लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १५१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १५१
[[लेखकः :|]]
अध्यायः १५२ →

श्रीनारायण उवाच-
ततः सारस्वतः प्राह राजानं भोजपुंगवम् ।
मिष्टान्नं भोजनं रम्यं पानमुच्चावचं शुभम् ।। १ ।।
पूजार्हाणि च पात्राणि पुष्पाण्युपस्कराणि च ।
वस्त्राणि दानयोग्यानि सुगन्धिचन्दनानि च ।। २ ।।
कमलानि विचित्राणि स्वर्णरूप्याद्यलंकृतीन् ।
स्कन्धे निधाय पद्भ्यां च यात्रां करोति यो जनः ।। ३ ।।
अर्पयित्वा च हर्यग्रेऽक्षयपुण्यमवाप्नुयात् ।
गंगोदकं मधु घृतं कुंकुमाऽगुरुचन्दनम् ।। ४ ।।
गुग्गुलं बिल्वपत्राणि धत्तूरकुसुमं तथा ।
पादचारी भजन् देवं स्कन्धे स्वयं निधाय च ।। ५ ।।
भवनाथं तु यो गच्छेद् दृष्ट्वा निवेदयेत्तथा ।
स्वर्णनद्यां तथा स्नात्वा दामोदरं समर्चयेत् ।। ६ ।।
सर्वबन्धविनिर्मुक्तः स वै कैलासमाप्नुयात् ।
गणो मुक्तो भवत्येव यावदाभूतसम्प्लवम् ।। ७ ।।
कलत्रमित्रपुत्रैर्वा भ्रातृभिः सुजनैर्जनैः ।
सुहृत्सम्बन्धिभिश्चान्यैर्याति देवं स्मरँस्तु यः ।। ८ ।।
स तन्मण्डलसहितः स्वर्गं यात्यादिवाकरम् ।
देवमूर्तिं शुभां कृत्वा रथस्थां सुप्रतिष्ठिताम् ।। ९ ।।
चन्दनागुरुकर्पूरैरर्चितां कुंकुमेन च ।
पूजयन् विविधैः पुष्पैर्धूपदीपादिकैस्तथा ।। 1.151.१० ।।
गीतनृत्यैः सवादित्रैर्हास्यैर्लास्यैरनेकधा ।
धरित्रीं कांचनं गां च जलान्नवसनानि च ।। ११ ।।
तृणेन्धने प्रियां वाणीं यच्छन् याति तु रैवते ।
दामोदरे तथा भवेश्वरे गत्वाऽर्चयत्यथ ।। १२।।
स्वर्णवत्यां तडागे वा कुण्डे च रैवतीकृते ।
स्नाति जपति गोविन्दं ददात्यन्नानि भूरिशः ।। १ ३।।
तत्र यच्छति दानानि सर्वस्वानि च यो जनः ।
देवांगनाकरग्राहे गृहीतो नन्दने वने ।। १४।।
गत्वा भुंक्ते शुभान् भोगान् यावदाचन्द्रतारकम् ।
तीर्थे विप्रवचः कृत्वा स्नात्वा सन्ध्याऽर्चनादिके ।। १५।।
दर्भांस्तिलान् हविष्यान्नं प्रयु्ञ्ज्याच्छ्रद्धया ततः ।
अगस्तं भृंगराजं च पुष्पं शतदलं शुभम् ।। १६।।
कर्पूरागुरुश्रीखण्डं कुंकुमं तुलसीदलम् ।
तीर्थे संकल्पितं मर्त्यैस्तदनन्तं प्रजायते ।। १७।।
बिल्वप्रमाणपिण्डानि दद्याद्वै तीर्थभूमिषु ।
ताम्बूलफलनैवैद्यतिलदर्भोदकैस्तथा ।। १८।।
मासान्तरे शुक्लपक्षे क्षयाहे मातृ-पैतृके ।
गजच्छायां त्रयोदश्यां द्रव्ये प्राप्ते द्विजोत्तमे ।। १९।।
