लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १८६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८६
[[लेखकः :|]]
अध्यायः १८७ →

श्रीनारायण उवाच-
शृणु लक्ष्मि महादेवो कामं दग्ध्वा स्वमालयम् ।
कैलासमगमत्पश्चात्पार्वती खिन्नमानसा ।। १ ।।
पितुर्गृहे ततो गत्वा मिलित्वा मातरं स्वयम्।
पुनर्जातं तदा मेने स्वात्मानं विकला भृशम् ।। २ ।।
निनिन्द च स्वरूपं सा लेभे शर्म न कुत्रचित् ।
स्वापे पाने क्रमे स्नाने याने विहरणे शिवा ।। ३ ।।
गमने च सखीमध्ये न किंचित्सुखमाप वै ।
धिक्स्वरूपं मदीय च तथा जन्म च कर्म च ।। ४ ।।
शुशोचाति शिवा नित्यं मुमोह च मुहुर्मुहुः ।
सुखं न लेभे किंचिद्वाऽब्रवीच्छिवशिवेति च ।। ५ ।।
अथापि जातनैष्फल्ये महेन्द्रेण तु नारदः ।
स्मारितो देवकार्यार्थं जगामेन्द्रं तदा च सः ।। ६ ।।
प्रेषयामास शैलेन्द्रं नारदं देवराट् तदा ।
नारदश्चागतः शैलं जग्राह पूजनादिकम् ।। ७ ।।
शुश्राव कामदहनं पार्वतीदुःखमित्यपि ।
श्रुप्वोवाच तदा कालीं नारदो दुःखभंजनः ।। ८ ।।
शृणु कालि सेवितः सः त्वयेह तपसा विना ।
विरक्तश्च स ते स्वामी स्मरं दग्ध्वा विसृष्टवान् ।। ९ ।।
त्वामतः सुतपोयुत्ता चिरमाराधयेश्वरम् ।
सोपि तपति सत्यर्थे द्वयोर्योगो भविष्यति ।। 1.186.१० ।।
न सिद्ध्यति क्रिया कापि सद्गुरोर्हि कृपां विना ।
'शिवाय नम इति मन्त्रं ददामि जप सर्वदा ।। ११ ।।
श्रवणात् मन्त्रराजस्य शंकरः सुप्रसीदति ।
अनेनाराधितः शंभुः प्रत्यक्षः संभविष्यति ।। १२।।
चिन्तयमाना तद्रूपं जप मन्त्रं तपः कुरु ।
तपस्येव फलं सर्वैः प्राप्यते नान्यथा क्वचित् ।। १३ ।।
एवमाज्ञाप्य देवर्षिर्निर्जगाम स्थलान्तरम् ।
सती सख्यौ समादाय जयां च विजयां तथा ।। १४।।
अप्रच्छयत् सखीभ्यां सा मातरं पितरं तदा ।
हिमाद्रे! तव पुत्रीयं देहस्य च कुलस्य च ।। १५ ।।
तपःसाध्यं हरं प्राप्य साफल्यं कर्तुमिच्छति ।
देवाऽऽज्ञा गिरिजा गत्वा वनं करोतु सत्तपः ।। १६ ।।
शैलः प्राह रोचते मे मेनाया रोचतां पुनः ।
गत्वाऽथ मेनकां नत्वोचतुर्देवि! नमोऽस्तु ते ।। १७।।
शिवार्थं तप्तकामेयं प्राप्ताऽनुज्ञा पितुस्ततः ।
त्वदाज्ञा यदि लभ्येत मातस्ते परिपृच्छति ।। १ ८।।
नांगीचकार मेना सा किं त्वभूत् खिन्नमानसा ।
ततः प्राह करौ बध्वा पार्वती स्वीयमातरम् ।। १९ ।।
दुर्भगेन शरीरेण को लाभो मे पतिं विना ।
