लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १७१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७१
[[लेखकः :|]]
अध्यायः १७२ →

श्रीनारायण उवाच-
अथ वैराजपुरुषात् नाभौ पद्मेऽभवत् त्वजः ।
विष्णुश्च हृदयाज्जातस्तदा वै विष्णुपद्मजौ ।। १।।
महामहं महाँश्चाहमितिश्रैष्ठ्यविवादिनौ ।
तयोर्मध्ये महत्तेजःकिरणं समभूत्तदा ।।२।।
तत्र देवस्तृतीयो वै शंभुः प्रादुर्बभूव ह ।
गोलोकात्प्रेषितश्चास्याऽण्डस्य देवाधिवृत्तये ।।३।।
श्रीकृष्णेन स्वयं चात्र प्रेषितः शंकरो मुदा ।
वैष्णवो भक्तवर्यश्च समुत्पन्नो हरीच्छया ।।४।।
हरेस्तदैव किरणं मूर्तेर्वेराजनेत्रयोः ।
समागत्य बभूवातिस्थिरं तस्य प्रभावतः ।।५।।
ललाटात्स समुत्पन्नः किरणाढ्यो महेश्वरः ।
किरणं दिव्यबाणं वैं ब्रह्मणश्चिह्नमेव तत्। ।।६ ।।
महेशस्तत्र वैराजात्मजो जातः सुतामसः ।
शिवा च तस्य देहे वै वामभागेऽप्रकाशिता ।।७।।
कृष्णाज्ञया समायाता शिवो वेत्ति न तां तदा ।
शिवो जानाति चैकं स्वं देवं तत्र शिवां विना ।।८।।
किन्त्वदृश्या शिवा शंभोर्वामे शक्तिस्वरूपिणी ।
आसीद् या कृष्णनेत्रस्था सैवाऽऽसीच्छिवनेत्रयोः ।।९।।
ब्रह्मणा प्रेरिता रात्रिः सा संबभूव दाक्षिणी ।
सतीतिनाम संचक्रे तस्या दक्षस्तदाज्ञया ।। 1.171.१० ।।
अथ तां च सुतां माता सुसंस्कृत्य यथोचितम् ।
शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ।। १ १।।
पालिता साऽथ वीरिण्याऽसिक्न्या दक्षेण ववृधे ।
तस्यां सुसद्गुणाः सर्वे विविशुः शैशवेऽपि वै ।। १२।।
सखीमध्यगता क्रीडाचरणेऽपि स्वभावतः ।
लिलेख शंभुदेवस्य प्रतिमां वै क्वचित्क्वचित् ।। १३ ।।
बाल्योचितेषु गीतेषु जगौ रुद्रं हरं मुहुः ।
हरे त्वेवं भक्तिमती सस्मार स्मरनाशकम् ।। १४।।
तस्यां पित्रोः सुकरुणा ववृधेऽतीव नित्यदा ।
बालाऽपि गुणवृद्धा सा तोषयामास जन्मदौ ।। १५ ।।
एकदा नारदो ब्रह्मा जग्मतुर्दक्षमन्दिरम् ।
दृष्टा ताभ्यां दक्षपार्श्वे त्वासीना सा सती शुभा ।। १६ ।।
पित्रा नमस्कृतौ चोभौ सत्या चापि नमस्कृतौ ।
प्रणामान्ते सतीं वीक्ष्य दक्षदत्तशुभासने ।। १७।।
स्थितावातिथ्यविधिना सत्कृतावूचतुर्मुदा ।
ब्रह्मा प्राह मुनिं पश्य नारदेवं महेश्वरी ।। १८।।
कस्य भार्या सुयोग्या स्याद् रेखाः पश्याऽथ मां वद ।
नारदस्तत्र देवेशीं नत्वा प्राह सुकन्यके ।। १ ९।।