गृहे श्राद्धं प्रकुर्वीत पितृणामृणमुक्तये ।
गृहाच्छतगुणं नद्यां या नदी याति सागरम् ।।1.151.२० ।।
ततोऽनन्तगुणं देवमन्दिरे देवसन्निधौ ।
प्रभासे पुष्करे तीर्थे गयायां पिण्डतारके ।।२१ ।।
प्रयागे चाथ गोमत्यां भावे दामोदरे तथा ।
नर्मदायां तपत्यां च कुर्याच्छ्राद्धं त्रिविक्रमे ।।।२२।।
स्वर्णरक्षाऽऽपगायाश्च नारायणह्रदे तथा ।
ओजस्वत्यां च भद्रायां तथा शत्रुजितातटे ।।२३ ।।
वामनस्थलकुण्डाग्रे कुर्याच्छ्राद्धं नरो यदि ।
सर्वपापविनिर्मुक्ताः पितरो यान्ति सद्गतिम् ।।२४।।
सन्तानमुत्तमं लब्ध्वा भुक्त्वा भोगाननुत्तमान् ।
दिव्यं विमानमारुह्य श्राद्धकृद्याति मोक्षणम् ।।।२५।।
जातकर्मादियज्ञेषु विवाहे गृहकर्मणि ।
देवप्रतिष्ठाप्रारम्भे कूपवाप्यादिकर्मणि ।।२६।।
तृप्यन्ति देवताः सर्वा हृष्यन्ति पितरो नृणाम् ।
वृद्धिश्राद्धे कृते गेहे जायते सर्वमंगलम् ।।।२७।।
कामः क्रोधश्च लोभश्च मोहो मद्यं मदादयः ।
मायामात्सर्यपैशुन्यमविवेकोऽविचारिता ।। २८।।
अहंकारो यदृच्छा च चापल्यं लौल्यमित्यपि ।
अन्यायसाधनाऽऽयासः प्रमादो द्रोहसाहसे ।।२९।।
आलस्यं दीर्घसूत्रत्वं परदारोपसेवनम् ।
एते दोषाः सदा त्याज्यास्तीर्थगामिनरादिना ।। 1.151.३ ०।।
स स्याद्वै मण्डनं भूमेदेशस्य नगरस्य च ।
श्रीमान् विद्वान् कुलीनः स्यात् स तीर्थफलमश्नुते ।। ३१ ।।
स्नानं सन्ध्या जपो होमः स्वाध्यायः पितृतर्पणम् ।
श्राद्धं देवस्य पूजा च त्यक्तदोषस्य जायते ।। ३२।।।
उत्थायोत्थाय स्नातव्यं पूज्यौ हरिहरौ तथा ।
सत्यं वाच्यं हितं कार्यं दानं देयं स्वशक्तितः ।। ३३।।।
परापवादभीरुत्वं परदारविवर्जनम् ।
तैर्थिकदोषाऽग्राहित्वं सेवनं च सतां मुदा ।।३४।।
पितृमातृगुरूणां च नाऽप्रियं मनसा वहेत् ।
औषधं शाकमर्थिभ्यो दातव्यं गृहमेधिना । । ३ '६ ।।
एकादशी पञ्चदशी चतुर्दश्यष्टमीषु च ।
अमायां च व्यतीपाते संक्रान्तो ग्रहणेषु च । । ३६ । ।
वैधृतौ पितृमातॄणां क्षयाहे शुभवासरे ।
युगमन्वादिदिवसे गृहे कार्यो महोत्सवः ।। ३७।।
तीर्थे वा गमनं कार्यं पुण्यं शतगुणं भवेत् ।
इन्द्रियाणां जयः कार्यो मद्यद्यूतविवर्जनम् । । ३८ । ।
स्नानं दानं जपो होमः सुरपूजा द्विजार्चनम् ।
साधुसाध्वीप्रपूजा च कर्तव्याऽक्षयपुण्यदा । । ३९ । ।
एकाऽपि गोः प्रदातव्या वस्त्रालंकारभूषिता ।
