लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १८५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८५
[[लेखकः :|]]
अध्यायः १८६ →

श्रीलक्ष्मीरुवाच-
हरे हिमालयं प्राप्ते पार्वत्या शंभुलब्धये ।
कृतं किं शंभुना चापि किं कृतं तद् वदस्व मे ।। १ ।।
श्रीनारायण उवाच-
सती तेपे हरार्थं च हरस्तेपे सतीकृते ।
द्वयोर्यत्नोऽभवद्वेगान्महालक्ष्मि निबोध मे ।। २ ।।
काँश्चिद् गणवरान्शान्तान्नन्द्यादीनवगृह्य सः ।
गंगावतारमगमत् हिमवत्प्रस्थमीश्वरः ।। ३ ।।
यत्र गंगा ब्रह्मलोकात्प्रथमं पतिता गिरौ ।
तपःप्रारंभमकरोत् स्थित्वा तत्र वशी हरः ।। ४ ।।
एकाग्रं चिन्तयामास स्वात्मानं ब्रह्म यत्परम् ।
ध्यानस्थिता गणाः केचित्केचित्सेवापरास्तदा ।। ५ ।।
केऽपि मौनपराश्चासन् द्वारपाः केचनाऽभवत् ।
एतस्मिन्नन्तरे तत्र जगाम हिमभूधरः ।। ६ ।
प्रणनाम प्रभुं रुद्रं तुष्टाव च कृतांजलिः ।
देवदेव महादेव योगिरूप नमोऽस्तु ते ।। ७ ।
निर्गुणाय सगुणाय लीलाकाराय ते नमः ।
परिपूर्णाय विकृतिरहिताय च ते नमः ।। ८ ।
शान्ताय सुखरूपाय ब्रह्मणे ते नमोनमः ।
तपःफलप्रदात्रे ते तपःस्थाय नमोनमः ।। ९ ।
अबहिर्भोगकाराय नमस्ते परमात्मने ।
परमात्मस्वरूपाय ते सतीपतये नमः ।। 1.185.१० ।
भाग्योदयफलं मेऽत्र त्वागतस्त्वं मम गृहे ।
सनाथं कृतवान् मां त्वं प्रभो साधुसुखप्रद् ।। ११ ।
अद्य मे सफलं जन्म सफलं जीवनं मम ।
अद्य मे सफलं सर्वं यदत्र त्वं समागतः ।। १ २ ।
ज्ञात्वाऽनन्यं तव दासं चाज्ञां देहि यदि प्रभो ।
त्वत्सेवां तु सदा प्रीत्या कुर्यां दास्यविधानतः ।। १३ ।
श्रुत्वा नेत्रे समुन्मील्य दृष्ट्वाऽग्रस्थं हिमालयम् ।
प्रीत्या प्रोवाच शैलेन्द्रं ध्यानयोगस्थितो हरः ।। १ ४।।
तव पृष्ठे तपस्तप्तुं रहस्यमहमागतः ।
यथा न कोपि निकटे समायाद्वै तथा कुरु ।। १५ ।।.
