लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १८७

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १८६ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १८७
[[लेखकः :|]]
अध्यायः १८८ →

श्रीनारायण उवाच-
ऋषयः प्राहुरव्यग्रा देवेशं शंकरं प्रिये ।
पार्वती शंकरार्थं वै प्राणग्लहं विधाय च ।। १ ।।
निर्भीका च निरालम्बा निराशा निष्परिग्रहा ।
निर्गुणा च निरीहा च तपत्याभूतसंप्लवम् ।। २ ।।
मिलेद्वा न मिलेच्छंभुस्तपः शैलनिसर्गजम् ।
मिलेत् स्यादुभयं सौख्यं न मिलेन्मोक्षजं ततः ।। ३ ।।
सुखं भवत्यधिकं वै तपो नास्ति निरर्थकम् ।
साधयामि शिवं यद्वा पातयामि शरीरकम् ।। ४ ।।
शंभुमुद्वाहयिष्ये वा स्थास्ये कुमारिका सदा ।
नेष्ये च ब्रह्मचर्यात्वं ग्रहीष्यामि प्रव्रज्यिकाम् ।। ५ ।।
मरिष्यामि नैष्ठिकत्वे यास्यामि ब्रह्मशंकरम् ।
इति वै निर्णयं कृत्वा तपः करोति सा सती ।। ६ ।
अथाऽत्र यद्विधेयं स्यात्कर्तव्यमीश्वरेण वै।
इति निवेद्य वृत्तान्तं प्राप्याऽऽज्ञां स्वगृहं ययुः ।। ७ ।।
शंकरस्तु तपो देव्या ऐच्छन् परीक्षितुं तदा ।
परीक्षाकामुको रूपं धृत्वा जाटिलमुत्तमम् ।। ८ ।।
स्थविरो विप्रचिह्नाढ्यो दण्डच्छत्रान्वितो द्विजः ।
भूत्वा ययौ तु तच्छृंगं प्रज्वलँस्तेजसाऽभितः ।। ९ ।।
मृगाजीनधरं मुञ्जमेखलं सकमण्डलुम् ।
सोपवीतं महावृद्धं सजरं भस्मविग्रहम् ।। 1.187.१० ।।
प्रत्याश्रमं पर्यटन्तं काल्याश्रममुपागतम् ।
दृष्ट्वाऽऽयान्तं भिक्षुकं सा समुत्थाय ननाम च ।। ११ ।।
उपकण्ठं ययौ प्रीत्या पादयोरपतत् सती ।
अपूजयत्तथा सर्वातीथ्यसत्कारवस्तुभिः ।। १२ ।।
ब्रह्मचारिस्वरूपं तं पप्रच्छ कुशलं सती ।
कस्मादागम्यते विप्र कुत्र स्थाने तवाऽऽश्रमः ।। १३ ।।
कां दिशं परिगन्ताऽसि विश्रामं कुरु चात्र वै ।
भिक्षुरुवाच तीर्थेभ्य आगच्छाम्यत्र तापसि ।। १४।।
वाराणस्यां निवासो मे यास्ये पृथूदकस्थलम् ।
मया स्नात प्रयागे च कुब्जाम्रे चण्डिकेश्वरे ।। १५।।
बन्घुवृन्दे कुरुक्षेत्रे हरिद्वारे कनक्खले ।
केदारे बदरीकुण्डे ततोऽभ्यागां तवाश्रमम् ।। १६ ।।
अत्र तीर्थविधिं कृत्वा गमिष्यामि पृथूदकम् ।
अहमिच्छाभिगामी च तपस्व्यन्यसुखप्रदः ।। १७।।
निष्काययात्राकुशलस्तपस्विदुःखभंजनः ।
निर्द्वन्द्वोऽस्मि मुमुक्षुश्च देवानां पूजकोऽस्मि च ।। १८।।
वृद्धोऽहं तपसाऽऽत्मानं शोषयामि यथोचितम् ।
पृच्छामि यदहं त्वां वै तत्र मे वक्तुमर्हसि ।। १९ ।।
किमर्थं भवती रौद्रं प्रथमाश्रमसंस्थिता ।
तपः करोषि कल्याणि दुःखानुभवकारिणि ।। 1.187.२० ।।
का त्वं कस्याऽसि तनया किमर्थं विजने वने ।
तपश्चरसि दुर्धर्षं मुनिभिश्चापि दुष्करम् ।। २१ ।।
