लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १५६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५५ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १५६
[[लेखकः :|]]
अध्यायः १५७ →

श्रीलक्ष्मीरुवाच-
भगवन् श्रोतुमिच्छामि द्वादश्याश्च विधानकम् ।
विष्णोः पूजादिकं सर्वं कर्तव्यं च यथा प्रभो ।। १ ।।
तस्याः पुण्यप्रभावं च समाचक्ष्व मम प्रिय ।
मम व्रतप्रभावस्तु श्रोतव्यः सर्वथा मया ।। २ ।।
श्रीनारायण उवाच-
शृणु लक्ष्मि! कथयामि तव जन्मदिनव्रतम् ।
तव व्रतस्य संकल्पात् सन्तुष्टः स्यामहं सदा ।। ३ ।।
एकादशी मम पत्नी ममांऽगेभ्यो व्यजायत ।
तथैव त्वं मम पत्नी मम वामांगसंभवा ।। ४ ।।
पुनः समुद्रतो जाता ह्यब्धिजा कथ्यसे तदा ।
अरुणाद्रौ च पद्माख्या भृगोः पुत्री तु भार्गवी ।। ५ ।।
प्रेम्णो जाता कंभरा त्वं खनेर्जाता सुवर्णिका ।
वारं वारं प्रसूतापि रमा वैकुण्ठवासिनी ।। ६ ।।
मम पत्नी सदा दिव्या यत्राऽहं त्वं च तत्र वै ।
गृहे गृहे स्थिता त्वं तु मां विना नैव तिष्ठसि ।। ७ ।।
यदा मया परे धाम्नि परब्रह्मस्वरूपिणा ।
स्वस्माद् रूपं द्वितीयं वै रमणार्थं समीहितम् ।। ८ ।।
तदा त्वं मम वामांगस्थिताऽदृश्या मदिच्छया ।
मत्स्वरूपादिषदन्न्यूना सेविका समजायथाः ।। ९ ।।
रूपे गुणे तथैश्वर्ये सुखे भोगे विलासने ।
न न्यूना प्रमदाभावे पुंभावन्यूनता तु या ।। 1.156.१ ०।।
सैवाऽस्ति न्यूनता नार्या नान्या वै न्यूनता मम ।
ममैकादशसंख्याकेन्द्रियाणां शक्तयस्तु याः ।। ११ ।।
ताः संभूय च भवती जाता वै द्वादशी मम ।
पत्नीरूपा ह्यतो बोध्या द्वादशीति त्वमेव सा ।। १२।।
तव प्राविर्भावरूपं द्वादशं समजायत ।
तस्मात् त्वं द्वादशी प्रोक्ता मम पत्नी ममांगना ।। १३।।
ममांगं त्वं हरेर्वासाद् रक्षणात् हरिवासरः ।
द्वादशी त्वं मम पत्नी मम वासररूपिणी ।। १४।।
मम रूपं मम वासो रतिस्त्वयि सदा मम ।
ततस्त्वमेव हरिवासरो द्वादशी मता ।। १५।।
इत्येतत्तु रहस्यं वै गुप्तं तुभ्यं मयोदितम् ।
ततः पुनः समुद्रस्य मन्थने द्वादशीदिने ।। १६।।
प्रातस्त्वं वै समुत्पन्ना ततोऽपि द्वादशी तव ।
जन्मजयन्ती प्रख्याता सर्वत्र समजायत ।। १७।।
यत्र यत्र च समये हरेर्नारायणस्य मे ।
प्राकट्यं चापि ते लक्ष्म्याः स काले बलवान् भवेत् ।। १८।।
हरेर्बलात् समयोऽपि बलवान् पुण्यदो भवेत् ।
मम जन्म तव जन्म यदा वै जायतेऽत्र हि ।। १ ९।।
तत्र तत्र महोत्साहाः कर्तव्या दानभोजनैः ।