त्वमाश्रयो मुनियोगियतिसन्यासिनां तथा ।
देवर्षियक्षगन्धर्वराक्षसद्विजनाकिनाम् ।। १६ ।।
तपोधामा महात्माऽसि गंगापूतोऽसि सर्वदा ।
सदा परोपकारी च गिरीणामधिपो महान् ।। १७।
अहं तपश्चराम्यत्र गंगावतरणे स्थले ।
निर्विघ्नं मे तपो भूयात्साहाय्यं सेवनं कुरु ।। १८ ।
श्रुत्वा शैलस्तदा शंभुं प्रणयादिदमब्रवीत् ।
करिष्ये सर्वथा रक्षां विघ्नं तपसि मा भवेत् । । १९ ।
निर्विघ्नं कुरु देवेश स्वतन्त्रः परम तपः ।
करिष्येऽहं तथा सेवां दासवन्नियतस्थितः ।। 1.185.२० ।
देवेन्द्रादधिकं मन्ये स्वमनुग्रहभाजनम् ।
अप्राप्यश्चोग्रतपसा स त्वं स्वयमुपस्थितः । । २१ । ।
नोऽन्योऽस्ति पुण्यवान्मत्तो यत्पृष्ठे तपसि स्थितः ।
गच्छाम्याज्ञापालनार्थं प्रसन्नो भव सर्वदा । । २२ । ।
इत्युक्त्वा स्वस्थलं गत्वाऽमात्यादीनाह सर्वथा ।
यान्तु गंगावतरणे परितो रक्षणाय वै ।। २३ ।।
तपः करोति देवेशो मत्प्रस्थे ध्यानसंस्थितः ।
तत्राऽद्यप्रभृति कोपि मा यातु स्वः परोपि वा ।। २४। ।
गमिष्यति जनः कश्चित्तत्र चेत्तं महाखलम् ।
दण्डयिष्ये विशेषेण शंकरस्य कृतेऽप्यहम् ।। २५।।
आज्ञाप्याऽथ स्वयं शैलः सत्पुष्पफलसंचयम् ।
समादाय स्वतनयासहितोऽगात् शिवान्तिकम् ।।।२६।।
नत्वा चाग्रे फलादीनि निधाय प्राह शंकरम् ।
भगवन्! तनया मे त्वां सेवितुं पार्वती सती ।। २७।।
सखीभ्यां सहिताऽऽनीता सेवनेऽस्त्युत्सुका तव ।
अनुजानीहि तां नाथ मयि ते यद्यनुग्रहः ।। २८ ।।
अथ तां शंकरोऽपश्यत्प्रथमारूढयौवनाम् ।
फुल्लेन्दीवरपुष्पाभां पूर्णचन्द्रसमाननाम् ।। २९ ।।
सुरूपां च विशालाक्षीं स्वर्णकान्तिसमुज्ज्वलाम ।
राजीवकुड्मलप्रख्यघनपीनदृढस्तनीम् ।। 1.185.३० ।।
तनुमध्यां स्थूलश्रोणीं त्रिवलीयुक्कृशोदरीम् ।
स्थलपद्मप्रतीकाशपादसौन्दर्यराजिताम् ।। ३१ ।।
तपसो भ्रशने शक्तां कोमलां कामवर्धिनीम् ।
दृष्ट्वा न्यमीलयन्नेत्रे शीघ्रं दध्यौ स्वरूपकम् ।। ३२।।
प्राह शैलस्तदा शंभुं पश्य मां शरणागतम् ।
न त्वां जानन्ति शास्त्राण्यतीतं वाङ्मनसोः सदा ।। ३३ ।।
अतद्व्यावृत्तितस्त्वां चाऽभिधत्ते श्रुतिरीश्वरी ।
येषु कृपा त्वया क्षिप्ता भक्ता जानन्ति ते हरम् ।। ३४।।
सभाग्योऽहं प्रसादात्ते मत्वा दासं कृपां कुरु ।
अनया सुतया स्वामिन् सेविष्येऽन्वहमादरात् ।।३५ ।।
श्रुत्वा नेत्रे समुन्मील्य देवदेवोऽब्रवीत्तदा ।
कुमारीं सदने त्यक्त्वा सेवां कुरु ममाऽचल । । ३ ६। ।
शैलः प्राह कथं पुत्रीं नाऽनयेयं वद प्रभो ।
शंभुः प्राह सदा नारी माया विघ्नं तपस्विनाम् । । ३७। ।
तपस्वी युवतीसंगात्तपसा भ्रश्यति ध्रुवम् ।