कथं लभ्येत शंभुः सः सुखदो मे पतिः सदा ।। 1.186.२०।।
तपोभिः प्राप्यतेऽभीष्टं नाऽसाध्यं तु तपस्यतः ।
दुर्भगत्वं वृथा लोको वहते सति साधने ।। २१ ।।
मातस्तप्तुं गमिष्यामि प्रातः प्राप्तुं महेश्वरम् ।
अनुजानीहि मां गन्तुं तपसेऽद्य तपोवनम् ।।२२।।
मेना प्राह शिवे पूर्वतपसाऽऽप्तवती च किम् ।
प्रत्युत दुःखिता भूत्वा लब्धं जन्मात्र मद्गृहे ।।२३।।
तपश्चर गृहेऽद्य त्वं न बहिर्गच्छ पार्वति! ।
सर्वे देवाश्च तीर्थानि वसन्त्यस्मद्गृहे सदा ।।२४।।
कर्तव्यो न हठः पुत्रि गन्तव्यं न बहिः क्वचित् ।
शरीरं कोमलं तेऽस्ति तपस्तु कठिनं महत् ।।२५।।
मा गन्तव्यं मम पुत्रि स्त्रीणां तदुचितं नहि ।
इति मात्रा निषिद्धा सा उमानाम्नाऽभवत्ततः ।।२६।।
साधयामि पतिं शंभुं पातयामि तु वर्ष्म वा ।
देह्याज्ञां तपसे मह्यं नो चेन्नास्तीह पार्वती ।।२७।।
इत्याग्रहं परं दृष्ट्वा निदेशं सा ददौ ततः ।
मातरं पितरं नत्वा सखीभ्यां सह निर्ययौ ।।२८।।।
हित्वा भोग्यानि सर्वाणि वस्त्राणि विविधानि च ।
धृत्वा च वल्कलान्याशु मौंजी बध्वा च मेखलाम् ।।२९।।
हित्वा हारं तथा चर्म धृत्वा मृगस्य शोभनम् ।
शैलजा प्रययौ प्रस्थं गंगावतरणं प्रति ।।1.186.३ ० ।।
यत्र स्थित्वा पुरा शंभुः सत्यर्थे तप्तवाँस्तपः ।
हरशून्यं च तं प्रस्थं विलोक्य हिमभूभृतः ।।३ १।।
हा हरेति क्षणं तत्र स्मृत्वाऽभूत् शोकसंप्लुता ।
गौरीशिखरमेवैतत् शिखरं ख्यातिमाप्तवत् ।।३२।।
पुण्यं गंगावतरणं नानाधातुविभूषितम् ।
दिव्यपुष्पलताव्याप्तं द्विरेफस्वनितद्रुमम् ।।३३।।।
शीतनिर्झरणं दिव्यं पशुपक्षिसमाश्रितम् ।
जलजस्थलजाब्जैस्तत् प्रफुल्लितैः सुगन्धितम् ।।३४।।
गभीरकन्दरागर्भं दिव्यवासाऽऽलयान्वितम् ।
कल्पद्रुमलतावल्लीतृणशाखिहरित्प्रभम् ।। ३५।।
सर्वर्तुपुष्पकलिकाफलकिंजल्कसमृद्धम् ।
नियमायाऽभवत् तत्र दीक्षिता पार्वती सती ।।३६।।
तया श्रेष्ठा द्रुमास्तत्राऽऽरोपिता वर्धिता जलैः ।
भुवं संस्कृत्य वेदीं च स्वयं निर्माय पार्वती ।।३७।।
त्रिःस्नाता प्रारभत् शुष्कपत्राहारा महत्तपः ।
निगृह्य मनसा सर्वाणीन्द्रियाणि सहाऽऽन्तरे ।।।३८।।
संस्थिता वृत्तिमाकृष्य स्वात्मन्येव शिवात्मनि ।
ग्रीष्मे च परितो वह्निं प्रज्वलन्तं दिवानिशम् ।।३९।।
कृत्वा तस्थौ च तन्मध्ये पंचाग्निमतपत्तपः ।
पंचाक्षरं सदा मन्त्रं जपमानाऽन्तरे हरम् ।।1.186.४० ।।
वर्षासु वृष्टिधारायां शिलासु सुस्थिरासना ।
