लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १८४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८४
[[लेखकः :|]]
अध्यायः १८५ →

श्रीनारायण उवाच-
अतः परं शृणु प्रीत्या हनुमच्चरितं प्रिये ।
आद्ययुगे यदभूत्तद् रुद्रस्य चरितं शुभे ।। १ ।।
ब्रह्मणश्चापि चरितं दृष्ट्वा तु मोहिनीं तदा ।
धातवो न्यपतन् शंभोर्वेधसश्चापि यद्यथा ।। २ ।।
एकदा विधुरः शंभुः शरदि हिमपर्वते ।
शृण्वन् वै कोकिलालापान् चन्द्रिकाधवलीकृते ।। ३ ।।
सुरभ्यनिलसंव्याप्ते मयूरैश्चापि नादिते ।
शैत्यव्याप्तनिकुंजाढ्ये सस्मार दक्षजां सतीम् ।। ४ ।।
अहो नास्ति मम कान्ता कीदृशी मेऽस्ति वै गतिः ।
सखीं विना शरत्कालः कथं निर्यापितो भवेत् ।। ५ ।।
देवानामीश्वराणां च परब्रह्मस्वरूपजः ।
बाधकः समयोऽवश्यं भवति प्राणधारिणाम् ।। ६ ।।
यद्यप्यस्मि निरीहोऽहं तथापि वर्ष्मयोगतः ।
तात्कालिकेहया चात्र स्मरामि दक्षजां सतीम् ।। ७ ।।
किं करोमि क्व गच्छामि विना सतीं सहायिनीम् ।
तां विना बाधते शैत्यं स्मरोऽपि बाधतेऽद्य वै ।। ८ ।।
ब्राह्ममुहूर्तप्रारंभे चिन्तामग्नो हरोऽभवत् ।
अतीव सस्मार सतीमुत्थायोत्थाय तिष्ठति ।। ९ ।।
निषीदति विहरति कामज्वरसमाकुलः ।
आम्रवृक्षं समाश्रित्य निराशी निषसाद सः ।। 1.184.१० ।।
तावद् विदित्वा देवेशी हिमालयसुता सती ।
योगबलं समासाद्य धृत्वा रूपं द्वितीयकम् ।। ११ ।।
व्योम्नि तत्र समागत्याऽऽकाशवाण्याऽवदत् प्रिया ।
रे ब्रह्म त्वं परब्रह्मकृष्णमूर्तेः कृतोद्भवः ।। १२।।
परब्रह्मस्वरूपोऽसि गच्छ गोलोकधाम यत् ।
तत्र सख्यो ह्यनन्तास्ते विहरस्व यथासुखम् ।। १३।।
कथमत्राऽरण्यभूमौ वृथा शोचसि दीनवत् ।
तत्र कृष्णस्तव कर्ता दुःखं ते नाशयिष्यति ।। १४।।
इत्युक्त्वा विररामाऽथ मौनं तिष्ठति तद्द्रुमे ।
शंकरोऽपि तदाश्रुत्य चकितोऽभूद् हृदन्तरे ।। १५।।
विचार्य बहुधा चित्ते समुत्थाय च तत्स्थलात् ।
जगामाकाशमार्गेण गोलोकं धाम शाश्वतम् ।। १६।।
सती चापि प्रिया शंभोरदृश्या चूतसंस्थिता ।
पृष्ठे पृष्ठे जगामाऽपि गोलोकं धाम शाश्वतम् ।। १७।।
यावत्कुमारिका चास्ति तावन्नेच्छति शंकरम् ।
विवाहे संवृते पश्चात् सदा चेच्छति शंकरम् ।। १८।।
इति कृत्वा गता पत्युः शान्त्यर्थं कृष्णमण्डलम् ।
गत्वा शंभुस्तु गोलोकं श्रीकृष्णं प्रणनाम सः ।। १९।।
स्वागतं कृतवान् शंभोः श्रीकृष्णः पुरुषोत्तमः ।
प्रयोजनं पप्रच्छापि तदा नोवाच शंकरः ।।1.184.२०।।।
लज्जितोऽभूत् ततो देवी सती कमललोचना ।
प्रविवेश हरौ कृष्णे शंकरानन्दकारिणी ।। २१ ।।
प्रोवाच हृदयं ज्ञात्वा हरस्य कृष्णसंस्थिता ।
प्रियोऽसि मे सदा शंभो सतीं नाऽनीतवान् कथम् ।।।२२।।
श्रुत्वैतत् कृष्णवचनं नेत्राश्रूणि मुमोच सः ।
शनैर्धैर्यं समालम्ब्य प्राह सतीप्रणाशनम् ।।२३ ।।
स्वस्य वैधुर्यमपि च दुःखदं चाऽनिवेदयत् ।
कृष्णः प्राह तदा शंभुमाश्वास्य सुखदं वचः ।।२४।।
मन्मूर्तेस्त्वं समुत्पन्नः सती मन्मूर्तिसंभवा ।
मम पुत्रोऽसि देवेश चागतोऽत्र शुभं कृतम् ।।२५।।
गोलोकं यन्मम सर्वं तत्सर्वं च तथापि वै ।
यथेष्टं वस गोलोके विहरस्व यथेष्टकम् ।।२६।।
दास्यो दासा अनेके वै करिष्यन्ति त्वदर्हणा ।
सुखं भुंक्ष्व सदा शंभो यत्ते मनसि वर्तते ।।२७।।
शंभुः प्राह तदा कृष्णं भक्तोऽस्मि नाथ तेऽप्यहम् ।
तव भोग्यं ममाऽभोग्यं वृतं मेऽस्ति सदा हरे ।। २८।।