न बाला न च वृद्धाऽसि तरुणी भासि शोभना ।
प्रौढा पतिं विना कस्मात् तीक्ष्णं करोषि वै तपः ।। २२।।
मध्यमे वयसि स्त्रीणां सह भर्त्रा विलासिता ।
सुभोगाऽऽयोजिताः काला व्रजन्ति स्थिरयौवने ।।२३ ।।
किं त्वं तपस्विनो भद्रा कस्यचित्सहचारिणी ।
तपस्वी स न पुष्णाति देवि! त्वां स गतोऽन्यतः ।। २४।।
वद कस्य कुले जाता कः पिता तव का विधा ।
महासौभाग्यपात्रं त्वं कथं तेऽस्ति तपोरतिः ।। २५ ।।
किं त्वं वेदप्रसूर्लक्ष्मीः किं रमा किं सरस्वती ।
मन्ये रूपजनैश्वर्यस्मृद्धिमती भवत्यपि ।।२६।।
तत्किमर्थमपास्यैतानलंकारान् जटा धृताः ।
चीनांशुकं परित्यज्य कथं वै वल्कलं धृतम् ।।२७।।
कस्य किमर्थे का चेति योग्योऽस्मि विनिवेदय ।
श्रुत्वैवं प्राह विप्रेन्द्रं पार्वती हिमवत्सुता ।।२८।।
शंकरार्थं तपः कुर्वे पतिं विन्दामि शंकरम् ।
पुरा दक्षसुता योगमयी त्वासं सती ततः ।।२९।।
दग्धदेहा शैलपुत्री जाताऽस्म्यद्य कुमारिका ।
तपस्यतश्चात्र शंभोः सेवायां संस्थिताऽभवम् ।।1.187.३ ० ।।
मां त्यक्त्वा भस्मसात्कृत्वा मन्मथं स जगाम ह ।
अहं तु तपसे चाऽत्राऽऽयाताऽप्यप्राप्य शंकरम् ।।३ १।।
तपोऽन्तेऽग्नौ विविक्षन्ती त्वां दृष्ट्वा संस्थिता क्षणम् ।
गच्छ त्वं प्रविशाम्यग्नौ जन्मान्तरे शिवार्थिनी ।।३२।।
इत्युक्त्वा पार्वती वह्नौ तत्पुरः प्रविवेश हि ।
बभूव तत्क्षणे वह्निः शीतश्चन्दनपंकवत् ।। ३३।।
अथ क्षणान्तरे वह्नेरुत्थाय व्योमवर्त्मना ।
समुत्पतन्तीमाकाशं पप्रच्छ विहसन् द्विजः ।।३४।।
अहो तवातितपसः प्रतापो वर्तते महान् ।
यद्बलादनलोऽपि त्वां न ददाह सुशीतलः ।।३५।।
वद देवि यथासत्यं करिष्ये ते मनोरथम् ।
कमिच्छसि वरं सुभ्रु मा गोप्यं वै मनागपि ।।३६।।
त्वयि सर्वं तु सामर्थ्यं चाऽस्ति किं तपसा तव ।
रत्नं हस्ते प्रसंप्राप्य व्यर्थं काचं किमिच्छसि ।। ३७।।
ईदृशं रूपसौन्दर्यं कथं व्यर्थं प्रयापितम् ।
हित्वा भूषाम्बरपुष्पद्रव्याणि वल्कलं धृतम् ।। ३८।।
गृहं त्यक्त्वा वनं लब्धं वासाय दुःखदं सदा ।
वद देवि सुखं स्यान्मे करिष्ये तु हितं तव ।।३ ९।।
श्रुत्वैतद्विजयां वक्तुं सखीं प्रैरयताऽम्बिका ।
विजयाऽऽह वृद्धविप्र! सुतेयं हिमभूभृतः ।।1.187.४० ।।
नाम्नास्ति पार्वती काली वरं शंकरमिच्छति ।
ऊढेयं न च केनापि कुमार्येवास्ति मे सखी ।।४१ ।।
पञ्चवर्षसहस्राणि तपस्यस्या गतानि वै ।
तथापि दैवपुत्रीत्वात् षोडशाब्दा हि दृश्यते ।।।४२ ।।
नहि देवसुजातीनां वर्षैर्ह्रासोऽस्ति वर्ष्मसु ।
कोटिवर्षायुषां तेषां रूपं वै षोडशाब्दिकम् ।।४३ ।।
सर्वदा सुस्थिरं चास्ति न जरा पलितानि न ।
