लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १७२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७२
[[लेखकः :|]]
अध्यायः १७३ →

श्रीनारायण उवाच-
श्रूयतां मे प्रिये लक्ष्मि प्रियार्थं शंभुरुत्सुकः ।
गन्तु दक्षगृहं चिन्तां चकारोद्बुद्धभावनः ।। १ ।।
अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता ।
आश्विने पूजयामास षोडशार्थैश्च शंकरम् ।। २ ।।
इत्थं नन्दाव्रते पूर्णे नवम्यां दिवसे हरः ।
सर्वांगसुन्दरो देवः प्रत्यक्षमभवच्छिवः ।। ३ ।।
गौरवर्णः पंचवक्त्रस्त्रिनेत्रश्चन्द्रशेखरः ।
प्रसन्नात्मा नीलकण्ठश्चतुर्बाहुः सवासुकिः ।। ४ ।।
त्रिशूलरुद्राक्षवरकमलभस्मशोभितः ।
गंगया शोभितजटः सर्वांगस्वर्णसन्निभः ।। ५ ।।
महालावण्यसौन्दर्यसौकुमार्यशरीरकः ।
कोटिकामातिकान्तश्च कोटिचन्द्रसमाननः ।। ६ ।।
उद्भिन्नयौवनाक्रान्तः सर्वथा स्त्रीमनोहरः ।
प्रत्यक्षं शंकरं दृष्ट्वा सती मत्वा स्वकं धनम् ।। ७ ।।
अतीव हृदि संहृष्टा सुलज्जावनतानना ।
ववन्दे चरणौ शंभोश्चक्षुर्भ्यामपिबन्मुखम् ।। ८ ।।
मनसाऽर्पितसर्वस्वाऽमन्यत स्वां महोदयाम् ।
ततो हरस्तु भार्यार्थमिच्छन्नपि मनःप्रियाम् ।। ९ ।।
सत्याः हृदयभावोत्थां प्रीतिं वेत्तं तु शाश्वतीम् ।
श्रोतुं प्रियाणि वाक्यानि सतीं प्राह कृतव्रताम् ।। 1.172.१ ०।।
सुरूपां सुभगां स्वर्णवर्णां प्राप्ताल्पयौवनाम् ।
स्वार्पितां च स्वकां पत्नीं क्षणं दृष्ट्वा मुमोह च ।। १ १।।
जगाद सुव्रते कन्ये! प्रीतोऽस्म्यनेन दक्षजे ।
नन्दाव्रतेन संदास्ये वरं वरय चेप्सितम् ।। १२।।
तदा सती त्रपायुक्ताऽभवत्प्रेमपरिप्लुता ।
यज्ञोपवीतं संगृह्य हृत्स्थं वक्तुं शशाक न ।। १३।।
ज्ञात्वा हार्दं सदाकान्तः प्रसन्नोऽतीव शंकरः ।
वरं ब्रूहि वरं ब्रूहि वरं ब्रृहि पुनः पुनः ।। १४।।
साप्तपदीनमेवाऽत्र मैत्र्यमिच्छन् जगाद ताम् ।
सती प्राह-व्रतं प्रेक्ष्य, तपः प्रेक्ष्य, विलोक्य हृत् ।। १५।।
दृष्ट्वाऽवस्थां, प्रेक्ष्य भर्गचित्रं यल्लिखितं मया ।
ज्ञात्वोपवीतग्रहणं, दूराच्च भवदागमम् ।। १६।।
साप्तपदीनं यन्मैत्र्यं वरं देहि यदिच्छसि ।
ततो वाक्यस्याभिहार्दमनुप्राप्य स्फुटं हरः ।। १७।।
गाह वाक्यप्रपूर्त्यर्थं -'देहि तेऽर्धांगनात्मकम् ।
कथं न वाक्यशेषार्थं प्रिये ज्ञापयसि द्रुतम् ।। १८।।
दत्तं मैत्र्यं मम भार्या भवेति वरदानकम् ।
प्राप्य शंभोर्वचो मिष्टं प्रेममग्नाऽभवत् सती ।। १९।।
तूष्णीं तस्थौ च मुदिता वरं प्राप्य मनोगतम् ।
सतृष्णमानसा चारुहास्ययुक्तानना सती ।।1.172.२०।।
अकरोन्निजभावाँश्च हावान्प्रेमविवर्धकान् ।
हावभावविलासाँश्च समाश्रित्य तयोर्हृदि ।।२१।।
शृंगारप्रेमरसः संविवेशाऽऽशु तयोस्तदा ।
काऽप्यभिख्या प्रादुरासील्लोकलीलाऽनुकुर्वतोः ।।२२।।