गीतवादित्रनृत्यैश्च पूजाकीर्तनभक्तिभिः ।।1.156.२० ।।
एकादश्यां सदाप्तायां समुपोष्येह मानवाः ।
सर्वपापविनिर्मुक्ता यान्ति विष्णोः परं पदम् ।।२१।।
एकादश्या व्रतस्याऽत्र पूर्णं पुण्यं तदा भवेत् ।
द्वादश्यामावयोः पूजां ततः कुर्याच्च पारणाम् ।।२२।।
सप्तजन्माऽर्जितं पापं ज्ञानतोऽज्ञानतः कृतम् ।
क्षणादेव लयं याति द्वादश्यां नौ प्रपूजनात् ।।।२३।।
अश्वमेधसहस्राणि वाजपेयशतानि च ।
एकादश्युपवासस्य कलां नार्हन्ति षोडशीम् ।।२४।।
द्वादशी पुण्यदा द्रव्यप्रदा कामप्रपूरिणी ।
मोक्षदा सर्वलोकानां यत्राऽहं त्वं च पूजितौ ।।२५।।
एकादशी च या देवी ममेन्द्रियमहद्बलम् ।
व्रतं तयाऽर्थितं तद्वै निरन्नमेव सर्वथा ।।।२६।।
तत्रान्नं नैव भोक्तव्यं चान्ने पापं प्रतिष्ठति ।
एकादशीसमं किञ्चित् पापत्राणं न विद्यते ।।२७।।
एकादशेन्द्रियैः पापं यत्कृतं भवति प्रिये ।
एकादश्युपवासेन तत्सर्वं विलयं व्रजेत् ।।२८।।
एकादश्यपि मे पत्नी मम वासर उच्यते ।
उपवासेन तत्राऽहं प्रसन्नः स्यां मुहुर्मुहुः ।।।२९।।
द्वादश्यां मम नैवेद्यं कृत्वा कुर्याच्च पारणाम् ।
तेनाऽहं सर्वदा तृप्तः प्रसन्नोऽपि भवामि वै ।।1.156.३ ०।।
मयि तृप्ते जगत्तृप्तं सर्वतृप्तिफलं भवेत् ।
रटन्ति संहितास्त्वत्र भूयो भूयो मम प्रिये ।।३ १ ।।
एकादश्यां न भोक्तव्यं सम्प्राप्ते हरिवासरे ।
वर्णानामाश्रमाणां च स्त्रीबालानां सदा प्रिये ।।३२।।
एकादश्यामुपवासः कर्तव्य एव सर्वथा ।
एकादश्यां यदि श्राद्धं मातापित्रोर्मृतेऽहनि ।।३३।।
द्वादश्यां तत्प्रदातव्यं नोपवासदिने क्वचित् ।
वैष्णवाः पितरः श्राद्धं नाऽदन्त्येकादशीदिने ।।३४।।
दशमीमिश्रितां तां तु प्रयत्नेन विवर्जयेत् ।
अरुणोदयवेलायां द्वादशीमिश्रिता भवेत् ।।३५।।
तां त्यक्त्वा द्वादशीं शुद्धां प्रकुर्यादविचारयम् ।
त्रयोदश्यां तदा प्रातः कृत्वा स्नानादि सत्त्वरम् ।। ३६।।
त्रयोदशीकला चेत्तु सूर्योद्याने प्रवर्तते ।
तर्हि तु द्वादशीभागे पूर्वं सूर्योदयाच्च वै ।। ३७।।
पारणं खलु कर्तव्यं न तु त्रयोदशीपले ।
द्वादश्यामुपवासश्च द्वादश्यामेव पारणम् ।। ३८।।
निशा मध्यगता जागरणयुक्ता तु तद्व्रतम् ।
हरिवासर इत्युक्तः सर्वश्रेष्ठो मम प्रियः ।।३९।।
व्रतमेतत्परित्यज्य यो ह्यन्यद्व्रतमाचरेत् ।
करस्थं स महाराज्यं त्यक्त्वा भैक्ष्यं तु याचते ।।1.156.४० ।।
कलाऽप्येकादशी यत्र द्वादश्यामुदिते रवौ ।
सर्वामेकादशीं त्यक्त्वा तत्रैवोपवसेद् व्रती ।।४१ ।।
