लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १५०
[[लेखकः :|]]
अध्यायः १५१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! ततो विप्रः सारस्वतो महामुनिः ।
सौराष्ट्रे रैवतगिरेर्यात्राबलं जगाद् तम् ।। १ ।।
सौराष्ट्रदेशे गन्तव्यं गिरौ रैवतके यदा ।
तदा गुरुबलं वीक्ष्य कृत्वा सूर्यस्य तर्पणम् ।।२ ।।
वामे पृष्टे च कृत्वाऽन्यद् दिनशुद्धिं विलोक्य च ।
चन्द्रलग्नग्रहान् दृष्ट्वा बलिष्ठान् जन्मराशितः ।। ३ ।।
शकुनं च शुभं बुद्ध्वा प्रस्थातव्यं जनैः खलु ।
अश्विनी रेवती चित्रा धनिष्ठा समलंकृतौ ।। ४ ।।
मृगाश्विचित्रापुष्याश्च मूला हस्ता शुभाः सदा ।
कन्याप्रदाने यात्रायां प्रतिष्ठादिषु कर्मसु ।। ५ ।।
शुक्रचन्द्रौ तु जन्मस्थौ शुभदौ च द्वितीयके ।
शशिज्ञशुक्रजीवाश्च राशौ चाथ तृतीयके ।। ६ ।।
भौममन्दशशांकार्का बुधः श्रेष्ठश्चतुर्थके ।
शुक्रजीवौ पञ्चमौ च चन्द्रकेतुसमाहितौ ।। ७ ।।
मन्दार्कौ च कुजः षष्ठे गुरुचन्द्रौ च सप्तमे ।
ज्ञशुक्रावष्टमे श्रेष्ठौ नवमस्थो गुरुः शुभः ।। ८ ।।
अर्काऽर्किचन्द्रा दशमे एकादशेऽखिला ग्रहाः ।
बुधोऽथ द्वादशे चैव भार्गवः सुखदो भवेत् ।। ९ ।।
सिंहेन मकरः श्रेष्ठः कन्यया मेष उत्तमः ।
तुलया सह मीनस्तु कुंभेन सह कर्कटः ।। 1.150.१ ०।।।
धनुषा वृषभः श्रेष्ठो मिथुनेन च वृश्चिकः ।
एतत् षडष्टकं प्रीत्यै भवत्येव न संशयः ।। १ १।।
चरः सौम्यौ गुरुः क्षिप्रो मृदुः शुक्रो रविर्ध्रुवः ।
शनिश्च दारुणो ज्ञेयो भौम उग्रः शशी समः ।। १२।।
चरक्षिप्रैः प्रयातव्यं प्रवेष्टव्यं मृदुध्रुवैः ।
दारुणोग्रैश्च योद्धव्यं क्षत्रियैर्जयकांक्षिभिः ।। १३।।
नृपाभिषेकोऽग्निकार्यं सोमवारे प्रशस्यते ।
सोमे तुले प्रमाणे च कुर्याच्चैव गृहादिकम् ।। १४।।
सैनापत्यं शौर्ययुद्धं शस्त्राभ्यासः कुजे स्मृतः ।
सिद्धिकार्यं च मन्त्रश्च यात्रा चैव बुधे स्मृता ।। १५।।
पठनं देवपूजा च वस्त्राद्याभरणं गुरौ ।
कन्यादानं गजारोहः शुक्रे स्यात् समयः स्त्रियाः ।। १६।।
स्थाप्यं गृहप्रवेशश्च गजबन्धः शनौ शुभः ।
सप्तमोपचयाद्यस्थश्चन्द्रः सर्वत्र शोभनः ।। १७।।
शुक्लपक्षे द्वितीयस्तु पञ्चमो नवमस्तथा ।
सम्पूज्यमानो लोकैस्तु गुरुवद् दृश्यते शशी ।। १८।।
जन्मस्थः कुरुते तुष्टिं द्वितीये नास्ति निर्वृतिः ।
तृतीये राजसन्मानं चतुर्थे कलहागमः ।। १९।।
पञ्चमेन मृगांकेन स्त्रीलाभो वै तथा भवेत् ।
धनधान्यागमः षष्ठे रतिः पूजा च सप्तमे ।।1.150.२० ।।
अष्टमे प्राणसन्देहो नवमे कोषसञ्चयः ।
दशमे कार्यनिष्पत्तिर्ध्रुवमेकादशे जयः ।।।२१।।।
द्वादशेन शशांकेन मृत्युरेव न संशयः ।