तस्मान्नानेन रूपेण विचरिष्यामि माधव ।
यदि तेऽस्ति कृपा शिष्ये भवामि वृषभोऽत्र वै ।।२९।।
गवां मध्ये निवसामि विहरिष्यामि गोषु वै ।
इत्याज्ञां देहि मे नाथ कृपां कुरु मयि प्रभो ।।1.184.३०।।
यावत्कालं प्रभोराज्ञा तावत्तिष्ठामि चात्र वै ।
पश्चात् पुनर्गमिष्यामि हिमवद्गृहमुत्तमम् ।।३ १ ।।
तथाऽस्त्विति जगादैनं कृष्णः श्रीपुरुषोत्तमः ।
कृष्णेच्छया तदा शंभुर्वत्सो युवाऽभवद् द्रुतम् ।।३२।।
गावश्च मोहिता दृष्ट्वा सुरूपं वत्समुत्तमम् ।
लेलिहाना जिह्वया तं सिषेविरे मुहुर्मुहुः ।।।३३।।
जृंभमाणा धावमानाः स्पर्शमग्नाः सिषेविरे ।
दृष्ट्वा देवी सती तासु गोषु योगसमाधिना ।।३४।।
प्रविवेश च सर्वासु याः सेवन्ते हरं वृषम् ।
सतीप्रवेशसामर्थ्यात् गावस्ताः शंकरं वृषम् ।।३५।।
सेवन्ते बहुधा प्रेम्णा यथा शंभुः सुखी भवेत् ।
एवं विहरतो गोषु तृप्तोऽभूत् वृषशंकरः ।।३६ ।।
तृप्तिस्तु शाश्वती जाता यथा नेच्छति गां वृषः ।
ततः सती गवां देहाद् विनिःसृत्य च माधवे ।।३७।।
प्रविश्याऽऽह हरं गच्छ हिमशैलं सतीपते ।
शंभुस्तदा वृषरूपं विहाय शंकरोऽभवत् ।। ३८ ।।
प्रपूज्य परमेशानं श्रीकृष्णं हृदये स्मरन् ।
विधुरः पृथिवीं यातुं नाऽकरोन्मन एव सः ।।।३५।।
कृष्णः प्राह तदा शंभो किं ते मनसि वर्तते ।
ब्रूहि ददामि ते सर्वं महाभागवताय हि ।।1.184.४० ।।
शंभुः प्राह हरे कृष्ण विधुरो याम्यहं कथम् ।
वैधुर्यं दुःखदं सर्वं सरसं नीरसायते ।।४१ ।।
तस्मादत्रैव तिष्ठामि योगी भूत्वा तवान्तिके ।
ओमित्याह तदा कृष्णः शंभुश्चापि वटान्तिके ।।।४२।।
निषद्याऽवतताराऽन्तःसमाधौ ध्येयमाधवे ।
न जानात्याकूतिचितिचापल्यवेदनादिकम् ।।४३।।
सती चापि तदा शंभोः पार्श्वे रक्षत्यव्यक्तिका ।
द्वितीयेन स्वरूपेणाऽदृश्येन शंकरप्रिया ।।४४।।
अथ हिमालयपुत्री पार्वती तपसि स्थिता ।
शंभुं प्रतीक्षते नित्यं कदाऽऽगच्छेन्महेश्वरः ।।४५।।
एवं प्रतीक्षते नित्यं शंभुश्चात्राऽऽगतो भवेत् ।
शंभुः समाधिमापन्नो जागर्त्येव नहि क्वचित् ।।४६ ।।
समा बह्व्यस्तदा तत्र व्यतीताः परमेश्वरी ।
सती त्वधैर्यमापन्ना कृष्णं प्राह न ता मुहुः ।।४७।।
कृष्ण कृष्ण प्राणदातर्भक्तस्ते ब्रह्मणि स्थितः ।
बहिः समाधेर्नायाति समा यान्ति निरर्थिकाः ।।४८।।
अहं तु पार्वती भूत्वा तपः करोमि पर्वते ।
प्रतीक्षेऽहं महादेवं कदाऽऽगच्छेन्ममान्तिकम् ।।४९।।
तस्मादेनं समाधेस्त्वं बहिरानय माधव ।
प्रापय यत्र शैलेन्द्रो हिमवान् वर्तते भुवि ।।1.184.५०।।
यत्र मया विवाहः स्यात् तच्छीघ्रं कुरु केशव ।
सत्युक्तां प्रार्थनां श्रुत्वा शंभोर्जागरणाय वै ।।५१।।
प्रेरयामास गोपीनां रासमण्डलमेव सः ।
गोपीभिः संकृते रासे बहुघोषसमन्विते ।।५२।।
सततं वाद्यतालादिनृत्यगीतिप्रमिश्रिते ।
रचितेऽपि महायोगी बहिर्नायात्समाधितः ।।५३।।
गोप्यो देव्यः परिश्रान्ता विरमुः रासखेलनात् ।
जगदुः श्रीहरिं कृष्णं शंभुर्जागर्ति नैव च ।।५४।।
नाऽस्माकं तत्र सामर्थ्यं प्रवर्तते महायतौ ।
स्पृशामो नहि देवं तं दाहस्य भीतितो वयम् ।।५५।।
तस्माद्देव यथेष्टं त्वं गत्वोत्थापय योगिनम् ।
श्रुत्वा कृष्णः स्वयं तत्र गत्वा पश्यति शंकरम् ।।५६।।
कृष्णे स्वं पंचविंशाख्यं संविलीय स्थितं हरम् ।
उत्थापयितुं सूपायं क्लृप्तयामास केशवः ।।५७।।
तूर्णं तु मोहिनीरूपं योगिनीधार्यमेव सः ।
