लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १४९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४९
[[लेखकः :|]]
अध्यायः १५० →

श्रीनारायण उवाच-
शृणु लक्ष्मि! रैवतस्थतीर्थानि कथयाम्यहम् ।
यात्राफलसुयुक्तानि भुक्तिमुक्तिप्रदानि च ।। १ । ।
वस्त्रापथस्य तीर्थानि यानि येन कृतानि च ।
तान्यपि ते कथयिष्ये स्वर्गमोक्षप्रदानि च । । २ । ।
पूर्वे कृतयुगे कान्यकुब्जे भोजनृपोऽभवत् ।
तस्मै वनात् समभ्येत्य वनपालब्रवीदिदम् । । ३ । ।
आश्चर्यं भ्रमता राजन् मया दृष्टं वनेधुना ।
मृगयूथगता नारी मया दृष्टा मृगानना । । ४ । ।
ततस्तु भोजराजः सः सेनाध्यक्षमुवाच ह ।
इदानीमेव गन्तव्यं यत्र सा युवती स्थिता । । ५ । ।
साऽश्वाश्च पत्तयो यान्तु वेष्टयन्तु वनं गिरिम् ।
स्त्रीवेषधारिणी नारी वशं नेया मृगी हि सा ।। ६ । ।
गिरिं संवेष्टयामास भोजः सैन्यपदातिभिः ।
प्लवमाना तु सैन्येन विधृता हरिणानना ।। ७ । ।
नारीदेहां समानिन्ये कान्यकुब्जे मृगीं नृपः ।
दृष्ट्वाऽऽश्चर्यं तु सर्वेषां जायते नृपमन्दिरे ।। ८ ।।
राजा तां स्नापयामास दिव्यगन्धानुलेपनैः ।
एकान्ते निर्जने राजा बभाषे समलंकृताम् ।। ९ ।।
का त्वं कस्य सुता केन हेतुना च मृगानना ।
इति पृष्ठापि नोवाच न भुंक्ते न पपौ तथा ।। 1.149.१० ।।
तदा भोजस्तु दैवज्ञान् मन्त्रज्ञान् भिषजस्तथा ।
तान्त्रिकान् सुनमस्कृत्य बभाषे पश्यत द्विजाः! ।। ११ ।।
नारीदेहा कथं न्वेषा कथं च हरिणाऽऽनना! ।
मनुष्यवाणीवदना कथमेषा भविष्यति ।। १२ ।।
विप्राः प्राहुः कुरुक्षेत्रे सारस्वताख्यभूसुरः ।
जानाति स च वृत्तान्तं यथातथं स वक्ष्यति ।। १३ ।।
भोजो जगाम तं विप्रं तपन्तं तप इत्यमुम् ।
नमस्कृत्योपविष्टं तं भोजं प्राह स भूसुरः ।। १ ४।।
गच्छामो यत्र सा नारी वक्ष्यति स्वयमेव तत् ।
इत्यागता यत्र नारी ततः सारस्वतो द्विजः ।। १९।।
उपलिप्य च भूभागं स्वस्तिकं सन्निवेश्य च ।
सजलं कलशं न्यस्य चाग्निकार्यं निधाय च ।। १६ ।।
इन्द्रं देवांश्च दिक्पालान् कलशे सन्निवेश्य च ।
हुत्वाऽग्निं च चरुं कृत्वा ग्रहपूजामकारयत् ।। १७।।
अभिषेकं स्वयं चक्रे तां नारीं चाभिषेचयत् ।
तावता दिव्यदृष्ट्या सा बभाषे प्राग्भवान् बहून् ।। १८ ।।
भोज! त्वं सप्तमे पूर्वे जन्मनि भ्वां मया सह ।
कलिंगदेशनृपतिरहं पत्नी च बङ्गजा ।। १९ ।।
दुष्टात्मा त्वमनाचारो दयाधर्मविवर्जितः ।
गोभूविप्रगुरुवेददेवशास्त्रविनाशकृत् ।।1.149.२ ० ।।
मिलित्वा च प्रजाभिस्त्वं हतो लोकविरोधकः ।
मृतं कान्त गृहीत्वाऽग्नौ प्रविष्टाऽहं मृता सह ।।२१ ।।
मृतं कान्तं समादाय भार्याऽग्नौ प्रविशेद् यदि ।
महीयेते ह्युभौ स्वर्गे यावदाभूतसम्प्लवम् ।।२२ ।।
ततस्तु मालवे देशे विप्रस्त्वं नास्तिकोऽभवः ।
अहं तु ब्राह्मणी भक्तिमती भार्याऽभवं तव ।। २३ ।।
त्वयाऽर्जितं धनं स्वर्णं त्यक्त्वाऽऽप्तं मरणं यदा ।
सहाऽहं न मृता लोभात् किन्तु कालान्तरे मृता ।।२४।।
श्वेतसर्पोऽभवस्त्वं वै विप्रकन्याऽभवं त्वहम् ।
परिणीताऽन्यविप्रेण विप्रं त्वमदशश्च तम् ।। २५ ।।