शीते शश्वज्जलमध्ये तस्थौ शिवाग्नितत्परा ।।४१।।
झंझावातातितापेषु नीहारेषु निशासु च ।
दध्यौ तपः प्रकुर्वाणा शिवं भाविपतिं हृदि ।।४२।
प्रथमं फलभोगेन द्वितीयं पर्णभोजनैः ।
तृतीयं चैकपर्णेन सहस्रं यापितं तया ।।।४३।।।
ततः पर्णान्यपि त्यक्त्वा अपर्णा तपसि स्थिता ।
एकपादस्थिता वाय्वाहारा संस्मृत्य शंकरम् ।।४४।।
त्रीणि वर्षसहस्राणि जग्मुः काल्यास्तपोवने ।
षष्टिवर्षसहस्राणि यत्र तेपे तपो हरः ।।४५।।
दुःखं च त्रिविधं सत्या गणितं नाऽगतं गतम् ।
हरस्थले क्षणं स्थित्वा चिन्तयामास सा सती ।।४६।।
नियमस्था महादेव कि मां जानासि नाऽघुना ।
यदि सर्वस्वानुरक्ता तर्हि प्रसीद मे पते! ।।४७।।
यदि भक्त्या कृतो मन्त्रस्तर्हि प्रसीद मे पते ।
यदि तवाऽस्मि जानासि तर्हि प्रसीद मे पते ।।४८।।
यदि ग्राह्यास्मि ते नाथ तर्हि प्रसीद् मे पते ।
प्रत्यहं चेति संप्रार्थ्य तिष्ठति तपसे सती ।।४९।।
पार्वतीतपसस्तत्र प्रभावेण निसर्गजाः ।
विरोधिनः प्राणिनोऽपि नाऽबाधन्त परस्परम् ।।1.186.५०।।
वृक्षाश्च सकलास्तत्र तृणानि शाद्वलानि च ।
पुष्पाणि च विचित्राणि पत्राणि कोमलानि च ।।५१।।
सदाऽजायन्त इत्येवं वनं कैलाससन्निभम् ।
जातं तस्यास्तपोयोगात् सिद्धिरूपं सदाऽभवत् ।।।५२।।
एवं तपन्त्यां पार्वत्यां वर्षपंचसहस्रकम् ।
व्यतीयाय तदा शैलः समागत्य जगाद ताम् ।।५३।।
येन भस्मीकृतः कामो विहाय त्वां सुसेविकाम् ।
गतः क्रुद्धो हरः पुत्रि नागमिष्यति निर्गुणः ।।।५४।।
वृथा मोहं गता पुत्रि त्वां न प्रार्थयति प्रभुः ।
तस्मादुत्तिष्ठ चैहि त्वं स्वगृहं पार्वति द्रुतम् ।।।५५।।
एवमेव कथिता सा मेनया मेरुणा तथा ।
सह्येन मन्दरेणापि मैनाकक्रौंचभूधरैः ।।५६ ।।
भ्रातृभिः स्वसृभिश्चान्यैस्तथापि नाऽत्यजत्तपः ।
साधयामि हरं यद्वा पातयामि निजं वपुः ।।५७।।
एकाऽस्त्येव प्रतिज्ञा मे कथं नायास्यति प्रभुः ।
भद्रं तेन स्मरो दग्धस्त्यक्त्वा मां निर्गुणो गतः ।।५८।।
यदि भक्तास्मि तस्याहं समानेष्ये तपोबलात् ।
सर्वे भवन्तीो गच्छन्तु नाहं चायामि तद्गृहम् ।।५९ ।।
नीत्वैव स्वामिनं शंभुमागमिष्यामि तद्गृहम् ।
इत्युक्त्वा गिरिजा तूष्णीं बभूव प्रियभाषिणी ।।1.186.६ ० ।।
ज्ञात्वा दार्ढ्यं महासत्या जग्मुः सर्वे निजालयान् ।
शंशमानाः संददाना आशीर्वादान्सुविस्मिताः ।।।६ १ ।।
सती सखीभिः सहिता घोरं तपश्चकार सा ।