दधार च स्वयं कृष्णः संयमं कृतवान् शिवे ।।५८ ।।
आत्मानं पंचविंशं तं समाधेर्बहिरानयत् ।
तदा नेत्रे समुन्मील्य शंभुर्ददर्श सन्निधौ ।।५९।।
तावत्सुरूपां युवतीं ददर्श मोहिनीं हरः ।
मोहिन्यात्मककृष्णेन हावभावविलासनैः ।।1.184.६०।।
आकर्षकमृदुस्पर्शचूम्बनालापलिंगनैः ।
संभावितो महादेवो मुमोह मानसे मनाक् ।।६१ ।।
सती तावत् स्थिता तत्र प्रवेशमकरोद्धरे ।
विशेषेण हरस्तत्र मोहिन्यां प्रमुमोह च ।।६२।।
उत्थितः सहसा भ्रान्तो मोहिनीं धर्तुमिच्छति ।
तावत्तावन्मोहिनी सा पश्चात्पश्चात्प्रगच्छति ।।६३।।।
ब्रह्माण्डे मोहिनी याति हरोऽप्यनुययौ च ताम् ।
विरजां च समुल्लंघ्य त्वायातौ मोहिनीहरौ ।।६४।।
प्रकृत्यावरणे तत्र सती निष्क्रम्य शंकरात् ।
पृथक्स्थिताऽभवत् तावच्छंकरो मोहिनीं प्रति ।।६५।।
प्रोवाच यासि कं लोकं गच्छ यं प्रति गच्छसि ।
नाऽहं यास्ये त्वया साकं योगिना किं प्रयोजनम् ।।६६।।
अहं स्थास्येऽत्र शान्त्याढ्ये निर्जने सुखदे स्थले ।
ध्याने मग्नो भविष्यामि गच्छ यत्र प्रगच्छसि ।।६७।।
न मया योगिना कार्यं युवत्या सह विद्यते ।
युवतीर्नरकद्वारं योगविघ्नकरी ह्यति ।।६८।।
विश्वासो नैव कर्तव्यो योगिना प्रमदाजने ।
योगाभ्यासाद्वियुज्यैव संयोजयति स्वात्मनि ।।६९।।
स्वकार्यं साधयत्येव परकार्यं धुनोति च ।
ज्ञानं ध्यानं गुणान्सर्वान् ध्वंसयत्येव सर्वथा ।।1.184.७०।।
सुरूपं पुरुषं दृष्ट्वा सर्वस्वं प्रददाति सा ।
किन्तु चात्मसुखं ब्रह्मसुखमाकृष्य याति वै ।।७१।।
तस्मात्सख्यं न वै कार्यं मया विजानताऽधुना ।
गच्छ मोहप्रदे रम्ये नाऽहं सहचरस्तव ।। ७२।।
इत्युक्त्वा निषसादैव हरस्तत्र विनिर्जने ।
कृष्णः प्राह तदाऽऽवेशयितुं नेत्रमिषेण ताम् ।।७ ।।
सती पुनः प्रविवेश शंकरे सोऽथ मोहितः ।
उत्थायाऽनुजगामापि परिरब्धुं तु मोहिनीम् ।।७४।।
मोहिनी तत्स्थलात् सत्यलोकं प्रति ससर्प वै ।
शीघ्रं जग्मुः सत्यलोकं सती शंभुश्च माधवः ।।७५।।
तत्र ब्रह्मसभां त्वालोकयामासुः प्रपूरिताम् ।
मोहिनीं प्रविलोक्यैते ब्रह्माद्याः क्षोभिता ह्यति ।।७६।।
अप्सरसश्च सावित्री देव्यश्च क्षोभिताः क्षणम् ।
मोहिन्यास्तत्परं रूपं राधातोऽपि प्रलौकिकम् ।।७७।।
सभा सर्वा देवदेव्यात्मिका क्षुब्धा द्रवंगता ।
किमु वक्तव्यमेवाऽत्र साक्षात्कृष्णे प्रमोहके ।।७८।।
क्षणान्तरे तु मोहिन्या मोहः संकुचितस्तदा ।
सभाजनोऽभवत् स्वस्थः शंभोः स्वागतमाचरत् ।।७९।।
सती पुनः शर्वदेहात् बहिर्निर्गम्य संस्थिता ।
अदृश्या सर्वदेवैश्च विशश्रामाऽथ मोहिनी ।।1.184.८० ।।
जगाम शंकरं स्प्रष्टुं निर्विकारं गुणाकरम् ।
तावत् तां प्राह शंभुर्मा तवास्ति मे प्रयोजनम् ।।८ १ ।।
ब्रह्माणं गच्छ देवेशि यदि तत्र प्रयोजनम् ।
तामाज्ञां लोकनाथस्य गृहीत्वाऽऽगादजं प्रति ।।८२ ।।
सव्यहस्तं ब्रह्मणश्च कण्ठे कृत्वा चुचुम्ब सा ।
स्पर्शमात्रेण कामाद्वै ब्रह्मसत्त्वं समस्खलत् ।।८३।।
ब्रह्मासने तु तत्सत्त्वं गुप्त्यर्थं वस्त्रमर्दितम् ।
कणाः लक्षं ततो जाता सिंहासनसमन्ततः ।।८४।।
तेभ्यो जाताश्च पर्याख्या ब्रह्मसरसः कन्यकाः ।
अप्सरोभ्यश्चातिरूपाः स्त्रियो ब्रह्मसरोऽभिधाः ।।८५।।
रूपलावण्यसौन्दर्यौज्ज्वल्यसौम्यगुणाकराः ।
प्रोद्भिन्नयौवनोन्मुख्यः सर्वदैकतनुस्थिताः ।।८६।।
ये ये छत्रधरा राजाधिराजा देवतोत्तमाः ।
तद्देवीनामुपदेव्यस्ताभ्यः प्रत्येकमर्पिताः ।।८७।।