रेजे सती हरं प्राप्य चन्द्रं प्राप्येव शर्वरी ।
सुखं वक्षसि संश्लिष्य चिरं स्पर्शं विधाय च ।। २३ ।।
सत्युवाच हरं प्रेम्णा करौ बध्वा नतानना ।
देवदेव पतिदेव विवाहविधिना प्रभो ।।।२४।।
पितुर्मे गोचरीकृत्य गृहीत्वा याहि मां विभो ।
साग्रहं तद्वचः श्रुत्वा शंकरः सर्वशंकरः ।। २५।।
तथास्त्विति प्रतिभाष्य निरीक्ष्य प्रेमतश्च ताम् ।
शनैर्भावीति मत्वाऽसौ क्षणं चिन्तां जगाम सः ।। २६।।।
तावत् सती हरं नत्वा गृहीत्वाऽऽज्ञां ससंभ्रमा ।
शंकरागमनं मात्रे शंसितुं सत्वरं गता ।। २७।।
असिक्नी कन्यया प्रोक्तं विदित्वा सत्वरं बहिः ।
भाविजामातृरूपं संद्रष्टुं यावत्प्रयाति वै ।। २८।।
तावच्छंभुं मनाक् दृष्ट्वा स्फटिकोज्ज्वलवर्ष्मकम् ।
अतीव मुमुदेऽसिक्नी शंभुस्त्वदृश्यतां गतः ।।२९।।
जामातरं सुतायोग्यं दृष्ट्वा भाविनमुत्तमम् ।
ध्यात्वा तमेव हृदये परं भाग्यममन्यत ।। 1.172.३० ।।
हरोऽपि स्वीयकैलासं गत्वा प्रविश्य चाश्रमम् ।
ब्रह्माणं चिन्तयामास लोकरीत्यनुसारतः ।। ३१ ।।
ब्रह्मा तूर्णं सरस्वत्या सहितस्तत्र चाऽऽययौ ।
दृष्ट्वा तु वेधसं शंभुः प्रेमबद्धो ह्युवाच तम् ।। ३२।।
अहमाराधितः सत्या दक्षपुत्र्याऽतिभक्तितः ।
तस्यै वरो मया दत्तो नन्दाव्रतफलात्मकः ।। ३३।।
सत्याऽर्थितं पतिदेव विवाहविधिना प्रभो ।
पितुर्मे गोचरीकृत्य गृहीत्वा याहि मामिति ।। ३४।।
तथास्त्विति शनैर्भावि मयोक्तं प्रतिनिर्णये ।
सती च वर्तते मातुरग्रेऽहं त्वागतोऽत्र च ।। ३५ ।।
तस्मात् त्वं गच्छ भवनं दक्षस्य मम कारणात् ।
दक्षः कन्यां स्वकीयां मे यथा दद्यात्तथा कुरु ।। ३६।।
ब्रह्मोवाच हरं शंभो देवानां मम शार्ङ्गिणः ।
आग्रहः सर्वथा सोऽस्ति देवकार्यप्रसत्तये ।। ३७।।।
विवाहस्त्वरया ते स्यात्तथा कुर्मो वयं द्रुतम् ।
दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति ।। ३८ ।।
शीघ्रं यथा तथा तं च प्रवक्ष्यामि च शं कुरु ।
कैलासे ब्रह्मणा शंभोरेवं वार्ता प्रवर्तते ।। ३ ९।।
एतस्मिन्नन्तरेऽसिक्नी दक्षं प्राह सतीव्रतम् ।
तपस्तप्त्वा वरं प्राप्य मनोऽभिलषितं सती ।।1.172.४० ।।
शंकरदर्शनं लब्ध्वा कृतकृत्या ह्यजायत ।
श्रुत्वा दक्षः सतीं प्राह पुत्रि सुखवती भव ।।४१ ।।
दक्षे जिज्ञासिते सर्वं समाचख्यौ सतीव्रतम् ।
महेश्वराद्वरप्राप्तिं पाणिग्रहणकारिणीम् ।।४२।।
माता पिता च वृत्तान्तं सर्वं श्रुत्वा सतीमुखात् ।
आनन्दं परमं लेभे चक्रे च परमोत्सवम् ।।।४३ ।।
सती नन्दाव्रतस्याऽन्ते लेभे शंभोः प्रदर्शनम् ।
तन्निमित्तं व्रतपूर्तौ महोत्सवमकारयत् ।।४४।।
ददौ दानानि विप्रेभ्यो द्रव्यरत्नाऽम्बराणि च ।
अन्येभ्यश्चान्धदीनेभ्यो वीरिण्यपि ददौ धनम् ।।४५।।
सती च स्ववयस्याभ्यः कन्याभ्यो भोजनं ददौ ।
धनवस्त्रऽभ्यंजनादिद्रव्याणि च ददौ मुदा ।।।४६।।।
