लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १७३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १७२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १७३
[[लेखकः :|]]
अध्यायः १७४ →

श्रीनारायण उवाच-
शृणु लक्ष्मि हिमाद्रौ तु तयोर्विहरतोस्तदा ।
कामस्मृत्या कामदेवः प्रविष्टस्तत्र सन्निधौ ।। १ ।।
तस्मिन्प्रविष्टे शंभौ च सत्यां च कामना शुभा ।
समभवत्तदा शंभोर्भावं विज्ञाय सर्वथा ।। २ ।।
वसन्तः स्वस्य कर्तव्यं समारेभे हरान्तिके।
मन्दसुगन्धशैत्याढ्यो ववौ च मलयो मरुत् ।। ३ ।।
वृक्षाश्च पुष्पिताः सर्वे लताश्च पुष्पितास्तदा ।
विरेजिरे पलाशाश्च किंशुकैः रक्तकोमलैः ।। ४ ।।
कमलानि विचित्राणि सरःस्वपि विरेजिरे ।
पद्मपुष्पाढ्यपवनो ववौ तत्र हरान्तिके ।। ५ ।।
नागकेशरपुष्पाणि स्वर्णवर्णसुगन्धिभिः ।
मनोज्ञान्यभवँस्तत्र शंकरस्य महात्मनः ।। ६ ।।
सुगन्धगन्धसंपृक्ता नागवल्ली च मारुतम् ।
सती शंकरनिकटे प्रैरयन्मोहकारकम् ।। ७ ।।
कोकिलाश्च तदानीं सुस्वरं जगुर्मनोहरम् ।
आम्राः प्रफुल्लिताः पत्रमंजरीभिर्बभुस्तदा ।। ८ ।।
जलानि निर्मलान्यभिरेजुश्च फुल्लकाशकाः ।
ज्योतिश्चक्राणि संरेजुर्वासन्तिकप्रभादिभिः ।। ९ ।।
कौमुद्या सह रक्ताश्च विभावर्योऽभवन् प्रियाः ।
शाद्वलाः सुप्रदेशाश्चाऽभवन् कामसुखप्रदाः ।। 1.173.१ ०।।
नदीषु च निकुंजेषु कन्दरीषु स्थलीषु च ।
रेमे सत्या समं शंभुर्विरेजे शंभुना सती ।। ११ ।।
रमयामास देवेशं विविधाभिस्तु केलिभिः ।
हरस्तु पुष्पमालाभिः प्रियां शृंगारयत्यपि ।। १ २।।
कबरीकरणैरंके स्वापनैश्चूम्बनैस्तथा ।
सन्तोषयति चालापैर्हास्यवीक्षणमर्दनैः ।। १२ ।।
तद्वक्त्रशश्यधराऽमृतपानमत्ततां गता ।
नानाविधासनसेतुमादिदेश प्रियै तदा ।। १४।।
सत्या वक्त्रसुगन्धेन सौन्दर्येण च नर्मणा ।
प्रेम्णा रत्या सुबद्धोऽयं शंकरः संतुतोष ह ।। १५ ।।
इत्येवं हिमवच्छृङ्गे रमयित्वा सतीं शिवः ।
कैलासमगमत् स्वस्य निवासे शान्तिमावहत् ।। १६ ।।
तापकालो व्यतीतश्च यदा मेघागमोऽभवत् ।
सती प्राह तदा शंभुं शृणु मे वचनं प्रिय ।। १७।।
घनागमोऽयं समयो मेघा वर्षन्ति सर्वदा ।
प्रवान्ति वाता हृद्यं कम्पयन्त्यतिवेगिनः ।। १८ ।।
स्थल्यः सर्वत्र संक्लिन्नाः कर्दमाढ्या अनाश्रया ।
वृक्षा वल्ल्यः प्रभिन्नाश्च समार्द्रा जलसंभृताः ।। १९।।
मेघानां गर्जना विद्युद्विलासाः प्रभवन्ति च ।
मेघच्छन्नौ न दृश्येते सूर्याचन्द्रमसौ दिवि ।। 1.173.२०।।
वाताहता महावृक्षाः पतन्ति त्रासदा भुवि ।
व्याघ्राः सिंहा महाक्रूरा विषवन्तश्च देहिनः ।।२१ ।।
भ्रमन्ति निर्जनेऽरण्ये शीतोष्णाऽनिलवह्नयः ।
एते चान्ये दुःखदाश्च विघ्ना भवन्ति सर्वदा ।। २२।।
तस्मात् क्वचिन्निवासार्थं गृहं कार्यं त्वयाऽधुना ।
यत्रच्छाया सुखशय्या पानभोजनवैभवाः ।। २३ ।।
रक्षितुं च भवेयुर्वै शक्याः सामयिकाः सदा ।
यदि विरामलाभाय सौधं नास्ति जनस्य तु ।। २४।।
तदा को दारवहने लाभोऽस्ति वनवासिनः ।
चक्रवाककपोताद्या पक्षिणोऽपि निराश्रयाः ।।२५।।