त्रयोदश्यां कलायां च सूर्यस्योदयनं भवेत् ।
पूर्वदिने तदा शुद्धा द्वादश्येव व्रतं मतम् ।।४२।।
दशम्यामेकभुक्तः स्याद् रात्रावनंगवर्जितः ।
पृथिवीशयनः प्रातर्धात्रीफलविलेपनः ।।४२।।
स्नायीत सन्ध्यां कुर्वीत पूजां मे विदधीत च ।
उपवासी सायमेकादश्यां संपूजयेच्च माम् ।।४४।।
गन्धपुष्पैर्धूपदौपर्वस्त्राभरणभोजनैः ।
जपैः स्तोत्रैर्नमस्कारैः पूजयेन्निशि भक्तितः ।।।४५।।
लक्ष्मीं च पूजयेद् रात्रौ सौभाग्यद्रव्यवस्तुभिः ।
केशान् संसाधयेत् तत्र पुष्पमालां तु धारयेत् ।।४६।।
ग्रथ्नीयात् केशवेशं च कबरीं कारयेत् ततः ।
सिन्दूरगन्धितैलादि दद्यात् केशेषु मस्तके ।।४७।।
ललाटे चन्दनकुंकुमाऽक्षतादीन् सुशृंखलाम् ।
तन्त्रिकां पौरटीं दद्यात् चन्द्रकं शोभनं क्रियात् ।।४८।।
कर्णभूषानासिकासुभूषणान्यपि धारयेत् ।
कज्जलं नेत्रयोर्दद्यादौष्ठयोः रञ्जनं क्रियात् ।।४९।।
गण्डयोः पत्रिकां दद्यात् कपोले सूक्ष्मतिल्लिकाम् ।
कण्ठे स्वर्णविभूषाँश्च पुष्पहारान् सुधारयेत् ।।1.156.५० ।।
भुजयोः कटके दद्यात् प्रकोष्ठे रत्नबंगिडीः ।
अंगुलिषूर्मिका दद्यात् कौसुंभी कंचुकीं धरेत् ।।५१।।
शाटिकां स्वर्णसूत्रान्तां ब्रह्मसूत्रं च कौस्तुभम् ।
ललन्तिकां फुल्लपत्रीं स्वर्णपट्टीं गले धरेत् ।।।५२।।
कट्यां सुवर्णरशनां कौसुंभीं घर्घरीं धरेत् ।
पादयोः किंकिणीनद्धझर्झरान् स्वर्णत्रोटकान् ।।५३।।
रूप्यच्छटान् प्रदद्याच्चऽलक्तकं पत्तलेऽर्चयेत् ।
अंगुलिषूर्मिकाकर्टान् धारयेत् पादयोस्तु वै ।।५४।।
स्वर्णतारभृते मखम्मलीयमृदुपादुके ।
गन्धसारसुगन्धेन वासयेद् बहुमानतः ।।५५।।
लक्ष्मीनारायणयोश्चाऽऽरार्त्रिकं पञ्चवर्तिभिः ।
कुर्यात् प्रदक्षिणं दण्डवत् नमः स्तुतिकीर्तनम् ।।५६।।
नैवेद्यं शर्कराघृतफलाद्यं च निवेदयेत् ।
पानीयं मुखशुद्धिं च ताम्बूलं चार्पयेत् ततः ।।।५७।।
शय्यां सुखप्रदां दद्यात् कोमलगेन्दुकादिकाम् ।
श्वेतां तूलपटीं चित्रां राजायनीं कबर्हणम् ।।५८।।
शय्यायां च विकीर्येत कौसुमानि दलानि वै ।
व्यजनेनाऽनिलं दद्यात्पादसंवाहनं क्रियात् ।।५९।।
लक्ष्मीनारायणयोश्चाज्ञयाऽङ्गमर्दनं क्रियात् ।
स्वापयित्वा च देवौ तौ प्रातः सुरभिवारिभिः ।।1.156.६० ।।
प्रबोध्य स्नापयेद्भक्त्या दन्तधावनपूर्वकम् ।
वस्त्रेण मार्जयेद् देवौ नूत्नवस्त्राणि धारयेत् ।।६ १।।
तुलसीमिश्रसलिलैस्तर्पित्वा पितृदेवताः ।
पूजयेज्जगतामीशं लक्ष्म्या सह जनार्दनम् ।।६२।।
