लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १५५
[[लेखकः :|]]
अध्यायः १५६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! महालक्ष्मीः परवैकुण्ठवासिनी ।
यथा नारायणेनैव सहाऽऽजगाम रैवते ।। १ ।।
बलिर्यदा हरिणा वै बद्धस्तदाऽत्र रैवते ।
मण्डपे तु बलेः पत्नी सस्मार परमेश्वरीम् ।। २ ।।
महालक्ष्मीं तदा स्तोत्रैर्बलेर्बन्धनिवृत्तये ।
महावैकुण्ठधामस्थो प्रह्वीभावेन हृद्गताम् ।। ३ ।।
सन्ध्यावली प्राञ्जलिस्तां नत्वा हृदि जगाद च ।
नमो मात्रे महालक्ष्म्यै त्राहि भक्तं च मे पतिम् ।। ४ ।।
नमः प्रकृतिसंज्ञायै मूलायै ते नमोनमः ।
संहर्त्र्यै ब्रह्ममात्रे ते कुक्षिसृष्ट्यै नमोनमः ।। ५ ।।
वामना वापि दीर्घाश्च नारायणास्तु ते मुखे ।
महाकालादयश्चापि सन्ति ग्रासाश्च ते नमः ।। ६ ।।
संकर्षणास्तथा रुद्रा यमाश्चैव तवाऽऽनने ।
दंष्ट्रैकचर्वणाः सर्वे महामात्रे नमोनमः ।। ७ ।।
वासुदेवस्तथा भूमा नारायणाश्च पूरुषाः ।
त्वत्पल्लताताडितास्ते महाशक्त्यै नमोनमः ।। ८ ।।
त्वत्तो लक्ष्मीः समुत्पन्ना महाविष्णुस्त्वदंकजः ।
ब्रह्माण्डानि च ते रोम्णि रक्ष लक्ष्म्यै नमोनमः ।। ९ ।।
महाग्नयस्तु ते गुप्ते त्वत्स्वेदे वाडवाऽनलाः ।
भगवन्तश्च ते गर्भे चण्डलक्ष्म्यै नमोऽवतु ।। 1.155.१०।।
जृम्भे ते प्रलयाः सन्ति चण्डे कालः प्रकम्पते ।
चूर्णायन्ते महाण्डानि पृष्ठम्नीडे नमोऽस्तु ते ।। १ १।।
रक्ष रक्ष महामाये पतिं मे परमेश्वरि ।
चण्डी तण्डी महामुण्डी घमण्डी डिण्डिकादिकाः ।।।१२।।
कालीकरालीप्रज्वालीलिहालीरक्तिलादिकाः ।
शक्तयस्ते रक्तलेशः पाहि कान्तं द्रुतं कुरु ।। १३ ।।
पाहि शीघ्रं चान्यथा त्वां गलं निकृत्य पूजये ।
यद्यहं विधवा स्यां चेत् पूर्वं त्वं विधवा भव ।। १४।।
यद्यहं राज्यशून्यां स्यां त्वं वैकुण्ठं विना भव ।
यद्यवमानितो राजा स्यात्पतिस्तेऽप्यमानितः ।। १५।।
मद्यज्ञे चेद् भवेत् विघ्नं तव यज्ञे तथाऽस्तु वै ।
वदत्येवं चण्डवेगा द्रवृण्वन्त्यपि सभासदः ।। १६।।
मा मेत्येवं तदा देवा निवारयन्ति तां स्त्रियम् ।
तावत् तत्रागता पत्नी महालक्ष्मीर्महाप्रभोः ।। १७।।
सान्त्वयित्वा च तां राज्ञीं पतिता खर्वपादयोः ।
मा मैवं देव चात्यन्तं मा भक्तस्य हर प्रभो ।। १८।।