प्राप्ते काले प्रकुर्वन्ति गृहाणि वृक्षकोटरे ।
पिपीलिकामूषकाद्याः कुर्वन्ति भूगृहाण्यपि ।। २६ ।।
तस्माद्गार्हस्थ्यधर्मस्यांगभूताऽपत्यरक्षणम् ।
गृहे वै स्यान्निराबाधं सर्वर्तुसुखदे दृढे ।।२७।।
अन्यासां मद्भगिनीनां भवनानि महान्ति वै ।
दिव्यान्यसंख्यस्मृद्धीनि वर्तन्ते नास्ति मे गृहम् ।।२८।।
प्रथमे गृहशून्यत्वं दुःखं संसारसागरे ।
द्वितीयं धान्यहीनत्वं तृतीयं धनशून्यता ।।२९ ।।
चतुर्थं निरपत्यत्वं मालिन्यं पंचमं मतम् ।
षष्ठं रोगकृतमैत्र्यं सप्तमं चाऽगवादिकम् ।। 1.173.३ ०।।
अष्टमं च गृहे क्लेशः सिंहवृषभभोगिनाम् ।
एतद्दुःखाष्टकं मेऽस्ति किं गार्हस्थ्येन योगिनः ।। ३१ ।।
योगी स्यान्न भवेद्भोगी भोगी स्यात् किन्तु योगिता ।
तस्माद्योगफलं दुःखाष्टकनाशे प्रयुज्यताम् ।। ३२।
पश्याऽरण्ये च दावाग्निर्बहुधा जायतेऽत्र वै ।
प्ररोहन्ति च सस्यानि निबीडानि निवासने ।।३३ ।।
श्यामला राजता रक्ता विशदास्तृणजातयः ।
आसनस्थलभूमौ वै प्ररोहन्ति प्रकर्दमाः ।। ३४।।
असमश्रीश्च कुटिला स्थली सेव्याऽतिदुःखदाः ।
निद्रायां रतियोगे वा मध्यरात्रौ भयंकराः ।।३५ ।।
शब्दाः श्रूयन्त उग्राश्च कार्यध्वंसेऽतिदुःखदाः ।
मध्याह्ने तूल्बणस्तापो वर्षाधाराश्च दुःखदाः ।।३६ ।।
पश्य मे पादयोस्तीक्ष्णकण्टकानां च शाश्वती ।
कुटिका संगता तत्र कण्टकाः सन्ति कीदृशाः ।।३७।।
शरीरे पश्य मे मेघकरकाणां च दुर्नयम् ।
पतित्वा छादयन्त्येव शरीरं शैत्यदुःखदम् ।। ३ ८।।
एतस्मिन् विषमे काले नीडं काकाश्चकोरकाः ।
कुर्वन्ति त्वां विना गेहान् कथं शान्तिमवाप्स्यसि ।। ३९।।
महतीवाऽद्य मे भीतिर्मेघोत्था जायते हृदि ।
ततो यतस्व सौधार्थं मा चिरं वचनान्मम ।।1.173.४०।।
भार्या रक्ष्या वने स्थेयं रतिः स्वाद्या न भोजनम् ।
एतत्सर्वं विनाशाय नो सुखाय प्रजायते ।।४ १ ।।
कैलासे वा हिमाद्रौ वा गंगातीरेऽथवा क्षितौ ।
यत्र क्वापि वासयोग्यं भवनं कुरु शंकर ।। ४२।।।
प्राघूणिकाः समागत्य शान्ता भवेयुराश्रमे ।
धनधान्यस्मृद्धिमति यथापेक्षं तथा कुरु ।। ४३ ।।
श्रुत्वा सतीव्याहृतं च मत्वा मनसि सार्थकम् ।
शंभुः प्राह तदा देव्यै रञ्जयन्मानसं मुहुः ।।४४।।
वद देवी यत्र मेघा गच्छन्त्येव नहि क्वचित् ।
तत्र सौधं कारयेयं यदि ते रोचते शिवे ।।४५ ।।
मेघा नितम्बपर्यन्तं संचरन्ति महीधरे ।
मेरौ वा तादृशे शृंगे कुर्वे ते यदि रोचते ।। ४६।।
कैलासस्य तथा देवि नितम्बे प्रायशो घनाः ।
वर्षास्वपि प्रचरन्ति कुर्वे ते तत्र रोचते ।।४७।।
अरुणाचलशृंगै च नितम्बे प्रायशो घनाः ।
संचरन्ति न गच्छन्ति तत ऊर्ध्वं कदाचन ।।४८ ।।
सौराष्ट्रे रैवते शैले स्वर्गशृंगे सुतैजसे ।
यत्र मेघा नितम्बस्था न गच्छन्त्युपरीति वा ।। ४९ । ।
हिमालये शिवशृंगे मेघा गच्छन्ति नैव यत् ।
यत्रास्ति चन्द्रजं शैत्यं कुर्वे सौधं तु रोचते ।।1.173.५ ० ।।
इत्येतेषु गिरीन्द्रेषु त्वया दृष्टेषु प्राग्भवे ।
मनोरुचिर्भवेद्यत्र तमाचक्ष्व द्रुतं हि मे । । ५ १ । ।
यत्र हैमे प्रोच्चशृंगे सिद्धपत्न्यो वसन्ति वै ।
तत्र ते यदि वाञ्छास्ति कुर्वे तत्र महालयम् ।।५२ ।।