अतस्तपस्विना शैल न कार्यं स्त्रीप्रसंजनम् ।। ३८ ।।
श्रुत्वैवं च तदा नत्वा भवानी वाक्यमब्रवीत् ।
यया शक्त्या त्वया रुद्र तपः संक्रियतेऽधुना ।। ३९ ।।
सा शक्तिः प्रकृतिर्मूला त्वयि तिष्ठति सा सती ।
त्वां विना तु कथं चार्च्यो वन्द्यो ध्येयो भविष्यसि ।।1.185.४० ।।
शंभुः प्राह प्रकृतिं तां विनाश्य तपसा ततः ।
स्थास्याम्यहं परब्रह्मस्वरूपोऽविकृतः सुखी ।। ४१ ।।
काल्युवाच तदा शंभुं प्रकृतिध्वंसनस्थितिः ।
सा किं प्रकृतिरन्या वा विचार्यैव समुच्यताम् ।। ४२ ।।
तदानीमपि सा ब्राह्मी स्थितिः प्रकृतिरुच्यते ।
इदानीं शांभवी सा च स्थितिः प्रकृतिरुच्यते ।।४३ ।।
प्रकृतेः परमश्चेत् त्वं किमर्थं तपसे तपः ।
प्रकृतेरन्तरश्चेत् त्वं कथं सतीं निषेधसि ।।४४।।
किं बहूक्तेन योगीश यदर्थं तपसे तपः ।
प्रत्यक्षं बलवत्सर्वप्रमाणेभ्यस्तथाऽत्र तत्। ।।।४५।।
स चाहं पुरुषोऽसि त्वं मयैव सगुणो भवान् ।
मां विना त्वं निरीहः सन्न किंचित्कर्तुमर्हसि ।।४६ ।।
एवंस्थिते न भेत्तव्यं मत्सान्निध्येऽपि निर्गुण ।
शंभुः प्राह तदा देवीं यद्यहं ब्रह्म निर्गुणः ।।४७।।
निर्लेपश्चाप्यकर्ता चाऽभोक्ता ह्यात्मा निरंजनः ।
तदा सेवां कुरु सौम्ये त्वं करिष्यसि किन्नु माम् ।।४८ । ।
पित्रा बिनापि सा काली सखीभ्यां सह नित्यशः ।
सेवायां वर्तते नित्यं सा शंभोरनपायिनी ।।४९।।
इदमेव महद्धैर्यं धीराणां सुतपस्विनाम् ।
विघ्नस्वरूपया चापि कृतविघ्नैर्न हन्यते । ।1.185.५० ।।
काली प्रक्षाल्य चरणौ पपौ तच्चरणोदकम् ।
वह्निशौचेन वस्त्रेण चक्रे तद्रात्रमार्जनम् ।।५१ ।।
षोडशभिरुपचारैः सम्पूज्य विधिवद्धरम् ।
पुनः पुनः प्रणम्यैव ययौ क्वचित्पितुर्गृहम् ।।५२ ।।
बहुले समये याते ससखी शंकराश्रमे ।
वितेने सुन्दर गानं सुतालं स्मरवर्धनम् ।।५३ ।।
विसिस्मिये वीक्षमाणा सकामा शंकरं प्रभुम् ।
शंकरोऽपि क्वचित्तां संचिन्तयत्येव सर्वथा ।।५४ ।।
महालावण्यनिचयां सर्वदा निकटस्थिताम् ।
चिन्तयमानां सततं शंभुं पतिधियाऽच्युतम् ।।५५ ।।
एतस्मिन्नन्तरे देवाः शक्राद्या मुनयस्तथा ।
ब्रह्माद्याश्च महादुष्टतारकेण प्रपीडिताः ।।५६ ।।
कामं संप्रेष्य च तयोर्योगं कारयितुं मुहुः ।
अकुर्वन्बहुधा यत्नं हरः किन्तु न चुक्षुभे ।।५७।।
शिववीर्यसमुत्पन्नं पुत्रं विना न तारकः ।
महासुरो विनश्येद्वै विचिन्त्येन्द्रः पुनः पुनः ।।५८ ।।
सस्मार स्मरमत्यर्थं सवसन्तं रतिप्रियम् ।
आगतस्तत्क्षणात्कामः सवसन्तो रतिप्रियः ।।५९।।
प्रोवाच प्रांजलिः शक्रं दासोऽयं समुपस्थितः ।