सेयं हित्वा महेन्द्रादीन् विष्णुं हित्वा च वेधसम् ।।४४।।
पतिं तु शंकरं लब्धुमभिवांच्छति पार्वती ।
अनयाऽऽरोपिता वृक्षाः फलपुष्पसमृद्धयः ।।४५।।
शंकरार्हणयोग्यास्ते कृताः सन्ति हृदा सदा ।
सर्वं समर्पणं कृत्वा सदा तपसि तिष्ठति ।। ४६ ।।
आगच्छेद्वा न चागच्छेत् सातु शर्वेऽर्पितास्ति वै ।
इति मया च ते ख्यातं पार्वत्या मानसं वृतम् ।।४७।।
जटिलोऽपि हसन् प्राह सख्युक्ते विश्वसीमि न ।
यथार्थं चेत् नवै हासः स्वमुखेनाभिभाषताम् ।।४८ ।।
पार्वती मनसि ज्ञात्वा शंभुसम्बन्धिनं जनम् ।
प्रसन्नमानसाऽवोचत् सख्युक्तं तत्तथैव यत् ।।४९। ।
मनसा वचसा कृत्या वृतो वै शंकरो मया ।
जानामि दुर्लभं शंभुं मत्वा सुलभमेव तम् ।।1.187.५० ।।
करोमि तप आजन्म विश्वासोऽपि तथास्ति मे ।
बाह्यतो न मिलेद्वापि ह्यान्तरे मिलितोऽस्ति सः ।।५ १ ।।
अहोऽस्ति मे महद्भाग्यं सप्तर्षीणां तु दर्शनम् ।
वृद्धब्राह्मणदेवस्य दर्शनं शिवगर्भितम् ।।।५२ ।।
प्राप्तं मेऽत्र वने घोरे तत्रापि शैलशृंगके ।
तन्मे मनोरथवृक्ष आर्तवं भावमाप्तवान् ।।५३ ।।
जानातु वा न जानातु स उदासीन ईश्वरः ।
जानाम्यहं कृपालेशः प्रेरितोऽस्ति दयालुना ।।५४।।
ब्राह्मणोऽस्य मुखमासीद्-विप्रो वक्तीति तन्मुखम् ।
वक्तीत्येवहि जानामि गूढोऽस्ति शंकरस्त्वयि ।।५५ ।।
तस्मै चार्प्यः प्रणामो मे संयुज्य तत्पदे शिरः ।
यथाऽहं ते चरणयोः संयुज्य मस्तकं नता ।।१६।।
विप्रः प्राह च तच्छ्रुत्वा शृणु कन्ये हरप्रिये ।
योग्यं सुभ्रू यथायोग्यं सर्वं वदसि सुव्रते ।।५७ ।।
जानाम्यहं महादेवं सावधानतया शृणु ।
क्वचिन्नग्नः क्वचिद्व्याघ्रगजचर्मधरो हरः ।।५८ ।।
वृषध्वजो भस्मदिग्धो जटाजूथविरूपकः ।
कपालास्थिकरकण्ठः सपैर्गात्रेषु वेष्टितः ।।।५ ९।।
विषभक्षोऽभक्ष्यभक्षो विरूपाक्षोऽस्ति सर्वथा ।
अज्ञातगृहजन्मादिर्गृहभोगादिवंचितः । ।1.187.६ ० । ।
दशहस्तो भूतगणैः सेवितो मलिनोऽसुखी ।
क्रूरः संहारकृत् प्रोक्तो दक्षयज्ञादिनाशकः ।। ६१ ।।
यस्य गृहे न वै सौख्यं क्लेशः क्लेशो हि वर्तते ।
तादृशं त्वटमानं तं कथमिच्छसि भामिनि ।। ६२।।
त्वं स्त्रीरत्नं तव पिता राजा निखिलभूभृताम् ।
तथाविधं पतिं कस्मादुग्रेण तपसेहसे ।।६३ ।।
दत्वा सुवर्णमुद्रां च ग्रहीतुं काचमिच्छसि ।
हित्वा तु चन्दनं श्रेष्ठं कर्दमं लेप्तुमिच्छसि ।।६४।।
सूर्यतेजः परित्यज्य खद्योतद्युतिमिच्छसि ।
चीनांशुकं परित्यज्य चर्मवल्कलमिच्छसि ।। ६५।।
सौधवासं विहायैव कुवासं च समिच्छसि ।
रत्नशेवधिमुत्सृज्य कृष्णांगारं समिच्छसि ।।६६ ।।
नृपालान्संपरित्यज्य गोपालं त्वं समिच्छसि ।
लोकपालान् विहायैव भूतपालं किंमिच्छसि ।।६७।।
नैतद् योग्यं तु मे भाति विरुद्धं तव दृश्यते ।