वामनश्च तदा प्राह नैनं वै मारयाम्यहम् ।
राज्यभ्रष्टं च नैवाऽहं करोम्येनं सुसेवकम् ।। १९।।
सन्ध्यावली सदेवाऽस्तु सुसौभाग्यवती प्रिये ।
दैत्योऽयं दैत्यराज्यं वै करोतु सुतले प्रिये ।।1.155.२०।।
वैकुण्ठं यद्यहं त्यक्ष्ये निवत्स्ये तद्बलेर्गृहे ।
त्वया सह महालक्ष्मि राज्ञी सेवां करोतु मे ।।२ १।।
देवराज्यं तु देवेभ्यो दैत्यराज्यं तु तद्बलौ ।
दत्त्वा निधाय गन्तव्यं सन्ध्यावल्याः शुभं भवेत्। ।।२२।।
तदा तु दैत्यवर्यैः सा महालक्ष्मीः प्रपूजिता ।
देवैश्च पूजिता माता सर्वसौभाग्यरक्षिका ।।२३।।
वामनेन समं साऽपि रैवतेऽभ्यर्थिता च तैः ।
सदोषिता महालक्ष्मीः सर्वसौभाग्यहेतवे ।।२४।।
रैवतात्पश्चिमे तत्रोच्छ्राये नित्य व्यवस्थिता ।
महामाया महालक्ष्मीः प्राणरक्षणकारिणी ।।२५।।
वन्दिता पूजिता पुष्पकुंकुमाक्षतचन्दनैः ।
सिन्दूरश्रीफलवस्त्रशाटीतैलसुगन्धिभिः ।।२६।।
तथा सौभाग्यद्रव्यैश्च भोजनैर्विविधैः शुभैः ।
आभरणकटकोर्मिशृंरवलात्रोटिकादिभिः ।।।२७।।
पेयैर्नानाविधैश्चैव कंचुकीशाटिकादिभिः ।
मंगलसूत्रकर्णादिभूषणादिभिरादरात् ।।२८।।
प्रसन्ना सा महालक्ष्मीर्दीपोत्सवदिने सदा ।
असौभाग्यममांगल्यमनर्थं चेति हस्ति सा ।।२९।।
ददाति कुशलं राज्यं कान्तं पुत्रं धनं तथा ।
पूजनार्थं महालक्ष्म्या मूर्तिः कार्या चतुर्भुजा ।। 1.155.३०।।
पौरटी सुस्वरूपा च रम्या षोडशहायना ।
पद्मामृतघटकरा पूजापात्रकरा तथा ।।३ १।।
अभयदानहस्ता च दक्षयोर्वामयोः क्रमात् ।
षोडशोपपरिचारवस्तुभिः पूजयेत् तु ताम् ।।३२।।।
नैवेद्यं फलताम्बूलं दत्त्वा नीराजयेत् ततः ।
भोजनानि विविधानि दातव्यानि च दक्षिणाः ।।३३।।
दानानि रत्नहीरकमणिस्वर्णमयानि च ।
वस्त्राणां च दुकूलानां कम्बलानां गवां तथा ।।।३४।।
तस्याऽक्षयं भवेत्पुण्यं महालक्ष्मीप्रतापतः ।
अन्ते वैकुण्ठवासः स्याद् भुक्त्वा भोगाननेकशः ।।३५।।
कन्यका द्वादशवर्षपूर्वा लक्ष्मीस्वरूपिकाः ।
पूजनीया यथालक्ष्मीर्वस्त्रान्नधनदापनैः ।।३६।।
भोजनीयास्तथा भूषालंकारद्रव्यशोभिताः ।
विविधैर्मिष्टपक्वान्नपायसान्नादिसद्रसैः ।।३७।।
भोजनीयास्तथा साध्व्यो विरक्ताः सांख्ययोगगाः ।
पूजनीयाश्च दातव्य विविधं दानमिष्टकृत् ।।३८।।
सति वै विभवे तत्र सापत्यसधवाः स्त्रियः ।