इन्द्रः प्राह विजयस्व सन्मित्रं त्वं महान्मम ।। 1.185.६० ।।
जयार्थं मे द्वयं शस्त्रं वज्रं कामश्च सर्वदा ।
वज्रं तु निष्फलं स्याद्वै त्वं तु नैव कदाचन ।। ६१ ।।
दातुः परीक्षा दुर्भिक्षे रणे शूरस्य जायते ।
आपत्काले तु मित्रस्याऽशक्तौ स्त्रीणां कुलस्य च ।। ६२ ।।
क्षमायाः संकटे प्राप्ते सत्यस्य तु परोक्षके ।।
सुस्नेहस्य महत्कार्ये नाऽन्यथा तत्परीक्षणम् ।। ६३ ।।
व्यर्थं च बहु यो ब्रूते स किं कार्यं करिष्यति ।
सर्वसुरादिसंप्रार्थ्य कार्य चैतत्कुरु स्मर ।। ६४।।
स्मरः प्राह तदेन्द्रं वै ग्रहीतुं त्वत्पदं यदि ।
तपः करोति कश्चिच्चेत् पातयामि क्षणान्तरे ।। ६५ ।।
स्त्रीकटाक्षैर्भ्रंशयामि क्षणात् देवर्षिदानवान् ।
वज्रं शस्त्रं तथाऽस्त्रं ते दूरेऽस्तु मय्युपस्थिते ।। ६६ ।।
ब्रह्माणं शंकरं विष्णुं पातयेयं क्षणान्तरे ।
अन्येषां गणना नास्ति मद्वशा मायिकाऽऽकृतिः ।।६ ७।।
पंचैव मृदवो बाणास्ते च पुष्पमया मम ।
चापस्त्रिधा पुष्पमयः शिंजिनी भ्रमरार्जिता ।।६८ ।।
बलं सुयुवती मेऽस्ति वसन्तः सचिवः सदा ।
अहं पंचबलो देवो मित्रं मम सुधाकरः ।। ६९ ।।
सेनापतिश्च शृंगारो हावभावाश्च सैनिकाः ।
तानि मे मृदुशस्त्राणि मृदुश्चाप्यहमेव वै ।।1.185.७ ० ।।
यद्येन पूर्यते कार्यं धीमाँस्तत् तेन साधयेत् ।
मम योग्यं तु यत्कार्यं तत्र मां वै नियोजय ।।७ १ ।।
श्रुत्वा महेन्द्रस्तं प्राह ब्रह्मणाऽभिहितं पुरा ।
तारकाख्यमहादैत्यमरणं शांभवात्सुतात् ।।७२।।
भविष्यतीति शंभोश्च सेवायां पार्वती सती ।
वर्तते च रुचिस्तस्यां यथा शर्वस्य जायते ।।७ ३ ।।
तथा कार्यं त्वया कार्यं सर्वं दुःखं विनंक्ष्यति ।
ओमित्युक्त्वा च नत्वा च ययौ स्मरः समण्डलः ।।।७४ ।।
स तु प्राप्याऽकरोत् चिन्तां कार्यस्योपायपूर्विकाम् ।
महात्मानो हि निष्कम्पा मनस्तेषां सुदुर्जयम् ।। ७५।।
तदादावेव संक्षुभ्य ततस्तेषां जयो भवेत् ।
क्रोधक्रूरतरासंगाद्भीषणेर्ष्यामहासखी ।।७६।।
चापल्यान्मूर्ध्नि विध्वस्तधैर्याधारमहाबला ।
तामस्य विनियोक्ष्यामि मनसो विकृतिं पुरः ।।७७।।
पिधाय धैर्यद्वाराणि सन्तोषमपकृष्य च ।
कामतृष्णां समुद्भाव्य प्रविशामि ततो हरे ।।७८। ।
चिन्तयित्वेति मदनो जगाम हरमन्दिरम् ।
ददर्श शंकरं कामः क्रमप्राप्तान्तिकः शनैः ।।७९ ।।
मोहकः स मधोश्चादौ धर्मान् विस्तारयन् स्थितः ।
वसन्तस्य तदा धर्मः प्रससार च सर्वतः ।।1.185.८ ० ।।
वनानि च प्रफुल्लानि पुष्पाणि चूतशाखिनाम् ।
अशोकानां च कलिकाः विरेजुः सौरभान्विताः ।।८ १। ।
कैरवाणि च पुष्पाणि भ्रमराकलितानि च ।
बभूबुर्मदनावेशकराणि च विशेषतः ।।८२।।