कोमलैस्तुलसीपत्रैः कमलैः स्थलपद्मकैः ।
सुगन्ध्यक्षतपुष्पैः सौभाग्यमंगलकारकैः ।।६३।।
जलैस्तथोपकरणैर्विभूषाभिश्च रत्नकैः ।
दीपान्नीराजयेत्तत्र शतमष्टोत्तरं ततः ।।६४।।
शतपत्रकृतां मालां ताभ्यां सम्यङ् निवेदयेत् ।
धूपं दीपं च नैवेद्यं ताम्बूलं च समर्पयेत् ।।६५।।
शर्करासहितं दिव्यं पायसान्नं सकेसरम् ।
ससुजातीफलयुक्तं चैलाचूर्णसुगन्धितम् ।।६६।।
पूरिकां पोलिकां शाकान् पक्वान्नानि ह्यनेकशः ।
तक्रं दधि पयः सूपं क्वथिकामोदनं तथा ।।६७।।
पर्पटान् पिण्डकान् दद्यादारनालान्यनेकशः ।
फलानि सलिलान्यल्पां मुखशुद्धिं च दक्षिणाम् ।।६८।।
प्रदक्षिणं नमस्कारं क्षमापनमथापि च ।
पूजोत्तरं वृणुयाद्वै वरं स्वेष्टं सुखप्रदम् ।।६९।।
धनं धान्यं सदाऽऽरोग्यं वस्त्रं वाहनमेव च ।
यानं पात्राणि भूषाश्च क्षेत्रं सद्वाटिकां तथा ।।1.156.७०।।
गोमहिषीवृषभादीन् पतिपत्नीसुखं तथा ।
अपत्यं दीर्घजीवित्वमविघ्नं कार्यमित्यपि ।।७१।।
अभ्युदयं महासत्तां राज्यं गृहं च राष्ट्रकम् ।
कुटुम्बं सुखसम्पत्तिं स्वर्गं चान्यद् यदिष्टकम् ।।७२।।
वृणीत देवयोः सर्वां सुखसौभाग्यसम्पदम् ।
पीडामुपद्रवं दुःखं क्लेशं चिन्तां विमोचय ।।७३।।
वैधव्यमनपत्यं च मा भून्मे वै कदाचन ।
पुत्रपौत्रप्रपौत्रादिकुटुम्बं सुखवद् भवेत् ।।७४।।
आज्येन जुहुयाद् वह्नौ शतमष्टोत्तरं तथा ।
भक्त्या पुरुषसूक्तेन श्रीसूक्तेन च पायसम् ।।७५।।
प्रत्यृचं जुहुयाद्भक्त्या विप्रान् साधूंश्च भोजयेत् ।
स्वयं चाऽऽश्रितवर्गं वै भोजयित्वाऽदनं क्रियात् ।।७६।।
संहितादिश्रवणेन क्षपयेच्च दिनं शुभम् ।
ब्रह्मचारी भूमिशायी निन्दादि वर्जयेत्तथा ।।७७।।
रात्रौ जागरणं कुर्यादेवं द्वादशिकाव्रतम् ।
कुर्यात् प्रसन्नो भगवान् सर्वाऽभीष्टप्रदो ध्रुवम् ।।७८।।
हरिवासरव्रतकृद्गृहेऽष्टौ वसवो दिविं ।
नारायणस्य लक्ष्म्याश्च वरदानाद्वसन्ति वै ।।७९।।
आमो भवश्च सोमश्च धरश्चैव नलोऽनिलः ।
प्रत्यूषश्च प्रभावश्च वसवोऽष्टौ वसन्ति हि ।।1.156.८ ० ।।
यत्र तीर्थे तव पूजा गृहे यत्र तवाऽर्चनम् ।
यत्रारण्ये स्मृतिस्ते च यत्राऽब्धौ तेऽभिधाकथा ।।८१।।
यत्र लोके श्रवस्तेऽस्ति तत्र सर्वत्र संवस ।
यत्र ब्राह्ममुहूर्ते ते मे च ध्यानं तु मानसम् ।।८२।।
नामस्मृतिश्च भजनं तत्र साकं मया वस ।
यत्र प्रातर्बालवर्गः प्रसन्नौ वर्तते सुखी ।।८३।।
न च रौति नाक्रोशति तत्र साकं मया वस ।
प्रातर्यत्र च दम्पत्योर्न क्लेशस्तत्र संवस ।।८४।।
