लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १५४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १५४
[[लेखकः :|]]
अध्यायः १५५ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! मणिव्राते रैवते दिव्यतैजसे ।
मन्दराद्रिः समायातः स्वर्णपाषाणमिश्रणः ।। १ ।।
दिव्ये तेजोमये तत्राऽन्तर्गत्वा स्थूलभावतः ।
मिलित्वा संस्थितस्तेन मणेस्तेजो न दृश्यते ।। २ ।।
कुमुदाद्रिस्तथा तत्राऽऽयातो रैवतके गिरौ ।
सोऽप्यन्तर्भूय स्थौल्येन वर्तते रैवताचले ।। ३ ।।
शृणु दिव्यां कथां तां वै पूर्वकृतयुगोद्भवाम् ।
पुरा कृतयुगे सर्वे सपक्षाः पर्वताः कृताः ।। ४ ।।
उड्डयन्तो महाकाया निपतन्ति यदृच्छया ।
मेरुमन्दरकैलासा ब्रह्मणा वारिताः स्थिराः ।। ।९ ।।
अन्ये तु वारिताश्चापि स्थायिनो न यदाऽभवन् ।
तदेन्द्रेण स्ववज्रेण पक्षास्तेषां निकृन्तिताः ।। ६ ।।
मेरोर्दक्षिणशृंगे तु कुमुदो नाम पर्वतः ।
दिव्यं सपक्षः सौवर्णो दिव्योद्यानसमृद्धिमान् ।। ७ ।।
सर्वा वैकुण्ठसदृशी स्थली स्मृद्धा सुशोभना ।
तत्रोपरि पुरी दिव्या वैष्णवी विष्णुना कृता ।। ८ ।।
तन्मध्ये च महान् विष्णो प्रासादो रमया युतः ।
मेरोः शृंगे मन्दराख्ये पुरी शिवस्य शोभना ।। ९ ।।
सौवर्णा च सभा तत्र भवानी मोदते सदा ।
ब्रह्मणश्चापि नगरी प्रासादश्च सुपौरटः ।। 1.154.१०।।
रत्नहीरकमण्याढ्यः शृंगे तस्याऽरुणाचले ।
वर्तते यत्र ते देवास्त्रयः कुर्वति मन्त्रणाम् ।। १ १।।
कुमुदे वैष्णवे स्थाने सौवर्णा वल्लयोऽभवन् ।
पुष्पाण्यपि पिशंगानि सौवर्णानि च सौरभः ।। १ २।।
सुगन्धो दीयते नित्यं पुर्यां पौष्पः सुवायुना ।
वृक्षाश्चापि सुगन्धाढ्यपत्रमञ्जरिकान्विताः ।। १३ ।।
सुगन्धं वाहयन्त्येव प्रतिसौधं च वायवः ।
एकदा भगवान् रुद्रः कुमुदे तु समागतः ।। १४।।
गृहागतं हरं दृष्ट्वा विष्णुना परिपूजितः ।
लक्ष्म्या च पूजिता गौरी हर्षिता सत्कृता ह्यति ।। १५।।
एकासनोपविष्टौ तौ मन्त्रयन्तौ परस्परम् ।
तावद्वै कुमुदस्तत्र मन्दरश्चापि पर्वतः ।। १६।।
नररूपं सुधृत्वा वै सेवायां समुपागतौ ।
शंभुः प्राह हरिं तत्र बलिस्तु बलवान् यतः ।। १७।।
त्वया नेयस्तु सुतलं पृथ्वीतः सर्वथा हरे! ।
वामनं रूपमास्थाय गिरौ तु रैवताचले ।। १८।।
मयापि तत्र गन्तव्यं गिरौ वै रैवताचले ।
बलेः सुतले वासं च कारयित्वा तु छद्मना ।। १९।।
पुनश्चात्राऽऽगमिष्यामः कृतकार्यौ दिवौकसाम् ।
संप्राह माधवस्तम् ओम् तावत्तौ पर्वतौ मुदा ।।1.154.२० ।।
कुमुदमन्दरौ हरिहरौ प्रार्थयतः पुरः ।
