लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १९८

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १९७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १९८
[[लेखकः :|]]
अध्यायः १९९ →

श्रीलक्ष्मीरुवाच-
कामो नारायणमूर्तेः समुत्पन्नः पुरा श्रुतम् ।
ईश्वरेषु निवासोऽस्य तदाऽभून्मानसात्मकः ।। १ ।।
पुनश्चायं वेधसस्तु कदा सृष्टौ प्रकाशितः ।
तद् ब्रूहि मे यथातत्त्वं पुराणपुरुषोत्तम ।। २ ।।
श्रीनारायण उवाच-
नारायणं समाराध्य ब्रह्मा लोकपितामहः ।
प्रजाः ससर्ज सर्वास्ताः सुरासुरनरादिकाः ।। ३ ।।
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान् देवसत्तमान् ।
ससर्ज मानसीं चारुरूपां सन्ध्यां जपन्तिकाम् ।। ४ ।।
अतीव सुन्दरीं सुभ्रू मुनिचेतोविमोहिनीम् ।
दृष्ट्वा तां नरयोग्यां च सम्पूर्णगुणशालिनीम् ।। ५ ।।
सर्वेषां मानसा भावास्तदासन्प्रमदामयाः ।
सुभगाः सन्तु चेदृश्यो नार्यो रतिगुणाश्रयाः ।। ६ ।।
तेषां तु मिथुनानां च स्नेहवर्धनकारकम् ।
सामर्थ्यं सर्वदा चास्तु समाकर्षणरूपकम् ।। ७ ।।
इति तेषां तु संकल्पान् विज्ञाय सृष्टिकृत्स्वयम् ।
तथैवास्त्विति मनसाऽकल्पयत् तादृशं नरम् ।। ८ ।।
तावत्तु ब्रह्मणस्तत्र मानसो मञ्जुलो नरः ।
प्राविरासीत्स्वर्णवर्णः पीनोरस्का सुनासिकः ।। ९ ।।
सुवृत्तोरुकटिजंघो नीलाऽऽभुग्नाऽग्रकेशरः ।
लग्नभ्रूयुगलो लोलः पूर्णचन्द्राऽतिभाऽऽननः ।। 1.198.१० ।।
सुदृढाऽऽयतसद्वक्षा रोमभ्रमरराजितः ।
सुरूपो मेघवर्णश्च पीनो नीलसुवासकः ।। ११ ।।
आरक्तपाणिनयनमुखपादकरोद्भवः ।
तनुमध्यश्चारुदन्तः प्रमत्तगजगंधनः ।। १ २।।
प्रफुल्लपद्मपत्राक्षस्ताम्बूलमुखवासकः ।
कम्बुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ।। १३।।
पंचपुष्पायुधो गर्वी पुष्पकोदण्डमण्डितः ।
कान्तः कटाक्षपातेन भ्रामयन्नयनद्वयम् ।। १४।।
चंचलश्चारुनेत्राभ्यां शृंगाररससेवितः ।
यं वीक्ष्य पुरुषाः सर्वे दक्षाद्याः ब्रह्मणः सुताः ।। १५।।
औत्सुक्यं परमं प्राप्ता विस्मयाऽऽकृष्टमानसाः ।
अभवद्विकृतं तेषां सर्वेषां च मनो द्रुतम् ।। १६।।
धैर्यं नैवाऽभवत्तत्र कामाऽऽकुलितचेतसाम् ।
ततः कामः स्वयं नत्वा ब्रह्माणं प्राह सत्वरम् ।। १७।।
किं करोमि च दासोऽस्मि ब्रह्मन् कार्ये नियोजय ।
गुणरूपानुसारेण योज्यो दासस्तु जानता ।। १८।।
श्रुत्वा ब्रह्मा स्वकं पुत्रं काममाह सुखप्रदम् ।
अनेन त्वं स्वरूपेण पुष्पवाणैश्च पंचभिः ।। १ ९।।
मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ।
सप्राणाश्चेतनाः सर्वे त्वहं विष्णुस्तथाऽपरे ।।।1.198.२०।।
भविष्यामस्तव वशे तव पोषणकारकाः ।
जनानां मानसेऽदृश्यरूपो भूत्वा प्रविश्य च ।। २१ ।।
सुखप्रदो महान् भूत्वा कुरु सृष्टिं सनातनीम् ।
प्राणिनां त्वद्बाणलक्ष्यं मानसं सुखलालसम् ।। २२ ।।