वीरिणी ता समालिंग्य स्वपुत्रीं सिद्धभावनाम् ।
मूर्ध्न्युपाघ्राय मुदिता प्रशशंस मुहुर्मुहुः ।।४७।।
दक्षोऽथ चिन्तयामासाऽऽगतोऽपि शंकरः स्वयम् ।
प्रतिनिवृत्तो मे कन्यामगृहीत्वा कथं गतः ।।४८ ।।
आगतोऽपि महादेवः प्रसन्नो निर्जगाम ह ।
पुनरेवं कथं सोऽपि सुताऽर्थेऽत्राऽऽगमिष्यति ।।४९।।
केन योगेन देयेयं स्वसुता शंभवेऽधुना ।
प्रस्थाप्योऽथ मया काश्चिच्छंभोर्निकटमंजसा ।।।1.172.५० ।।
यदि वचो न गृह्णीयात् सर्वं मे विफलं भवेत् ।
यद्वा मे तनया नन्दाव्रतं कुर्यात्पुनस्तथा ।।५१ ।।
शंभुर्भवतु मद्भर्तेत्येवं पुनरवाप्नुयात् ।
इत्येवं कुर्वतश्चिन्तां दक्षस्य पुरतोऽप्यजः ।।५२ ।।
सरस्वत्या सहितश्चोपस्थितो भावतस्तदा ।
दक्षस्तं पितरं दृष्ट्वा प्रणम्याऽवनतोऽभवत् ।।५३ ।।
ददावासनमग्र्यं चाऽर्हणां चक्रेतिभक्तितः ।
पप्रच्छाऽऽगमने हेतुं स्नेहं कार्यं च वा परम् ।।५४।।
ब्रह्मोवाच शृणु दक्ष यदर्थमहमागतः ।
तव पुत्र्या तपस्तप्त्वा महादेवं प्रसाद्य च ।।५५।।
लब्धो वरश्च यस्तस्य समयोऽयमुपस्थितः ।
तदर्थमेव निर्धार्य शंभुना प्रेषितोऽस्मि वै ।।५६।।
ततोऽत्रार्थे च यत्कृत्य श्रेयस्तदवधारय ।
वरदानोत्तरं रुद्रस्त्वत्सुता हृद्ये स्थिताम् ।।५७।।
ध्यात्वा स्मृत्वा पुनश्चेमां न शर्म लभतेंऽजसा ।
कामं यो जीतवान् देवः स वै कामेन विध्यते ।।५८।।
सतीं विचिन्तयन्नास्ते व्याकुलः प्राकृतो यथा ।
प्रकृतां सार्थकां वाणीं परित्यज्य गणान् क्वचित् ।।५९ ।।
क्व सतीति जनमध्ये भाषते त्वत्सुता गृणन् ।
मया त्वया च कामेन कृष्णेन ऋषिभिस्तथा ।। 1.172.६० ।।
पूर्वं यद्वाञ्च्छितं चासीत् सिद्धं तदधुना ध्रुवम् ।
त्वत्पुत्र्याराधितः शंभुः शंभुनाऽऽराध्यते सती ।।६ १ ।।
तस्माद्दक्ष सुतां स्वीयां शंभ्वर्थं परिकल्पिताम् ।
तस्मै देह्यविलम्बेन कृतकृत्यो भवान्भवेत् ।।६२।।
अहं शंभुमानयिष्ये नारदेन त्वदालयम् ।
सतीं तस्मै संप्रयच्छ विवाहविधिना सुत ।।६३ ।।
दक्षः श्रुत्वा पितुर्वाक्यं तथेति प्राह हर्षितः ।
ब्रह्मा सत्कारमादाय जग्मिवान् शंकरगृहम् ।।६४।।
स वीक्ष्य लोकसृष्टारं प्रसन्नमनस हरः ।
कार्यसिद्धिं विनिश्चित्य प्रणनाम पितामहम् ।। ६५।।
पप्रच्छ किमकार्षीद् वै दक्षः सतीकृते इति ।
ब्रह्मोवाच तदा शंभुं कार्यं सिद्धं तवास्ति हि ।।६६ । ।
देया पुत्री शंभवेऽस्ति दक्षस्य निर्णयो ध्रुवः ।
मम वाक्यस्य मान्यत्वात् सत्याश्चैव तपोबलात् ।।६७ ।।
त्वया वरप्रदानाच्च सती देयाऽस्ति शंभवे ।
शुभे लग्ने सुमुहूर्ते समागच्छतु शंकरः ।।६८ । ।
तदा दास्यामि तनयां भिक्षार्थं शंभवे सतीम् ।
इत्युवाच स मां दक्षस्तस्मात्त्वं गच्छ तद्गृहम् ।।६९ ।।
रुद्रः प्राह तदा लोकरीतिमाश्रित्य वेधसम् ।
गमिष्यामि त्वया सार्धं नारदेन च तद्गृहम् ।।1.172.७० ।।