सुकामोद्दीपनकरं कोकिलाकलकूजितम् ।
आसीदपिसुरम्यं च मनोहरमतिप्रियम् ।।८३।।
कामोद्दीपकराः शब्दा द्विरेफाणां तदाऽभवन् ।
चन्द्रस्य विशदा कान्तिर्विकीर्णाऽभूत्समन्ततः ।।८४।।
कामिनां कामिनीनां च साऽभवत् शीतदीपिका ।
मारुतश्चैनयोर्योगकृत्सुखः संववौ तदा ।।८५।।
एवं वसन्तविस्तारो ह्यभून्मदनबोधकः ।
अचेतसामपि तर्हि कामाशक्तिरभूत् प्रिये ।।८६।।
सचेतसां तु जीवानां लक्ष्मि! का वर्ण्यते कथा ।
वनौकसां मुनीनां तापसानां दुःसहोऽप्यभूत् ।।८७।।
ततो भ्रमरहुँकारमालम्ब्याऽदृश्यविग्रहः ।
प्रविष्टः कर्णरन्ध्रेण भवस्य मदनो मनः ।।८८।।
शंकरस्तमथाऽऽकर्ण्य मधुरं मदनाश्रयम् ।
सस्मार च सतीं तत्र दयितां रन्तुमानसः ।।८९।।
ततः सा तस्थौ शनकैस्तिरोधायाऽतिनिर्मला ।
विवेश मदनो द्राक् च विकृतिं नीतवाँस्तदा ।।1.185.९० ।।
ईषत्क्रोधसमाविष्टो धैर्यमालम्ब्य धूर्जटिः ।
निरस्य मदनं योगसामर्थ्येन व्यवस्थितः ।।९ १ ।।
ततः स्मरः प्रजज्वाल निर्गतो हृदयाद् बहिः ।
चूतं बाणं समाकृष्य स्थितस्तद्वामपार्श्वतः ।।९२।।
सहकारतरोर्दृष्ट्वा मन्दमारुतकम्पितम् ।
स्तबकं मदनो रम्यं हरवक्षसि सत्वरम् ।।९३।।
मुमोच मोहनं नाम मार्गणं मकरध्वजः ।
हरस्य हृद्ये पुष्पबाणः पपात मोहनः ।।९४।।
बभूव विद्धहृदयोऽधैर्यश्च मदनोन्मुखः ।
एवं प्रवृत्तसुरतौ शृंगारोऽपि गणैः सह ।।९५।।
हावभावयुतस्तत्र प्रविवेश हरान्तिकम् ।
हरोऽपि योगविभवादकम्पोऽभून्निजात्मनि ।।९६।।
न दृष्टवान्स्मरच्छिद्रं तदा येन विशत्यपि ।
एतस्मिन्नन्तरे तत्र सखीभ्यां सहिता शिवा ।।९७। ।
व्यक्तं शंकरपूजार्थं नीत्वा पुष्पाण्यनेकशः ।
सौन्दर्ययौवनोन्मत्ता शिवा तस्थौ शिवान्तिके ।।९८।।
तदैव शंकरो ध्यानं त्यक्त्वा क्षणमवस्थितः ।
तच्छिद्रं प्राप्य मदनो हर्षणाख्यशरेण तम् ।।९९।।
हर्षयामास शंभुं च दृष्ट्वा च हर्षितं सती ।
शृंगारैर्विविधैर्भावैर्ददौ कामसहायताम् ।। 1.185.१० ०।।
तदैव च पुनः कामो रुच्याख्यं प्रैरयच्छरम् ।
रुचिमन्तं हरं दृष्ट्वाऽमुंचत्पुष्पशरं स्मरः ।। १० १।।
तेन वै शंभुना दृष्टा स्त्रीस्वभावात्सुलज्जया ।
विवृण्वती निजांगानि संश्लेषार्थमुपस्थिता ।।१ ० २ ।।
पूजानिमित्तमालम्ब्य स्पृष्टौ च चरणौ तया ।
हारार्पणं समालम्ब्य स्पृष्टौ गण्डकपोलकौ ।। १०३ ।।
ललाटबिन्दुमालम्ब्य स्पृष्टा भालाऽक्षिसुभ्रुवः ।
पुष्पकटकमालम्ब्य स्पृष्टाः करतलादयः ।। १ ०४।।
पुष्परशनामालम्ब्य स्पृष्टाः कट्यूरुनाभयः ।।
चन्दनद्रवमालम्ब्य स्पृष्टान्यंगानि सर्वशः ।। १ ०५।।
शिवः स्पर्शैर्महामुग्धो वर्णयामास पार्वतीम् ।