भवत्वेति तव स्थानं कृतं सत्त्वं तु देहजम् ।
इन्द्रियं ते समुद्यानस्तत्राऽस्तु मदकृद्भवान् ।। २३ ।।
इति ते कर्म कथितं सृष्टिप्रावर्तकं महत् ।
यथा प्रमन्थस्यस्माकं मानसानि ततस्तव । । २४ । ।
मन्मथाख्या तथाऽन्योन्यकामनात् काम इत्यपि ।
मनसो जायमानेन मनोभव इति प्रथा ।। २५ ।।
मदकारान्मदनस्त्वं कन्दर्पः कस्य दर्पणात् ।
पुष्पबाणो रतिपतिरिति ख्यातिर्भविष्यति । । २६ । ।
देवेषु त्वत्समः कश्चिद् व्यापिवीर्यो न वै भवेत् ।
अतः स्थानानि सर्वाणि भवन्तु व्यापिनस्तव । । २७ । ।
हर्षणं रोचनं चैव मोहनं शोषणं तथा ।
मारणं चेति चोक्तानि तवाऽस्त्राणि सदाऽनघ । । २८ । ।
तैः सहितस्य तु ते स्याद् विजयः सर्वसृष्टिषु ।
इत्याशीर्वचनं लब्ध्वा सन्ध्यायाः सन्निधौ हि सः ।। २९।।
साफल्यस्य परीक्षार्थं बाणान्मुमोच वेधसि ।
एवं पुनः पुनर्धनुर्योजयामास मार्गणैः । । 1.198.३० ।।
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ।
चकार वलयाकारं ववुर्वाताः सुगन्धिनः ।। ३१ ।।
मुनींश्च मानसान्सर्वान्मोहयामास मोहनः ।
सन्ध्यां सर्वे निरीक्षन्तो विकाराऽऽवेगपूरिताः ।। ३२ ।
आसन्प्रवृद्धमदना इन्द्रियोत्तेजनान्विताः ।
सन्ध्यां दृष्ट्वोनपंचाशद्भावा जाताः शरीरतः ।। ३३ । ।
कामेन ब्रह्मणोद्दिष्टं कर्तुं शक्यं विभावितम् ।
अथ ब्रह्मशरीरात्तु धात्वंभः पतितं तदा ।। ३४। ।
अग्निष्वात्ताः पितृगणा जातास्ते पितरः स्मृताः ।
नीलवर्णाश्च यतयः संसारगृहशून्यकाः ।। ३ ५।।
चतुःषष्टिसहस्राणि त्वग्निष्वात्ता हि पावनाः ।
षडशीतिसहृस्राणि तथा बर्हिषदोऽपरे ।। ३ ६।।
अथ दक्षशरीराच्च धात्वंभः पतितं भुवि ।
समस्तगुणसम्पन्ना तस्माज्जाता वरांगना ।। ३७ । ।
सौम्यांगी तनुमध्या च स्वर्णसूक्ष्मशिरोरुहा ।
मृद्वंगी कलिदशना तेजोमण्डलसूज्ज्वला ।। ३८ ।।
स्वर्णाभाऽवयवा रम्या चन्द्रकान्तिमयांऽगना ।
द्वादशवर्षशरीरा रतिनाम्नी सुमोहिनी ।। ३९ ।।
कामभावप्रपूर्णा च सर्वसौन्दर्यसत्खनिः ।
अथ क्रतोर्वशिष्ठस्य पुलस्त्याऽङ्गीरसोस्तथा ।।1.198.४० ।।
अनिगृहीतेन्द्रियाणां बीजं भूमौ पपात च ।
तेभ्यः पितृगणा जाताः सोमपा आज्यपास्तथा ।।४ १ । ।
सुकालिनस्तथा हविष्मन्तस्ते कव्यवाहकाः ।
क्रतोस्तु सोमपा जाता वाशिष्ठा ऊर्ध्वकालिनः ।।४२।।
पुलस्त्यस्याऽऽज्यपा जाता हविष्मन्तोंऽङ्गिरःऽसुताः ।
अयं पितृगणः सर्वः कव्यवाट् सर्वथाऽभवत् ।।४३ ।।
सन्ध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ।
अथ दक्षः काममाह सद्रूपगुणसंयुताम् ।। ४४।।
एनां गृह्णीष्व भार्यार्थं मत्पुत्रीं सदृशीं गुणैः ।
इत्युक्त्वा प्रददौ तस्मै देहस्वेदाम्बुसंभवाम् ।।४५।।
रतिनाम्नीं तु भार्यार्थं कन्दर्पाय सहार्थिनीम् ।
विवाह्य तां स्मरः सोपि मुमोदाऽतीव सद्रतिम् ।।४६।।
तस्या भ्रूयुगलं वीक्ष्य विसस्मार धनुः स्वकम् ।