विधवाश्चापि दीनाश्च शरण्याश्च निराश्रिताः ।। ३९।।
भोजनीयाः पूजनीया दापनीयाश्च दक्षिणाः ।
सम्माननीयाः सततं यत्तृप्तौ श्रीश्च तृप्यति ।।1.155.४० ।।
महालक्ष्म्यां प्रसन्नायां सर्वा स्मृद्धिर्विवर्धते ।
न्यूनं किञ्चिद्भवेन्नैव यद्यत्त्वपेक्षते मिलेत् ।।४१ ।।
अलक्ष्मीं द्रावयत्येषा गृहात् सर्वां प्रपूजिता ।
शृणु लक्ष्मि! कथां तेऽत्र समुद्रमथने तु या ।।४२।।
जाता तां कथयाम्यद्य प्रसंगात्सुखदायिनीम् ।
दुर्वाससा प्रदत्तां तु पारिजातसुमालिकाम् ।।४३।।
इन्द्रश्चिक्षेप करिणो मूर्ध्नि गजेन पत्तले ।
कच्चरितां तु तां दृष्ट्वा शशाप द्युपतिं ऋषिः ।।४४।।
मालाऽवमानकर्तुस्ते लक्ष्मीर्नष्टा भवत्विति ।
अन्तर्दधे क्षणाल्लक्ष्मीः पेतुः रत्नानि वारिधौ ।।४५।।
तदुद्धाराय दुग्धाऽब्धिर्मथितो देवदानवैः ।
मन्दराद्रिस्तदा पृष्ठे कूर्मात्महरिणा धृतः ।।४६।।
मन्थनादुदभूत् प्रमवै कालकूटं महाविषम् ।
तत्सर्वं पीतवानीशो ममन्थुः पुनरेव तम् ।।४७।।
तस्मिन् प्रमथ्यमाने तु मया देवैश्च पद्मजे ।
ज्येष्ठा देवी समुत्पन्ना रक्तस्रग्वाससाऽऽवृता ।।४८।।
अलक्ष्मीः सा भगिनी ते ज्येष्ठा देहेऽप्यसुन्दरी ।
किरातीसदृशी रूपे धीवरीसदृशी मुखे ।।४९।।
कृकलाससमा कर्णे नालिकाभा तथा नसि ।
महिषीसदृशी नेत्रे राक्षसीव तु मस्तके ।।1.155.५०।।
खग्राससदृशी भाले मषीतुल्या तु गण्डयोः ।
शूलाग्रसदृशी दन्ते उष्ट्रीनिभा तु चोष्ठयोः ।।५ १ ।।
हस्तिनीसदृशी कण्ठे गर्दभीसदृशी स्वरे ।
वर्बुरद्रुनिभा हस्तं वल्मीकाभा स्तनद्वये ।।।५२।।
कुसूलतुल्याऽप्युदरे शिलातुल्या तु पृष्ठके ।
तैलियन्त्रसमा कट्यां खर्जूरद्रुनिभा पदे ।।५३।।
जलौकाभा चांगुलीषु कृर्मपृष्ठनिभा नखे ।
दर्दुरीभा तु जिह्वायां स्वभावे तु शुनीसमा ।।५४।।
दरिद्राभा प्रसादे च हास्ये कंगालसदृशी ।
चर्मकारीनिभा वस्त्रे चण्डालाभा निवासने ।।५५।।
रिक्तजलनिखाताभा जम्भणे म्रोडने खनिः ।
भाण्डीनिभा सहवासे विवाहे क्षारभूनिभा ।।५६ ।।
संवादे रणभूसाम्या वैमनस्ये समृद्धिभा ।
दृष्ट्वैनां तत्रसुस्तत्र देवदानवमानवाः ।।५७।।
विचारं चक्रिरे केयं सर्वाऽमंगलभूषणा ।
कालरात्रिर्महामारिः किंवा प्रलयक्षुत् त्वियम् ।।५८।।
हस्ते मालां शंखलानां गृहीत्वा पतिमिच्छति ।
गच्छतीतस्ततस्तावत्पतिं मृगयितुं यदा ।।५९।।