आवां सह गमिष्यावस्तत्र यत्र हरिर्हरः ।।२ १।।
तथाऽस्त्विति वरं प्राप्य भूभृतौ तौ तिरोगतौ ।
हरिहरौ सपत्नीकौ जग्मतुर्वेधसं प्रति ।।।२२।।
अरुणाचलशिखरे पुरी यत्र प्रजापतेः ।
बलेः सुतलवासार्थं कृत्वा वै मन्त्रणां ततः ।।२३।।
तौ प्रत्याजग्मतुः स्वस्वपुर्यां स्वस्वगिरौ पुनः ।
प्राप्ते तु समये विष्णुर्वामनः संबभूव ह ।।२४।।
जगाम च बलेर्यज्ञे शंकरोऽपि जगाम च ।
सौराष्ट्रे रैवते देशे तदा कुमुदमन्दरौ ।। २५ ।।
आययतुः सपक्षौ तावुड्डयित्वाऽन्तरीक्षगौ ।
तावन्यान् बहुनक्षत्रगणानाकृष्य वेगतः ।। २६।।
आजग्मतुः स्वर्णरेखानदीस्थे रैवताचले ।
तदा तयोस्तदन्यायं ज्ञात्वा देवेश्वरः स्वयम् ।। २७।।
गृहीत्वा च स्वकं वज्रं पक्षनाशनहेतवे ।
विमानवरमारुह्य जगाम यत्र तौ गिरी ।।२८।।
यावद् वज्रं प्रहिणोति तावत् तौ पर्वतौ मुहुः ।
प्राञ्जली प्राहतुर्देवौ रक्षणाय हराऽच्युतौ ।।२९।।
द्रागेवेन्द्रः स्तम्भितश्च सवज्रहस्तकस्तदा ।
मा हन्तव्याविमावद्री प्राहतुस्तं हराच्युतौ ।।1.154.३० ।।
इन्द्रस्तौ प्रार्थयामास स्तंभनस्य विमुक्तये ।
वरयामास कुमुदमन्दरोड्डयनक्षयम् ।।३ १ ।।
तथाऽस्त्विति वरं दत्वा महेन्द्रस्तंभनं तदा ।
निवार्य च कुमुदाद्रिं मन्दराद्रिं तु रैवते ।।३२।।
तैजसेऽद्रौ हरिहरौ स्थापयामासतुः सदा ।
अम्बाया मन्दरः सोऽयं कुमुदस्तु समन्ततः ।।।३ ३ ।।
कमलाकारतां प्राप्तो द्वादशपत्रभेदतः ।
ताविमौ पर्वतौ शैलौ दृश्येते तैजसे मणौ ।। ३४।।
रैवते तैजसे तत्त्वे पार्थिवौ तौ निषेदतुः ।
तत्र दामोदरो विष्णुर्भवः शंभुर्निषेदतुः ।।३५।।
ब्रह्माऽरुणाचलं नीत्वा समाजगाम तत्र वै ।
मन्दरात् पूर्वदिग्भागेऽस्थापयत् सोऽरुणाचलम् ।। ३६।।
तत्र ब्रह्मा स्वकं वासं कृत्वोवास कमण्डलुम् ।
यत्र वै मन्दरे कुण्डे बभार स जलाशयः ।। ३७।।
जातः कमण्डलुकुण्डस्तीर्थमक्षयपुण्यदम् ।
अरुणाद्रौ प्रथमे तु शृंगे ब्रह्मा ह्युवास यत् ।। ३८।।
स्थल तद् ब्रह्मकुट्याख्यं जातं तीर्थं तु मोक्षदम् ।
अरुणाद्रौ द्वितीये च दत्तात्रेयो महान् प्रभुः ।। ३९ ।।
दारुणं वै तपस्तेपे तीर्थं मोक्षकरं च तत् ।
एवं वेधोहरिहरास्तिष्ठन्ति रेवताश्रिते ।।1.154.४० ।।
मन्दरे कुमुदे चैवाऽरुणाद्रौ प्रक्षिणि प्रिये ।
प्राप्ते लये गमिष्यन्ति मेरौ तै पर्वतास्त्रयः ।।४१।।
सपक्षा वै गमिष्यन्ति तावत् स्थास्यन्ति तत्र वै ।
तेषु त्रिषु त्रयो देवास्त्रयस्त्रिंशच्च कोटयः ।।४२।।
देवा वसन्ति तत्रापि रहस्यं कथितं प्रिये ।
रैवतस्य प्रक्रमणो कृतं मेरुप्रदक्षिणम् ।।४३।।