का त्वं कमलपत्राक्षी क्वाऽसौ वह्निविलोचनः ।।६ ८।।
शशांकवदना का त्वं क्वाऽसौ पंचाऽनलाननः ।
शिरोवेणीमती का त्वं क्व जटाजूटमस्तकः ।।६९।।
क्व त्वं चन्दनयोग्यांगा क्व चिताभस्मलेपनः ।
क्व मृदुस्निग्धसद्वस्त्रा क्व व्याघ्रगजवस्त्रकः ।।1.187.७ ० ।।
स्वर्णभूषणयोग्या क्व क्व क्रूरसर्पशेखरः ।
क्व ऋष्यन्नप्रिया देवी क्व भूतबलिसुप्रियः ।।७ १ ।।
क्व तन्त्रीमिष्टवादश्च क्व तड्डमरुड्डुह्ड्डंहः ।
क्व ते कण्ठस्य माधुर्यं क्व वृषभस्वरः खरः ।।७२।।
क्व ते स्थलाब्जमृदुता क्वाऽस्य रूक्षखरस्पृशिः ।
नाऽस्य द्रव्यं मनागस्ति प्राप्यते नापि चाम्बरम् ।।७३।।
नास्य स्मृद्धिर्मनागस्ति बलीवर्दोरगौ विना ।
नाऽस्य सत्सेवकाः सन्ति नग्नान् भूतादिकान् विना ।।७४।।
नाऽस्य सौम्या जनाः सन्ति भैरववीरकान् विना ।
नास्य भोज्यं मिष्टमस्ति भंगागृंजविषं विना ।।७५।।
ताम्बूलं नाऽऽनने त्वस्य धत्तूरगरलं विना ।
नाऽस्य पुष्पमयी माला प्रेतकपालिकां विना ।।७६ ।।
नास्य हस्ते मृदुलं वै विना त्रिशूललोष्ठकम् ।
नाऽस्य चौष्ठे प्रेमरसो विना संहारनिष्ठुराम् ।।७७।।
नाऽस्य पार्श्वं कोमलांगं काष्ठपावटिकां विना ।
नाऽस्य बिम्बं सुवर्णाभं कृष्णभस्मादिकं विना .।।७८ ।।
नास्य गुप्तं भवेद्वा न कर्तितं ब्राह्मणैः पुरा ।
पुमान्वाऽयं तृतीयः स्यात् स्त्रीरूपो भाति नैव च ।।७९।।
तस्य नास्ति प्रसन्ना स्त्रीः तृतीयप्रकृतिर्भवेत् ।
तृतीयप्रकृतिगुप्त्यै कामोऽनेन हि भस्मितः ।।1.187.८० ।।
अनादरस्तदा ते वै कृतो हित्वाऽन्यतो गतः ।
तस्योदरे महाण्डानि भवन्ति काकपक्षिवत् ।।८ १ ।।
तस्याऽण्डवृद्धि रोगोऽस्ति ज्ञातं नास्ति त्वया तु तत् ।
महारात्रावपि मायां स्वपितुं न ददाति सः ।।८ २।।।
पत्नीतोऽपि विशेषेण भुंक्ते दुःखाकरोति सः ।
तादृशाऽपलक्षणोऽस्ति त्वां तु दुःखा करिष्यति ।।८३।।।
सति! त्यजाऽस्य नामाऽपि शिवोऽपित्वशिवः सदा ।
जातिर्नास्ति कुलं नास्ति माता नास्ति कुतः पिता ।।८४।।
ज्ञानं सौजन्यमास्तिक्यं नास्ति किंचिद्धि शंकरे ।
शरीरे दृश्यते रक्षा कण्ठे सन्दृश्यते विषम् ।।८५।।
आन्तरे दृश्यते क्रोधो रागलेशोऽपि नास्ति वै ।
द्वेष एव धृतस्तेन येन संहरते प्रजाः ।।८६ ।।
क्व हारयोग्यं वक्षस्ते क्व तस्य मुण्डघट्टितम् ।
क्वांऽगरागश्च सौन्दर्यं क्व रक्षाधूलिकाऽञ्चितम् ।।८७।।
मह्यं न रोचते तद्वै यथेच्छसि तथा कुरु ।
असद्वस्तु तु यत्किंचित् तत् सर्वं रोचते तव ।।८८।।
मन्ये केनाऽभिचारेण मन्त्रेणैव विभ्रामितम् ।
यद्वा पूर्वाऽर्जिताऽदृष्टबलेनैवं विघट्टितम् ।।८९।।
अन्यथा त्वं कथं दृष्ट्वा खाते पतितुमिच्छसि ।