दृष्ट्वा सुराऽसुराः सर्वे दूरं धावन्ति नेच्छुकाः ।
नेयं नेतो याहि मा मामन्यं गच्छेतिवादिनः ।।1.155.६०।।
यदा कैश्चित् स्वीकृता न वरमाला निरीहया ।
निराशा प्राह मे वासो दीयतां क्वापि यत्र नु ।।६१।।
उत्पन्नाऽहं निरर्थाऽहं किं कर्तव्यं मयेति च ।
तामब्रुवँस्तदा देवीं सुराऽसुरगणा द्रुतम् ।।।६२।।
येषां गृहान्तरे नित्यं कलहः संप्रवर्तते ।
तत्ते स्थानं प्रयच्छामो वस तत्राऽशुभान्विता ।।६३।।
यस्य गेहेऽभिचारार्थं कपालाऽस्थिप्रपूजनम् ।
परुषं भाषणं यत्र मन्त्रतन्त्राभिमारणम् ।।६४।।
अनृतं साहसं द्यूतं पानं च मृगया मदः ।
मातापित्रोरसेवा च गुरोश्चैवाऽवमाननम् ।।६५।।
स्त्रीबालानां च निःश्वासाः क्लेशः कुटुम्बिबान्धवे ।
व्यभिचारश्च यत्रास्ति पंक्तिभेदोऽस्ति यत्र च ।।६ ६ ।।
तेषां वेश्मनि सन्तिष्ठ दुःखदारिद्र्यदायिनी ।
गवादिस्ववशप्राणिनिःश्वासा यत्र सन्ति वै ।।६७।।
आश्रितानां पालनं च यत्र नीत्या न जायते ।।
श्वश्रूश्वशुरयोश्चैव पतिपत्न्योश्च पुत्रयोः ।।६८।।
पुत्रपित्रोश्च भ्रात्रोश्च मातृपुत्र्योः परस्परम् ।
स्वस्रोर्यत्र वैमनस्यं तत्र संतिष्ठ हानिदे ।।६९।।
कुटुम्बिजनवर्गेषु चौर्येण व्ययशीलता ।
स्वस्वस्वत्त्वप्रवृत्तिश्च गृहे यत्र कुटुम्बिनि ।।1.155.७० ।।
स्वगृहमपि पारक्यं स्वजनो मनुते तु यत् ।
आलस्यं कार्यकरणे चान्याधारा च जीविका ।।७१ ।।
वृद्धानां वचनं यत्र मान्यं भवति नैव च ।
स्नानं देवस्य पूजादि जपो यत्र न विद्यते ।।७२।।
उत्सवा मानुषा दैवा वार्षिका यत्र सन्ति न ।
लोभोऽधर्मव्ययो यत्र तत्र तिष्ठ सुखी भव ।।७३ ।।
प्राणिनां हिंसनं यत्र सतां यत्र च निन्दनम् ।
धर्मद्रोहश्च नास्तिक्यं वस तत्र कलिप्रिये ।।७४।।
यत्र नाऽतिथिसत्कारो यत्र शुद्धिर्न विद्यते ।
मालिन्यं वर्तते यत्र तथा यत्र निरुद्यमः ।।७५।।
यत्र क्षणे क्षणे क्रोधो यत्र विषयतृष्णिका ।
यत्र जैह्व्यं तथौपस्थ्यं व्यसनं सीमवर्जितम् ।।७६।।
दासदासीकर्मचारिपीडनं न्यायतो बहिः ।
पशुपक्षिगोमहिषीगजाश्वादिप्रपीडनम् ।।७७।।
गृहजनेष्वविश्वासस्तत्र वासो विधीयताम् ।
यत्र श्राद्धं न भवति न च पिण्डप्रदानकम् ।।७८।।
स्वाहास्वधावषट्कारक्रिया यत्र न विद्यते ।
भूतयज्ञो ब्रह्मयज्ञो देवयज्ञो न यत्र वै ।।७९।।