एहि पश्यामि ते हस्तरेखाः का भवसीति यत् ।
विहस्य कन्यया हस्ततले सन्दर्शिते तदा ।।1.171.२० ।।
धनुर्मीनस्तथा केतुः स्वस्तिकश्च त्रिशूलकम् ।
प्रदीपः कमलं बाणोंऽकुशः शंखश्च चक्रकम् ।। २१ ।।
परशुः सायकः शक्तिः षड्वामे षट् च दक्षिणे ।
क्रमाद्धस्ते नारदेन दृष्टान्येतानि रेखया ।।०२२।।
ललाटेऽक्षि तृतीयं च कला चन्द्रस्य वक्रगा ।
हृद्ये शिवमूर्तिश्च स्वर्णरेखामयी शुभा ।।२३।।
नाभेरूर्ध्वं चर्मचिह्नमधश्च करवालकम् ।
धनुर्बाणेन युक्तं च पदोः सिंहो वृषस्तथा ।।२४।।
शिखरं वल्लिका नागदलं सिंहासनं तथा ।
ऊर्ध्वे रेखे सर्पफणा दृष्टान्येतानि रेखया ।। २५ ।।
कथितं ब्रह्मणे चापि दक्षाय नारदेन तु ।
नेयं वै मानवी पुत्री नापि दैवी न चाऽपरा ।।२६।।
जगन्माता गुरूणां च गुर्वी परा तु वैष्णवी ।
कृष्णांगना च वा नारायणवामा परेश्वरी ।।२७।।
ब्रह्मांगना च वा विष्णोरंगना परमेश्वरी ।
शिवांगना भवेद्यद्वा नान्या स्याज्जगदंबिका ।।।२८।।
मन्येऽस्या हृदि शर्वोऽस्ति नेत्रचन्द्रौ ललाटके ।
करे त्रिशूलरेखाऽस्ति चरणे वृषभो हरिः ।।२९।।
अतः शिवस्य रत्नं स्यान्नान्यस्य कस्यचिद् ध्रुवम् ।
सलज्जाऽधोमुखी श्रुत्वा भूत्वा विहस्य सत्वरम् ।।1.171.३० ।।
गृहान्तरे जगामाथ मात्रे न्यवेदयच्च तत् ।
असिक्न्या च गृहात्तत्र बहिरागत्य तौ तदा ।।३ १ ।।
नमस्कृतौ जलभोज्यफलाद्यैश्च प्रपूजितौ ।
दक्षेण वन्दितौ वृद्धौ सती तावद्गृहात्पुनः ।।३२।।
भर्गचित्रं स्वलिखितं नीत्वा बहिरुपागता ।
सहासा दर्शितवती ओमित्यर्थं महर्षये ।। ३३।।।
ननाम नारदं सा च ब्रह्माणं प्रणनाम सा ।
ब्रह्मा प्राह तदानीं मस्तके दत्वा करांजलिम् ।।३४।।
यस्त्वां कामयते यं त्वं तथा कामयसे सति! ।
तमाप्नुहि पतिं देवं सर्वज्ञं जगदी श्वरम् ।।३५।।
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ।
जायां स ते पतिर्भूयादनन्यसदृशः शुभे ।।३६।।
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः ।
विसृष्टौ तेन संयातौ स्वस्थानं तौ समुद्रजे ।।३७।।
दक्षोऽभवत् तदा प्रीतो मन्यमानः स्वधन्यताम् ।
सती च वर्धमानाऽऽप किंचिद्यौवनभावनाम् ।।३८।।।
दक्षश्च चिन्तयामास सतीयोग्यं वरं शिवम् ।
बाल्यं व्यतीतं पुत्र्या मे कौमार्यं विगतं तथा ।।।३९।।
प्रोद्भिन्नान्तर्वयोयुक्तामुद्वाहाऽर्हसुकन्यकाम् ।