स्वर्णशृंगे यत्र देव्यो निवसन्ति सकौतुकाः ।
तत्र ते यदि वाञ्च्छा स्यात् कुर्वे सौधं सुवर्णजम् ।।५ ३ ।।
आरुणे मणिकुट्टे वा लोकालोकेऽथ रैवते ।
नागकन्या गिरिकन्याः किन्नर्यः फणिकन्यकाः ।।।५४।।
गान्धर्व्यश्चाऽप्सरसो विद्याध्र्यः प्रवसन्ति च ।
यत्र तत्र रुचिस्तेऽस्ति कुर्वे स्वर्गोपमं गृहम् ।।६१ । ।
सर्वास्ताः सततं सेवां करिष्यन्ति तव प्रिये ।
अनुमोदैः सहयानैः सहक्रीडादिभिः सदा ।।५६ ।।
रूपं तवेदमतुलं वदनं चारु वीक्ष्य ताः ।
तव दास्यो भविष्यन्ति हेलयित्वा निजं वपुः ।।५ ७ ।।
यद्वा हिमालये मेना बहुरूपगुणान्विता ।
तत्र ते सा मनोमोदं करिष्यत्यतिसेवया ।।५८ ।।
गिरीणां कन्यका हैमे शिक्षार्थं यान्ति नित्यदा ।
तत्र वै शिखरं रम्यं शिवाख्यं यदि रोचते ।। ५९ ।।
विचित्रैः कोकिलालापमोदैः कुजगणावृतम् ।
सदा वसन्तप्रभवं वस्तुमिच्छसि किं प्रिये ।। 1.173.६० । ।
नानाजलसरोयुक्तं सरोजाऽसंख्यताकुलम् ।
कल्पवृक्षाऽमृतवल्लीकामधेनुसमन्वितम् । । ६१ । ।
प्रशान्तश्वापदगणं यतिसाधुसुसेवितम् ।
स्फाटिकस्वर्गहीरकराजतैरुपशोभितम् । । ६ २ । ।
मानसतालहंसाऽश्वव्योमहस्तिनिषेवितम् ।
हिरण्मयै रत्नजालैः पंकजैर्मुकुलैः सुमैः । । ६३ । ।
नीलोत्पलादिभिः पुष्पैर्मंजुलैः सुनिषेवितम् ।
कुंकुमैः सर्वगन्धैश्च लसद्गन्धजलैस्तथा । । ६ ४। ।
शाद्वलैस्तरुणैस्तुङ्गैर्वंशवृक्षैः सुशोभितम् ।
नृत्यद्भिर्वृद्धमयूरैर्गुंजद्भिर्भ्रमरादिभिः । । ६५ । ।
सारसैः कोकिलाभिश्च मधुराऽऽराविभिर्युतम् ।
गायनैः सततं तेषां शब्दायमानमन्वहम् । । ६६ ।।
सहेलीभिः सदायुक्तं कामोद्दीपनकारकम् ।
नूत्ननूत्नसखीयुक्त वस्तुमिच्छसि किं प्रिये । । ६७ । ।
यद्वा मेरोः सुशिखरे सारभूते महाशुभे ।
संविहर्तुं सखीयुक्ता साऽप्सरोगणमण्डिता । ।६८
समिच्छसि तत्र रन्तुं कुर्वे भवनमुत्तमम् ।
नित्यं शची करिष्यति तव सेवां सहायताम् ।। ६९ । ।
जलेशस्य कुबेरस्येशानस्य च यमस्य च ।
अग्नेर्नैर्ऋतदेवस्य मारुतस्य परस्य वा । । 1.173.७० । ।
पुरीभिः शोभिते शृंगे मेरोरुच्चसुरालये ।
शचीरंभामेनकादिरंभोरुगणसेविते । । ७१ । ।
त्वमिच्छसि सविहर्तुं कुर्वे तत्र महालयम् ।
अथवा मम कैलासे पर्वतेन्द्रे सदाश्रये । । ७ २ । ।
स्थानमिच्छसि कुबेरनगरीसन्निधौ शुभम् ।
गंगाजलकणैरार्द्रं पूर्णचन्द्रसमोज्ज्वलम् ।।७ ३ ।।
दरीषु सानुषु द्रोण्यां ब्रह्मकन्याऽभिशोभितम् ।
नानामृगकृताऽऽवासं पद्माकरशतावृतम् । ।७४। ।
मेरोरपि विशेषेण सद्वस्तुगुणमण्डितम् ।
आवयोः सानुकूलं च रचये तादृशं तदा । । ७५ । ।
यत्राऽस्त्यधिकवासेच्छा समाचक्ष्व द्रुतं मम ।
गृह स्वर्णमणिरत्नसम्पत्पूर्णं करोमि वै । ।७६ । ।
सत्युवाच तदा शंभुं हिमाद्रौ वसितुं सदा ।
समीहे नचिरात् तत्र कुरु संवासमिष्टदम् । ।७७। ।
श्रुत्वा शंभुः सतीं नीत्वा तुंगं शृंग ययौ सदा ।
सिद्धांगनागणयुक्तं सरसीवनराजितम् ।। ७८ । ।
विचित्रैः कुसुमैर्व्याप्तं नैकधारत्नकर्बुरम् ।
पक्षिभिर्यदगम्यं वै स्फटिकाऽभ्रमयं च यत् ।। ७९।।