गच्छाम्यहं महादेवि यथेच्छसि तथा कुरु ।।1.187.९०।।
पार्वती प्राह तं विप्रं मत्वा शिवस्य निन्दकम् ।
गच्छ गच्छसि चेद् विप्र कुतः पादोऽत्र तेऽस्पृशत् ।। ९१ ।।
निन्दकस्याऽपवित्रस्य पादोऽपि पुण्यनाशकः ।
शिवो वाऽप्यथवा भीमः सधनो निर्धनोऽपि वा ।।९२।।
नाऽलंकृतोऽलंकृतो वा यादृशस्तादृशश्च वा ।
अमंगलो मंगलो वा सौम्यो रूक्षो जडोऽपि वा ।।९३।।
अस्मृद्धो यानहीनो वा विषाक्तोऽविषयोऽपि वा ।
दुर्गुणो निर्गुणो वापि सगुणो विगुणोऽपि वा ।।९४।।
दुर्गन्धो वा सुगन्धो वा निर्गन्धो वा कपालवान् ।
विवस्त्रो वा सवस्त्रो वा धूलीभस्मादिवस्त्रकः ।।९५।।
सलिंगो वाप्यलिंगो वा तृतीयप्रकृतिश्च वा ।
कामारिर्बहुकामो वा निष्कामो वा निरीहकः ।। १६।।
भस्माढ्यो वा च चर्माढ्यो भूताड्यो डमरूयुतः ।
वृषाढ्यो रूक्षदेहो वा द्रव्यहीनश्च सोरगः ।।९७।।
भंगागृंजनधत्तूरगरलादियुतोऽपि वा ।
सत्रिशूलोऽथवा नारीचिह्नो वापि महाऽण्डकः ।।९८।।
अकुलोऽजातिपितृको मारको रक्षकोऽपि वा ।
जडो वा चेतनो वापि स्तम्बो ग्रावाण एव वा ।।९९।।
स एव मे पतिश्चास्ति सृष्टौ सृष्ट्यन्तरेऽपि च ।
युगे युगान्तरे चापि चात्र जन्मान्तरेऽपि वा ।। 1.187.१०० ।।
स एव मे पतिर्भूतो वर्तते च भविष्यति ।
बहुवारमहं जाता अधवा सधवापि च ।। १० १।।
महालयेऽधवा चाहं सृष्टौ तु सधवा सदा ।
का चिन्ता ते ममाऽसौख्ये गच्छ विप्र यथासुखम् ।। १ ०२।।
न ते लाभो मम सौख्ये दुःखे नैव च भागवान् ।
वृथा निन्दसि शंभुं मां तपश्चाऽऽशीविषो भवन् ।। १०३।
एतावद्धि मया ज्ञातो भवान् यात्रालुरागताः ।
तापसो हितकर्ता च न ज्ञातो विपरीतकृत् ।। १०४।।
अज्ञात्वा निन्दसि शंभुं सकलैश्वर्यभाजनम् ।
स्वेचारी भवत्येव क्वचित् त्वादृशवेषवान् ।। १ ०५।।
छली बली विहारी च ब्रह्मचारी प्रतारकः ।
बहुरूपो वनवासी भवत्यपरतन्त्रकः ।। १ ०६।।
निर्गुणोऽपि लीलया सः क्वचित्सगुणतां भजेत् ।
सद्वितीयस्य जातिः स्यानैकस्मिन् जातिरस्ति वै ।। १०७।।
व्यक्तेरभेदो जातित्वे सर्वथा बाधकोऽस्ति हि ।
ज्ञानाऽऽनन्दस्वरूपस्य किं ज्ञानाद्यर्जनेन वै ।। १ ०८।।
गुणे गुणाऽनवस्थानात् ज्ञाने ज्ञानं किमिष्यते ।
ज्ञानं च ज्ञानवान् सोऽस्ति नित्यज्ञानाश्रयोऽस्ति सः ।। १० ९।।
सूर्यक्रियाकृतवयोऽवस्थाः सूर्यकृतः कथम् ।
कर्मकृतं सलिगादि ब्रह्मणोऽकर्मणः कथम् ।। 1.187.११ ०।।
ज्ञानक्रियासमीहाश्च तिस्रस्तज्जा हि शक्तयः ।
तस्मिँस्तु ब्रह्मणि नातिप्रवर्तन्ते ह्यशक्तिके ।। १११ ।।
तत्कृपाभिः स्मृद्धयश्चाऽस्मृद्धयः स्युस्ततोऽन्यथा ।
किं तस्य स्मृद्ध्यस्मृद्ध्यादि सत्यसंकल्पिनः सदा ।। ११२।।
देवा देवत्वमापन्ना यत्कृपालेशतः खलु ।