तपोभिः स्वर्णरूपाढ्यां दास्ये भर्गाय सर्वथा ।।1.171.४०।।
सती स्वयं तथा भर्गं प्राप्तुमैच्छत् हृदन्तरे ।
पितुश्च निर्णयं ज्ञात्वा मातरं प्राह सा सती ।।४१।।
शंकरस्य कृते मातस्तपोव्रतादि दर्शय ।
तवाऽज्ञया व्रतं कुर्वे शिवसन्तोषणाय वै ।।४२।।
मातुराज्ञां तु सा लब्ध्वा शिवं प्राप्तुं दृढव्रता ।
गृहे त्वाराधयामास व्रतैश्च विविधैः सती ।।४३ ।।
ईषशुक्लाऽष्टमीनन्दातिथावानर्च शंकरम् ।
गुडौदनैः सलवणैः षोडशाद्युपचारकैः ।।४४।।
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ।
षोडशाद्युपचारैश्च पुपूज शंकरं सती ।।४५।।
मार्गशीर्षेऽसिताष्टम्यां सतिलैः स यवौदने ।
षोडशाद्युपचारैश्च पुपूज शंकरं सती ।।४६।।
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ।
प्रातः सा कृशरान्नेन पुपूज शंकरं सती ।।४७।।
माघे तु पूर्णमास्यां सा कृत्वा जागरणं निशि ।
आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ।।४८।।
फाल्गुने शिवरात्र्यां च व्रतं जागरणं निशि ।
शैलूषैः षोडशार्थैश्च साऽऽनर्च तं दिवानिशम् ।।४९।।
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैः शिवम् ।
षोडशाद्युपचारैश्च दिवा रात्रावपूजयत् ।।1.171.५०।।
राधशुक्लतृतीयायां तिलाहारयवौदनैः ।
नवैश्च षोडशाथैंश्चाऽपूजयच्छंकरं सती ।।५ १ ।।
ज्येष्ठस्य पूर्णिमारात्रौ निराहारा च शंकरम् ।
वसनैर्बृहतीपुष्पैरपूजयद्व्रते सती ।।।२।।
आषाढस्य चतुर्दश्यां शुक्लायां कृष्ण वाससा ।
बृहतीकुसुमैः शंभुमपूजयद्व्रते सती ।।।५ ३ ।।
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम् ।
यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ।।५४।।
भाद्रे कृष्णत्रयोदश्यां बहुपुष्पफलैः सती ।
पूजयित्वा चतुर्दश्यां चकार जलभोजनम् ।।५५।।
नानाविधपत्रपुष्पफलैस्तत्कालजैः सती ।
चक्रे सुनियताऽऽहाराऽधिकमासे शिवव्रतम् ।।५६।।
नित्यं च सर्वमासेषु शिवपूजापरायणा ।
दृढव्रताऽभवददेवं नान्यत् सस्मार तं विना ।।५७।।
इत्थं नन्दाव्रतं कृत्स्नं समाप्य तापसी सती ।
दध्यौ शिवं व्यवस्थासु योगिनीव कृतादरा ।।५८ ।।
कृशाकृशांगी तपसा तेजोमूर्तिः सुरूपिणी ।
जाता शिवमयी सौम्या शिवांऽकाऽर्हणतां गता ।।५९ ।।
जन्मजयन्त्यां सत्याश्च द्वादशाब्दे महोत्सवे ।
दक्षेणाऽऽकारिता देवा मनवोऽन्ये महर्षयः ।। 1.171.६० ।।