विचित्रपुष्पततिभिः शाद्वलैर्द्रभिरन्वितम् ।
प्रफुल्लतरुशाखाग्र गुंजद्भ्रमरघोषितम् ।। 1.173.८० । ।
पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैर्युतम ।
स्वर्गीयसारसहंसशुकमेनाभिसेवितम् ।।८ १ ।।
तुरंगवदनैः सिद्धैरप्सरोभिश्च सेवितम् ।।
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम् ।।८ २ ।।
पुरन्ध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम् ।
विणाविपञ्चीतन्त्रिकामृदंगपटहस्वनः । ।८ ३ ।।
नृत्यद्भिरप्सरोभिश्च कृतकौतुकशोभितम् ।
देविकाभिदीर्घिकाभिर्गन्धिभिः सुसमावृतम् ।।८४।
प्रफुल्लपुष्पवल्लीनां सुकुंजैरुपशोभितम् ।
हिमालयपुराऽभ्यर्णे कुबेरपुरसन्निधौ । ।८५।।
रम्यं विशालशिखरं स्वर्गतुल्यमनोहरम् ।
शिवशृंगं हरो गत्वा दाक्षायण्या समं मुदा । ।८ ६ ।।
चिरं रेमे कृतसौधः कृतकैलासनामके ।
सप्राकारे महाशाले कैलासनगरे नवे । ।८७।।
विश्वकर्माणमाहूय कारयामास सत्पुरम् ।
कैलासनामकं यत्र भवनानि चकासिरे ।।८८ ।।
स्वर्णरत्नमणिनद्धभित्तिमन्ति दृढानि च ।
शय्यास्थानानि रम्याणि स्नानस्थानानि सन्ति च । । ८९ ।।
शीतोष्णजलकुण्डाश्च वाप्यो मिष्टोदकास्तथा ।
महानसानि रम्याणि वह्निशालास्तथा शुभाः ।। 1.173.९० ।।
भक्ष्यभोज्यादिसामग्रीरक्षास्थानानि सन्ति च ।
शृंगारकार्यसुस्थल्यो हास्यविनोदमण्डपाः । । ९१ ।।
हावभावविलासार्थं गुप्तहर्म्याणि सन्ति च ।
प्राघूणिकनिवासार्थं गृहाणि सुमहान्ति च । । ९२ । ।
निद्राविराममञ्चाढ्यशय्यागृहाणि सन्ति च ।
प्रेंखादोलादिसंराजद्वितर्दीभूमिकोत्तमाः । । ९३ ।।
ग्लहद्यूतादिरङ्गानि समाजरंगमण्डपाः ।
चतुष्क्यश्चोदकुंभ्यश्चाऽट्टालिकाः सन्ति सर्वशः । । ९४।।
उद्यानाश्च गृहोद्याना गृहयानानि वैद्युताः ।
प्रदीपाः श्रावयन्त्राणि दृश्ययन्त्राणि सन्ति च ।। ९५ । ।
वस्त्राणि लक्षशो नैकजातीयानि कृतानि वै ।
पात्राणि स्वार्णरौप्याणि विभूषा रात्नपौरटाः । । ९६ ।।
वेशास्तथोपवेशाश्च कपाटगुप्तसंग्रहाः ।
वायुव्यजनयन्त्राणि कामसंगीतशालिकाः । । ९७ । ।
मनोरंजनमार्गाश्च बहुदृश्याऽऽपणास्तथा ।
कोटिलक्षाऽयुतगणनिवासाः सद्गृहोत्तमाः ।। ९८।।
वाटिकाश्च विहाराश्च राजधान्यः शुभाः कृताः ।
यत्राऽमृतरसा दिव्याः सन्ति ब्रह्मरसास्तथा ।। ९९ ।।
कामोत्तेजकपानाद्याः सद्रसाः सन्ति यत्र वै ।
नवयौवनपुष्ट्यापादकवल्ल्योषधिस्थलम् ।। 1.173.१०० ।।
कामधेनुनिवासाश्च रसशालास्तथा शुभाः ।
वृषभसिंहगरुडगजाश्व वाहनानि च ।। १०१ ।।
कृतानि कारितानि वै कन्याशिक्षागृहाणि च ।
एतादृशो नवस्तत्र कैलासो नगरोत्तमः ।। १०२ ।।
कारितं शंभुना विश्वकर्मद्वारा महोत्तमः ।
यस्याग्रे लोकपालानां सोधाः क्षुद्रास्तदाऽभवन् ।। १०३ ।।
दक्षगृहाच्छतगुणस्मृद्धियुक्तां पुरीं निजाम् ।
विलोक्य वीक्ष्य संलोक्य सती जहर्ष सा मुहुः ।। १ ०४।।
यद्यच्च कल्प्यते वस्तु तत्तत् तत्रोपतिष्ठते ।
न न्यूनं वर्तते किञ्चित् ब्रह्मविष्णुसुरादितः ।। १ ०५।।
राजाधिराजसल्लक्ष्म्या सेव्यते सतीशंकरौ ।
राजेते राजराजेशसम्पत्त्या छत्रचामरैः ।। १०६ ।।