तस्मात्त्वं नारदं चैव मरीच्यादींश्च सन्मुनीन् ।
संस्मर तैः समं दक्षगृहं यास्यामि शोभया ।।७ १ ।।
इत्यादिष्टः परमेष्ठी सस्मार नारदादिकान् ।
ततः समागताः सर्वे मानसाः परमर्षयः ।।७२ ।।
सस्त्रीकाः सबन्धुवर्गा देवाश्च पितरस्तथा ।
विष्णुः समागतस्तत्र लक्ष्म्याश्च पार्षदैः सह ।।७३ ।।
श्रीकृष्णो गोलोकधाम्नश्चायातो राधिकायुतः ।
गोपगोपीगणैर्युक्तो दासीलक्षसमन्वितः ।।७४।।
वैकुण्ठाच्च रमायुक्तो नारायणः समागतः ।
कोटिवैष्णवपार्षददासदासीसमन्वितः ।।९५।।
इन्द्रश्च वरुणो वायुरग्निः कुबेर इत्यमी ।
यमः सूर्यश्च चन्द्रश्च तथाऽन्या गृहदेवताः ।।७६ ।।
ऋषयो मुनयो विप्राः साध्यः साधुजनास्तथा ।
देव्यश्चाप्सरसश्चान्या नर्तक्यो गायिकास्तथा ।।७७।।
समाजग्मुः शंकरस्य वाहिन्यां कृतकौतुकाः ।
अथ चैत्रसिते पक्षे नक्षत्रे भगदैवते ।।७८ ।।
त्रयोदश्यां दिने भानौ निरगच्छत् महेश्वरः ।
कैलासात्तु सुरैः सार्धं ब्रह्मविष्णुपुरःसरैः ।।७९ ।।
मुनिभिः ऋषिभिः सार्धं गच्छन् बभौ महेश्वरः ।
गणाश्च कोटिशो याता वरपक्षमहोत्सवाः ।।1.172.८० ।।
मार्गे समुत्सवो जातो वाहिन्या गच्छतां तदा ।
देवादीनां गणानां च सानन्दमनसां तथा ।।८ १ ।।
महालक्ष्म्याः शंकरस्य शृंगारः स्थानतः कृतः ।
जटा तु गंगया मूर्तिमत्या संशोभिता तदा ।।८२।।
ललाटे कलया चन्द्रो भूषणं समजायत ।
वासुकिश्चोपनीत्यर्थं वामांसे वर्तते सुखम् ।।८३ ।।
रुद्राक्षमुण्डहाराश्च धृता कण्ठे विषाश्रिते ।
त्रिशूलं संधृतं हस्ते गजचर्म च पृष्ठके ।।८४।।
व्वाघ्रचर्म कटिप्रान्ते धृतं भस्म शरीरके ।
पादयोः पादुके गुप्ते कौपीनं मृगचर्मजम् ।।८५।।
कट्यां तु कुहकः सर्पो मेखलाभूषणार्थकः ।
एवं शृंगारितः शंभुर्बलीवर्दोपरिस्थितः ।।८६ ।।
अन्ये च वाहने भिन्ने भिन्ने स्थिताः शिवेच्छया ।
गरुडस्थौ तदा विष्णुर्लक्ष्मीश्च ययतुर्मुदा ।।८७।।
हंसस्थौ च तदा ब्रह्मा सावित्री ययतुर्मुदा ।
रथस्थाः सूर्यचन्द्राद्या गजस्था इन्द्रदेवताः ।।८८ ।।
विमानयानवाहस्थाः ऋषयो मुनयस्तदा ।
नार्यो विमानमध्यस्था व्योमगामिसुवाहनाः ।।८९।।
रथगुप्तिमध्यगता गायन्ति गीतिकास्तदा ।
वादित्राणि च वाद्यन्ते स्तूयन्ते बन्दिभिस्तदा ।।1.172.९०।।
आशीर्वादाः प्रदीयन्ते मुनिभिर्भूसुरैस्तथा ।
एवं सा वाहिनी शंभोः किंकिणीजालशब्दिताः ।।९ १ ।।
शोभिता दिव्यनारीभिर्देवमूर्तिचमत्कृता ।
प्रापद् दक्षराजधानीसमोपे शंभ्वधिष्ठिता ।।९२।।
ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः ।
प्रययौ सन्मुखं शंभोः संयुक्तः सकलैर्निजैः ।।९३।।
सर्वे देवाश्च मुनयः ऋषयः प्रमदाजनः ।
जलपानादिना तत्र स्वयं दक्षेण सत्कृताः ।।९४।।
दक्षालयं तदा प्राप्याऽऽसनेषु मुनयः स्थिताः ।
