्वयोर्योग्यं शाश्वतं वै रूपं कृष्णेन कल्पितम् ।। ३५ ।।
मा खिद त्वं महादेवि मा तपोऽर्थं मनः कुरु ।
पञ्चवर्षसहस्रं यत्तपस्तप्तं त्वया पुरा ।। ३ ६ । ।
तत्र मदर्थं ते दार्ढ्यं कियच्चेति परीक्षितम् ।
विवाहिता मया पश्चात् सदा तादात्म्यलब्धये ।। ३ ७।।
महाकालस्य वंशोऽपि महाकाली हि संभवेत् ।
तत्र त्वया न मन्तव्यं काल्या वंशोऽसितो भवेत् ।। ३८ ।।
प्रथमा त्वं तु गोलोके द्वितीया तु सदाशिवे ।
तृतीया त्वं सती दाक्षी चतुर्थी पार्वती च मे ।। ३९ ।।
याऽसि साऽसि प्रवराऽसि मा कृष्णे खेदमावह ।
अहमेको द्वितीया त्वं मया काली विवाहिता ।।1.195.४० ।।
साऽवकाशो द्वितीयाया गौर्या नास्तीति नर्म तत् ।
नर्मणि नैव रोषोऽत्र कर्तव्यो मे प्रिये सति ।।४१ ।।
कटु हितं च मधुरं श्रोतुं कालीत्यथोदितम् ।
नान्या विवाहिता पूर्वे पश्चान्नैव च नैव च । ।४२ ।।
श्रुत्वा च पार्वती प्राह चाटु पूर्वं श्रुतं मया ।
नैतादृशं महच्चाटु गृहसंसारनाशकम् ।।४ ३ ।।
भर्तुर्या त्वप्रिया पत्नी यदि प्राणान्न वै त्यजेत् ।
सा भर्त्रा निन्दिता लोकैः सर्वदैवाऽतिनिन्द्यते ।।४४।।
अवश्यं ते मयि काल्यामप्रीतिर्भूयसी हृदि ।
अन्यथा नर्मवाक्ये तन्नागतं वै भवेत् क्वचित् ।। ४५।।
सर्वैः कार्ष्ण्यं नेष्यते च नेष्यतेऽपि त्वया तथा ।
मयापि देहकार्ष्ण्यं क्षालयितव्यं तपोऽग्निभिः ।।४६ ।।
कालीदेहं पृथक्कृत्वा हनिष्यामि महासुरान् ।
गौरीभागं निजं कृत्वा सेवयिष्ये हरं सदा ।।४७। ।
तवेच्छा त्वान्तरिक्यस्ति काली क्रोधमयी भवेत् ।
गौरी तु सात्त्विकी सेवाकर्त्री मेंऽङ्के सदा वसेत ।।४८ ।।
तथा करिष्ये मे नाथ संकल्पस्ते कृतो भवेत् ।
ब्रह्माणं तपसाऽऽराध्य क्षिप्रं गौरी भवाम्यहम् ।।४९ । ।
पुरा ब्रह्माणमाराध्य सती भूत्वाऽभजं हरम् ।
तथा ब्रह्माणमाराध्य गौरी स्यां मां ततो भज । । 1.195.५० ।।
इत्युक्त्वा च पतिं प्रदक्षिणीकृत्य पतिव्रता ।
यत्र वै पार्वतीशृंगे तपः पूर्वं कृतं तया ।। ५१ ।।
तत्रैव च तपः कर्तुं गता सा नीललोहिता ।
दृष्ट्वा स्वपितरौ नत्वा वृत्तं विज्ञाप्य सा ततः ।। ५२ । ।
तापसीवेषमाधाय स्नात्वा संकल्प्य तद्दिनात् ।
कृत्वा तु ब्रह्मणो मूर्तिमार्चयत् सत्फलादिभिः ।।५ ३ ।।
तच्छृंगे फलमुद्दिश्य गौरत्वं चाऽकरोत्तपः ।
अथ याते बहुतिथे काले व्याघ्र उपागतः ।।५४ । ।
क्षुधितः पार्वतीभक्षणार्थं तिष्ठति चान्तिकम् ।
समीपे यावदायाति जडो भवति चित्रवत् ।।५५ । ।
एवं भक्षणलोभाय चोपासनमिवाऽऽचरत् ।
देव्याऽनुकूलतादृष्टिः कृता तस्मिन् कृपामयी । ।५६ । ।