ताश्च ब्रह्मसरःसृष्टिः पर्यः प्रोक्ता हि वेधसा ।
अथायं शंकरो देवो नेत्रे सम्मील्य संयमे ।।८८।।
अन्तर्जगाम तत्रैव सभायां ब्रह्मसन्निधौ ।
अन्तर्वृत्तिरपि बहिर्वृत्तिः शृणोति शंकरः ।।८९।।
मोहिनी कथयामास त्रैलोक्यचित्तमोहिनी ।
निबोध साधो मे वाक्यं कामिन्यास्ते सुखप्रदम् ।। 1.184.९०।।
त्यक्त्वा कठोरतां गुप्ते भज मां सुखदायिनीम् ।
त्वं वरेषु वरः सृष्टौ वरार्हाऽहं स्वयंवरा । ।९ १।।
विदग्धाया विदग्धस्य दुर्लभो नवसंगमः ।
स्तनयोर्युग्ममूर्वोर्मे सुन्दरं मुखपंकजम् ।।९२।।
हास्यभ्रूभंगसहितं दृष्ट्वा को न लसेत् सुखम् ।
स्त्रीरसः सुखसारश्च मुनीनामभिवाञ्च्छितः ।।९२।।
रसिकासुखसंभोगः पर्याप्तश्चातिदुर्लभः ।
त्यज ध्यानं सुरश्रेष्ठ भुंक्ष्वेमां तपसः फलम् ।। १४।।
स्वयमुपस्थितां कान्तां न भजेद्यो जितेन्द्रियः ।
सः तस्यास्तु विनिःश्वासाऽग्निना दग्धो विनश्यति ।।९५।।
शंभुः श्रुत्वा तथावाक्यं हितं तथ्यमुवाच ताम् ।
शृणु कान्ते प्रवक्ष्यामि परिणामसुखावहम् ।।९६।।
कुलधर्मोचितं सत्यं ब्राह्मणानां तपस्विनाम् ।
स्वयोषिति योग्यकाले रतिर्धर्मः प्रशस्यते ।।९७।।
यत्र क्वापि लब्धजन्मा जनो यः परयोषिति ।
रतिं याति गृहात्तस्य लक्ष्मीः रुष्टा प्रयाति वै ।।१८।।
ग्राह्या चोपस्थिता नारी गृहिणां न तपस्विना ।
त्यागे दोषो गृहस्थानां शापभाक्पापभाग्गृही ।। ९९।।
ब्रह्मा जगद्विधाताऽस्ति सस्त्रीको न विरक्तिमान् ।
त्यागे दोषो भवेत्तस्य नाऽस्माकं त्यागिनां क्वचित् ।। 1.184.१०० ।।
स्वभार्यां तु परित्यज्य यो गृह्णाति परस्त्रियम् ।
यशोधनायुषां हानिस्तस्यात्रामुत्र चाऽगतिः ।। १०१ ।।
सुसम्पदा स्त्रिया साम्राज्येन वा किं तपस्विनः ।
निष्कामेन च मत्तेन मया किं ते प्रयोजनम् ।। १० २।।
सुवेषं सुन्दरं पुष्टं युवानं गच्छ सुन्दरि ।
इत्येवं त्यजनं श्रुत्वा प्रोवाच विनयान्विता ।। १० ३।।
चारुचम्पकवर्णाभः कन्दर्पसमसुन्दरः ।
तपःप्रभावात् सस्त्रीकः सुघटः सम्मतः स्त्रियाः ।। १०४।।
त्वया विनाऽन्यं कं यामि को वाऽस्ति त्वत्परः पुमान् ।
मादृशी त्वां परित्यज्य क्व वा गच्छेत् स्मरातुरा ।। १०५।।
शीघ्रं मां भज योगीन्द्र दग्धां कामाग्निना पराम् ।
न चेच्छापं प्रदास्यामि सत्वरं वा गृहाण माम् ।। १ ०६।।
दग्धाः प्राणा मनो दग्धं स्वात्मा च दह्यतेऽधुना ।
नवशृंगारपीयूषपाननिर्वाणतां कुरु ।। १ ०७।।
स्वान्तर्दुःखेन दुःखार्ता या यं शपति निश्चितम् ।
शापं खण्डयितुं शक्तो न विधाता न शंकरः ।। १ ०८।।
समुत्तमाभां मां पश्य प्रदग्धां मदनानलैः ।
प्रोद्भिन्ननवसारां चाऽक्षतां केनाऽप्यधर्षिताम् ।। १०९।।
सिन्दूरबिन्दुं दधतीं कस्तूरीबिन्दुना सह ।
चारुचम्पकवर्णाभां सततं स्थिरयौवनाम् ।। 1.184.११० । ।
बृहन्नितम्बयुगलां पीनश्रोणिपयोधराम् ।
शरत्पार्वणशुभ्रांशुप्रभामुष्टकराननाम् ।। १११ ।।
सूक्ष्मवस्त्रपरीधानां रत्नालंकारभूषिताम् ।
सर्वं मोहयितुं शक्तां कटाक्षैरेव लीलया ।। ११२ ।।
त्वादृशं कामयमानां गजेन्द्रमदगामिनीम् ।
पुलकांचितसर्वांगीं मूर्छासन्मुखयायिनीम् ।। ११३ ।।
गृहाण त्वरितं त्वं मां शुष्ककण्ठोष्ठतालुकाम् ।
इत्येवं मोहिनी शर्वं वचनैर्मोहयत्यपि ।। ११४ ।।
शिवो मोहं न चाप्नोति ध्यानं नैव विमुञ्चति ।
तावत्तत्र समागत्य रंभयाऽप्सरसोदितम् ।। १ १५।।