वृद्धा देवाश्च ऋषयो यथायोग्यं प्रतिष्ठिता ।।९५।।
दक्षः सम्मानयामास गृहाभ्यन्तरतः शिवम् ।
समानर्च विधानेन दत्वाऽऽसनमनुत्तमम् ।।९६।।
ततो विष्णुं च देवाँश्च ब्रह्माणं सर्वभूरसुरान् ।
गणाँश्च पूजयामास सद्भक्त्या वस्तुभिर्मुदा ।।९७।।
भोजयामास मृष्टान्नैस्तर्पयामास पानकैः ।
रंजयामास शृंगारैः प्रोक्षयामास सौरभैः ।।९८।।
ताम्बूलादिप्रदानैः संभावयामास चासनैः ।
कृत्वा यथोचितां पूजां चकार संविदं सुरैः ।। ९ ९।।
मुनिभिश्च ततो ब्रह्मा प्रेरितोऽत्र विधानके ।
दक्षेणाऽभिहितश्चैव कार्यं वैवाहिकं तु यत् ।। 1.172.१०० ।।
कारयामास विधिवत् प्रहृष्टेनान्तरात्मना ।
ततः शुभे मुहूर्ते हि लग्ने गृहबलान्विते ।। १०१ ।।
सतीं निजसुतां दक्षो ददौ हर्षेण शंभवे ।
उद्वाहविधिना शंभुर्जग्राह च सतीकरम् ।। १०२।।
सतीपाणिग्रहकाले ब्रह्मविष्णुसुरादयः ।
नेमुः सर्वे संस्तुतिभिस्तोषयामासुरीश्वरौ ।। १०३ ।।
समुत्सवो महानासीन्नृत्यगीतपुरःसरः ।
आनन्दं परमं जग्मुर्भोजनाच्छादनादिभिः ।। १० ४।।
दक्षोऽप्यासीत् कृतार्थश्च दत्वा कन्यां तु शंभवे ।
शिवाशिवौ प्रसन्नौ स्तो निखिलं मंगलं ह्यभूत् ।। १ ०५।।
कृत्वा दक्षः सुतादानं यौतकं विविधं ददौ ।
हराय बहुधा द्रव्यं द्विजेभ्यो विविधं जनम् ।। १०६।।
हराय वरमाला सा सत्याऽर्पिता गलस्थले ।
मूशलादीनि शंभोर्वै मस्तकेऽभ्रामयँस्तदा ।। १ ०७।।
मृष्टं मिष्टं च दम्पत्योर्दत्तं परस्परं मुखे ।
दुग्धस्थाल्यां सुवर्णांगुलीयक्रीडा च चक्रतुः । । १०८ ।।
विष्णुस्तदा हरं प्राह सतीं चैव शुभं वचः ।
त्वं पिता जगतां शंभो! सती माता जगत्प्रसूः ।। १०९ ।।
युवां लीलावतारौ स्तः सतां क्षेमाय सर्वदा ।
खलानां निग्रहार्थाय जातौ वै युगलात्मकौ ।। 1.172.११० ।।
गार्हस्थ्यधर्ममालम्ब्य चरतं सहधर्मकम् ।
संहारार्थकृतरूपौ प्रवर्तेथां च संहृतौ ।। १११ ।।
धार्मिकाणां जनानां च रक्षार्थं च गवां सताम् ।
यज्ञानां भूसुराणां च वेदानां कुरुतं श्रमम् ।। ११ २।।
सत्याश्च रक्षणं कार्यं भक्तानां मंगलं तथा ।
य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाऽथवा भवेत् ।। ११३ ।।
तं हन्याद् देव कालेश विज्ञप्तिरिति मेऽस्ति वै ।
असुराः प्रबलाः सन्ति कण्डूयनप्रहस्तकाः ।। १ १४।।
तेषां कण्डूर्मार्जनीया त्वया सत्या सुतेन च ।
स्मर्तव्यश्च तथा काले यदि साहाय्यमर्थ्यते ।। ११५ ।।
इति श्रुत्वा हरेर्वाचं विहस्य शंकरस्तदा ।
एवमस्त्विति सत्कृत्य ननाम कमलापतिम् ।। ११६ ।।
ततो दक्षः सामयिकं कारयामास चोत्सवम् ।
ब्रह्मा च मण्डपे तत्र गृह्योक्तविधिनाऽखिलम् ।। ११ ७।।

अग्निकार्यं यथोद्दिष्टमकार्षीच्च सुविस्तरम् ।
होमं च कारयामास विधिवद् वह्निकुण्डके ।। ११८ ।।
ततः शिवा शिवश्चैव यथाविधि प्रहर्षतः ।
अग्निं सुसाक्षिणं चापि ब्रह्माऽऽचार्यद्विजाज्ञया ।। ११९ ।।