तदा तु सर्वतो देवा मुनयश्चाखिलाः प्रिये ।
अहं ब्रह्मा च दिक्पाला लोकपालाः सुरादयः ।। ६१ ।।
आशीर्वादान् प्रदातुं च जग्मुर्दक्षगृहे तदा ।
सत्कृताश्च महत्यां वै सभायां सर्वदेवताः ।।६२ ।।
आशीर्वादान् ददुः सत्यै प्रणनाम सती च तान् ।
पूर्वं दृष्टा सती पुष्टा तपसाऽर्धापि नास्ति यत् ।।६ ३ ।।
दृष्ट्वा सतीतपस्तादृक् ज्ञात्वा शिवार्थमेव तत् ।
प्रसन्नाः सर्वदेवाद्याश्चक्रुर्देव्यै नतिं मुहुः ।। ६४।।
प्राहुः सति! तपश्चातिकष्टप्रदं तु मा कुरु ।
अवश्यं ते पतिः शर्वो महादेवो भविष्यति ।। ६५।।
आशीर्वादान्प्रयुज्यैवं गृहीत्वाऽर्हणमित्यथ ।
प्रशशंसुस्तपस्तस्याः सिद्धावस्थां गतां सतीम् ।। ६६ ।।
दक्षोक्तिं च सतीच्छां च सम्प्राप्य मुनयः सुराः ।
पूजां प्राप्य सतीं नत्वा जग्मुः कैलासभूभृतम् ।। ६७।।
सावित्रीहितो ब्रह्मा लक्ष्मीनारायणस्तथा ।
रमया सहितो विष्णुर्देवीभिः सहिताः सुराः ।। ६८। ।
सप्तर्षयः स्वपत्नीभिः सहिता मनवस्तथा ।
जग्मुः कैलासशिखरं यत्र देवो महेश्वरः ।।६९।।
गत्वा शंभुं प्रणम्यैव दृष्ट्वा शान्तं च योगिनम् ।
तुष्टुवुर्विविधैः स्तोत्रैर्बद्धांजलिपुटा मुदा ।।1.171.७० ।।
नमोऽक्षरस्वरूपाय कृष्णनेत्रात्मने नमः ।
नमः सदाशिवाख्याय तेजःपूजाय ते नमः ।।७ १।।
वैराजपुत्ररूपाय ब्रह्मचर्याय ते नमः ।
नमो ब्रह्मस्वरूपाय सदा शान्ताय ते नमः ।।।७२।।
निर्गुणाय गुणाढ्याय वैष्णवाय नमोनमः ।
अव्यक्तरात्रिदेहाय निर्विकाराय ते नमः ।।७३।।
महेशाय परेशाय शिवाऽधिपतये नमः ।
क्वचिच्छान्तिकृते कादाचित्कसंहारिणे नमः ।।७४।।
नमः शेषाय संकर्षणस्वरूपाय ते नमः ।
नमो वैराग्यवासाय सतीरागाय ते नमः ।।७५।।
न यस्य देवा ऋषयः सिद्धाः साध्व्यश्च साधवः ।
विदुः पदं स्वरूपं च तस्मै शिवाय ते नमः ।।७६।।
पदं दिदृक्षवो यस्य यतन्ते योगिनः सदा ।
तस्मै नमः परेशाय योगस्थाय नमोनमः ।।७७।।
अनन्तसिद्धियुक्ताय गिरां दूराय ते नमः ।
नम आत्मप्रकाशाय निर्वाणस्थाय ते नमः ।।७८।।
ज्ञानिने ते नमश्चास्तु निष्क्रियायाऽऽत्मवेदिने ।
तपसा द्राक् प्रसन्नाय सर्वदात्रे च ते नमः ।।७९।।
त्रिनेत्राय सचन्द्राय सर्वाध्यक्षाय ते नमः ।
शरणायातप्रार्थ्यार्थलाभदाय च ते नमः ।।1.171.८ ०।।
ऐश्वर्याणां प्रदात्रे ते मोक्षदाय च ते नमः ।
भक्तेष्टपूरकायाऽम्नायोदधये च ते नमः ।।८ १ ।।