तेन तप्तमभूत्सर्वं त्रैलोक्यं सचराचरम् ।। ६२।।
तदा सुराऽसुराः सिद्धा यक्षकिन्नरचारणाः ।
गुह्यका मुनयः साध्या विद्याधरमहोरगाः ।।६ ३ ।।
असुरा मानवाः प्रजापतयो लोकपास्तथा ।
औष्ण्यं कष्टतमं प्राप्ताः कारणं न विदुश्च ते ।।६४।।
ततो गत्वा वेधसं पप्रच्छुस्तापस्य कारणम् ।
ब्रह्मापि पार्वतीतपोजन्यं विज्ञाय तापनम् ।। ६५।।
हरये तत्कथयितुं ययौ देवगणान्वितः ।
क्षीराब्धौ विलसन्तं तं सुसंस्तूय प्रणम्य च ।। ६६।।।
प्रोवाच प्रांजलिस्त्राहि त्राहि नः शरणागतान् ।
सतीतापेन तप्ताः स्म कुरु शान्तिं जगद्गुरो ।। ६७।।
श्रुत्वा प्राह हरिः सर्वान् गच्छामः शंकरं प्रति ।
प्रार्थयामः सतीपाणिग्रहणाय ततः सुखम् ।।६८ ।।
इति संहत्य देवाद्या जग्मुर्द्रष्टुं सतीतपः ।
प्रणेमुस्तां जगद्धात्रीं ततो जग्मुर्हरं प्रति ।। ६ ९।।
ददृशुः सुखमासीनं प्रसन्नं भक्तवत्सलम् ।
योगपट्टस्थितं नत्वा तुष्टुवुः शंकरं च ते ।। 1.186.७० ।।
नमोऽस्तु तापनाशाय शान्तिदाय नमोनमः ।
पार्वतीतपसां सम्यक् फलदात्रे नमोनमः ।।७ १ ।।
यदि त्वं रागहीनः सन्पार्वतीं न ग्रहीष्यसि ।
तर्हि सा तपसा सर्वं धक्ष्यत्येतच्चराचरम् ।।।७२।
किंच पाणिग्रहे तस्या देवकार्यं भविष्यति ।
तस्मात्तस्यै वचो दत्वा तपोरोधं कुरु द्रुतम् ।।७३ ।
श्रुत्वा प्राह च तान् शंभुः महत्कार्यं कृतं मया ।
कामो दग्धश्च निष्कामास्तिष्ठन्तु ब्रह्मचारिणः ।।७४।
परमानन्दसंयुक्ता निर्विकारा भवन्तु वै ।
सतीग्रहे सती कामं जीवयिष्यति सा पुनः ।।७५।
कामात्स्युः क्रोधसम्मोहस्मृतिभ्रंशादयस्तथा ।
दुःखदास्तापदाः सर्वे ताँस्त्यजन्तु सदा सुराः ।।७६ ।।
महानिगडसंज्ञास्ति नारी यदि विवाहिता ।
कुसंगा बहवः सन्ति स्त्रीसंगोऽस्ति ततोऽधिकः ।।७७।।
मुच्यते सकलैर्बन्धैर्न स्त्रीबन्धात्प्रमुच्यते ।
स्त्रीयोगात्कामनाभावा वर्धन्ते योगिनोऽपि वै ।।७८।।
यदीच्छेद्ब्रह्मनिर्वाणं स्त्रीपाशं दूरतस्त्यजेत् ।
पुरुषस्य कृते नारी सितालिप्तेन्द्रवारुणी ।।७९।।
नार्याः कृते पुमाँश्चापि सितालिप्तेन्द्रवारुणम् ।
परस्परं विषं बोध्यं तथापि भवतां वचः ।।1.186.८०।।
पालयिष्यामि देवानां विपत्तिहरणाय तत् ।
यूयं स्वस्वालयं यात निर्भयास्तिष्ठताऽनिशम् ।।८ १ ।।
गमिष्यामि सतीतपःप्रशान्त्यर्थं हिताय च ।
श्रुत्वा नत्वा सुराः सर्वे ययुः स्वं स्वं गृहं तदा ।।।८२।।
वशिष्ठादीन्मुनीन्सप्त ततः सस्मार शंकरः ।