चतुःप्रदक्षिणाः कृत्वा स्थितौ शिवाशिवौ तदा ।
नेमतुश्च गार्हपत्यमग्निं निषेदतुस्ततः ।। 1.172.१२० ।।
तदा महोत्सवस्तत्राऽद्भुतोऽभूद्दक्षमन्दिरे ।
सर्वेषां सुखदं वाद्यं गीतनृत्यपुरःसरम् ।। १ २ १ ।।
प्रवर्तितं च शृण्वन्ति मण्डपागतदर्शकाः ।
वध्वाश्च वरराजस्य रूपं दृष्ट्वा मुहुर्मुहुः ।। १ २२।।
बहवो मोहितास्तत्र नरा नार्यश्च पद्मजे! ।
न तत्राऽऽसीद्रूपवती ह्येकाऽपि तु यथा सती ।। १२३ ।।
न चासीद्रूपयोस्तत्र धवलः शंभुसदृशः ।
रत्नकांचनयोर्योगः कौमुदीचन्द्रयोर्यथा ।। १ २४।।
तडिच्छ्रवेताम्रयोर्योगः सतीशंकरयोस्तथा ।
नारीनेत्रचकोराणा नरनेत्रस्फुलिंगिनाम् ।। १ २५।।
चन्द्रवद्वह्निज्वालावन्निर्वाणसुखदोऽभवत् ।
नाऽऽसन्नराः सतीं दृष्ट्वा ह्यमुग्धास्तत्र मण्डपे ।। १२६ ।।
नाऽऽसन् स्त्रियो हरं दृष्ट्वा ह्यमुग्धास्तत्र मण्डपे ।
सतीशंकरयोर्योगस्तथाऽभून्मोहकारकः ।। १ २७।।
तदिदं लोकशिक्षार्थं विवाहो मोहमूलकः ।
राजसं च तदा सर्वं मनसिजस्य वैभवम् ।। १२८ ।।
वध्वा रूपं विवाहे वै मुखं द्रष्टुं समुत्सुकाः ।
जायन्ते विकलाः सर्वे प्रायशो लोकभावतः ।। १ २९।।
तथा तत्रापि सत्या वै मुखं द्रष्टुं समुत्सुकाः ।
प्रायशश्चाऽऽभवन् सर्वे लज्जया वस्त्रसंवृतम् ।। 1.172.१३० ।।
सर्वथा नखमारभ्य केशचूडावधि तदा ।
सती कांचनवर्णाभा शाट्यादिसंवृता ह्यभूत् ।। १३१ ।।
विद्युल्लतासमाद्देहात् कान्तिर्वस्त्राणि भिद्य वि ।
बहिर्याता च तां दृष्ट्वा नेत्राणि मिलितानि हि ।। १३२ ।।
दर्शकानां तदा तत्र मण्डपोऽप्यतितेजसा ।
शुशुभे सुप्रभो जातो द्यौर्यथाऽत्राऽऽगताऽस्ति किम् ।। १३३ ।।
शृणु लक्ष्मि! तदा जातमाश्चर्यं ब्रह्मणोऽपरम् ।
वेधास्तु राजसं भावं प्राप्य रूपं विलोकितुम् ।। १ ३४।।
विचारं बहुधा चक्रे किन्तु नाऽऽप विलोकितुम् ।
शंकरस्यैव कर्तव्यं ह्येतज्जातं तु विद्धि तत् ।। १ ३५।।
ब्रह्मणा मोहितुं मां वै प्रथमं प्रेरणा कृता ।
सर्वे ते मोहिताः सन्तु विवाहे मम सन्निधौ ।। १३६ ।।
इति कृत्वाऽत्र रूपं तत् प्रकाशितं तु योगतः ।
दृष्ट्वा च मुमुहुः सर्वे महामायाविमोहिताः ।। १ ३७।।
तदा तु ब्रह्मणा तत्र शुभोपायो विचारितः ।
आर्द्रेन्धनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ।। १३८ ।।
स्वल्पाऽऽज्याहुतिविन्यासादार्द्रद्रव्योद्भवः कृतः ।
प्रादुर्भूतो महाधूमो व्याप्तस्तत्र समन्ततः ।। १३९ ।।
तेन स मण्डपस्तत्र तमोभूतोऽभवत्तदा ।
शंभुर्धूम्राकुले नेत्रे छादयामास लीलया ।। 1.172.१४० ।।
तावच्च ब्रह्मणा वस्त्रं समुत्क्षिप्य सतीमुखम् ।
विलोकितं मुहुः प्रेम्णा बहुभिश्चाऽवलोकितम् ।। १४१ ।।
ब्रह्मणस्तु तदा रेतः प्रचस्कन्द पटान्तरे ।
आच्छादितं मर्दितं च यथा कश्चिद् बुबोध न ।। १४२।।