स्वप्रकाशाय नित्याय प्रत्यक्द्रष्ट्रे च ते नमः ।
सकामा वाथ निष्कामा भक्तास्ते शरणागताः ।।८२।।
अप्राप्य सिद्धिं यस्मान्न निवर्तन्ते च ते नमः ।
काचित्कन्या त्वदर्थं वै करोति तप उत्कटम् ।।८३ ।।
त्वं कथं चाऽकरुणोऽसि प्रसन्नो भव ते नमः ।
लोककार्यप्रवाहार्थं विचारं कुरु शंकर ।।८४।।
अध्यात्मयोगगम्य त्वां प्रणमामः स्तुमो वयम् ।
न त्वं देवोऽसुरो मर्त्यो न तिर्यङ्न् द्विजः पशुः ।।८५।।
न स्त्री न षंढो न पुमान् योऽसि सोऽसि च ते नमः ।
विश्वलयकृते विश्वधारिणे प्रणता वयम् ।।८६ ।।
सांख्या ज्ञानेन पश्यन्ति समाधौ योगिनश्च यम् ।
भक्ताः कृपया पश्यन्ति त्रयीमयं च ते नमः ।।८७।।
नमो भक्तोद्धारकर्त्रे नमस्ते गूढवर्चसे ।
नमः प्रत्यक्षदेवाय चाऽपरोक्षानुभूतये ।।८८।।
कालरात्रिविलासाय दक्षपुत्र्यार्थिताय च ।
प्रवृत्ताय नमस्तुभ्यं निवृत्ताय च ते नमः ।।८९ ।।
भक्तेच्छापूरक! स्वामिन् पूरयेच्छां च वेधसः ।
तूष्णीमासन्नितिस्तुत्वा श्रुत्वा शंभुर्जहास वै ।। 1.171.९० ।।
दृष्ट्वा देवमुनींश्चान्यान् सस्त्रीकाँश्च यथोचितम् ।
स्वागतं चातिथेयं च कृत्वा पप्रच्छ कारणम् ।। ९१ ।।
हे विष्णो हे विधे देवा हे मुनिप्रवरर्षयः ।
निजागमनहेतुं वै कथयध्वं यथार्थतः ।। ९२।।
सस्त्रीका आगताः सर्वे किं कार्यं विद्यते मम ।
इति पृष्टास्तदा ब्रह्मा विष्णुना परिनोदितः ।। ९३ ।।
प्राह शंभुं मिष्टवाण्या देव तेऽविदितं नहि ।
तथापि लोकधर्मत्वात्कथनीयं शृणु प्रभो ।। ९४।।
विशेषतः सहार्थार्था वयं सुरनरादयः ।
असुरा वहुधा सृष्टौ जायन्ते च मुहुर्मुहुः ।। ९५।।
तत्र केचिन्मम वध्या हरेर्वध्याश्च केचन ।
अतिक्रूरास्तव वध्या देवीवध्यास्तथाऽपरे ।। ९६ ।।
अन्ये त्वद्वीर्यपुत्रस्य वध्याश्चापि भवन्ति वै ।
अनाशयित्वा तान्दुष्टान् जगत्स्वास्थ्यं न निर्भयम् ।। ९७।।
त्वयि रागद्वेषशून्ये योगमार्गे स्थिते सति ।
दयामात्रस्वभावे ते नष्टा न स्युः कदाचन ।। ९८।।
तपः प्रकुर्वतां तेषां वरैः पुष्टिर्यदि ध्रुवा ।
तदा तु सात्विको सृष्टिः कथं सुस्था भविष्यति ।। ९९ ।।
अतश्च भविता युक्तमयुक्तेषूच्छ्रितेषु वै ।
सृष्टिस्थित्यन्तकर्पाणि कार्याण्यस्माभिरेव ह ।। 1.171.१०० ।।
वयं त्वेकस्वरूपा हि भिन्नाः कार्यस्य भेदतः ।
कार्यभेदो न सिद्धश्चेद् रूपभेदोऽप्रयोजनः ।। १०१ ।।
अहं विष्णुश्च सस्त्रीकौ सुजातौ कार्यहेतुतः ।