सिंहसत्त्वेऽन्यदुष्टोग्रप्राणिभ्यो रक्षणं मम ।
भवतीति कृपादृष्टिं स्वभावाच्च कृता तया । । ५७ ।।
सत्कृपालेशतो व्याघ्रबुभुक्षा लीनतां गता ।
न्यवर्ततांऽगसस्तम्भो देवीं च बुबुधे सतीम् ।। ५८ । ।
जन्मसिद्धं च दौरात्म्यं नष्टमेव ततोऽभवत् ।
भूत्वा तु देवको दुष्टसत्त्वानां वारकोऽभवत् । । ५९ । ।
देव्याश्च तपसा ब्रह्मा प्रसन्नस्तत्र चागतः ।
देव्या चाऽर्घ्यप्रदानेन ब्रह्मा संपूजितस्तदा ।। 1.195.६० ।।
प्रोवाच तां तपोहेतुमजानन्निव विश्वसृट् ।
किं त्वया तपसा साध्यं साधितस्तपसा हरः ।। ६१ । ।
अथवा तापसी लीला साध्वीनां समयुज्यते ।
चित्रं भवति शंभुं त्वं विरहय्य तपःस्थिता । । ६२ । ।
पार्वती प्राह प्रथमं कृष्णाज्जाता महासती ।
वैराजी च तदा ब्रह्मन् त्वं मे पुत्रोऽभवः पुरा । । ६३ । ।
ततोऽभवत् सदाशिवः सदाशिवाऽप्यहं तदा ।
तदा त्वं मेऽभवो ज्येष्ठस्ततस्ते भालतोऽभवत् । । ६४ ।।
यदा रुद्रस्तदा चाहं रुद्राणी श्वशुरो भवान् ।
हिमालयस्तव पुत्रस्ततस्त्वं मे पितामहः । । ६५ ।।
इतिहेतोर्गोप्यकलिः प्राकाश्योऽत्र पितामह ।
शंभुस्तु शयने प्राप्ते कालीत्याह च मां मुहुः । । ६६। ।
ततो मम शरीरस्थकालिमानं विहाय वै ।
गौरी भवितुमिच्छामि तथा देहि तपःफलम् ।। ६७ ।।
ब्रह्मा तथास्त्विति प्राह देवी काली तदैव च ।
कृष्णकोशं समुत्सृज्य गौरकोशा ह्यजायत । । ६८ ।।
कृष्णकोशात्मिका कन्या कालीनाम्ना च कौशुकी ।
निशुंभशुंभनाशाय ययौ विन्ध्याचलं प्रति ।। ६९ ।।
गौरकोशा नवा गौरी दिव्या कन्या ह्यजायत ।
स्वर्णवर्णा चम्पकाभा ब्रह्माणं प्राह विश्वसृक्! । । 1.195.७० ।।
अयं रक्षाकरः सिंहो दिव्यो मे सेवयाऽभवत् ।
स मे वाहनरूपेण दीयतां मे गणेश्वरः । । ७१ । ।
तथास्त्विति तदा ब्रह्मा दत्तवान् सिंहमेव तम् ।
सः कृतः सोमनन्दीतिनाम्ना देव्या गणेश्वरः । । ७२ । ।
ब्रह्मणाऽभ्यर्थिता गौरी निवृत्य तपसा ततः ।
प्रणम्य पितरौ वृक्षान् याता यत्र महेश्वरः । । ७३ । ।
प्रणम्येनोत्थिता यावत्तावत् तां परमेश्वरः ।
प्रगृह्य दोर्भ्यामाश्लिष्य स्वांऽके कृत्वा चुचुम्ब ताम् । । ७४।।
महोत्सवः कृतस्तस्याः कायाकल्पनिमित्तकः ।
बह्वीः कथास्तपोबलमयी गौरी तदाऽवदत् । ।७५ ।।
तपसा किं न चाप्येत सर्वं वै तपसि स्थितम् ।
एवं लक्ष्मि! प्रकर्तव्यं किं भूयः श्रोतुमिच्छसि ।। ७६ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंकरोक्ताकालीति नर्मवचसा पार्वती सशोका तपः कृत्वा गौरी जाता सिंहश्च भक्षको भूत्वा सोमनन्दी जात इत्यादि-
निरूपणनामा पञ्चनवत्यधिकशततमोऽध्यायः ।। १९५ । ।