प्रसन्नवदनाः सप्त मुनयः शीघ्रमाययुः ।।८ ३।।
नत्वा ह्युपाविशन सर्वे सत्कृताः शंभुना बहु ।
उक्ताश्च पार्श्वतो तपश्चरत्यखण्डमानसा ।।८४।।
सर्वान् कामान् विहायैव मां पतिं प्राप्तुलालसा ।
तत्र गच्छत कुरुत प्रेमदार्ढ्यपरीक्षणम् ।।८५ ।।
इत्याज्ञप्ता ययुः सर्वे यत्र तपति सा सती ।
नत्वा शैलसुतां प्राहुः किमर्थं तप्यते तपः ।।८६।।
वद देवि यथेष्टं ते करिष्यामो यथातथम् ।
सती नत्वा ऋषीन् प्रोचे नारदोक्तविधानतः ।।८७।।
रुद्रो मे स्यात्पतिश्चेति निर्णीय तपसि स्थिता ।
तदाशां शंकरस्वामी पिपर्तु भक्तवत्सलः ।।८८।।
श्रुत्वा विहस्य ऋषयः प्रोचुः छलवचो मृषा ।
कलिप्रियः क्लेशकर्ता विश्वस्तो नारदः कथम् ।।८९।।
सर्वथा कूटभावी सः क्लेशे जननियोजकः ।
जानासि दक्षपुत्राँस्तु तेन ते परिव्राजिताः ।।1.186.९० ।।
जानासि चित्रकेतुं स राज्यमत्याजयत्खलः ।
वेत्सि हिरण्यकशिपोः प्रह्लादं स व्यभेदयत् ।।९ १ ।।
नारदस्य खलविद्या यत्कर्णे पतिता मनाक् ।
स स्वगेहं विहायाऽऽशु दुःखी भवति त्वं यथा ।।९२।।
नारदो मलिनात्माऽस्ति बहिरुज्ज्वलदेहवान् ।
जानीमस्तं विशेषेण वयं तत्सहवासिनः ।।९३।।
बकं साधुं वर्णयन्ति न मत्स्यानत्ति सर्वथा ।
सहवासी विजानीयाच्चरित्रं सहवासिनः ।।९४।।
अपि त्वं तस्य वाण्यां वै विश्वस्य तपसि स्थिता ।
वंचिताऽसि महादेवि! याहि गेहं तपस्त्यज ।। ९५।।
यदर्थं दुःखमाप्नोषि स तु त्वयि विरागवान् ।
सदोदासी च निर्ल्लज्जोऽमंगलोऽसदनोऽकुली ।।९६।।
भूतप्रेतपिशाचाभिजनो नग्नः कुवेषधृक् ।
तेन शूलभृता धूर्तमूर्धन्येनाऽसि वंचिता ।।९७।।
वरं दत्वा गतः पञ्चवर्षसहस्रके पुनः ।
नायाति कीदृशः स्नेही तवकेवलवंचकः ।।९८।।
विचारं कुरु देवेशि प्रथमं दक्षजां सतीम् ।
विवाह्य पालनं नैव कृतवान् किं करिष्यति ।।९९।।
स एवास्ति तथा क्रोधी निर्वाहं न करिष्यति ।
त्वामेव तु पुनर्दोषं दत्वा त्यक्ष्यति वंचकः ।। 1.186.१० ०।।
यस्य हृदि कृपा नास्ति कुमारीं नहि पश्यति ।
सुखदं दग्धवान् कामं कथं तेन जीविष्यसि ।। १०१ ।।
अस्मद्वाक्यं तु सम्मान्य गृहं याहि कुमारिके ।
अव्यवस्थितचित्तस्य प्रसादेहा खपुष्पवत् ।।१ ०२।।
त्वादृशी सुन्दरी विष्णुगृहे शोभेत सर्वथा ।
त्वयि सर्वे गुणाः सन्ति विष्णौ सन्ति महागुणाः ।। १० ३।।
गृहं तस्य महत् स्मृद्धं दिव्यं वैकुण्ठमुत्तमम् ।
दासदासीकोटिजुष्टं विमानोद्यानशोभितम् ।। १ ०४।।