किं मुखं किं शशांकश्च किं नेत्रे चोत्पले च किम् ।। १०६ ।।
अहो भ्रुकुट्यौ धनुषी कन्दर्पभवनाऽर्हणे ।
अधरः किं च बिम्बं किं किं नासा शुकचञ्चुका ।। १ ०७।।
किं स्वरः कोकिलालापः किं मध्यं किं च वेदिका ।
किं रूपं किं गतिश्चास्याः किं वस्त्राभूषणार्हता ।। १ ०८।।
किं लालित्यं च किं सर्वावयवैः रमणीयता ।
अहोऽद्भुताकृतिश्चेयं लावण्यकामनानिधिः ।। १० ०.।।
मदर्थं निर्मिता चेयं गृह्णाम्येव न संशयः ।
इति कृत्वा हरस्तस्या अचालयत चाऽम्बरम् ।। 1.185.११ ०।।
तावत्कुमारिकाभावाल्लज्जिता दूरतो गता ।
विवृण्वती निजांगानि पश्यन्ती च मुहुर्मुहुः ।। १११ ।।
सुवीक्षणैर्महामोदात् सुस्मिता तिष्ठति स्म सा ।
शंभुर्विचिन्तयामास दृष्ट्वा भोग्यार्हसुन्दरीम् ।। ११२ ।।
अस्या दर्शनमात्रेण महानन्दो भवत्यहो ।
यदालिंगनमेतस्याः कुर्यां किं किं महत्सुखम् ।। १ १३।।
विचार्येत्थं समुत्थाय पार्वतीमभिगच्छति ।
तथा तथा तु सा देवी पश्चात्पश्चाद्विसर्पति ।। १ १४।।
तदा स्वं तद्वशं ज्ञात्वा ज्ञात्वा तां स्वाऽवशां तथा ।
विचारं कृतवान् शंभुः केयं नारीविडम्बना ।। १ १५।।
ईश्वरोऽहं यदीच्छेयं परांगस्पर्शनं वशी ।
तर्हि कोऽन्योऽक्षमः क्षुद्रः किं किं नैव करिष्यति ।। १ १६।।
किमु विघ्नाः समुत्पन्नाः कुर्वतस्तप उत्तमम् ।
केन मे विकृतं चित्त कृतमत्र प्रधर्षिणा ।। १ १७।।
अस्वस्त्रीधर्षणं धर्मविरोधः श्रुतिलंघनम् ।
न योग्यं तन्मादृशानां कथमीदृक्दृशां गतः ।। १ १८।।
विचार्थेत्थं स परितो लोकयामास शंकितः ।
वामभागे स्थितं कामं ददर्शाऽऽकृष्टबाणकम् ।। ११९।।
तावच्छंभोर्महाक्रोधः संजातस्तत्क्षणे प्रिये ।
कामोऽप्युड्डीय व्योमस्थश्चिक्षेपाऽमोघमार्गणाम् ।। 1.185.१२० ।।
अमोघमपि मोघं तज्जातं क्रुद्धे महेश्वरे ।
मन्मथो भयमापाऽऽशु चकम्पे भयविह्वलः ।। १२१।।
सस्मार त्रिदशान्सर्वान् तेऽप्याययुश्च तुष्टुवुः ।
तथापि च महाक्रोधानलव्याप्तानने सति ।। १२२।
नेत्रत्रयं च भालं चाऽनियम्याऽनलपूरितम् ।
जातं रौद्रं विकरालं भयंकरं ललाटकम् ।। १ २३।।
प्रसह्य वह्निना नेत्रं तृतीयं जाग्रतं कृतम् ।
रुद्रस्य रौद्रवपुषो जगत्संहारभैरवात् ।। १२४।।
ललाटमध्यगान्नेत्रात्तृतीयात्पूरवेगतः ।
निःससार महावह्निः प्रलयाग्निसमप्रभः ।। १२५।।
जज्वालोर्ध्वशिखो दीप्तो ज्वालाप्रवाहरूपकः ।
यद्दिशं चेक्षते शंभुस्तत्रोत्पत्य निपत्य च ।। १२६ ।।
भ्रामं भ्रामं यथादृष्टि धावत्यग्रे महानलः ।
एतस्मिन्नन्तरे शंभुर्ददर्श पार्श्वगं स्मरम् ।। १ २७।।
मच्चित्तविकृतेः कर्ता कामोऽयमिति तं प्रति ।