विमानवरमारुह्य क्वचिद्यातः स्थलान्तरम् ।
मेर्वादावन्तरीक्षे च स्वर्गादौ संविहृत्य च ।। १०७।।
गत्वा गत्वा पुनर्नूत्ने कैलासैऽभ्येत्य रेमतुः ।
सतीशौ चैवमानंदं गार्हस्थ्यमनुचक्रतुः ।। १०८ ।।
एवं श्रीशंकरसुखं सत्यपश्यत्स्म सर्वदा ।
श्रीशंभुरपि सर्वत्र समद्राक्षीत्। सतीसुखम् ।। १० ९।।
एवमन्योन्यसंसर्गादनुरागमहीरुहम् ।
वर्धयामासतुः सतीशिवौ भावाऽम्बुसेचनैः ।। 1.173.११० ।।
सती तत्रैकदा शंभुं पप्रच्छ विस्मितानना ।
वैराग्यवृत्तिमापन्ना सन्तुष्टा सुखभोगतः ।। १११ ।।
देवदेव महादेव कृपां कुरु ममोपरि ।
त्वं परब्रह्मतादात्म्यभावाऽऽपन्नोऽगुणः परः ।। ११२।।
धन्याऽहं ते प्रिया जाता जातस्त्वं मे पतिः प्रभुः ।
ज्ञातुमिच्छामि देवेश तत्त्वं येन भवं तरेत् ।। ११३ ।।
यत्कृत्वा विषयी जीवोऽवश्यं व्रजेत्परं पदम् ।
आकर्ण्य तत् शिवोऽवोचत् सतीज्ञानार्थमत्र यत् ।। १ १४।।
शृणु प्रिये प्रवक्ष्यामि तत्त्वं मुक्तो भवेद् यतः ।
परतत्त्वं विजानीहि हरिं नारायणं सदा । । १ १५।।
दुर्लभं तस्य विज्ञानं तज्ज्ञाता विरलः प्रिये ।
नारायणस्य दासोऽहं ब्रह्मणः परमात्मनः ।। ११६ ।।
नारायणस्य भक्तिश्च भुक्तिमुक्तिफलप्रदा ।
स्मर्यसे प्राग्भवे देवि नरनारायणाश्रमे ।। ११ ७।।
गत्वाऽर्हं वैष्णवो जातस्ततस्त्वं वैष्णवी कृता ।
गोलोकाद्वैष्णवश्चाहं पुनर्भावी च वैष्णवः ।। ११८ ।।
त्वया भाव्यं च वैष्णव्या ब्रह्मभक्त्या मम गृहे ।
ब्रह्मधाम्नि स्थितस्याऽस्य नारायणस्य सर्वथा ।। ११९ ।।
स्मृतिर्विज्ञानमेवाराधनोपास्तिश्च सर्वदा ।
मननं चाथ भक्तिश्च प्रेमसेवेति चैकता ।। 1.173.१२ ० ।।
तया वै प्राप्यते नारायणो नान्येन केनचित् ।
सुलभा तत्प्रसादात्मा नवधाऽत्र प्रकीर्तिता ।। १२१ ।।
श्रवणं कीर्तनं चैव स्मरणं सेवनं सदा ।
दास्यं तथाऽर्चनं देवि वन्दनं श्रीहरेस्तथा ।। १२२ ।।
सख्यमात्मनिवेदित्वं नवांगानि च तानि वै ।
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्हरेः ।। १२३ । ।
तदर्थपानं स्थैर्येण यत्तच्छ्रवणमुच्यते ।
श्रुत्वा तदर्थमननं कर्तव्यं फलदं हि तत् ।। १ २४।।
हृदये श्रीहरेर्जन्मकर्माणि चिन्तयन्मुहुः ।
प्रीत्योच्चोच्चारणं तेषामेतत्कीर्तनमुच्यते । । १२५।।
व्यापकं श्रीहरिं ज्ञात्वा स वै सर्वत्र सर्वदा ।
स्मर्यते येन मनसा स्मरणं तदुदाहृतम् ।। १२६ । ।
सर्वथा जाग्रति स्वप्ने वस्तुभिः स्वस्य सुप्रियैः ।
परिचर्या तु या तस्य सेवनं तदुदाहृतम् ।। १२७ ।।
सदाऽनुकूलभावेन हृदयामृतभोगतः ।
हरेः प्रियं यथा वृत्त्यं तद्वै दास्यमुदाहृतम् ।। १२८ । ।
सदा स्मृद्ध्यानुकूल्येन विधिना परमात्मने ।
अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् । । १२९ ।।
नामोच्चारणध्यानाभ्यां मनसा वचसा तथा ।
यदष्टांगेन भूस्पर्शा दण्डवत् वन्दनं हि तत् ।। 1.173.१३० । ।
मंगलाऽमंगलं यद्यत् करोति श्रीहरिर्हि मे ।
सर्वं तन्मंगलायेति विश्वासः सख्यमुच्यते । । १३१ ।।
कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम् ।
निर्वाहाय स्वशून्यत्वं हरावात्मनिवेदिता । । १३२ ।।