दोग्ध्री सवस्त्रा तरुणी सवत्सा सुद्विजाय च । ।1.151.४० ।।
साधवेऽन्नसुभोज्यानि साध्व्यै वस्त्राद्यलंकृतिः ।
देयान्यन्नानि वस्तूनि यथा स्याद्वै प्रसन्नता । । ४१ । ।
सप्तजन्मसु पापिष्ठ इह जन्मनि चाऽधमः ।
एकां ददाति यो धेनुं मुच्यते सर्वपातकैः । ।४ २ । ।
यदाऽसौ नीयते बद्धो यममार्गेण किंकरैः ।
तदा धेनुः समागत्य स्वं पुत्रमिव रक्षति ।।४३ ।।
विजित्य हुंकृतेनैव तान् दूतान् दूरतः कृतान् ।
गौर्दातारं समादाय याति वै हरिमन्दिरम् । ।४४।।
वृषो धर्म इति प्रोक्तस्तीर्थे दानं वृषस्य च ।
कर्तव्यं रक्षयेद् धर्मो दातारं नयते दिवम् । ।४५ । ।
ग्रासमात्राऽपि भिक्षा सत्तीर्थे देया गृहस्थितैः ।
कुंभपत्रादिसिद्धान्नछत्रोपानत्कमण्डलुम् । । ४६ ।।
अंगुलीयकवासांसि दत्वा याति नरो दिवि ।
पानं श्रान्ततृषार्ताय क्षुधार्तायाऽन्नमेव च । ।४७ ।।
नग्नाय वस्त्रं संदेयं देव्यो नयन्ति तं दिवम् ।
भोजनं सततं देयं यथाशक्त्या घृतप्लुतम् । । ४८ ।।
शुत्पीडा महती लोके तस्यान्नं भेषजं मतम् ।
तेन सा शान्तिमायाति चान्नदानं तदुत्तमम् । ।४९ । ।
अन्नं वस्त्रं फलं तोयं तक्र शाकं घृतं मधु ।
पत्रं पुष्पं तथोपानत् कन्था यष्टिः कमण्डलुः ।। 1.151.५ ० ।।
छत्रं पात्रं तथा विद्या पुस्तकं च सुरार्चनम् ।
कन्याकुशोपनीतानि बीजौषधिगृहाणि च । । ५१ ।।
रत्नं क्षेत्रं यज्ञपात्रं योगपट्टं च पादुके ।
कृष्णाजिनं बुद्धिदानं धर्मदेशकथानकम् । ।५२ ।।
तीर्थे गत्वा बहु देयं तेन श्रेयो महद्भवेत् ।
सर्वपापक्षयं कृत्वा दाता याति हरेः पदम् । । ५३ ।।
अश्वमेधादिभिर्यज्ञैर्गयायां पिण्डदानतः ।
यत्फलं स्यान्नृणां तत्स्याद् दृष्टे दामोदरे भुवि ।।५४।।
एकादश्यां कृतस्नानो देवपूजापरो भवेत् ।
पंचामृतेन संस्नाप्य स्नात्वा तीर्थोदकेन च ।।५५।।
कुंकुमागुरुश्रीखण्डकर्पूरोदकमिश्रितैः ।
पूजयित्वा ततः पुष्पैः शतपत्रैः सुगन्धिभिः ।।५६।।
मालतीकुसुमैः शुभ्रैर्बहुभिस्तुलसीदलैः ।
वस्त्रं यज्ञोपवीतं च धूपं चैव प्रधूपयेत् ।।५७।।
दीपं दद्याद् घृतेनैव तैलेनापि घृतं विना ।
नैवेद्यं विविधं दद्यात् फलं ताम्बूलमित्यपि ।।।५८।।
प्रासादपूजां कुर्याच्च ध्वजदानादिना तथा ।
गां सवत्सां ततो दद्यात् संसारार्णवतारिणीम् ।।।५९।।
ततः प्रदक्षिणं कृत्वा गीतवादित्रनिःस्वनैः ।
वेदपाठपुराणैश्च व्याख्यादिव्यकथानकैः ।।1.151.६०।।
देवाग्रे जागरं कुर्याद् दीपद्योतितभूमिषु ।