दिव्यत्वे वा मलिनत्वे किं तस्याऽस्ति प्रयोजनम् ।। ११३।।
लोकपालाः सदा यस्य द्वारि तिष्ठन्ति किंकराः ।
किं तस्य नरपालत्वे गोपालत्वेऽथ वा स्पृहा ।। १ १४।।
भालचक्षुस्त्रिशूलं वा परिपूर्णं महालये ।
किं तस्याभिजनव्रातेर्नित्यस्य जनकेन किम् ।। १ १५।।
सदा शुद्धस्य किं बाह्यैरशुद्धैः शुचिभिश्च किम् ।
विजरस्य विमृत्योश्चाऽपिपासस्याऽक्षुधस्य च ।। १ १६।।
सत्यकामस्य च सत्यसंकल्पस्याऽस्ति किं गृहैः ।
किमम्बरैर्वस्तुभिः किं कल्याणगुणशालिनः ।। १ १७।।
सिद्धयोऽष्टौ यदगारे लुठन्ति धूलिकामये ।
का तत्र मेऽतिगणना योगिनीकोटिसंकुले ।। १ १८।।
अमंगलान्यपि यान्ति मांगल्यं यत्पदाश्रयात् ।
का तत्र गणना चाऽस्त्यमंगलार्थविचारिणाम् ।। ११ ९।।
दारिद्र्यरेखया व्याप्तो यत्सेवाभिः समाढ्यकः ।
का तत्र गणना चास्ति निष्परिग्रहप्रकृतेः ।। 1.187.१२०।।
यस्याऽर्हणेन त्रैलोक्यराज्यस्मृद्धिः फलं भवेत् ।
कुतस्तस्य समीहा स्यान्निरीहस्य महात्मनः ।। १२१ ।।
शिवेति नामजपनात् पूता भवन्ति चेतनाः ।
किमस्याऽशिवभस्मादि करिष्यति सुरार्थितम् ।। १ २२।
शिवनिन्दां यः करोति तत्त्वमज्ञाय कर्मकृत् ।
आजन्म संचितं पुण्यं भस्मीभवति तस्य वै ।। १२३ ।।
यथा तथा भवेद्रुद्रः पाषाणः किं न वा भवेत् ।
ममाऽभीष्टतमो रुद्रः करोमि तत्कृतं तपः ।। १२४ ।।
गच्छ चास्मत्स्थलाच्छीघ्रं मा कुरु शिवनिन्दनम् ।
श्रुत्वैतद् ब्राह्मणः किंचित् प्रतिवक्तुं समिच्छति ।। १ २५।
पार्वती प्राह विजयां वारयैनं विनिन्दकम् ।
वक्तुर्यथा तथा श्रोतुः पापं द्रोहस्य जायते ।। १२६।।
श्रोतव्यो नैव चास्माभिर्द्रोहो देवस्य सर्वथा ।
नाऽयं गच्छति दुष्टोऽतः स्थानात् निन्दां करिष्यति ।। १ २७।।
हित्वैतत्स्थलमद्यैव यास्यामोऽन्यत्र मा चिरम् ।
अथ संभाषणं न स्यादनेन निन्दकेन वै ।। १२८ ।।
इत्युक्त्वा पार्वती यावदुत्थायाऽन्यस्थलं प्रति ।
गन्तुं पादक्रमं धत्ते तावद्भिक्षुः शिवोऽभवत् ।। १ २९।।
सुरूपः सुन्दरः सौम्यो युवा षोडशहायनः ।
पुष्टः पिशंगस्वर्णाभसुजटो भालचन्द्रकः ।। 1.187.१३० ।।
सत्रिशूलः सवासुकिः कृत्तिवासोऽतिमोहनः ।
कोटिकन्दर्पलावण्यस्तेजोपरिधिविग्रहः ।। १३१ ।।
एतादृशं निजं रूपं सतीप्रतीतिकारणम् ।
सत्या पूर्वं सेवितं यदनुभूतं भवान्तरे ।। १३२ ।।
पार्वत्यै दर्शयित्वा तामुवाचाऽधोमुखां शिवः ।
मा याह्यन्यत्र कल्याणि पश्य मे रूपमैश्वरम् ।। १३३ ।।
शिखरं त्वावयोश्चैतद् गौरीशंकरनामकम् ।
यच्चेह रुद्रमीहन्त्या मृन्मयश्चेश्वरः कृतः ।। १ ३४।।
गौरीभद्रेश्वरश्चेति लोके ख्यातिं गमिष्यति ।
त्वं न त्यजसि मां देवि न च त्याज्या मया पुनः ।। १३५ ।।