प्रातर्यत्र देहशुद्धिः स्नानप्रक्षालनादिभिः ।
शय्याशुद्धिर्वस्त्रशुद्धिर्नैर्मल्ये तत्र संवस ।।८५।।
जलेन मार्जनेनापि लेपनेन गृहाऽच्छता ।
रंगोल्या स्वस्तिकेनापि मांगल्यं तत्र संवस ।।८६।।
प्रदीपस्य चुल्लिकाग्नेः प्रातर्यत्र प्रकाशनम् ।
दधि दुग्धं घृतं मिष्टं पक्वान्नं तत्र संवस ।।८७।।
पिष्टान्नं सक्तुकान्नं च तण्डुलादि सुरन्धितम् ।
प्रातर्गोधूमपोल्यादि यत्र तत्र सदा वस ।।८८।।
प्रातः कूपतडागादिजलं गृहगतं भृतम् ।
उदकुंभौ जले तत्र सदा पूजाजले वस ।।८९।।
स्नानं प्रातः सदा यत्र ध्यानं देवादिपूजनम् ।
पूज्यानां पूजनं मानं वृद्धानां तत्र संवस ।।1.156.९०।।
यत्राऽङ्गनं च गोष्ठादि मार्जितं प्रातरेव च ।
पर्युषितादिशुद्धिश्च तत्र लक्ष्मि! सदा वस ।।९ १ ।।
यत्र प्रातर्ब्राह्मणस्य दर्शनं च सतां तथा ।
साध्वीनां हरिभक्तानां पित्रोश्च तत्र संवस ।।९२।।
विदुषां च गुरूणां च सतीनां पुण्यशालिनाम् ।
देवानां च गवां प्रातर्दर्शनं तत्र संवस ।।९३ ।।
पुण्यं च चन्द्रको भाले कज्जल नेत्रयोस्तथा ।
पुष्पं सुगन्धद्रव्यं च यत्राऽस्ति तन्मुखे वस ।।९४।।
अग्निहोत्रं च गायत्री विष्णुपूजा शिवार्चनम् ।
देवानां पूजनं प्रातर्नैवेद्यं तत्र संवस ।।९५।।
काष्ठेन दन्तशुद्धिश्च शौचं तु मृज्जलादिभिः ।
स्नानं सौभाग्यभूषादि यत्र तत्र सदा वस ।।९६।।
बालानां स्तन्यपानादि वत्सादीनां च सेवनम् ।
पशूनां तृणतोयादि सेवा तत्र सदा वस ।।९७।।
शुकादिपक्षिणां सारमेयादीनां च रक्षणम् ।
संभावनाऽन्नतोयाभ्यां यत्र तत्र सदा वस ।।९८।।
वृषभाश्वगजोष्ट्राणां वाहे त्रासो न यत्र वै ।
तथाऽन्यपशुसंत्रासो यत्र नो तत्र संवस ।। ९९।।
गृहोद्यानद्रुमवल्लीप्रभृत्युद्भिज्जजातयः ।
जलं खाद्यं चाप्नुवन्ति तत्र त्वं सर्वदा वस ।। 1.156.१०० ।।
कीटपिपीलिकादिभ्यो यत्र पिष्टकणादिकम् ।
प्राप्यते गृहमेधिभ्यस्तद्गृहे त्वं सदा वस ।। १०१ ।।
ग्रामस्य पशवो यत्र ताड्यन्ते न वृथा जनैः ।
दयालूनां गृहे तत्र वामस्तेऽस्तु मम प्रिये ।। १० २।।
अभ्यागताऽतिथयो भिक्षुकाः प्राघूणिकास्तथा ।
यत्र तृप्यन्त्यन्नजलैर्वाण्या च तत्र संवस ।। १०३ ।।
स्वार्थं न भोजनं यत्र परार्थं देवशेषितम् ।
पंक्तिभेदो न च यत्र न स्वार्थस्तत्र संवस ।। १ ०४।।
श्राद्धं व्रतोत्सवा यत्र धार्मिकं नृत्यगायनम् ।
समाजो ज्ञातिभोज्यं च परार्थं तत्र संवस ।। १०५ ।।
साधूनां भजनं यत्र सन्तोषो दानशीलता ।