रैवतस्य पूजने च कृतं मेरोः प्रपूजनम् ।
रैवतस्य दर्शने तु कृतं मेरोश्च दर्शनम् ।।४४।।
त्रिंशत्क्रोशं रैवताद्रिं ये प्रयान्ति प्रदक्षिणम् ।
कृतं मेरोश्च पृथ्व्याश्च प्रदक्षिणं तु तैरिह ।।४५।।
मन्दरारुणयोर्यैस्तु कृतं प्रदक्षिणं तु तैः ।
प्रदक्षिणं कृतं सत्यकैलासाभिधलोकयोः ।।४६।।
कुमुदस्य द्वादशपर्वतानां तु प्रदक्षिणम् ।
येन कृतं कृतं तेन वैकुण्ठस्य प्रदक्षिणम् ।।४७।।
यदा देवास्त्रयश्चाऽत्र निवासाय समागताः ।
नरनरायणौ तत्र बोरियाख्ये वने गतौ ।।४८।।
ब्रह्मकमण्डलुकुण्डाद् गंगा गुप्ता तु जाम्बवी ।
पतत्यधो बोरियाख्ये भूगते बद्रिकाश्रमे ।।४९।।
नरनारायणौ सर्वर्षिभिर्युक्तौ तु तापसौ ।
जनाऽदृश्यौ हि वर्तेते दृश्येते पुण्यशालिभिः ।।1.154.५ ०।।
दक्षिणे मन्दराद्गंगामूले तौ वसतः सदा ।
उत्तरे मन्दरात् तत्र भवन्त्याम्रवनानि वै ।।५ १ ।।
वैकुण्ठात्परमाद् वार्यावरणस्थात् समागतः ।
लक्ष्मीनारायणः सीतापतिश्चाम्रवनैः सह ।।५२।।
आत्मा मुक्ताः शाश्वता वै सर्वदा फलशालिनः ।
सुघटापत्रशाखाभिः साकेतानां निकेतनम् ।।५ ३।।
सुघट्टं च वनं तत्र सीतावनमितीरितम् ।
लक्ष्मणस्य वनं राम वनं कीशवनं तथा ।।१४।।
सीतापटी वनक्ष्मा च दिव्या धामसमास्ति सा ।
यत्र सूर्यो न वै भाति न भाति शशितारकम् ।।५५ ।।
विद्युतो यत्र नो भान्ति ह्यग्निर्भाति कुतस्तदा ।
तादृशं तन्महादिव्यजलप्रस्रवणान्वितम् ।।५६।।
स्वर्णरूप्यगैरिकादिधातुभूखनिकाऽन्वितम् ।
सर्वर्तुसुखदं दिव्यं विशालं वनमस्ति यत् ।।५७।।
शाश्वते तत्र साकेते वने प्रस्रवणात्मिका ।
सरयूर्भिन्नसलिलनिर्झरणैर्वहत्यपि ।।।५८।।
हनुमान् वर्तते तत्र वने रक्षणकारणात् ।
तीर्थमेतत् महत् प्रोक्तं भुक्तिमुक्तिप्रदं परम् ।।५९।।
पूर्वे च रैवते भागेऽरुणाऽचलसमीपतः ।
इन्द्रद्युम्नसरस्तत्र समागत्य प्रतिष्ठति ।।1.154.६० ।।
ब्रह्मविष्णुमहेशांश्च नरनारायणं तथा ।
लक्ष्मीनारायणं सीतारामं श्रुत्वा समागतान् ।।६ १ ।।
पुरुषोत्तमपुर्यास्तु जगन्नाथः स्वयं प्रभुः ।
नीलाख्यं पर्वतं नीत्वा वटवृक्षं तथाऽब्धिजम् ।।६२।।
समागतोऽत्र वासाय न्यूषुस्ते प्राग्दिशि ध्रुवम् ।
टीम्बुरुफलजातानि जाम्ब्वामलककर्मदाः ।।५३।।
आम्राश्च रावणाश्चैव बदर्यश्चामृतानि च ।
सीताफलानि बहुशः सन्ति यत्र वनानि वै ।।६४।।
दुग्धसमं जलं यत्राऽमृतस्वादुफलानि च ।
सुखं स्वर्गसमं यत्र प्राग्भागेरैवताचले ।।६५६।।
कृष्णा च मृत्तिका यत्र स्वर्णरससुमिश्रिता ।
विभिन्ना धातवः सन्ति विंशतिक्रोशभूमयः ।।६६ ।।