शृणु चाऽलि! युवयोगिसमाकर्षणमन्त्रणाम् ।
यदि तेऽस्ति मनो युवपुरुषे रन्तुमर्थना ।। ११६ ।।
कामदेवसहायेन कुरु कार्यं निजेप्सितम् ।
ब्रह्माऽयं दास्यति कामं सोपकरणमर्थनात् ।। ११७ ।।
यद्यत्र नास्ति ते रागोऽन्यं युवानं विमार्गय ।
कृत्वा वेषमपूर्वं वा पूर्वं प्रयुज्य मन्मथम् ।। ११८ ।।
तेन सार्धं स्वयं गत्वा मोहं कुरु च मोहिनि! ।
जितेन्द्रियाणां प्रवरं साक्षान्नारायणात्मकम् ।। ११९। ।।
विना कामसहायेन का शक्ता जेतुमीश्वरम् ।
अत्र पार्श्वे कृतावासं कामं संव्रज मोहिनि ।। 1.184.१२० ।।
सद्यः सहायो भविता दयालुर्योषितां प्रभुः ।
इत्युक्ता मोहिनी तत्र गता यत्र स्मरगृहम् ।। १२१ ।।
कामोऽपि मोहितो दृष्ट्वा मोहिनीं क्षोभमाप्तवान् ।
स्खलितः सहसा कामः क्षणं जड इवाऽभवत् ।। १ २२।।
तत्सत्त्वात् द्वौ सुतौ जातौ शृंगारक-वसन्तकौ ।
मोहिनीसमरूपाढ्यौ सर्वसौन्दर्यभाजनौ ।। १२३ ।।
द्रागेव यौवनोद्भेदौ कामसाहाय्यदौ सुतौ ।
जातौ तौ सहनीत्वैव कामोऽपि मोहिनीकृते ।। १ २४।।
सहायार्थं प्रार्थितः सन् समायात् यत्र शंकरः ।
ददर्श संयमस्थं च मोहिनी योगिनं हरम् ।। १२५ ।।
तमेव मोहितं कर्तुं समारेभे पुरःस्थि ता ।
क्षणं ननर्त रुचिरं सुगानेन क्षणं जगौ ।। १२६।।
सतीसम्बन्धिसंगीतं भक्तानां चित्तमोहकम् ।
विनेता जगतां तस्याः श्रुत्वा संगीतमीप्सितम् ।। १ २७।।
पुलकांचितसर्वांगो नेत्रे प्रोन्मील्य पश्यति ।
कामाविष्टो हरस्तस्यां मुमोह साश्रुलोचनः ।। १२८ ।।
दृष्ट्वा मुग्धं पंचवक्त्रं मोहिनी हृष्टमानसा ।
कलाप्रमाणं भावं च चकार तत्र लीलया ।। १२९।।
स्वांगानि दर्शयामास स्मेरभ्रूभंगपूर्वकम् ।
का लज्जा तस्य संसारे यः कामहतचेतनः ।। 1.184.१३० ।।
तथापि शंकरस्तत्र नेत्रे सम्मील्य धैर्यवान् ।
विरतो योगमार्गेण न ददर्श तु मोहिनीम् ।। १३१ ।।
किन्तु सा मोहिनी शंभोश्चित्ते समारुरोह वै ।
ध्यानेऽपि दृश्यते चान्तःकरणे मोहकारिणी ।। १ ३२।।
बहिःस्थितं तदा कामं प्रैरयत् मोहिनी क्षणम् ।
सर्वेन्द्रियाणां प्रवरं विष्णोरंशं च मानसम् ।। १ ३३।।
रतिबीजं पंच बाणं शश्वद्योषिदधिष्ठितम् ।
सुगन्धिवातसचिवं मधुशृंगारवेगितम् ।। १ ३४।।
अथाऽयं कामदेवोऽपि सज्जीभूतो हरीच्छया ।
चकार शरसन्धानमन्तरीक्षे स्थितः स्वयम् ।। १३५।।
मन्त्रपूतं महास्त्रं च चिक्षेप शंकरोपरि ।
बभूव चंचलः शंभुः कामास्त्रेण तु कामुकः ।। १ ३६।।
क्षणं निरीक्षणं चक्रे मोहिन्यास्ये पुनःपुनः ।
सस्मिते वक्रनयने कामभावप्रवर्षिणि ।। १ ३७।।
एतस्मिन्नन्तरे कामः समयज्ञः सुयोगवित् ।
आविर्भूय पंचबाणान्निचिक्षेप च शंकरे ।। १ ३८।।
सम्मोहनं तु प्रथमं सम्प्रवेगं द्वितीयकम् ।
उन्मत्तवीर्यं तृतीयं ज्वलज्ज्वर चतुर्थकम् ।। १ ३९।।
पंचमं चेतनहरं प्रक्षिप्य व्योममार्गतः ।
किंकरान्प्रेषयामास कोकिलां च वसन्तकम् ।। 1.184.१४०।।
भ्रमरान् गन्धवातं च स्वयं चापि गतो हरे ।
पुंस्कोकिलः कलं रावमुवाच तत्समीपतः ।। १४१ ।।
षट्पदः सुन्दरं सूक्ष्मं जुगुञ्ज पुरतः स्थितः ।
शश्वद् ववौ गन्धवहो मन्दोऽतिशीतलः प्रिये ।। १४२।।
सततं मुदितस्तत्र बभ्राम च मधुः स्वयम् ।
कामश्च मानसे स्थित्वा तद्विकारं चकार ह ।। १४३।।
पुलकांचितसर्वांगो बभूव योगिशंकरः ।
ददर्श मोहिनीभावं विहस्य च पुनः पुनः ।। १४४।।
प्रोवाच वक्रनयना कामास्त्रहतचेतना ।
इङ्गितेनैव नारीणां सद्यो मत्तं भवेन्मनः ।। १४५।।