महतां चापि सम्मानं दीनानां तत्र संवस ।। १०६ ।।
अन्नवस्त्रजलाऽऽवासैः सन्तोषोऽनाथदेहिनाम् ।
बहूनां जीविका न्याय्या यत्रास्ति तत्र संवस ।। १ ०७।।
साधूनां ब्रह्मचाराणामनाथानां च यद्गृहे ।
सेवया बहुसन्तोषः सर्वस्वे तत्र संवस ।। १०८ ।।
यद्गृहे नैव कापट्यं न क्लेशो न प्रतारणा ।
न शाठ्यं नैव च क्रौर्यं सुशान्तिस्तत्र संवस ।। १०९ ।।
लोभो रोषो महोद्वेगो मत्सरोऽधर्मवृत्तिता ।
ईर्ष्याऽसूया यत्र दंभो न सन्ति तत्र संवस ।। 1.156.११० ।।
तृष्णा निन्दा च पैशून्यं द्रोहो मदश्च गर्विता ।
परदोषप्रकाशित्वं न सन्ति तत्र संवस ।। १११ ।।
अन्यायाऽन्नं भिक्षुकान्नं परान्नं पापिनां तथा ।
दुष्टान्नं पच्यते नैव यत्कुक्षौ तत्र संवस ।। ११२।।
व्यापारो न्यायतो यत्र न्याय्यश्च विक्रयः क्रयः ।
कापट्यं न तुलामानेऽर्जने दाने सदा वस ।। ११३ ।।
जीर्णे च नूतने यत्र कापट्यं मिश्रणे नहि ।
वाग्दाने च हृदो दाने शाठ्यं न तत्र संवस ।। १ १४।।
परोपकारपुण्यार्थं यज्ञार्थं राष्ट्रस्वस्तये ।
द्रव्यव्ययो भवेद् यत्र परार्थं तत्र संवस ।। ११५ ।।
पराधीनपशुपक्षिप्राणिनां हिंसनं तथा ।
त्रासो यत्र न विद्येते तत्र लक्ष्मि! सुखं वस ।। ११६ ।।
बालानां कन्यकानां च साध्वीनां च सतां तथा ।
दीनाऽनाथदरिद्राणामन्नसत्रे सदा वस ।। १ १७। ।
वाप्यां कूपतडागादौ नद्यां सरोवरे भुवि ।
खाते प्रस्रवणेऽखाते प्रपायां च सदा वस ।। ११८ ।।
उदाराः स्वामिनो येषां सस्योद्यानवनस्विनाम् ।
पर्वतानामरण्यानां क्षेत्राणां तत्र संवस ।। ११९ ।।
दानयज्ञाः क्रियायज्ञा योगयज्ञाश्च यद्गृहे ।
भक्तियज्ञा ज्ञानयज्ञा यत्र तत्र सदा वस ।। 1.156.१२० ।।
भूतयज्ञा ब्रह्मयज्ञा देवयज्ञाश्च यत्र वै ।
स्वाध्याययज्ञा भक्तिश्च सेवा तत्र सदा वस ।। १ २१ ।।
मद्यं मांसं तथा चौर्यमन्यायस्त्र्यादिसेवनम् ।
व्यसनानि वृथा यत्र न सन्ति तत्र संवस ।। १२२ ।।
जीवे दुष्टो हृदि दुष्टो वाचि दुष्टश्च कर्मणि ।
स्वार्थे चापि परार्थे वा नास्ति यस्तत्र संवस ।। १२३ ।।
पातिव्रत्यं यत्र धर्मः पत्नीव्रतं च शीलता ।
विश्वासित्वं कृतज्ञत्वं यत्र तत्र सदा वस ।। १ २४।।
नीत्या वै कर्मकारित्वं नीत्या द्रव्यप्रदानता ।
प्रजाया रक्षणं नीत्या नीतिमत्सु सदा वस ।। १ २५।।
प्रजायाः शोषणं यत्र नारीणां क्रन्दनं तथा ।
दीनानामर्दनं यत्र नास्ति तत्र सुख वस ।। १ २६।।
रमणीनां च सम्मानं परोपकारिणां तथा ।
सफलीकृतयत्नानां गृहे ध्येये सदा वस ।। १ २७।।