ततः पूर्वे शुभं क्षेत्रमश्वपट्टसरोवरम् ।
चिञ्चांऽगूदीवनं रम्यं शुभा कुंकुमवापिका ।।६७।।
शत्रूञ्जितानदी सौम्या कंभराक्षेत्रमुच्यते ।
लक्ष्मीनारायणश्च कंभरागोपालसंज्ञया ।।६८।।
पूज्यते वन्द्यते देवैर्भूसुरैर्मानवैस्तथा ।
पत्नीव्रतस्य विप्रस्य वंशस्तत्रापि तिष्ठति ।।६९।।
कुंकुमवापिकायाश्चोत्तरे क्रोशद्वयात् परम् ।
क्षेत्रं पुण्यमरण्यादियुतं रम्यं च विद्यते ।।1.154.७० ।।
लंकाचतुष्टकीक्षेत्रं यत्र गुप्ता सरस्वती ।
प्रकाशा वर्तते चापि सुदिव्यसलिलान्विता ।।७१ ।।
हिमाचलाद् यदा देवी सरस्वती महानदी ।
वाडवाऽग्निं समादाय याता पश्चिमवारिधिम् ।।७२।।
तदाऽर्बुदाचलात् सिद्धक्षेत्रं श्रीनगरं तथा ।
गत्वा विराटनगरं सारंगं दुर्गमेत्य च ।।७३ ।।
उन्मत्तगंगां भोगां च भद्रां सम्प्राप्य वै ततः ।
लंकाचतुष्टकीक्षेत्रं प्राप्त्वा जयन्तमागता ।।७४।।
भद्रेश्वरनृसिंहाख्यघट्टं गत्वा तदुत्तरम् ।
स्कन्दपुरं तथा कालीवटं च नगरं गता ।।७९ ।।
आज्यां प्रकाशमासाद्य सुवर्षाद्वारिकां गता ।
ततो दक्षिणदिग्भागे बराटाख्ये तु पर्वते ।।७६।।
बिल्वेशं हर्षदां प्राप्य नवनीताद्रिमागता ।
वामनस्थलमासाद्य वस्त्रापथमुमागता ।।७७।।
रैवताद्रिं परिवीय पर्वतं च कृतस्मरम् ।
प्रज्वाल्य बलिखातं च गत्वा प्राचीस्थपिप्पलम् ।।७८।।
एकतर्षिस्थलं प्राप्य सोमनाथं समागता ।
व्याघ्रारण्ये शुभं गुप्तप्रयागं प्राप्य सा ततः ।।७९।।
सिंहारण्ये दिव्यभूमौ गत्वाऽरोऽब्धौ विवेश सा ।
वाडवाऽग्निं समुत्सृज्य पुनः सा रैवताचले ।।1.154.८०।।
सर्वदा संस्थिता देवी प्रतिस्थानं सरस्वतीं ।
कुण्डे कुण्डे स्थिता देवी जनकल्याणहेतवे ।।८ १।।
हनुमन्नामविख्याताः कपयो रैवताचले ।
सीतामढी च हनुमन्मढी सन्तमढी तथा ।।८२।।
व्याघ्रेश्वरी महादेवी माहिषाख्ये गिरौ स्थिता ।
श्रीरामपादुकातीर्थं बिल्वेशं हाटकेश्वरम् ।।८३।।
एवमन्यानि तीर्थानि सन्ति लक्ष्मि! तु रैवते ।
तारकाणि प्राणिनां वै भुक्तिमुक्तिप्रदानि च ।।८४।।
यथाकथञ्चिक्छ्रद्धाद्यैः स्वार्थेनापि प्रहेलया ।
कृतानि येन तीर्थानि दृष्टपीतानि वा तथा ।।८५।।
स्नातानि तज्जलधूलीकर्दमानि धृतानि वा ।
तेषां पापविनाशेन भुक्तिर्मुक्तिर्भवेद्ध्रुवम् ।।८६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमं कृतयुगसन्ताने तैजसरैवताचले कुमुदमन्दराऽरुणनीलादिपर्वतानां
बद्रिकानरनारायणलक्ष्मीनारायणसीतारामजगन्नाथसरस्वतींप्रभतितीर्थानामागमननिरूपणनामा चतुःपंचाशदधिकशततमोऽध्यायः ।। १५४।।