तथा त्वमपि सस्त्रीको भव विश्वहिताय वै ।। १० २। ।
परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ।
स्त्रियं विवाह्य लोकस्य कुरु कार्यं महत्तमम् ।। १०३ ।।
यथा पद्मालया विष्णोः सावित्री च यथा मम ।
तथा सहचरीं शंभो कान्तां गृह्णीष्व कामिनीम् ।। १ ०४।।
शंभुर्विहस्य ब्रह्माणं विष्णुं च प्राह तात्त्विकम् ।
हे ब्रह्मन् हे हरे मे स्थो युवां प्रियतरौ सदा ।। १ ०५।।
युवयोर्दर्शनादद्याऽऽनन्दो मे जायतेऽधिकः ।
भवद्भ्यां तु मदर्थं यन्निश्चितं व्यावहारिकम् ।। १० ६।।
युक्तमेव भवेत् किन्तु मे हृदि रोचते नहि ।
तपस्विनो विरक्तस्य योगमार्गाऽतिगस्य च ।। १ ०७।।
ज्ञानिनः कामशून्यस्य स्वात्मारामस्य सर्वथा ।
निवृत्तस्याऽऽत्मद्रष्टुश्च कामिन्या किं प्रयोजनम् ।। १०८ ।।
आत्मनो योगलग्नस्य ममाऽऽनन्दः सदाऽस्ति वै ।
नान्यसंसर्गसंप्राप्ताऽऽनन्दशेषी भवाम्यहम् ।। १ ०९।।
विवाहो बन्धनं रौद्रं द्वयोरेव परस्परम् ।
योगिनस्तत्किमर्थं वै निराशस्य बलान्नयेत् ।। 1.171.११० ।।
तस्मात्पत्न्या रुचिर्मे नो सत्यं वः प्रवदाम्यहम् ।
विष्णुः प्राह तदा श्रुत्वा शंभुं श्रीकृष्णदर्शितम् ।। ११ १।।
गोलोके यत्प्रतिज्ञातं सृष्टौ कार्यं यदा भवेत् ।
यदावश्यकता ते स्यात्तदा दास्ये विभावरीम् ।। १ १२।।
काले गृहीत्वा प्रकृतिं शृंगारं च करिष्यसि ।
काले गृही तथा काले तपस्वी भव वांच्छया ।। ११ ३।।
विधुरो मंगलायाऽत्र कल्प्यते नहि कुत्रचित् ।
विधुरस्य सस्त्रीकेषु वासोऽपि भयदो भवेत् ।। १ १४।।
समो भूत्वा समेष्वेव मान्यो भवति नाऽसमः ।
समेषु विषमो नश्येत् नश्येयुर्विषमात्समाः ।। १ १५।।
सृष्टिशासनकर्तॄणां गृहस्थानां समानता ।
सदा चापेक्ष्यते तस्मात् सपत्नीको भवाऽधुना ।। ११ ६।।
नहि वै विधुरो भ्राता स्त्रीषु विश्वासभूमिकः ।
नहि यज्ञादिपैत्र्यादिकार्ये योग्यो विना स्त्रीयम् ।। १ १७।।
अमंगलः सदा नारीशून्यो भवति कर्मठः ।
अकर्मठस्तथा नारीयुक्तश्चाऽमंगलो भवेत् ।। १ १८।।
सूष्टिकार्याधिकृतस्त्वं शंभो माऽमंगलो वस ।
सदा सुमंगलो भूत्वा तिष्ठाऽस्मत्सु विचार्य च ।। ११ ९।।
संस्मृत्य कृष्णवचनं सदारो भव शंकर ।
श्रुत्वैवं वचनं विष्णोः स्मृत्वा कृष्णोक्तिमित्यथ ।। 1.171.१२० ।।
नित्यसिद्धशिवाप्राप्तिं धर्मं विचार्य शंकरः ।
प्राह विष्णो करिष्यामि भवदुक्तं सदा हितम् ।। १२१ ।।