नवांगानि हरेर्भक्तेर्भुक्तिमुक्तिप्रदानि च ।
मम प्रियाणि चातीव विज्ञानोत्पादकानि च ।। १३३ ।।
उपांगानि च तद्भक्तेर्बहूनि सन्ति मे प्रिये ।
तुलसीसेवनादीनि मन्दिरमार्जनानि च ।। १ ३४। ।
देवालयप्ररक्षादि समूह्यानि विचारतः ।
इति सांगोपागभक्तिर्हरेः सर्वोत्तमा प्रिये ।। १३५ ।।
ज्ञानवैराग्यजननी मुक्तिदासी विराजते ।
त्रैलोक्ये भक्तिसदृशः पन्था नास्ति सुखावहः ।। १३६ ।।
भक्तिमतो जनस्य श्रीहरिश्चास्ति सहायकृत् ।
भक्तितत्त्वं परतत्त्वप्रापकं तत्त्वमेव तत् ।। १ ३७।।
सा च भक्तिः पुनर्द्वेधा सगुणा निर्गुणा तथा ।
फलेच्छया कृता सर्वा सगुणा परिकथ्यते ।। १३८ ।।
फलेच्छारहिता सैव निर्गुणा भक्तिरुच्यते ।
सा च भक्तिः पुनर्द्वेधा वैधी स्वाभाविकी तथा ।। १३९ ।।
प्रसह्य विधिना कार्या वैधी सा त्वाज्ञया कृता ।
स्वभावेनैव कार्या या स्वाभाविकी तु सा मता ।। 1.173.१४० ।।
सा च भक्तिः पुनद्वैधा परा चाऽथाऽपरा तथा ।
परा साध्यहरिरूपाऽपरा साधनरूपिणी ।। १४१ ।।
नैष्ठिक्यनैष्ठिकी द्वेधा षड्विधा नैष्ठिकी मता ।
विश्वासो वरणं न्यासः कार्पण्यं च स्थिरा मतिः ।। १४२।।।
आनुकूल्यसहकृतप्रातिकूल्यविवर्जनम् ।
षड्विधा नैष्ठिकी भक्तिरनैष्ठिक्येकधा मता ।। १४३ ।।
स्वार्थमात्रकृता भक्तिरनैष्ठिकी प्रकीर्तिता ।
विहिताऽविहिता साऽथ द्वेधाऽऽज्ञा विहिता मता ।। १४४।।
अनाज्ञा चाऽविहितोक्ता पुनर्मध्योत्तमाऽवमा ।
त्रेधा तत्र तरतमैर्भावैर्भवत्यनेकधा ।। १४५।।
हरेर्नामजपसाम्यं नान्ये भवति कुत्रचित् ।
हरिरित्यर्थकं ब्रह्म व्याहरँश्च हरिं स्मरन् ।। १४६
यः प्रयाति त्यजन्देहं स याति परमां गतिम् ।
भक्त्या तुष्यति लोकश्च भक्त्या तुष्यति वै हरिः ।। १४७।।
शृणु देवि मया पूर्वे कल्पे नारायणोपरि ।
युगषष्टिसहस्राणि तपस्तप्तं सुदुश्चरम् ।। १४८।।
तदा नारायणः साक्षादभून्मे दृष्टिगोचरः ।
अतीव कमनीयांगः किशोरः श्यामसुन्दरः ।। १४९ ।।
रूपानुरूपावयवः सुप्रसन्नमनोहरः ।
दृष्ट्वा हरिं तादृशं मे नेत्रे तृप्तिं न वै गते ।। 1.173.१५० ।।
पश्यन्निमेषरहितोऽभवं तृप्तो न वै चिरम् ।
तदा मां भगवान्प्राह किं शंभो नैव तृप्यसि ।। १५१ ।।
गच्छाम्यहं स्वकं धाम वरं वृणु यथेप्सितम् ।
तव भक्त्या च तपसा प्रसन्नोऽस्मि च मा चिरम् ।। १ ५२।।
तदा मयाऽर्थितं नारायणात् शृणु प्रिये मम ।
तवोपभोग्यं यत्स्यात्तन्न मे भोग्यं भवेत्तु प्राक् ।। १५ ३ ।।
तव प्रसादसर्वस्वं मम भोग्यं मतं प्रभो ।
तव दास्यं सदा मे स्यादात्मनिवेदिताऽपि च ।। १५ ४।।
अन्यापि विविधा भक्तिस्तवैव मेऽस्तु मोक्षदा ।
मस्तके मे जटा नित्या तपस्याबोधिकाऽस्तु वै ।। १५५ । ।
शरीरे मे चिताभस्म वैराग्यबोधिकाऽस्तु वै ।
समता चन्दने पंके लोष्ठे रत्ने मणीश्वरे ।। १५६।।
सदास्तु मुकुटाद्या न भूषा धार्या मया प्रभो ।
तत्र सर्पा मया धार्या गरुडद्वेषिणो हरे ।। १५७।।
वाहनं तु वृषो गोलोकात् कृष्णार्पित एव मे ।
पारिजातादिकं पुष्पं सुगन्धि चन्दनादिकम् ।। १५८ ।।
तव योग्यं भवेत्तत्र मे भागः क्वापि मा भवेत् ।