कटाक्षयोर्गतिं दृष्ट्वा विसस्माराऽस्त्रनिर्गतिम् ।।४७।।
सुगन्धिश्वसमाघ्राय विसस्मार सुमाऽनिलम् ।
कान्तवृत्ताऽऽननं दृष्ट्वा विसस्मार शशांकिनम् ।।४८ ।।
सुवर्णपद्मकलिकातुल्यं तस्याः कुचद्वयम् ।
दृष्ट्वा चूचुकयुग्माढ्यं सस्मार तारकाद्वयम् ।। ४९ ।।
दृढपीनोन्नतस्तनद्वयमध्यसुलम्बिनीम् ।
आनाभिपत्तलं मालां दृष्ट्वा सस्मार कौमुदीम् ।।1.198.५ ० ।।
विसस्मार स्वधनुषो ज्यां च शिञ्जितषट्पदाम् ।
अक्षिद्वन्द्वं समालोक्य विसस्माराऽब्जपत्रिके ।।५ १ ।।
उदरं तनु चालोक्य सस्मार स्वर्णवेदिकाम् ।
ऊरुद्वयं समालोक्य सस्मार कदलीद्वयम् ।।५२।।
आरक्तपार्ष्णिपादाग्रप्रान्तभागान् विलोक्य च ।
सस्मार चानुरागाख्यं मित्रं तच्चरणस्थितम् ।।५३ ।।
तस्याः करयुगं रक्तं नखरैः किंशुकोपमैः ।
वृत्ताभिरंगुलीभिश्च सूक्ष्माग्राभिर्मनोहरम् ।।५४।।
दृष्ट्वा सस्मार हरिभुजंगसन्मणिभोगकम् ।
तस्याश्च बाहुयुगलं मृणालयुगलायतम् ।।५५ ।।
मृदु स्निग्धं प्रवालाभं दृष्ट्वा कामो जहर्ष वै ।
नीलनीरदसंकाशकेशपाशो मनोहरः ।। ५६ ।।
चमरीवालधिप्रख्यो विभाति स्मरजीवनः ।
एतादृशीं चक्रपद्मां मृणालशकलान्विताम् ।।५७।।
सर्वलावण्यसदनां सर्वांगरामणीयिकाम् ।
द्वादशाऽऽभरणैर्युक्तां शृंगारैः षोडशैर्युताम् ।। ५८।।
मोहिनीं तां रतिं वीक्ष्य कामो जग्राह सोत्सुकः ।
विवाहं विधिवत्तत्र तयोर्ब्रह्मा चकार वै ।।।५९ ।।
तदा महोत्सवस्तत्र बभूव सुखवर्तनः ।
दक्षः प्रीततरश्चासीन्मुमुदे तनया रतिः ।।1.198.६ ० ।।
कामोऽतीव सुखं प्राप्तो रराजाऽति तया सह ।
वारं वारं च तां दृष्ट्वा जगृहे हृदयोपरि ।। ६१ ।।
या च सन्ध्या ब्रह्मसुता मनोजाता पुराऽभवत् ।
तपस्तप्त्वा तनुं त्यक्त्वा सैव जाता त्वरुन्धती ।। ६ २।।
मेधातिथेः सुता भूत्वा वव्रे पतिं वशिष्ठकम् ।
चन्द्रभागानदीतीरे तेपे युगचतुष्टयम् ।। ६३ ।।
ततो वै प्रार्थितं जातमात्रान्माऽऽविशतु स्मरः ।
ब्रह्मणाऽपि तथास्त्विति प्रदत्तं वरदानकम् ।।६४ ।।
तद्दिनात्तु स्मरो द्वादशोत्तरं विशति प्रजाः ।
साप्येवमुपसंहृत्य तपो जगाम चाम्बरम् ।।६५।।
सप्तर्षिमण्डले चास्ते वशिष्ठसहचारिणी ।
इति ते कथितं लक्ष्मि! पुनः कामकथानकम् ।।६६ ।।
कल्पादौ साऽभवत्पुत्री चाण्डालस्याऽतिधर्मिणी ।
ऋषयो द्वादशेऽवग्रहकालेऽन्नसमीहया ।। ६ ७।।
भिक्षार्थं च समाजग्मुस्तदा पित्रा समर्पिता ।
साकं तु भिक्षया वशिष्ठाय पावनकारिणे ।। ६८ ।।
निःसारिता च गोमध्यात् पाविता च विवाहिता ।
सैवास्त्यरुन्धती देवी पातिव्रत्यपरायणा ।।६ ९ ।।
इति ते कथितं सर्वं यथा भवति तत्तथा ।
कल्पभेदे सृष्टिभेदं किमन्यच्छ्रोतुमिच्छसि ।।1.198.७ ० ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने जीवसृष्टौ सन्ध्यापितृकामरत्यरुन्धत्युत्पत्तिप्रदर्शननामाऽष्टनवत्यधिकशततमोऽध्यायः ।। १९८ ।।