अशुक्ला प्रतिपत् श्रेष्ठा द्वितीया चन्द्रसूनुना ।।२२।।
तृतीया भूमिपुत्रेण चतुर्थी च शनैश्चरे ।
गुरौ शुभा पञ्चमी स्यात् षष्ठी मंगलशुक्रयोः ।।२३।।
सप्तमी सोमपुत्रेण अष्टमी कुजभास्करौ ।
नवमी चन्द्रवारेण दशमी तु गुरौ शुभा ।।२४।।
एकादश्यां गुरुः शुद्धो द्वादश्यां च पुनर्बुधः ।
त्रयोदशी शुक्रभौमौ शनौ श्रेष्ठा चतुर्दशी ।।२५।।
पौर्णमास्यप्यमावास्या श्रेष्ठा स्याच्च बृहस्पतौ ।
मूलेऽर्कः श्रवणे चन्द्रः प्रोष्ठपद्युऽत्तरे कुजः ।।२६।।
कृत्तिकासु बुधश्चैव गुरौ चाथ पुनर्वसुः ।
पूर्वफल्गुनी शुक्रे च स्वातिश्चैव शनैश्चरे ।।२७।।
एते चामृतयोगाः स्युः सर्वकार्यप्रसाधकाः ।
हस्तेऽर्कश्च गुरुः पुष्ये अनुराधा बुधे शुभा ।। २८।।
रोहिणी च शनौ श्रेष्ठा सौमं सोमेन वै शुभम् ।
शुक्रे च रेवती श्रेष्ठा अश्विनी मंगले शुभा ।।२९।।
एतेषु सिद्धियोगा वै सर्वदोषविनाशकाः ।
कार्यसिद्धिप्रदाश्चैव तत्र कार्यं समारभेत् ।।1.150.३ ०।।
अश्विनीमत्ररेवत्यो मृगमूला पुनर्वसुः ।
पुष्या हस्ता तथा ज्येष्ठा प्रस्थाने श्रेष्ठमुच्यते ।। ३१ ।।
योगिन्योऽपि प्रबोद्धव्याः सन्मुखेऽतीव दुःखदाः ।
ब्रह्माणी संस्थिता पूर्वं प्रतिपन्नवमीतिथौ ।। ३२।।
माहेश्वरी चोत्तरे च द्वितीयादशमीतिथौ ।
पञ्चम्यां च त्रयोदश्यां वाराही दक्षिणे स्थिता ।।।३३।।
षष्ठ्यां चैव चतुर्दश्यामिन्द्राणी पश्चिमे स्थिता ।
सप्तम्यां पौर्णमास्यां च चामुण्डा वायुगोचरे ।। ३४।।
अष्टम्यमावास्ययोगे महालक्ष्मीशगोचरे ।
एकादश्यां तृतीयायामग्निकोणे तु वैष्णवी ।।३५।।
द्वादश्यां च चतुर्थ्यां तु कौमारी नैर्ऋते तथा ।
योगिनीसम्मुखे नैव गमनादि प्रकारयेत् ।।३६।।
चतुर्थी चाऽशुभा षष्ठी अष्टमी नवमी तथा ।
अमावास्या पूर्णिमा च द्वादशी च चतुर्दशी ।।३७।।
द्वादशीं दहते भानुः शशी चैकादशीं दहेत् ।
कुजो दहेच्च दशमीं नवमीं च बुधो दहेत् ।।३८।।
अष्टमीं दहति जीवः सप्तमीं भार्गवो दहेत् ।
सूर्यपुत्रो दहेत् षष्ठीं गमनाद्यासु नास्ति वै ।।३९।।
प्रतिपन्नवमीष्वेव चतुर्दश्यष्टमीषु च ।
बुधवारे च प्रस्थानं दूरतः परिवर्जयेत् ।।1.150.४० ।।
मेषे कर्कटके षष्ठी कन्यायां मिथुनेऽष्टमी ।
वृषे कुंभे चतुर्थी च द्वादशी मकरे तुले ।।४१।।
दशमी वृश्चिके सिंहे धनुर्मीने चतुर्दशी ।
एता दग्धा न गन्तव्यं किल जीवादिमानवैः ।।।४२।।
विशाखात्रयमादित्ये पूर्वाषाढात्रये शशी ।
धनिष्ठातृतीयं भौमे बुधे वै रेवतीत्रयम् ।।४३।।
रोहिण्यादित्रयं जीवे शुक्रे पुष्यात्रयं तथा ।
शनिवारे वर्जयेच्च उत्तराफल्गुनीत्रयम् ।।४४।।
एष औत्पातिको योगो मृत्युरोगादिकं भवेत् ।