भालनेत्रमतिस्फारं व्यस्फारयत शंकरः ।। १२८।।
तदुत्थवह्निना कामं भस्मसात् कृतवान् हरः ।
अभवन्मरुतां वाचः क्षम्यतां क्षम्यतामिति ।। १२९ ।।
स तु तं भस्मसात् कृत्वा जगद् दग्धुं व्यजृम्भत ।
ततो भवो जगद्धेतोर्व्यभजज्जातवेदसम् ।। 1.185.१३ ०।।
सहकारे मधौ चन्द्रे सुमनःस्वपरेष्वपि ।
भृंगेषु कोकिलास्येषु विभागेन स्मरानलम् ।। १३१ ।।
दग्धे तस्मिन् स्मरे वीरे देवा दुःखमुपागताः ।
ससखी पार्वती म्लाना स्वपितुर्मन्दिरं ययौ ।। १३ २।।
पतिता च रतिस्तत्र विसंज्ञाऽभून्मृतैव सा ।
जातायामथ संज्ञायां साक्रोशं विललाप ह ।। १३३ ।।
किं करोमि क्व गच्छामि किं कृतं दैवतैरिह ।
मत्पतिं ते समाहूय नाशयामासुरीश्वरात् ।। १ ३४।।
हा हा नाथ स्मर स्वामिन् प्राणप्रिय सुखप्रद ।
इदन्नु किमभूदत्र हा मे भाग्यं विदारितम् ।। १३५।।
इत्थं विलापिनी हस्तौ पादौ प्रसार्य भूतले ।
केशानत्रोटयत् त्वाघातयन् शश्वत् स्वमस्तकम् ।। १३६ ।।
तस्या आक्रन्दनं श्रुत्वाऽभवन् सर्वे सुदुःखिताः ।
आगत्य सुविचार्यैव देवा आश्वासनं ददुः ।। १ ३७।।
किंचिद्भस्म गृहीत्वा संरक्ष यत्नात् भयं त्यज ।
जीवयिष्यति शंभुः सः प्राप्स्यसि त्वं पुनः पतिम् ।। १ ३८।।
अथ देवाः शिवमूचुः संप्रसाद्य पुनः पुनः ।
कामेनैतत्कृतं तत्र न स्वार्थस्तस्य विद्यते ।। १३९ ।।
तारकपीडितैर्देवैरखिलैः कारितं तु तत्। ।
त्वया कामप्रदाहेन सस्त्रीका निष्फलीकृताः ।। 1.185.१४० ।।
कथं जगत्प्रवाहो निर्वहेदेवं कृते सति [
रतिमाश्वासय शर्व कुरु शोकापनोदनम् ।। १४१।।
रतिश्चापि तदा शंभुं जगाम शरणं ततः ।
उद्धूल्यगात्रं शुभ्रेण हृद्येन स्मरभस्मना ।। १४२।।
जानुभ्यामवनिं गत्वा प्रोवाच दुःखसागरा ।
नमोऽस्तु शंभवे नाम्ना कर्मणा दुःखदाय च ।। १४३।।
नमस्ते पार्वतीस्मर्त्रे रत्या विलापकारिणे ।
सतीमृगाय नमः कादाचित्कयोगिने नमः ।। १४४।।
नमो मायाद्यधिष्ठाय मायाहीनाय ते नमः ।
नमो ब्रह्मस्वरूपाय कृष्णरूपाय ते नमः ।। १४५।।
नमो वैराजरूपाय सदाशिवाय ते नमः ।
नमः शिवाय रुद्राय लिंगरूपाय ते नमः ।। १४६।।
नमो ज्योतिःस्वरूपाय शतरुद्राय ते नमः ।
नमस्ते कोटिरुद्राय नमः कैलासवासिने ।। १४७।।
नमस्ते द्विस्वरूपाय दुःखविरहिणे नमः ।
सतीनाथाय शान्ताय योगिने ते नमोनमः ।। १४८।।
नमो वृषभरूपाय शरभाय च ते नमः ।
नमः किरातरूपाय विवस्त्राय च ते नमः ।। १४९।।।
ब्राह्मणीषु भिक्षुकाय रतिरामाय ते नमः ।
अनंगाय महांगाय जीवनाय च ते नमः ।। 1.185.१५०।।
नमस्तेऽस्तु सकामाय ध्वस्तकामाय ते नमः ।
नमस्तेऽस्तु शरण्याय भक्तेष्टदाय ते नमः ।। १५१ ।।