दाराऽपत्यगृहस्वाम्यमात्यभृत्येषु चाऽनृतम् ।
लुचाभक्ष्यं भवेद्यत्र यत्र द्रोहः परस्य च ।।1.155.८० ।।
रक्ष्यस्याऽरक्षणं यत्र पोष्यस्याऽपोषणं तथा ।
दण्ड्यस्याऽदण्डनं यत्र तत्र वासो विधीयताम् ।।८ १ ।।
देवद्विजगवां वृत्तिहारकाणां गृहे सदा ।
अनाथकृपणाऽन्धानां दुःखकृतो गृहे वस ।।८२।।
साधुसाध्वीयतियोगिविरक्तद्रोहकृद्गृहे ।
दानधर्मनिषेधस्य कर्तॄणां च गृहे वस ।।८३।।
देहचौर्यमनश्चौर्यहृच्चौर्यस्य गृहे वस ।
अन्यायोपार्जयितुश्च कृटतुलाधरस्य च ।।८४।।
कृटसाक्ष्यकृतो गेहे सदा वासो विधीयताम् ।
विदुषामवमानयितुर्गृहे वस सर्वदा ।।८५।।
चतुर्दशसु लोकेषु यत्राऽन्यायोऽविवेकिता ।
पूज्यपूजाव्यतिक्रमस्तत्र वासो विधीयताम् ।।८६।।
पण्ये कपटसम्मिश्रे व्यापारे कपटान्विते ।
आचारे कपटाऽऽदिष्टे सदा वासो विधीयताम् ।।८७।।
यत्र राजा धर्मपक्षी प्रजा साहसभक्षिणी ।
राष्ट्रं हृदयभक्षि स्यात् तत्र वासः सदा तव ।।८८।।
यत्र कन्याविक्रयस्य जीर्यते ह्युदरे धनम् ।
नारीविक्रयवृत्तिश्च तत्र वासः सदा तव ।।८९।।
शीलव्रतं न यत्रास्ति हृदयं नैव निर्मलम् ।
पदक्रमोऽपि कापट्यात् शाठ्ये वासः सदा तव ।।1.155.९०।।
रागद्वेषप्रयुक्तो वै दिवसो यस्य गच्छति ।
अधर्मस्य च यत्रास्ति वंशस्तत्र सदा वस ।।९१ ।।
कृतघ्नस्य वञ्चकस्य पाशकस्याऽऽततायिनः ।
अग्निदस्य गरदस्य हन्तुरन्यायतस्तथा ।।९२।।
विधर्मस्थस्य सदने ध्रुववासो विधीयताम् ।
परगुप्तप्रकाशकगृहे वासः दुष्टगृहे तथा ।।९३।।
अन्नवस्त्रभुवां दानाऽकर्तुर्गृहे सदा वस ।
पिशूनस्य भेदकस्य क्लेशकृतो गृहे वस ।।९४।।
राज्ये राष्ट्रे तथाऽरण्ये वाटिकासु वनेषु च ।
उद्याने च कृषिक्षेत्रे पर्वते च स्थले जले ।।९५।।
वृक्षे सस्ये तथा बीजे रत्ने स्वर्णे रसे रणे ।
संग्रामे चोत्सवे दैवे मानुषे वा स्थले जले ।। ९६।।
तीर्थे भोज्ये व्यवहारे क्रये च विक्रये तथा ।
विद्यायां च कलायां च शिल्पे ऋतौ च वर्षणे ।।९७।।
यत्राऽधिपः शठो धूर्तः कितवश्चौर उल्बणः ।
दुष्टोऽन्यायी महापापी तत्र तत्र सदा वस ।।९८।।
किं बहुना त्वदुक्तेन यत्र हिंसाऽनृते तथा ।
स्तेयव्यवायगृध्नाश्चाऽशुद्धिस्तृष्णा विनिन्दनम् ।।९९।।
तत्र वासः सदा तेऽस्तु लक्ष्म्या वासो न यत्र च ।
इत्युक्त्वा तां ददुः देवा उद्दालकाय चर्षये ।। 1.155.१०० ।।