विष्कंभे घटिकाः पञ्च शूले सप्त प्रकीर्तिताः ।।४५।।।
षट् गण्डे चातिगण्डे च नव व्याघातवज्रयोः ।
व्यतीपाते परीघे च वैधृते च दिने दिने ।।४६।।
एते मृत्युयुता ह्येषु सर्वकर्माणि वर्जयेत् ।
विशाखा चोत्तरा त्रीणि मघार्द्रा भरणी तथा ।।४७।।
आश्लेषा कृत्तिकाः चैताः प्रस्थाने मरणप्रदाः ।
तदेतद्वै विचार्यैव प्रस्थानं सुखदं भवेत् ।।४८।।
पूर्णकुंभं द्विजं वेश्यां शुक्लधान्यानि दर्पणम् ।
दध्याज्यं मधुलाजाँश्च पुष्पं दूर्वाऽक्षतान् सितान् ।।४९।।
वृषं गजेन्द्रं तुरगं ज्वलदग्निं सुवर्णकम् ।
ऊर्ण च परिपक्वानि फलानि विविधानि च ।।1.150.५०।।
पतिपुत्रवतीं नारीं प्रदीपं मणिमुत्तमम् ।
मुक्तां प्रसूनमालां च सद्योमांसं च चन्दनम् ।।५ १।।
पुरो दृश्यन्त एतानि वस्तूनि मंगलानि वै ।
विप्रः कन्या शवं गौश्च शंखो भेरी वसुन्धरा ।।५२।
वेणुः स्त्रीः पूर्णकुंभश्च यात्रायां दर्शने शुभाः ।
सव्ये शिवोष्ट्रखरनकुलकुंभशवाः शुभाः ।।।२३ ।।
राजहंसो मयूरश्च खञ्जनश्च शुकः पिकः ।
पारावतः शंखचिल्लश्चक्रवाकश्च मांगला ।।५४।।
कृष्णसारश्च सुरभिः चमरीः श्वेतचामरम् ।
धेनुर्वत्सप्रयुक्ता च पताका दक्षिणे शुभाः ।।५५।।
कार्पासौषधितैलानि पक्वाऽङ्गारभुजङ्गमाः ।
मुक्तकेशी रक्तमाल्यं नग्नाद्यशुभमीक्षितम् ।।५६।।
हिक्काऽऽग्नेये शोककरी दक्षिणे हानिदा मता ।
नैर्ऋत्ये चोद्वेगकरी पश्चिमे मिष्टभुक्तिदा ।।५७।।
वायव्येऽर्थप्रदा प्रोक्ता उत्तरे कलहंकरी ।
ईशाने मृत्युदा चेति ज्ञेयं शुभाशुभं फलम् ।।५८।।
तीर्थे सदैव गन्तव्यं सर्वे मासाश्च शोभनाः ।
तिथयश्चोत्तमाः सर्वाः स्नानदानार्चनादिषु ।।५९।।
वसन्ते तीर्थयात्रायाः प्रयाणं श्रेष्ठमुच्यते ।
निगृह्य नियमान् भूत्वा शुचिः स्नातो जितेन्द्रियः ।।1.150.६० ।।
गजवाजिरथान् त्यक्त्वा पादाभ्यां यान्ति ये जनाः ।
हंसयुक्तविमानेन यान्ति ते कृष्णमन्दिरम् ।।६ १ ।।
एकभक्तेन नक्तेन तथैवाऽयाचितेन च ।
भिक्षाहारेण तोयेन फलाहारेण वा यदि ।।।६२।।
उपवासेन कृच्छ्रेण शाकाहारेण वा जनाः ।
तीर्थयात्रां प्रकुर्वन्ति तेषां लोकास्तु शाश्वताः ।।६३।।
यद्वा याति दिवं देवीगणैः संवीजितोऽर्चितः ।
अनुपानत्पदो यात्राकर्ता यात्यर्कमण्डलम् ।।६४।।
मातरं पितरं देशं भ्रातृस्वजनबान्धवान् ।
ग्रामं भूमिं गृहं त्यक्त्वा कृत्वा चेन्द्रियसंयमम् ।।।६५।।
गृहीत्वा वैष्णवीं दीक्षां रैवतं याति यो जनः ।
भुक्तिर्मुक्तिर्भवेत्तस्य दामोदरप्रभावतः ।।६६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने प्रस्थानयात्रादौ शुभाऽशुभग्रहनक्षत्रवारयोगिनीशकुनादिप्रदर्शननामा पञ्चाशदधिकशततमोऽध्यायः ।। १५०।।