करोत्याकृष्य संभोगं यः स एवोत्तमो मतः ।
नार्याः स्फुटमभिप्रायं ज्ञात्वा ह्याकारितस्तु यः ।। १४६।।
पश्चात् करोति शृंगारं पुरुषः स तु मध्यमः ।
कामार्तया स्त्रिया यश्चाऽऽकारितो वै पुनः पुनः ।। १४७।।
धृत्वा प्रसह्य संलिप्तः कनिष्ठः स पुमान्मतः ।।
तया न लिप्तो रहसि स क्लीबो न पुमानहो ।। १४८।।
उत्तिष्ठ जगतां नाथ पारं कुरु स्मरार्णवे ।
निमग्नां दुस्तरे घोरे कर्णधार भयानके ।। १४९।।
सततं त्वन्मनस्कां मां दासीं जन्मनि जन्मनि ।
क्रीणीहि रतिपण्येनाऽमूल्यरत्नेन सत्वरम् ।। 1.184.१५ ०।।
इत्युक्त्वा मोहिनी तत्र समीपमभिसृत्य वै ।
विचकर्ष करं शंभोः सस्मिता कामविह्वला ।। १५१ ।।
शंभुश्चापि समुत्थाय परिरब्धुं समिच्छति ।
तावत्प्राह सती कृष्णं नयैनं हिमवत्स्थलम् ।। १५२।।
मोहिनीशः करग्राहं कृत्वैकान्तं स्थलान्तरम् ।
जिगमिषुरपसर्पन् ' चाग्रे यात्यनुशंकरः ।। १५३।।
क्षणान्तरे मोहिनी तं निनाय हिमवत्स्थलम् ।
कामजडं च निर्लेपं किञ्चिल्लेपं हरं हरिः ।। १५४।।
कैलाससन्निधौ नानावृक्षवल्लीसमन्विते ।
मन्दसुगन्धशैत्याढ्यवायुव्याप्ते सुशीतले ।। १५५।।
सुपुष्पाञ्चितशाखानां निकुंजे तु मनोहरे ।
प्रस्रवज्जलझरणान्तिके निर्जनके स्थले ।। १५६।।
मोहिनी प्राह शंभुं वै कान्त स्मरशयी भव ।
एह्यत्र रतिभेदैर्वा रमावो बहुभेदतः ।। १५१७।।
नेत्रमिषेण च सतीं प्राह कुजान्तरस्थिता ।
पश्य लीलां भगवतोर्द्वयोरनुपमां सखि ।। १५८।।
इत्युक्त्वा मोहिनी पुष्पशय्यां मृद्वीं चकार वै ।
शंभुं धृत्वा वक्षसि स्वे सुष्वाप कामसुन्दरी ।। १५९।।
शंभुकामोत्तेजकानि साधनानि स्मरस्तदा ।
सुसज्जानि प्रेरितानि चकार सर्वतो दिशि ।। 1.184.१६ ०।।
परिरेभे मोहिनीं सः कृष्णरूपां सुसुन्दरीम् ।
कामबाणहतः शंभुः क्षुभितो धैर्यवर्जितः ।। १६१ ।।
यावत्तु संगमं कर्तुमिच्छति तावता बहिः ।
वीर्यं चस्कन्द वै सर्वं निरोद्धंु न शशाक सः ।। १६२।।
सर्वं तु पातयामास पुष्पशय्यात्मके स्थले ।
मोहिनी द्राक् समुत्थायाऽदृश्यतां प्राप्य तत्स्थलात् ।। १६ ३।।
सतीं कामं परिरभ्याऽऽज्ञाप्य गन्तुं स्वकं स्थलम् ।
गोलोकं प्राप श्रीकृष्णो भूत्वा गोपीगणान्वितम् ।। १६४।।
शंकरश्चकितो भूत्वा ज्ञात्वा कृष्णविचेष्टितम् ।
नाऽवमानं स्वकं मेने ययौ कैलासमेव वै ।। १६५।।
सत्यलोकाच्चरित्रं तत् द्रष्टुं सप्तर्षयस्तदा ।
आसन्समागतास्तत्र दृष्ट्वा सर्वं रहःस्थिताः ।। १६६ ।।
रामकायार्थमेवैतद्वीर्यं पत्रे निधाय ते ।
संररक्षुः पत्रपुटान्तरे निर्विघ्नता यथा ।। १६७।।
एतस्मिन्नन्तरे पुत्री केसरस्यांजनी शुभा ।
अरण्ये निर्जने तत्र तपः करोति दुष्करम् ।। १६८।।
पुत्रेच्छया तपःकर्त्र्यै व्योमवाण्या समीरितम् ।
तपसस्ते फलं पुत्रो वायुबलो भविष्यति ।। १६९।।
वायुदेवः स्वयं चात्राऽऽगत्य बीजं प्रदास्यति ।
निःशंकं तद्गृहाण त्वं तापस्यपि शुभानने ।। 1.184.१७० ।।
न ते तत्र भवेद्दोषो रामकार्यं यतोऽस्ति तत् ।
अक्षतत्वेऽपि ते पुत्रो भविष्यति महाबलः ।। १७१।।
तथास्त्विति जगादैषा द्रुतं ननाम तद्दिशि ।
व्योमवाणी निवृत्ताऽभूत् सा तु बीजं प्रतीक्षते ।। १७२।।
तावद् वायुश्च तां दृष्ट्वा क्षुभितोऽतीव रूपतः ।
दृष्ट्वा तु निर्जने कन्यामागतो दिव्यरूपधृक् ।। १७३ ।।
सप्तर्षयोऽपि तत्रैव चागता दैवयोगतः ।
वायुर्लज्जां गतस्तत्र तान् ऋषीन्संविलोक्य वै ।। १७४।।