विसर्जयामास पत्या सहाऽलक्ष्मीं ततः पुनः ।
ते सर्वे मन्थनं चक्रुः क्षीराब्धेः सुसमाहिताः ।। १०१ ।।
ततश्च वारुणी देवी समुत्पन्ना शुभानना ।
अनन्तो नागराजोऽथ तां जग्राह सुलोचनाम् ।। १०२।।
ततश्च गारुडी देवी समुत्पन्ना सुलक्षणा ।
वैनतेयस्य भार्याऽभूत् सर्वलक्षणशोभिता ।। १ ०३।।
ततोऽप्सरोगणा दिव्या गन्धर्वाश्च महौजसः ।
जज्ञिरे रूपसम्पन्ना मधुगायनतत्पराः ।। १ ०४।।
ऐरावतस्ततो जज्ञे तथैवोच्चैः श्रवाहयः ।
धन्वन्तरिः पारिजातः सुरभिः सर्वकामधुक् ।। १ ०५।।
एतान् सर्वान् सहस्राक्षो जग्राह सर्वमानितः ।
ततः प्रभातसमये द्वादश्यामुदिते रवौ ।। १० ६।।
उत्पन्ना श्रीर्महालक्ष्मीर्मथ्यमाने महोदधौ ।
ततश्चन्द्रस्ततो जाता तुलसी या हरिप्रिया ।। १०७।।
तुलस्या सह मा लक्ष्मीर्वरयामास केशवम् ।
ततः प्रोवाच भगवान् सर्वाश्चैव महामुनीन् ।। १ ०८।।
एकादशी महापुण्या सर्वोपद्रवनाशिनी ।
तस्मात्तु सर्वदा पुण्या द्वादशी मम वल्लभा ।। १० ९।।
अद्यप्रभृति ये लोका एकादशीमुपोष्य च ।
द्वादश्यामुदिते भानौ श्रद्धया परया युताः ।। 1.155.११० ।।
ये पूजयन्ति मां भक्त्या तुलस्या च श्रिया सह ।
सर्वे ते बन्धनिर्मुक्ताः प्राप्नुवन्ति पदं मम ।। ११ १।।
नार्चयन्ति च ये वै मां द्वादश्यां पुरुषोत्तमम् ।
तान्पापान्विषयैर्बद्ध्वा मम माया दुरत्यया ।। १ १२।।
क्षिपत्यजस्रं संसारे नास्तिकान्मत्पराङ्मुखान् ।
समुद्रात्सा यदा लक्ष्मीर्द्वादश्यां समजायत ।। ११२ ।।
तदाप्रभृति ऋषयो देवा ब्रह्मपुरोगमाः ।
सिद्धा ये मानुषाश्चैव योगिनो मुनिसत्तमाः । । १ १४।।
विष्णोराज्ञां पुरस्कृत्य भक्त्या परमया युताः ।
एकादश्यामुपोष्याथ भक्त्या चैव जनार्दनम् । । १ १५।।
द्वादश्यामर्चयामासुर्लक्ष्मीनारायणं तु माम् ।
द्वादशीवासरस्तेऽस्ति ममापि वासरो हि सः ।। १ १६।।
हरिवासर इत्युक्तो लक्ष्मीवासर इत्यपि ।
दम्पत्योस्तु सदैवैक्यात् किमन्यछ्रोतुमिच्छसि ।। १ १७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रैवताचले महालक्ष्म्यागमनं तस्याः पूजनदानादि, समुद्रमथने
ऽलक्ष्म्या उत्पत्तिस्तत्स्वरूपं तन्निवासस्थानानि, ततो लक्ष्मीतुलसीप्रादुर्भावे द्वादशीमहिमेत्यादिनिरूपणनामा पंचपंचाशदधिकशततमोऽध्यायः ।। १५५।।