प्रसन्नोऽस्मि वरं ब्रूहि नाऽदेयं विद्यते तव ।
अद्याऽऽरभ्य धनं तेऽस्मि क्रीतोऽस्मि तपसा त्वया ।। १३ ६।।
अथ पक्षी मता मेऽसि संकोचं त्यज सुन्दरि! ।
मया परीक्षिता चाति क्षमस्व तापसि प्रिये ।। १ ३७।।
न त्वादृशी दृढा नारी दृष्टा निःस्वार्थतापसी ।
तवात्मास्मि तवाधीनः स्वकामः पूर्यतां प्रिये ।। १३८ ।।
एहि प्रिये सकाशं मे तिष्ठ मेंऽके क्षणं ततः ।
यास्यावस्ते पितुः सौधं विवाहविधिलब्धये ।। १३ ९।।
इत्यादृता सती शीघ्रं हरांके निषसाद सा ।
पत्यर्पिता प्रमुदिता तपःकष्टं जहौ सती ।। 1.187.१४०।।
फले लब्धे श्रमः पूर्वो नश्यत्यतिपुरातनः ।
प्रत्युवाच महासाध्वी हरांकसुखसागरा ।। १४१ ।।
अतीव सुखिता चातिप्रीत्युत्फुल्लानना शिवा ।
सुखातिपुलकितांगा नवाऽऽनन्दपरिप्लुता ।। १४२।।
त्वं नाथो मम देवेश त्वया किं विस्मृतं पुरा ।
गार्हस्थ्यदुःखमाप्तेन किं वैराग्यं धृतं त्वया ।। १४३।।
दक्षयज्ञविनाशं वा विचार्य च सतीहठम् ।
गार्हस्थ्यं दुःखदं मत्वा किं वैराग्यं धृतं त्वया ।। १४४।।
नारीग्रहे नार्यधीनं नरस्य याति जीवनम् ।
पराधीनामितिज्ञात्वा किं वैराग्यं धृतं त्वया ।। १४५।।
नारीयोगाद् ब्रह्मयोगः खण्डितो जायते यतेः ।
तेनाऽमोक्ष इति मत्वा किं वैराग्यं धृतं त्वया । । १४६।।
नार्याऽपत्यादिविस्तारो जायते गृहमेधिनः ।
कष्टं तत्पोषणं मत्वा किं वैराग्यं धृतं त्वया ।। १४७।।
पत्नीयोगेन सम्बन्धो लौकिको वर्धते सदा ।
झंझावातं च तं ज्ञात्वा किं वैराग्यं धृतं त्वया ।। १४८।।
ध्यानकाले प्रशान्तौ च निद्रायां चात्मचिन्तने ।
नारी विघ्नमिति ज्ञात्वा न स्मृताऽहं त्वया नु किम् ।। १४९।।
न जाने ब्रह्मरूपस्य लक्षकालः क्षणायते ।
जानामि स्वार्थचित्तायाः क्षणकालो युगायते ।। 1.187.१५०।।
कथं कालो मया नीतः पंचवर्षसहस्रकः ।
विना पतिं प्रियं प्राणमित्युक्त्वाऽश्रूण्यपातयत् ।। १५ १।।
प्राह शान्तिं पुनर्लब्ध्वा स त्वं साऽहं सती पुरा ।
मेनापुत्री भवाम्यद्य पतिर्भव वचः कुरु ।। १५२।।
श्रुत्वा शंभुः क्षणं म्लानो भूत्वाऽभूद् विगतज्वरः ।
सत्याः शिरः कराभ्यां संप्रमृत्याऽऽश्लिष्य चाऽऽननम् ।। १५३।।।
चुचुम्ब स्मरणार्थं तद्दुःखविस्मरणाय च ।
प्राह देवीं प्रिये गच्छ स्वमेव भवनं पितुः ।।१५४।।
तवार्थाय प्रहेष्यामि महर्षीन् हिमवद्गृहे ।
ओमित्याज्ञां समादाय प्राह प्रान्ते च पार्वती ।। १५५।।
भिक्षुर्भूत्वा समायाहि मां याचस्व हिमालयात् ।
पितुर्मे सफलं सर्वं कुरुष्वेव गृहाश्रमम् ।। १५६।।
ऋषिप्रोक्तं पिता मे तु सत्वरं संविधास्यति ।
दक्षकन्या यदा देव त्वया विवाहिता तदा ।। १५७।।
विधौ व्यु्त्क्रमदोषेण ग्रहदोषेण भस्मिता ।