तदा महर्षयः प्राहुर्देवकार्यार्थमत्र वै ।
त्वया कार्यं महत्कार्यं रामकार्यार्थमेव यत् ।। १७५।।
गृहाण शांकरं बीजं गच्छांऽजनीं तु कैसरीम् ।
स्वस्थो भूत्वा तदा वायुर्वीर्यं जग्राह शांकरम् ।। १७६।।
पत्रपुटं समुद्धाट्य वायुः पश्यति तद्यदा ।
तावत् वह्निसमं दीप्तं ज्वालाभूतं पुटान्तरात् ।। १७७।।
ऊष्माभूतं भवत्शीघ्रं वायुदेहे विवेश ह ।
वायुश्चापि तदाऽऽधातुं न संशक्तो बभूव ह ।। १७८।।
प्रजज्वालोदरे देहे प्राद्रवत् तत्स्थलात्स्थलम् ।
तन्मार्गे चांजनी यत्र तापसी संस्थिता स्थले ।। १७९।।
पृथ्व्यां खातं च आकण्ठं कृत्वा तिष्ठति सर्वदा ।
उपरि शाद्वलं शीतं भूतलं यत्र दृश्यते ।। 1.184.१८० ।।
दृश्यते न च देहोऽस्या मस्तकं दृश्यतेऽकलम् ।
वायुस्तु केसरी भूत्वा प्राधावत् चापलस्तदा ।। १८१ ।।
वायुर्धावन्स्थले तत्र पतितः पादसंस्खलात् ।
शीतं च शाद्वलं ज्ञात्वा ह्याश्लिष्टो मस्तकं च तत् ।। १८२।।
लिंगं वायोर्दैवयोगादंजन्याः कर्णमाविशत् ।
वीर्यं च शांभवं वायुसंस्थं यत् तत्तु सर्वथा ।। १८३ ।।
स्खलितं चांजनीकर्णान्तरे तत्कण्ठतो ह्यधः ।
अवातरत् समग्रं च गर्भकोष्ठे गतं स्थिरम् ।। १८४।।
दैवेच्छयाऽभवत्तद्वै गर्भं दधार कैसरी ।
अंजनी च शरीरे सा प्रजज्वाल विशेषतः ।। १८५।।
भूमेर्बहिर्विनिर्गत्य संस्थिता शाद्वले जले ।
क्षणान्तरे समुत्पन्नः पुत्रो दैवप्रभाववान् ।। १८६।।
मेषसूर्ये चतुर्दश्यां चित्रानक्षत्रयोगके ।
सुवर्णमुखरीनीरे प्रादुरासाऽनिलात्मजः ।। १८७।।
वायुतुल्यो बले शंभुसमश्चैश्वर्यसिद्धिषु ।
कृष्णतुल्यो ब्रह्मचर्ये ऋषिश्चाराधने तथा ।। १८८।।
आकृतौ वानरतुल्यस्तपस्वी चांजनीसमः ।
रूपे कामसमो भैक्ष्ये वसन्तर्तुसमस्तथा ।। १८९।।
कीशजातिसमः सर्वौषधिज्ञाने विशेषतः ।
तापसीसदृशः शान्तो निर्द्वन्द्वे संयमी यथा ।। 1.184.१९० ।।
सैन्येऽरण्यसमो मोहिनीसमश्चिरजीवने ।
रोम्णि वसन्तसदृशो नखेषु वनिसन्निभः ।। १९ १।।
भ्रूकुटौ रुद्रसदृशस्तनौ हिमाद्रिसदृशः ।
राक्षसानां यथाकामं गर्वभंजनकारकः ।। १९२।।।
हृदये शाद्वलसमो दार्ढ्ये पृथ्वीसमः सदा ।
रक्षणे पुटतुल्यश्च वीरत्वे वीर्यसत्प्रभः ।। १९३ ।।
भूतादिज्वालने त्वग्निसदृशः संबभूव सः ।
तत्रैव समये माता हनुं वीक्ष्य तु लम्बिनीम् ।। १९४।।
हनुमानितिनाम्नैव समाजुहाव तं शिशुम् ।
ववृधे तत्क्षणादेव पर्वतप्राय एव सः ।। १९५।।
जहर्ष माता नितरां दृष्ट्वा बलपराक्रमे ।
प्रातः स्वमातरं प्राह प्रांजलिः शिशुरूपतः ।। १९६।।
क्षुधा मे बाधते मातर्देहि जाठरशान्तिकृत् ।
शिशुं चांके निधायैवाऽपाययत् स्तन्यमेव तम् ।। १९७।।
तथापि न क्षुधा शान्ता ददर्श फलमम्बरे ।
रविबिम्बं तदा नेतुमाकाशे चौडुयत्प्रगे ।। १९८।।
देवप्रार्थनया तं सोऽत्यजत् ज्ञात्वा रविं सुरम् ।
प्राप्य दिव्यान्भक्तिमिश्रान्दत्तान्वरान्सुरर्षिभिः ।। १९९।।
स्वजनन्यन्तिकं प्रागादथ सोऽति प्रहर्षितः ।
हनुमान् सर्वमाचख्यौ तस्यै तद्वृत्तमादरात् ।।1.184.२० ०।।
तदाज्ञया ततो धीरः सर्वविद्यादिशेवधेः ।
सूर्यात्पपाठ कीशः सः गत्वा नित्यं तदन्तिकम् ।।२० १।।
मात्रे च प्राजलिर्भूत्वा सेवार्थं प्रार्थयन्मुहुः ।
माता प्राह तु मे वासो वैकुण्ठे च यथा भवेत् ।।२०२।।
तथा सेवां कुरु पुत्र! नाऽन्यन्मे रोचतेऽत्र वै ।
पुत्रः प्राह तदा मातर्निषीद् स्कन्ध एव मे ।।२० ३।।।