पुत्रवत्स्वप्रजापालकानां प्राणार्पिणां तथा ।
धार्मिकाणां च भक्तानां राज्ञां राष्ट्रे सदा वस ।। १२८ ।।
शत्रुसाहसिकस्तेनस्तब्धलुब्धकवञ्चकाः ।
शठा धूर्ताश्च पाखण्डा न यद्राष्ट्रे सदा वस ।। १ २९।।
स्वाम्यमात्यराजपुत्रराज्ञीमन्त्रिपुरोहिताः ।
सेनापत्यटवीपाला न दुष्टास्तत्र संवस ।। 1.156.१३० ।।
कारागारपतिर्धर्माऽध्यक्षप्राकाररक्षकाः ।
अन्तःपुरप्रतीहारा न दुष्टास्तत्र संवस ।। १३१ ।।
श्रेष्ठिरत्निप्रभूतान्निस्वर्णिशिल्पिप्रकर्मिणः ।
संविशास्त्रिन्यायिनश्च न दुष्टास्तत्र संवस ।। १३२ ।।
आश्रमेषु च वर्णेषु नारीषु च नरेषु च ।
ग्राम्येषु वनिषु नैव दुष्टत्वं तत्र संवस ।। १३३ ।।
भृत्येषु चारवर्गेषु शिष्येषु चाश्रितेषु च ।
गुरुषु राजसु नैव दुष्टत्वं तत्र संवस । । १ ३४।।
पाताले भूस्तरे भूमौ खनौ स्वर्गेऽन्तरीक्षके ।
सत्ये ऋतौ च गर्भे च दौष्ट्यं न तत्र संवस ।। १३५ ।।
भक्ष्ये भोज्ये तथा पेयेऽलंकारे पाचनेऽनले ।
वायौ रूपे रसे गन्धे दौष्ट्यं न तत्र संवस ।। १३६ ।।
यत्र नास्ति मनोदौष्ट्यं नेतृदौष्ट्यं जनच्छलम् ।
राजदौष्ट्यं गुरोर्दौष्ट्यं स्त्रीदौष्ट्यं तत्र संवस ।। १३७।।
यत्र नास्ति त्वयि दौष्ट्यं मयि दौष्ट्यं प्रतारिणाम् ।
नास्तिकानां वृत्तिदौष्ट्यं न यत्र तत्र संवस ।। १ ३८।।
यत्फलं देवनैवेद्ये यल्लाभो देवकर्मणि ।
उपयुज्येत सर्वत्र तत्र वासोऽस्तु ते सदा ।। १ ३९।।।
किं बहुना विस्तरेण संक्षेपात्कथयाम्यहम् ।
यत्र धर्मश्च भक्तिश्च तथा नारायणोऽप्यहम् ।। 1.156.१४० ।।
यत्र सन्तो धर्मवंशस्तत्र वासोऽस्तु ते सदा ।
इति ते स्थानबाहुल्यमाख्यातं वासकाम्यया ।। १४१ ।।
परोपकरणे तत्र वस्तव्यं मे यथा हृदि ।
अभक्ष्यभक्षणं यत्र यत्र चाऽपेयपानकम् ।। १४२।।
अकार्यकरणं यत्र यत्राऽनाचारभ्रष्टता ।
नास्ति चास्ति सत्ययुगस्तत्र साकं मया वस ।। १४३।।
ईश्वरेषु च जीवेषु धर्मवंशो मम प्रियः ।
तत्र वासः सदा कार्यो यथा रैवतके गिरौ ।। १४४।।
सायं यत्र देवपूजा कथा च कीर्तनोत्सवाः ।
विरामः प्राणिनां यत्र तत्र वासः सदा तव ।। १४५।।
यत्राऽस्त्यच्युतगोत्राणां साधूनां बहुपूजनम् ।
तत्र त्वया सदा वासः कार्यो लक्ष्मि! ममाऽऽज्ञया ।। १४६।।
वेदशास्त्रादिधर्माणां सदा यत्रास्ति पालनम् ।
नास्तिक्यं दैवकार्ये न वासस्तत्राऽस्तु ते सदा ।। १४७।।
आप्रातरुद्यमो यत्र चाऽऽसायं वर्तते जने ।
तत्र त्वया ह्यवश्यं तु वस्तव्यं सर्वथा प्रिये ।। १४८।।