तस्मात् यथोक्तविधिना विवाहं कर्तुमर्हसि ।। १५८ ।।
बहुविध्युत्सवपूर्वं विवाहं कुरु शंकर! ।
सर्वरीतिर्विवाहस्य कर्तव्या परिपूर्णतः ।। १५९ ।।
चतुर्दशभुवनस्था जनवाहा भवन्तु वै ।
जानातु हिमवान् सम्यक् जानन्तु भुवनेश्वराः ।। 1.187.१६० ।।
चराऽचरं प्रजानातु पार्वत्याऽपि कृतं तपः ।
यादृशः प्रापणे यत्नो भाव्यस्तादृङ्महोत्सवः ।। १६१ ।।
सृष्टौ सृष्ट्यन्तरे गाथां प्रगायेयुर्जना यथा ।
पार्वत्या तपसा लब्धोऽनालब्धो यो महर्षिभिः ।। १ ६२।।
पार्वत्या तु हठात् क्रीतो न क्रीतो वेदवादिभिः ।
साक्षाल्लब्धः स पार्वत्या न लब्धो यस्तु साधुभिः ।। १६३ ।।
पार्वत्या स्वांगणे लब्धो न लब्धस्तीर्थयायिभिः ।
प्रेम्णा लब्धः स पार्वत्या न लब्धो योगिभिश्च यः ।। १ ६४।।
पार्वत्या विधिना लब्धः न लब्धो याज्ञिकैरपि ।
पार्वत्या पर्वते लब्धो न लब्धः स्वर्गसाधनैः ।। १ ६९।।
पार्वत्या वक्षसि प्राप्तो न प्राप्तो हृत्समाधिभिः ।
पार्वत्या स क्षणाल्लब्धो न लब्धो वेधसा युगात् ।। १ ६६।।
पार्वत्या स पुनर्लब्धोऽप्यपुनर्भवलक्षणः ।
इति गास्यन्ति धवलं यशो मोक्षप्रदं शिवम् ।। १ ६७।।
इति यास्यन्ति परमं साधनं चापि मोक्षदम् ।
विवाहस्य विधिर्लोके प्रवर्त्स्यते यथाऽऽवयोः ।। १६८ ।।
श्रुत्वा प्रियायाः प्रियकृत् समुवाच प्रतिप्रियम् ।
गच्छ देवि सुमांगल्यं द्राक् विधेहि यथोचितम् ।। १६९ ।।
अहं स्वयं न वै पूर्वं गच्छामि भिक्षुको यथा ।
महागुणैर्गरिष्ठोऽपि महात्मा यदि भिक्षुकः ।। 1.187.१७० ।।
देहीति वचनात् सद्यः पुरुषो याति लाघवम् ।
ततस्त्वां भिक्षुको भूत्वा न याचेय कथंचन ।। १७१ ।।
किन्तु सप्तर्षयः प्रेष्या मया पूर्वं त्वदर्थकम् ।
वाक्दाननिर्णयं कुर्युस्ततो यास्यामि ते गृहम् ।। १७२।।
तव तपःप्रभावेण याचिष्ये त्वां पितुस्तव ।
इत्युक्त्वा पार्वतीमुखाऽऽश्लेषं विधाय शंकरः ।। १७३ ।।
विजयायै जयायै च करौ दत्वा तु मस्तके ।
तत्कृता प्रणतिं लब्ध्वा प्रागेवाऽदृश्यतां गतः ।। १ ७४।।
कैलासं प्रययौ वृत्तं नन्द्यादिभ्यः स ऊचिवान् ।
भैरवाद्या गणाः श्रुत्वा चक्रुस्तत्र महोत्सवम् ।। १ ७५।।
कृत्वा समाप्तिं तपसोऽभिवन्द्य वनचेतनान् ।
ससखी पार्वती हृष्टा जगाम भवनं पितुः ।। १७६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सप्तर्षिभिः पार्वत्याः प्राणग्लहतपः शंकराय निवेदितम्, वृद्धजटिलविप्रवेषेण शंकरस्य पार्वतीं प्रत्यागमनम्, शंभोरगुणविगुणादिवर्णनम्,पार्वत्याः शंभोः सर्वसद्गुणपरताग्राह्यत्वम् ,शंभुना स्वस्वरूपेण दर्शनम्, परस्परं सुखवार्तालापः, विवाहार्थं निर्णयवचनं, तपःसमाप्तिश्चेत्यादिनिरूपणनामा सप्ताशीत्यधिकशततमोऽध्यायः ।। १८७।।