नयाम्यनेन देहेन वैकुण्ठं त्वां तु शाश्वतम् ।
समारुरोह माता तत्स्कन्धं कपिर्विमानवत् ।।२०४।।
व्योम्नि बलात्समुड्डीय प्रथमप्लवनेन सः ।
सूर्यमुल्लंघ्य पाश्चात्यपादेनाऽऽपीड्य तं रविम् । । २ ०५।।
द्वितीयप्लवने ध्रुवमुल्लंघ्याऽऽपीड्य तं ध्रुवम् ।
तृतीयप्लवने सत्यलोके ब्रह्मसभां गतः ।। २०६ ।।
चतुर्थप्लवने गंगाद्वारं त्वण्डकटाहकम् ।
भित्त्वा पृथ्वीं पदाऽऽपीड्य वेगाज्जलाऽनलाऽनन्तरे ।। २०७ ।।
वैकुण्ठं द्वितीयं धाम प्रपेदे स महाबलः ।
मातरं तत्र रामस्य चरणेऽर्पय्य भक्तितः । । २०८ ।।
प्राप्य रामाय नमो वै मन्त्रं मालां च वैष्णवः ।
भूत्वा प्राप्य वरान् रामावतारदास्यबोधकान् ।। २०९ ।।
समागच्छत्पुनः पृथ्वीं पदा तताड सः शनिम् ।
जन्मकाले वक्रदृष्ट्या पश्यन्तं दुःखदं तदा ।। 1.184.२१० ।।
शनिस्तत्पल्लताघातात्पपात पृथिवीतले ।
ब्रह्मचारी कपिः सोयं नारीं न स्पृशतीति सः ।। २११ ।।
शनिर्नारीस्वरूपं तु धृत्वा दुद्राव चाम्बरे ।
तावद्धनुमता मूर्ध्नः केशानाकृष्य पातितः । । २१२ । ।
प्रसह्य स शनिः स्वस्य वशे स्यादिति नित्यशः ।
पत्तले मर्दितः सम्यक् यावच्चन्द्रदिवाकरौ ।। २१३ ।।
पादयोः स नतिं कृत्वा प्रार्थयामास वायुजम् ।
विमोचनाय नैजं च गृहं संगमनाय च । । २१४ ।।
तदा प्राह कपीशस्तं रूपं धृत्वा द्वितीयकम् ।
गच्छ स्वगोलकं चात्र प्रतिज्ञाय तु सर्वथा ।। २१५।।
यत्रास्ति हनुमत्स्तोत्रं हनुमत्पूजनादिकम् ।
तत्र तत्र तस्य शनिदृष्टिकृता पीडा न संभवेत् ।। २१ ६।।
नारीरूपं सदा तेऽस्तु मम पादतलार्दितम् ।
यत्रास्ति हनुमत्पादस्तत्राऽकिंचित्करः शनिः ।। २१७ । ।
नारीरूपस्य शाठ्यस्य फलं तेऽस्तु च निग्रहः ।
पन्नतिस्ते नाम कुर्वे सदाऽस्तु मम पत्तले ।। २१८ ।।
गच्छ द्वितीयरूपेण ग्रहस्थो भव सूर्यज ।
सूर्यपुत्रं परिज्ञाय न त्वा बध्नामि जीवतः । । २१९ ।।
मम छायां परित्यज्याऽन्यत्र पराक्रमी भव ।
इति कृत्वा प्रतिज्ञां स शनैश्चरो ग्रहं गतः ।। 1.184.२२० ।।
 'ओं नमो हनुमते दुःखभंजनाय क्षः फट् स्वाहा ।
इति षोडशवर्णात्ममन्त्रं जयति नित्यशः ।। २२१ । ।
न तस्य दुष्टग्रहजा पीडा तु जायते क्वचित् ।
हिमालये यत्र जन्म स तत्र कदलीवने ।। २२२ ।।
सर्वदा चिरजीवी स हनुमान् वसति ध्रुवः ।
रामदास्यं प्रकुर्वन्स रामाग्रे निवसत्यपि ।। २२३ ।।
इति ते कथितं देवि हनुमज्जन्म शंकरात् ।
आयुष्यसुखदं पापनाशकं बलभक्तिदम् ।।२२४।।।
श्रीकृष्णमोहिनीजन्यं दुःखघ्नं पठनाच्छ्रवात् ।
कीर्तनात्पावनकरं किं भूयः श्रोतुमिच्छसि ।।२२५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने हिमालये विधुरशंकरस्य सतीस्मरणं, व्योमवाण्या गोलाकं गत्वा वृषभरूपेण विहरणं, सत्याः हिमाद्रौ शंभ्वानयनाय कृष्णप्रार्थना, मोहिनीरूपकृष्णेन सह शंभोः सत्यलोकागमनं, मोहिनीं दृष्ट्वा स्खलितस्य ब्रह्मणो वीर्याल्लक्षब्रह्मसरसः पुर्यो जाताः, स्खलितस्य कामदेवस्य तु शृंगारकवसन्तकौ जातौ, मोहिनी शंकरेण सह हिमाद्रावागत्य शंभुं परिरब्धा, शंभुधातोः स्खलितात् वायुप्रविष्टात् वानररूपवायुनांऽजनीकर्णप्रविष्टात् हनुमदुत्पत्तिः, सः सूर्यं फलं ज्ञात्वा दधार, अंजनीं वैकुण्ठं निनाय, तत्र वैष्णवो भूत्वाऽऽगच्छन् शनिं पदा
ताडयन् पातयामास पन्नतिनारीरूपं पत्तले ररक्ष-चेत्यादिनिरूपणनामा चतुरशीत्यधिकशततमोऽध्यायः ।। १८४ ।।