यत्र स्वत्वे परस्वत्वं किञ्चिदपि न विद्यते ।
तत्र स्वत्वे सदा स्थेयं किं बहूक्त्या शुभानने ।। १४९।।
तव भक्ता जना देवा दैत्या नागास्तथेश्वराः ।
ऋषयो मुनयोऽदेवाः सर्वे सृष्टिनिवासिनः ।। 1.156.१५० ।।
तव पूजापरा नित्यं तवाऽऽगमसुकांक्षिणः ।
तवार्थं कृतयत्नाश्च प्राणार्पणं च ते कृते ।। १५१ ।।
तवेहया तु कष्टानि सहन्तेऽपि विदेशके ।
तवार्थं स्वजनं त्यक्त्वा गच्छन्त्यन्यत्र निर्जने ।। १५२।।
तव प्राप्तिर्भवेन्मा वा मृतेः प्राप्तिस्तु जायते ।
दृष्ट्वा तेषां तपस्तत्र वस ते यदि रोचते ।। १५३।।
तत्तत्प्रयत्नसदृशी वस तत्तद्गृहे सदा ।
तत्तत्कार्यकृतां हस्ते यथापेक्षं वस प्रिये ।। १५४।।
यत्र क्वापि याहि भद्रे पुनरागच्छ मद्गृहम् ।
नाऽन्यद्गृहं शाश्वतं वै वसितव्यं मया विना ।। १५५।।
मया क्लृप्तं तव गृहं हृद्यं मे सदाऽनघे ।
मद्धृदयं सह नीत्वा यत्र क्वापि वस प्रिये ।। १५६।।
यथेष्टं वस सर्वत्र स्पृशा मा तद्ग्रहाधिपम् ।
पातिव्रत्यं सर्वथैव रक्षितव्यं च मे प्रिये ।। १५७।।
यत्र यत्र च ते वासस्तत्राऽन्तर्यामिता मम ।
सर्वत्रैव व्यापकोऽस्मि निवसामि मम प्रिये ।। १५८।।
अतः सर्वत्र मामेव पातिव्रत्याद् भजस्व वै ।
न ते पतिव्रताधर्मो लुप्तो भवति कश्चन ।। १५९।।
यस्य गेहे च ते वासस्तद्भाले वसतिर्मम ।
वस्त्राऽलंकाररूपा त्वं भाले तेजस्विताऽप्यहम् ।। 1.156.१६० ।।
यत्र ते भगिनी ज्येष्ठा ह्यलक्ष्मीर्वसति गृहे ।
तद्गृहेऽर्धेऽपि सम्मील्य वासं तु कुरुतं ह्युभे ।। १६१।।
न वै सर्वे सलक्ष्मीकाः सर्वे नाऽलक्ष्मिकास्तथा ।
अर्धे लक्ष्मीश्चार्धभागेऽप्यलक्ष्मीर्वर्तते गृहे ।। १६२।।
किञ्चिन्न्यूनं दुःखदं च किञ्चिच्छ्रेष्ठं सुखप्रदम् ।
एकस्मिन्नेव गेहादौ सर्वं सर्वस्य नोत्तमम् ।। १६३।।
तादृशे च जने गेहे ह्यलक्ष्म्या सह शान्तितः ।
कृत्वैव सहनं सर्वे वर्तितव्यं त्वयाऽनघे ।। १६४।।
एककोणे त्वया स्थेयमन्यकोणेऽग्रजातया ।
अलक्ष्म्या ज्येष्ठया स्थेयं न कार्यः कलहः क्वचित् ।। १६५।।
बलाऽबले तु द्रष्टव्ये भाग्यरेखानुसारतः ।
निर्बलेन स्थलं देयं प्रबलायेति शासनम् ।। १६६।।
नीतिरस्तीतिसर्वत्र सुखायैवोपकल्पिता ।
अय त्वां कथयिष्येऽन्यतीर्थानि रैवताचले ।। १६७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
द्वादश्या हरिवासरत्वे कारणता, लक्ष्म्या विधिवत्पूजनं
तत्फलं, लक्ष्म्या निवासस्थानानि चेत्यादिनिरू-
पणनामा षट्पंचाशदधिकशततमोऽध्यायः ।। १५६।।