नमोऽस्त्वसह्यकोपाय प्रियाऽऽप्तिदाय ते नमः ।
प्रयच्छ कामद्रव्यं मे कथं जीवे पतिं विना ।। १५२।।
इति स्तुत्वा पुनस्तत्र विलापं त्वकरोद्रतिः ।
शंभुः प्राह प्रसन्नोऽस्मि जीवयिष्यामि चाऽन्तरे ।। १५३ ।।
रते मा खेदमाप्नुहि सदा मनसि चेतसि ।
सर्वेषां प्राणिनां कामोऽदृश्यो नित्यं निवत्स्यति ।। १५४।।
वस त्वं प्रमदावर्गेऽनंगो वसतु पुंजने ।
द्वयोर्योगे युवत्योश्च सदायोगोऽस्तु चान्तरः ।। १५५ ।।
मत्कोपेन च यज्जातं तत्तथा नान्यथा भवेत् ।
अनंगस्तावदेव स्यान्नान्यथा स्याद्रतीशितुः ।। १५६ ।।
कृष्णस्त्वाद्यद्वापरान्ते हिरण्येशो भविष्यति ।
स हिरण्यां प्रद्युम्नाख्यं कामं चोत्पादयिष्यति ।। १५७।।
कामावतारं प्रद्यम्नं शंबरो वै हरिष्यति ।
सः प्रक्षिप्य समुद्रे तं नगरं स्वं गमिष्यति ।। १५८।।
तावत् त्वं शाम्बरपुरे रते! वासं सुखं कुरु ।
तदा तत्र सशरीरः कामस्त्वां सम्मिलिष्यति ।। १५९।।
कामश्च शंबरं हत्वा द्रव्यं नीत्वा त्वया सह ।
गमिष्यति स्वकं नित्यं नगरं सत्यलोकजम् ।। 1.185.१६०।।
आभूतसंप्लवं तत्र सुखिनौ संभविष्यथः ।
इत्युक्ता शिरसाऽऽवन्द्य शंकरं कामवल्लभा ।। १६१ ।।
जगामोपवनं चान्यद्रतिस्तुहिनपर्वते ।
रुरोद चापि बहुशो दीना रम्ये स्थले स्थले ।। १ ६२।।
एवं रतिस्त्वरण्येषु विचचार चिरं समाः ।
ततो गत्वा तु नगरं शम्बरासुरपालितम् ।। १६३।।
दासी भूत्वा समुवास पतिजन्मेहया सदा ।
प्रतीक्षमाणा तं कालं रुद्रादिष्टं युगात्मकम् ।। १६४।।
अथ क्रोधमयं वह्निं दग्धुकामं जगत्त्रयम् ।
तं वाडवतनुं ब्रह्मा सौम्यज्वालामुखं प्रिये ।। १६५।।
सागरं समगाल्लोकहितायाऽऽदाय वाडवम् ।
प्राह क्षारार्णवं ब्रह्मा निर्दिशामि गृहाण तत् ।। १६६ ।।
अयं क्रोधो महेशस्य वाडवं रूपमाश्रितः ।
ज्वालामुखस्त्वया धार्यो यावदाभूतसम्प्लवम् ।। १६७।।
भोजनं तोयमेतस्य तव नित्यं भविष्यति ।
इत्युक्तः सागरो वह्निमंगीचक्रे तु वाडवम् ।। १ ६८।।
ततः प्रविष्टो जलधौ स वाडवतनुः शुचिः ।
वार्यौघान्सुदहंस्तस्य ज्वालामालातिदीपितः ।। १६९।।
तत्पीतमिष्टसलिला मेघा वर्षन्ति भूतले ।
स्वास्थ्यं प्राप जगत्सर्वं निर्मुक्तं वाडवाद्भयात् ।। 1.185.१ ७०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गंगावतारे शंभोस्तपः, पार्वत्याः सेवा, इन्द्रप्रेषितकामकृतबाणप्रयोगः, तृतीयनेत्रवह्निना कामदाहः, रतिविलापः, अनंगस्य प्रद्युम्नात्मकभाविसदेहस्य वरदानम्, रतेः शम्बरगृहे वासः, क्रोधाग्निरूपवडवानलस्य समुद्रे वास
इत्यादिनिरूपणनामा पंचाशीत्यधिक शततमोऽध्यायः ।। १८५।।