मत्वा वचो गरिष्ठं वो नियोगं श्रीहरेस्तथा ।
करिष्यामि विवाहं वै कृष्णवश्योऽस्म्यहं सदा ।। १२२।।
परन्तु यादृशीं कान्तां ग्रहीष्यामि शृणुश्व ताम् ।
या मे तेजो ग्रहीतुं धारयितुं सुदृढा भवेत् ।। १ २३।।
अहं योगी यथा ज्ञानी सापि मत्सदृशी भवेत् ।
रणे योगे च विज्ञाने गुणैश्वर्ये रतौ समा ।। १२४।।
एवं न चेद्विनोद्वाहं स्थातव्यं सुखतः सदा ।
तस्माज्जायां प्रादिश त्वं मत्समा वर्तते यदि ।। १२५।।
तत्राप्येकः पणो मे स्यात् तया भाव्यं तथा मयि ।
अविश्वासो मदुक्ते चेत् मया त्यक्ता भविष्यति ।। १२६।।
इति शंभोर्वचः श्रुत्वा विष्णुर्ब्रह्मा विहस्य तम् ।
प्राहतुर्यादृशी प्रेष्ठा तेऽस्त्यस्माभिः सुमार्गिता ।। १२७।।
गोलोके कृष्णहृदयात् या शिवा नेत्रयोः स्थिता ।
वैराजनेत्रयोः स्थित्वा देवेन्द्रियेषु तैजसी ।। १२८।।
स्थिता या शेषशायिश्रीहरेरिन्द्रियम ण्डले ।
रात्रिर्विभावरी शंभो या शिवा वामगा च ते ।। १२९।।
अपृथक्सिद्धसम्बद्धा सा सती दक्षपुत्रिका ।
त्वादृशी सा भवेद् भार्याऽधिकतेजोबलान्विता ।। 1.171.१३ ०।।
सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ।
त्वां पतिं प्राप्तुकामा सा दक्षगेहेऽस्ति कन्यका ।। १३१ ।।
दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ।
तां विवाहय सुप्रीत्या वरं दत्त्वा यथेष्टदम् ।। १३२।।
अत्रागतानां देवानां संकल्पं परिपूरय ।
मंगलं परमं भूयात् पश्यामश्च तदुत्सवम् ।। १३३।।।
श्रुत्वा तु शंकरः प्राह ओमिति स्वीकृतं मया ।
यामि तपःफलं दातुं भवन्तो यान्तु भो सुराः ।। १३४।
पुनर्वो दर्शनं भाव्यं विवाहोत्सवकर्मणि ।
इत्याज्ञप्ताः सत्कृताश्च ब्रह्मविष्णुसुरादयः ।। १३५।।
दत्वाऽऽशीर्वादवचनं 'सफलोऽस्तु मनोरथः' ।
जग्मुः स्वं स्वं निकेतं ते सस्त्रीकाश्चातिहर्षिताः ।। १ ३६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शंभोर्वैराजललाटादुत्पत्तिः, शिवाया दक्षगृहे प्राकट्योत्तरं ब्रह्मनारदागमः, नारदकथितचिह्नरेखाभिः शिवपत्नी-
त्वनिश्चयेन सत्या वार्षिकतपोव्रतकरणम्, द्वादशे वार्षिकसतीजन्मजयन्त्या उत्सवे ब्रह्मविष्णुसुराणां सस्त्रीकानामागमनं, सतीतपः प्रेक्ष्य ब्रह्मादीनां कैलासगमनं, सतीपाणिग्रहणवरदानार्थं शंकरायोपदेश इत्यादिनिरूपणनामैकसप्तत्यधिकशततमोऽध्यायः ।। १७१ ।।