धत्तूरेऽस्तु सदा प्रीतिर्बिल्वपत्रानुधारणे ।। १५९ ।।
गन्धहीनेषु पुष्पेषु प्रीतिर्मेऽस्तु विरागतः ।
वस्त्रवेशे माऽस्तु रागोऽस्तु गजव्याघ्रचर्मणोः ।। 1.173.१६० ।।
दित्यतल्पे दिव्यभोगे माऽस्तु प्रीतिः कदाचन ।
श्मशानेऽस्तु सदा वासो जनतायां न मे क्वचित् ।। १६१ ।।
श्मशाने विघ्नशून्ये मे ध्यानं तव सदा भवेत् ।
ज्ञानं ते श्रीहरे नित्यं गुणत्रयविनाशकम् ।। १६२ ।।
त्रिशूलरूपं मे स्याच्च वैराग्यं भस्मरूपकम् ।
धर्मो मे वृषरूपः स्याद्भक्तिर्मे योगिता त्वयि ।। १६३ ।।
कण्ठहारश्च ते भक्तिविरोधिशिरसां कृतः ।
भूषामालाश्च तेऽयोग्यरुद्राक्ष फलकल्पिताः ।। १ ६४।।
माऽस्तु वृन्दादिवृक्षाणां भोग्यं ते माऽस्तु मत्कृते ।
लक्ष्मीर्देवी मम माऽस्तु किन्त्वलक्ष्मीर्ममाऽस्तु वै ।। १६५ ।।
मिष्टं पेयं हरेर्यत्स्यात् तन्मे माऽस्तु कदाचन ।
ममाऽस्तु विषधत्तूरगंजाभंगादिकं सदा ।। १६६ ।।
इत्येवं तु मया सर्वं तपःकाले प्रपार्थितम् ।
हरिणा च प्रदत्तं तद्वरदानं शुभाय मे ।। १ ६७।।
प्रभक्तानां प्रशिक्षार्थं दासभक्त्यभिव्यंजकम् ।
असुराणां विमोहार्थं रक्षितं तु तदाज्ञया ।। १६८ ।।
तस्मात् सति! त्वया दास्ये हरेर्वृत्त्यं न चाऽन्यथा ।
शृणु चान्यां कथां श्रेष्ठां हरेः प्रसादगर्भिताम् ।। १६९ ।।
सनत्कुमारो वैकुण्ठमेकदा तु जगाम ह ।
ददर्श भुक्तवन्तं च हरिं नारायणं मुनिः ।। 1.173.१७० ।।
तुष्टाव गूढैः स्तोत्रैश्च प्रणम्य भक्तिपूर्वकम् ।
अवशेषं ददौ तस्मै सन्तुष्टो भक्तवत्सलः । । १७१ ।।
तत्रैव किंचित्तेनैव भुक्तं शेषं च यद्धृतम् ।
तद्वै ररक्ष बन्धूनां भक्षणार्थं च दुर्लभम् ।। १७२।।
तस्मादपि च किंचिच्च सिद्धाश्रमस्थिताय मे ।
दत्तवान् स मुनिस्तच्च भुक्तं सर्वं मयाऽऽदरात् ।। १७३ ।।
भुक्त्वाऽहं दुर्लभं हरेः प्रसादं नृत्यमाचरम् ।
पुलकांकितसर्वांगः साश्रुनेत्रोऽभवं मुदा । । १७४ । ।
श्रीहरेर्गुणगानं च तालमानेन सुस्वरम् ।
रागभेदैकतानेन भक्त्या चाऽकरवं तदा ।। १७५।।।
पपात डमरुर्हस्ताच्छृंगं च व्याघ्रचर्म च ।
स्वयं निपत्य पश्चाच्च रुदन्मूर्छां गतोऽप्यहम् ।। १७६ ।।
अतीव कमनीयं श्रीहरेः रूपं मनोहरम् ।
हृदये मूर्छितस्तत्र ध्यायामि तावदेव ह । । १७७ । ।
तदन्तरे च दुर्गा त्वं मुदाऽऽजगाम भामिनी ।
अहमुत्थाय मूर्छातो यावत्तिष्ठामि भामिनि! ।। १७८ ।।
तावन्मूर्छाकरं तत्र कारणं पृष्टमेव मे ।
मया तुभ्यं तु कथितं प्रसादलाभ एव यत् ।। १७९ ।।
ज्ञात्वा त्वं कुपिता देवि! प्रोक्तवती च मां तदा ।
त्वं पोष्टा जगतां पाता ममैव च विशेषतः । । 1.173.१८० ।।
वक्ता चतुर्णां वेदानां दाता च सर्वसम्पदाम् ।
त्वं चेत्करोषि दुर्नीतिं को धर्मं रक्षयिष्यति । । १८१ । ।
सदा ते परिपाल्याऽहं पोष्या भक्ता च किंकरी ।
वंचिता कर्मदोषेण हरेः प्रसादभक्षणे ।। १८२ ।।
किंचिच्छुद्धं हिरण्येन किंचिच्छुद्धं च वायुना ।
किंचित्प्रक्षालनेनैव सर्वं विष्णोर्निवेदनात् । । १८३ ।।
विष्णोर्निवेदिताऽन्नेन यष्टव्याः सर्वदेवताः ।
पितरोऽतिथयश्चैवमिति वेदेषु निश्चितम् । । १८४।।