तं लश्मीशं रमेशं वा राधेशं भज सुन्दरि ।
तेन ते कारयिष्यामो विवाहं त्यज शंकरम् ।। १ ०५।।
वर्षे चतुर्दशे कन्याविवाहो योग्य उच्यते ।
त्वया तत्र योग्यकाले कृता सेवा तथाऽर्थितः ।। १ ०६।।
तथापि स्वरतायास्ते पाणिं जग्राह नैव सः ।
पंचवर्षसहस्राणि व्यतीतानि तदुत्तरम् ।। १०७।।
तथापि नैव गृह्णाति स मूर्खस्त्वं ततोऽधिका ।
तस्मात् हठं परित्यज्य सुखिता विष्णुना भव ।। १ ०८।।
न स्यात् तृप्तिस्तृषितानां मरुमरीचिकाजलात् ।
द्विविधं तु सुखं पुत्रि लोके भवति देहिनाम् ।। १०९।।
देहस्य देहसंयोगश्चेतसि निर्वृतिः परा ।
देहं यथा कुमार्या वै कोमलं सुरूपं शुभम् ।। 1.186.११० ।।
तथा देहः कुमारस्य भवेत् चेत् देहजं सुखम् ।
स्यादेव पतिपत्न्योश्च नाऽन्यथा देहजं सुखम् ।। १११ ।।
प्रकृत्या स तु दिग्वासा भीमो भस्त्रास्थिभूषणः ।
कपाली भिक्षुको नग्नो विरूपाक्षोऽस्थिरक्रियः ।। ११ २।।
प्रमत्तोन्मत्तताकारो बीभत्सकृतसग्रहः ।
मूर्तिमान् साऽयमनर्थो भूतावलिसभाजितः ।। ११ ३।।
स्रवन्नरवसाऽस्थिधृक् सर्पफुत्कारभीषणः ।
श्मशानस्थः श्वपचवत् कथमिष्टः सुते तव ।। १ १४।।
हरिरस्ति जगद्धाता यज्ञभुक् पाकशासनः ।
देवोधिदेवो ज्वलानो वायुः प्राणश्च देहिनाम् ।। १ १५।।
कुबेरश्चन्द्रमाः सूर्यो वरुणश्चापरे सुराः ।
कामभुजः कामरूपाः कामस्मृद्धय एव ते ।। १ १६।।।
एभ्य एकतमं कस्मात्त्वं न संप्राप्तुमिच्छसि ।
शिवस्य प्राप्तये क्लेशः स चापि निष्फलस्तरुः ।। १ १७।।
तस्मादागच्छ पुत्रि त्वं गृहे स्थित्वा सुखी भव ।
अन्यं वरय कल्याणि कृतं क्वापि फलिष्यति ।। १ १८।।
इत्यादि विस्तरं श्रुत्वा विहस्योवाच पार्वती ।
यथाज्ञानं भवदुक्तं मन्ये यद्यपि युक्तिमत् ।। १ १९।।
निर्बलाया अश्रद्धाया अदृढायाः कृते हि तत् ।।
अहं जात्या शैलपुत्री कठिना सबला दृढा ।। 1.186.१२०।।
स्थिराऽप्रधृष्या हठिनी मिलेद्वा न मिलेत् हरः ।
न त्यजामि तपः सौम्यं यदस्माकं निसर्गजम् ।। १२१।।
मिलिष्यति वरिष्ये तं नोचेत् स्थास्ये निरीन्धना ।
दुखं तपो वनं रौक्ष्यं शैलजातेर्निसर्गजम् ।। १ २२।।
यथेष्टं तद्धि मे सर्वं मां निषेद्धुं न चार्हथ ।
नारदस्य वचः पथ्यं जात्यनुकूलमेव मे ।। १२३।।।
सम्पत्स्यते ध्रुवं शैलवासिनी वनवासिना ।
गुरूणां वचने निष्ठा येषां तेषां जयः सदा ।। १२४।।
अनिष्ठानामिहाऽमुत्र दुःखमेव न शं क्वचित् ।