मर्दनाच्च कणास्तत्र तुषारचयसन्निभाः ।
संजाता येऽभवन् मेघाश्चत्वारस्तु चतुःकणाः ।। १४३ ।।
संवर्तकस्तथाऽऽवर्तः पुष्करो द्रोण इत्यपि ।
फेलुर्व्योम्नि च गर्जन्तस्तोयदास्ते कदारवाः ।। १ ४४।।
अन्ये कणा अष्टाशीतिसहस्राणि तदाऽभवन् ।
तेभ्यो जाता बालखिल्या अंगुष्ठपर्वसदृशाः ।। १४५।।
ऋषयस्ते च वैराजलोकेषु संगतास्तदा ।
तिष्ठन्त्येव च तत्रैव सदा ब्रह्मव्रता हि ते ।। १ ४६।।
अथाऽन्ये च कणा वस्त्रे संलग्नास्ते तदा पुनः ।
बालखिल्याश्च वै षष्टिसहस्राण्यभवँश्च ते ।। १४७।।
अंगुष्ठपर्वमात्राश्च सूर्यस्य किरणानि वै ।
पिबन्तः सूर्यसाम्मुख्ये धावन्ति पृष्ठपादतः ।। १४८ ।।
मन्देहानामरक्षांसि नाशयन्ति च तेऽन्वहम् ।
नित्यं ब्रह्मवरदानाज्जीवन्ति नाशयन्ति तान् ।। १४९ ।।
अथ तद्भगवान् शंभुर्ज्ञात्वा दिव्येन चक्षुषा ।
किमेतद्विहितं ब्रह्मन् कोपादेतदुवाच ह ।। 1.172.१५० ।।
इत्येष हन्तुं ब्रह्माणं शूलमुद्यम्य शंकरः ।
सन्नद्धः स निषिद्धश्च प्रतिरुद्धो महर्षिभिः ।। १५१ ।।
शिक्षितश्च तदा सर्वैः त्रयाणामैक्यमित्यपि ।
न ब्रह्मा भवतो भिन्नो न भवो ब्रह्मभेदवान् ।। १५२।।
न विष्णुर्द्वयतो भिन्नस्त्रयाणामैक्यमस्ति हि ।
शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ।। १५३ ।।
अंगानि च तथा देवास्त्रयोऽभिन्नाः परात्मनः ।
स्वस्वरूपे ब्रह्मणि ते शंभो कोपो न युज्यते ।। १५४।।
श्रुत्वैवं शंकरः शान्तः संप्राह वेधसं पुनः ।
स्वशिरः स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ।। १५५।।
ब्रह्मा निजकरेण स्वं शिरः स्पृशति यावता ।
तावद्ब्रह्मोऽभवत्सद्यो वृषभो वाहनं परम् ।। १५६।।
तत्पृष्ठे च स्वयं शंभुर्निषसाद नियामकः ।
आहाऽनेन स्वरूपेण मदधिष्ठितकेन च ।। १५७।।
तपः कुरु च ते ख्यातिः रुद्रशिरो भविष्यति ।
ब्रह्मांशो वृषभस्तत्र शंकरांशो नियामकः ।। १५८।।
भूत्वा विवाहवेद्यां च सर्वदा तौ व्यवस्थितौ ।
अथ मूलस्वरूपेण ब्रह्मा शंभ्वाज्ञया तदा ।। १५९।।
शेषं वैवाहिकं कर्म समाप्तिमनयत् द्रुतम् ।
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ।। 1.172.१६० ।।
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ।
पठत्सु विप्रवर्गेषु वेदान् भक्त्यन्वितेषु च ।। १६ १।।
रंभादिषु पुरन्ध्रीषु नृत्यमानासु सादरम् ।
महोत्सवो महानासीत् देवपत्नीषु पद्मजे ।। १६२।।
शंभुः प्राह त्वया ब्रह्मन् कृतं वैवाहिकं च यत् ।
गृहाण दक्षिणां कोटिं स्वाचार्योऽसि सुलग्नकृत् ।। १६३।।
गृहीता दक्षिणा चाथ ब्रह्मणा प्रार्थितं तदा ।
गन्तव्यं स्वगृहं सर्वैः स्थातव्यं नैव शिष्यते ।। १६४।।
ततो दक्ष समामन्त्र्य पत्न्या सत्या सहेश्वरः ।
गन्तुमना ह्यभूत् तावत् दक्षस्तुष्टाव शंकरम् ।। १६५।।
सुराश्च मुनयो विप्रा ऋषयो विष्णुसेवकाः ।