अनिवेद्यमभक्ष्यं च नैवेद्यं भक्ष्यमेव हि ।
एवमश्नाति यो भक्त्या पार्षदप्रवरो भवेत् ।। १८५।।
अमृतं सर्ववस्तूनामिष्टसारं सुदुर्लभम् ।
विष्णोर्निवेदितान्नस्य कलां नाऽर्हति षोडशीम् । । १८६ ।।
हन्त्यकालिकमृत्युं तदमृतं मूढरंजनम् ।
नैवेद्यं च हरेरेव हरितुल्यं करोत्यहो ।। १८७ । ।
यदृच्छया तन्नैवेद्यं यो भुंक्ते साधुसंगतः ।
षष्टिवर्षसहस्राणां प्राप्नोति तपसः फलम् ।। १८८ ।।
यो निवेद्य हरिं भुंक्ते भक्त्या भक्तश्च नित्यशः ।
स पंक्तिपावनो बोध्यः स हरेस्तेजसा समः ।। १८९ । ।
नाऽहं वेदविधात्र्यस्मि किमहं वक्तुमीश्वरी ।
सुचिरं तु तपस्तप्त्वा मया लब्धस्त्वमीश्वरः ।। 1.173.१९० ।।
त्वया विष्णोः प्रसादेन वंचिताऽहं कथं प्रभो! ।
इत्यभिधाय दुर्गा त्वं रोदनं कृतवत्यसि ।। १९१ । ।
ततोऽहं त्वां परप्रेम्णा कृत्वा वक्षसि सादरम् ।
करेण चक्षुषोर्नीरं संमृज्याऽबोधयं मुहुः । । १९२ ।।
परितुष्टा तदा त्वं मां भर्तारमुक्तवत्यसि ।
कलेवरं च त्यक्ष्यामि नैवेद्येन विना हरेः । । १९३ । ।
बिभर्मि देहं सततं तव सौभाग्यवर्धनम् ।
कथं वहामि सौभाग्यरहितं तु कलेवरम् । । १ ९४।।
अपूर्वं हरिनैवेद्यं जन्ममृत्युजराहरम् ।
मह्यं दत्तं न वै यस्मात्पश्य देहं त्यजाम्यहम् । । १९५ । ।
इत्युक्त्वा त्वं महादेवि देहं त्यक्तुं समुद्यता ।
तदा मया स्तुता त्वं वै महादेवि! स्थिरा भव । । १९६ । ।
ममाऽपराधमखिलं क्षन्तुमर्हसि सुन्दरि! ।
मां भृत्यं तपसा क्रीतं कृपां कुरु ममोपरि । । १९७ ।।
इच्छैव श्रीहरेः साक्षान्नाऽहं दातुमपि क्षमः ।
श्रुत्वैवं श्रीहरेरिच्छां दुर्गा तुष्टा बभूव सा । । १९८ । ।
ततो जगाम तूर्णं स्वर्णदीं स्नानार्थमित्यथ ।
स्नात्वा सम्पूज्य भक्त्या च कृत्वा पक्वान्नमित्यथ ।। १९९ । ।
नैवेद्ये मेऽर्पितवती तदा नारायणोऽप्यहम् ।
गत्वा सर्वमहं भुक्त्वा तस्यै दत्वाऽभिवाञ्छितम् ।। 1.173.२०० ।।
आजगाम च वैकुण्ठं लक्ष्मि! प्रसादमेव तम् ।
भर्त्रे दत्वा च शेषं यद् दुर्गा भुक्तवती च तत् ।। २०१ । ।
एवं शिवाशिवौ भक्तौ प्राग्भवीयौ हि वैष्णवौ ।
वर्तेते सर्वदा मग्नौ यन्मूर्तौ योगिनौ परौ । । २०२।।
न संवसामि गोलोके वैकुण्ठे तव वक्षसि ।
सदा शिवस्य हृदये निबद्धो भक्तिपाशतः । । २०३ । ।
स्वरसिद्धं सुतानेन पञ्चवक्त्रेण शंकरः ।
शश्वद्गायति मद्गाथां तेनाऽहं तद्धृदि स्थितः । । २०४ ।।
मम भक्तिं च दास्यं च मुक्तिं च सर्वसम्पदः ।
मय्येवायं सर्वसिद्धीः समर्पयति शंकरः । । २ ०५ ।।
पञ्चवक्त्रे मन्नाम यो हि गायत्यहर्निशम् ।
मद्रूपं ध्यायति शश्वन्न भक्तः शंकरात्परः ।। २०६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने सतीशिवयोर्हिमाचले विहारः गृहनिर्माणार्थं सतीप्रार्थनागृहयोग्यपर्वतादिनामानि, हिमालये कैलासपुरीनिर्माणं, सतीकृतसंसारतरणप्रश्रः शिवोक्तहरिनवधाभक्तिः शिवकृतपूर्वकल्पीयतपसा हरिदर्शनं, हरिभोग्यं शिवस्याऽभोग्य-
मितिधत्तूरभस्मादिधारणं, पार्वत्योक्तहरिनैवेद्यमहिमेत्यादिनिरूपणनामा त्रिसप्तत्यधिकशततमोऽध्यायः ।। १७३ । ।