लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १८३
← अध्यायः १८२ | लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः) अध्यायः १८३ [[लेखकः :|]] |
अध्यायः १८४ → |
श्रीलक्ष्मीरुवाच-
कीदृशाँश्च चमत्काराँश्चक्रे वै शंकरस्तदा ।
सतीं विना तपः कुर्वन् विचरँश्च क्षितौ सुखम् ।। १ ।।
श्रीनारायण उवाच-
चमत्कारा महाभागवतस्य शंकरस्य मे ।
भक्तस्याऽऽसन् बहवोऽपि द्वित्राँस्ते कथयामि वै ।। २ ।।
सतीदाहोत्तरे काले पार्वत्युद्वाहपूर्वके ।
एकदा शंकरः सतीविरहाग्निप्रतापितः ।। ३ ।।
कैलासे मौनमास्थाय प्रियाविरहकातरः ।
सस्मार स्वप्रियां पत्नीं गुणाँश्च प्रेमवर्धनान् ।। ४ ।।
वर्णयामास बहुधा दर्शयन् लौकिकीं गतिम् ।
वैराग्यवेगेन गार्हस्थ्यस्य रीतिं विहाय च ।। '९ ।।
दिगम्बरः सुबभ्राम स्थले वने ह्यरण्यके ।
क्वापि शान्तिं न च लेभे सतीविरहदुःखितः ।। ६ ।।
मनो नियम्य कैलासे समाधिं कृतवान् हरः ।
समाधौ बहुवर्षाणि व्यतीयुश्च पुनस्तदा ।। ७ ।।
ब्रह्माग्निना ब्रह्मरन्ध्रं ललाटं चातपत् बहु ।
तपोयोगोष्मणा भाले चाऽभवत् स्वेदबिन्दुकः ।। ८ ।।
स्थूलो भूत्वाऽपतत् पृथ्व्यां तपोधातुविमिश्रितः ।
तस्य बभूव पृथ्व्यां वै बालो रक्तप्रवर्णकः ।। ९ ।।
चतुर्भुजोऽरुणो रम्योऽलौकिकद्युतिमान् शुभः ।
स च रुरोद तस्यैव तदा शंभोस्तु सन्निधौ ।। 1.183.१ ०।।
शंभुः समाधिमग्नोऽस्ति ज्ञात्वा देवी वसुन्धरा ।
आविर्बभूव तत्रैव धृत्वा सुस्त्रीतनुं नवाम् ।। १ १।।
भूमिर्बालं निधायांऽके स्तन्यं साऽपाययत् सुतम् ।
चुचुम्ब तन्मुखं स्नेहात् समक्रीडयदात्मजम् ।। १२।
शंभुरन्तःस्थितो देवो ज्ञात्वा सर्वं समाधिना ।
उत्थितः सहसा तत्र समाधेश्च विहस्य ताम् ।। १३।।
भूमिं प्राह प्रसन्नः सन् धन्यासि धरणे प्रिये! ।
प्रीत्यैनं रक्षितवती त्वयि जातं सुतं मम ।। १४।।
मम स्वेदोद्भूतबिन्दुजन्योऽयं बालकस्तव ।
नाम्ना ख्यातो भवेल्लोके भूमिदातृगुणादिमान् ।। १५।।
भौमोऽयं मंगलकरो मंगलः संभविष्यति ।
ममापि सुखदाताऽयं गृहाणैनं सुतं तव ।। १६।।
भूमिर्जग्राह तं बालं शिवं संपूज्य वै ततः ।
आशीर्वचनमादाय स्वस्थानं ससुता ययौ ।। १७।।
रूपान्तरेण सा भूमिः सुतमादाय सर्वदा ।
काश्यां वासं कृतवती सुतोऽभूद् यौवनाऽन्वितः ।। १८।।
स च जानाति पितरं देवं शंभुं सदा स्मरन् ।
काश्यां मूर्तौ महादेवे सिषेवे शंकरं सदा ।। १९।।
युवानं च सुतं दृष्ट्वा पिता प्राहाऽद्य सेवया ।
प्रसन्नोऽस्मि वृणु किंचित् दास्ये त्वदभिवाञ्च्छितम् ।। 1.183.२०।।
पुत्रः प्राह मया लब्धं सर्वं लब्धा प्रसन्नता ।
पितृप्रसन्नतातुल्यं नहि किंचिद् भवेदिति ।।२ १।।
सर्वलब्धव्यभोग्येषु श्रेष्ठा पितृप्रसन्नता ।
सा यद्यधिगता पुत्रैः सर्वं चाधिगतं भवेत् ।।।२२।।
पितृसेवाफलं स्वर्गं मोक्षश्चाऽपुनरावृतः ।
सर्वविघ्नविनाशश्च सर्वसम्पत्करः स्मृतः ।।२३।।
सूर्यचन्द्रादिराज्यानि भौमान्यतलजानि वा ।
पारमेष्ठ्यपदान्यथो पितृप्रसन्नताफलम् ।।।२४।।
तव सेवा सदा कार्या न मेऽस्त्यन्यमनोरथः ।
इत्युक्त्वा हृद्गदभावात् पतितो हरपादयोः ।।२५।।
शंभुः करौ भौममूर्ध्नि कृत्वा प्राह सुपुत्रकम् ।
स्थापये त्वां गृहमध्ये मंगलाख्यो ग्रहो भव ।।२६।।।
यावत् द्यौः स्थास्यति सृष्टौ तावत् त्वं वै भविष्यसि ।
इत्याशिषं च सम्प्राप्य नत्वा शंभुं वसुन्धराम् ।।२७।।
दिव्यं लोकं जगामाऽशु शुक्रलोकात्परं वरम् ।
तत्र राज्यं महल्लेभे भौमगोलकनामकम् ।। २८।।
इति ते कथितं लक्ष्मि भौमस्योत्पत्तिलक्षणम् ।
शंकरस्य चरितं वै सतीविरहकालिकम् ।।२९।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंकरस्य ललाटस्वेदबिन्दोर्मंगलग्रहस्योत्पत्तिरितिनिरूपणनामा त्र्यशीत्यधिकशत-
तमोऽध्यायः ।। १८३।।