वित्थ कस्य तनुर्व्योम कस्याऽग्निः कस्य मारुतः ।। १२५।।
कस्येन्द्रः कस्य वरुणः कस्य नेत्रेऽर्कचन्द्रकौ ।
यथोन्मादादिदुष्टानां मतिरेव हि सा भवेत् ।। १२६।।
इष्टानेव पदार्थान्वै विपरीतान् हि मन्वते ।
विपरीतान् यथा स्वल्पान् क्षुद्रान् श्रेष्ठाँस्तु मन्वते ।। १ २७।।
गृहे वसामि शून्ये वा नोपयामि तदन्यकम् ।
गुणालयो विहारी सुस्मृद्धो विष्णुः सदास्ति यत् ।। १२ ८।।
स लौकिकीं प्रभुतां वै सन्दर्शयति मानवान् ।
शंभुस्तु निर्गुणो निर्विकारो मानादिवर्जितः ।। १ २९।।
अवधूतः परो हंसः परानन्दः परः प्रभुः ।
भूषणादिरुचिर्मायालिप्तानां ब्रह्मणो न च ।। 1.186.१३ ०।।
चेत् शिवः स हि मे विप्रा विवाहं न करिष्यति ।
अविवाहाऽवधूतानि सदाऽहं स्यां शिवाण्यपि ।। १३१ ।।
नाऽहं तृष्णावती कामे न कामार्थं तपाम्यहम् ।
यूयं यदर्थं तपथ तदर्थं तु तपाम्यहम् ।। १ ३२।।
यदि मे स करं शर्वो ग्रहीष्यति सुखं द्वयम् ।
न ग्रहीष्यति चेत्पाणिं सुखं साध्व्यास्ततोधिकम् ।। १३३ ।।
इदानीं साध्यते शुभ्रं साधयिष्येऽधिकं ततः ।
मिलेद्वा न मिलेदत्र मोक्षेऽवश्यं मिलिष्यति ।। १ ३४।।
यत् करोमि विचार्यैव न हानिर्लाभ एव वा ।
कस्मादन्यं पतिं कांक्ष्ये नास्ति कामे स्पृहा हि मे ।। १ ३५।।
याचे क्षमां त्वधिकोक्तेर्गृह्णन्तु सत्क्रियां मम ।
योजयन्तु शुभाशीर्भिर्हंसा हंसं मिलेद् यथा ।। १ ३६।।
भवतामाशीर्वचनैर्मार्कण्डेयश्चिरंभवः ।
भवत्कृपया श्वपचो जाताऽरुन्धती चर्षिणी ।। १३७।।
भवतां कृपया विश्वामित्रो ब्रह्मर्षितां गतः ।
तथा युष्मत्कृपालेशाच्छैली शर्वाणिका भवेत् ।। १३८।।
इत्युक्त्वा तान् प्रणम्याथ प्रपूज्य दिव्यवस्तुभिः ।
विरराम शिवं स्मृत्वाऽनपायिशैवधर्मिणी ।। १ ३९।।
ऋषयोऽपि शुभं भूयादस्तु पूर्णो मनोरथः ।
तपःफलं द्रुतं भूयाद्भूयाच्छंभुसमागमः ।। 1.186.१४० ।।
विवाहस्त्वरितो भूयाद्भूयादस्मत्प्रपूजनम् ।
जनवाहा वयं स्यामो भूयात्सर्वं सुमंगलम् ।। १४१ ।।
इत्याशीर्भिः शिवां सम्यक् वर्धयित्वा ययुर्हरम् ।
प्रसन्ना देवकार्यार्थं सदाशाः सम्परीक्षकाः ।। १४२।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पार्वत्याः शोको नारदोपदेशस्तपोनिषेधस्तथापि गौरीशृंगे पंचसहस्रवर्षाणि तपः, शैलर्षिभिर्निषिद्धेऽपि तपसि स्थिता गौरी सप्तर्षिभिः परीक्षिताऽऽशीर्भिर्योजिता चेत्यादिनिरूपणनामा षडशीत्यधिकशततमोऽध्यायः ।। १८६ ।।