कृष्णो नारायणः सूर्यश्चन्द्र इन्द्रादयस्तथा ।। १६६।।
स्वस्वकुटुम्बपरिवारान्विता ययुरीश्वरम् ।
आरोप्य वृषभे शंभुः सतीं दक्षाज्ञया मुदा ।। १६७।।
चालयामास वृषभं कैलासं स्वालयं प्रति ।
केचिद्वाद्यान्वादयन्तो गायन्तः सुस्वरं परे ।। १६८।।
शिवं शिवयशः शुद्धमनुजग्मुः शिवं मुदा ।
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याऽथ शंभुना ।। १६९।।
स्वधाम प्राप सगणः शंभुः प्रेमसमाकुलः ।
तत्र गत्वाऽखिलान् देवान् मुनीनपि पराँस्तथा ।। 1.172.१७०।।
मुदा विसर्जयामास बहु सम्मान्य सादरम् ।
शंभुमाभाष्य भोज्यादि गृहीत्वा कृष्णदेवताः ।। १७१ ।।
विष्ण्वाद्याः ऋषयः सर्वे स्वं स्वं धाम ययुर्मुदा ।
शिवोऽपि मुदितोऽत्यर्थं नववध्वा समं मुहुः ।। १७२।।
कैलासाचलसंस्थो हि विजहार यथासुखम् ।
इति लक्ष्मि! शंकरस्याऽऽख्यातो विवाहसूत्सवः ।। १७३।।
विवाहसमये यज्ञे प्रारंभे वा शृणोति यः ।
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं शुभम् ।। १७४।।
कन्या च सुखसौभाग्यशीलाचारगुणान्विता ।
साध्वी स्यात्पुत्रिणी धन्या सर्वस्मृद्धियुता गृहे ।। १७५।।
अथाऽयं शंकरो योगी विवेश गिरिकन्दरम् ।
गणान्निर्यापयामास नन्द्यादीन् प्राह तांस्तदा ।। १७६।।
यदाहं च स्मराम्यत्र स्मरणादरमानसाः ।
समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम् ।। १७७।।
कैलासे ते गणाः सर्वे नानास्थानेषु संययुः ।
शंभुर्वध्वा समं रेमे विना कामरतिं तदा ।। १७८।।
क्वचिद्गृथित्वा पुष्पाणां मालां सत्यै न्यवेदयत् ।
क्वचिच्च दर्पणे सत्या सहाऽऽननं व्यलोकयत् ।। १७९।।
कदाचित्कुण्डले सत्याः कर्णयोरप्यधारयत् ।
कदाचित्पत्तले चास्या रक्तेनाऽरंजयद्धरः।।1.172.१८०
केशवेशं कदाचित्स्वेंऽके निषाद्य ह्यकल्पयत् ।
ललाटे पत्रिकां शंभुश्चन्दनेनाऽकरोत्क्वचित् ।। १८ १।।
आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शंकरः ।
सर्वांगेषु करोति स्म पुष्पाऽऽभरणमादरात् ।। १८२।।
एवं बहुविधैर्मार्गैः रेमे सतीं विनोदयन् ।
तया विना स्म नो याति नाऽऽस्थितो न स्म चेष्टते ।। १८ ३।।
तया विना क्षणमपि शर्म लेभे न शंकरः ।
अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरम् ।। १८४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सत्यै शंकरदर्शनं, भार्या भवेति वरदानं, शंभोः कैलासगमनं, ब्रह्मणो दक्षगृहं प्रति प्रेषणं, कैलासं प्रत्यागमनं च, शंकरस्य जनवाहिन्या दक्षगृहं प्रति गमनं, सतीविवाहः, सत्यां रूपे मोहितब्रह्मणो रेतःपतनं, तेन मेघानां वालखिल्यानामुत्पत्तिः, जनवाहिन्याः कैलासं प्रत्यागमनम्, जनवाहवर्गविसर्जनं, कैलासकन्दरे सतीशंकरयोर्विहरणमित्यादिनिरूपणनामा द्वासप्तत्यधिकशततमोऽध्यायः ।। १७२ ।।