सप्तधान्यमयान् सप्त पर्वतान् दीपसंयुतान् ।।६१।।
फलताम्बूलपक्वान्नपूजितान् परिकल्पयेत् ।
विद्वद्भिः श्रोत्रियैः शान्तैर्ब्राह्मणैः साधुभिस्तथा ।।६२।।
साध्वीभिश्च गृहस्थैश्च श्रोतव्या वैष्णवी कथा ।
एवं जागरणं कार्यं रागद्वेषादिवर्जितैः ।।६३।।
कृत्वा जागरणं रात्रावुदिते सूर्यमण्डले ।
पूर्वां सन्ध्यां कृतस्नानः कृत्वा मध्याह्नमाचरेत् ।।६४।।
देवान् पितॄन् मनुष्याँश्च तर्पित्वा विधिपूर्वकम् ।
कृत्वा स्नानं पितॄणां च दानं दद्यात्तु शक्तितः ।।६५।।
देवं दामोदरं पुष्पधूपादिना प्रपूज्य च ।
रैवतीकुण्डसलिले स्नानं कुर्यात् ततः पुनः ।।६६ ।।
राधादेरीदर्शनं वै कुर्याच्च स्वर्णदीजले ।
तत आरोहणवाप्यां प्रगच्छेच्च हनूमतः ।।६७।।
दर्शनं च प्रकुर्याद्वै जलं पिबेत्। ततः पुनः ।
पर्वतारोहणं कुर्याद् यद्वाऽऽगच्छेत् पुरं प्रति ।।६८।।
त्रिएविक्रमरणच्छोडदर्शनं संविधाय च ।
विविधानि च दानानि भोजनादीनि सर्वथा ।।६९ ।।
दत्वा कृत्वा प्रगच्छेच्च स्वालयं तीर्थकारकः ।
इति ते तीर्थकरणं कथितं मोक्षदं परम् ।।1.151.७०।।
श्रुत्वैतद् भोजराजोऽपि जगाम रैवताचलम् ।
ददर्श मुख्यतीर्थानि मंगलानि विधाय च ।।७१ ।।
भवं दामोदरं स्वर्णरक्षां मृगाननास्थलीम् ।
अम्बां दत्तात्रेयरूपं नारायणह्रदं तथा ।।७२।।
रैवताचलमालोक्य गंगां गोमुखिकां तथा ।
त्रिविक्रमरणच्छोडमन्दिरं वामनस्थलीम् ।।७३।।
बलेर्मखस्थलीं भद्रां तथा कुंकुमवापिकाम् ।
ओजस्वतीं सोमनाथं सुवर्णद्वारिकां तथा ।।७४।।
तीर्थान्येवं विविधानि कृत्वा दत्वा महीं च गाः ।
सुवर्णरजतादीनि रत्नाभूषणकानि च ।।७५।।
वस्त्राण्यन्नानि विप्रेभ्यः साधुसाध्वीभ्य एव च ।
दीनान्धकृपणादिभ्यो दत्वा देयानि भूरिशः ।।७६।।
आजगाम स्ककं राज्यं कान्यकुब्जं नराधिपः ।
स्वराज्ञ्या सह यात्राया महोत्सवमकारयत् ।।७७।।
तावद् भोजस्य दृष्टिर्वै दिव्याऽभूत् पुण्ययोगतः ।
वैकुण्ठं चाथ कैलासं हरिं हरं सपार्षदम् ।।७८।।
ददर्श सुविमानं च दिव्य मोक्षकरं ततः ।
पार्षदैः स्थापितस्तत्र सस्त्रीको दिव्यविग्रहः ।।७९।।
ययौ वैकुण्ठमेवाऽयं मुक्तो भूत्वा हरेर्बलात् ।
इत्युक्तस्ते चमत्कारो रैवतस्य प्रिये रमे! ।।1.151.८०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमं कृतयुगसन्ताने तीर्थविधिदानादिप्रदर्शननामैकपंचाशदधिक शततमोऽध्यायः ।। १५१ ।।