अहन्तु विधवा जाता सर्पस्त्वं मारितो जनैः ।
वैधव्यं मम दत्वा तु द्विजसर्पावुभौ मृतौ ।। २६ ।।
त्वं मृत्वा मकरो जातो गोदावर्यां तदाऽप्यहम् ।
तीर्थं भीमेश्वरं द्रष्टुं समायाता जनैः सह ।।।२७।।
यावत् स्नातुं प्रविष्टाऽहमाकृष्टा मकरेण वै ।
लोकैः कुन्तादिघातेन मकरो विनिपातितः ।।२८।।
अहं मकरदंष्ट्राभिस्तदानीं च मृतिं गता ।
त्वं ततो लुब्धको जातोऽहं शबर्यभबद्वने ।।।२९ ।।
अग्नेर्जलाच्च सर्पाच्च गजात् सिंहाद्धयादपि ।
रोषाद्विस्फोटकान्मृत्युर्येषां ते नरकंगमाः ।। 1.149.३ ०।।
आत्महा भ्रूणहा स्त्रीघ्नो ब्रह्मघ्नः कूटसाक्षिणः ।
कन्याविक्रयकर्ता च मिथ्यापवाददायकः ।। ३१ ।।
विक्रीणाति क्रतुं यस्तु मद्यं पाति द्विजस्तु यः ।
राजद्रोही स्वर्णचौरो ब्रह्मवृत्तिविलोपकः ।। ३२।।
गोघ्नश्च निक्षेपहरो ग्रामसीमहरस्तु यः ।
सर्वे ते नरकं यान्ति या च स्त्री पतिवञ्चकी ।। ३३ ।।
शबर्यहं मृता रोगात् क्रौंची जाता वने तदा ।
क्वचित् क्रौंचेन कामेन क्रीडितुमुद्यताऽभवम् ।। ३४।।
तावद्व्याधेन स क्रौंचो बाणेन विनिपातितः ।
क्रौंचेन च तदा शप्तः क्रूरो भव महावने ।।३५।।
स्त्रीहीनः शार्दूलरूपो दुःखी भव पुनः पुनः ।
ततस्त्वं शार्दूलरूपो रैवते च गिराबभूः ।। ३६।।
मृता दैववशात् क्रौंची मृग्यभूद् रैवते गिरौ ।
भवेश्वरात्पश्चिमे तु स्वर्णरक्षानदीजलम् ।। ३७।।
पातुं चाहं समायाता दृष्टा केसरिणा तदा ।
उत्प्लुता तद्भयाच्चाहं पतिता चाऽपरं तटम् ।।३८।।
तावत् सिंहः समुत्प्लुत्य मदग्रे पतितो बलात् ।
अहं यावत्परावृत्योत्प्लवितुमुपचक्रमे ।। ३९।।
पार्श्वस्थकीचकस्तम्बे जलस्थे मम मस्तकम् ।
द्वयोः कीचकयोर्मध्ये प्लवने पाशवत् ह्यभूत् ।।1.149.४०।।
शरीरं जलमध्ये मे मस्तकं वंशमध्यगम् ।
सिंहेन संधृतं कण्ठाद्दंष्ट्राभिश्च वियोजितम् ।।४१।।
यावत् सिंहोऽपि मे वर्ष्म जलमध्याद् विकर्षति ।
तावत् सैबलयोगेन पद्भ्यां सृप्त्वा जलेऽपतत् ।।४२।।
अगाधाच्च जलात् शैवालबाहुल्यात्समन्ततः ।
न निर्गन्तुं शशाकाऽसौ मृतिमापत् स केसरी ।।४३।।
स्वर्णरक्षाजले सिंहो मृतो भोजोऽभवन्नृपः ।
तस्य तीर्थप्रभावेण नृपत्वं समजायत ।।४४।।
इदं हि सप्तमं जन्म राजाभोजेति विश्रुतम् ।
लम्बते मे शिरो वंशे शरीरं जलमध्यगम् ।।४५।।
स्वर्णरेखाजले तत्र विशीर्णं मम तद्वपुः
न तु वक्त्रं निपतितं त्वङ्मांसं शिरसि स्थितम् ।।४६।।
ततोऽहं हरिणीगर्भे जाता मानुषरूपिणी ।
जातं वक्त्रं मृगीणां मे यस्मान्न पतितं जले ।।४७।।
नाऽहं हरिणकन्याऽस्ति किन्तूद्दालकसन्मुनेः ।
कन्याऽस्मि चैकदा स्वर्णरक्षायां स्नातुमागतः ।।४८।।
स तदानीं च तत्रैव योगिन्यः स्नातुमागताः ।
योगिनीभिस्तदा तत्र मुनिः परीक्षितो मुहुः ।।४९।।
कीदृशोऽयं ब्रह्मचारी दृढो वाऽदृढ इत्यमुम् ।
गृहीत्वा कण्ठपाशैश्च समाश्लिष्य मुहुर्मुहुः ।।1.149.५० ।।
क्रीडयन्ति बहुरीत्या ऋषिर्न विकृतिं गतः ।
अथैका योगिनी नाम्ना कामदाहाऽभिधा तदा ।।५१ ।।
उद्दालकस्य देहेऽन्तःप्रविष्टा योगसद्बलात् ।
तावत्कामोऽभवद्भीतो विदुद्राव ऋषेस्तनोः ।।।।५२।।
अन्यथा दग्धतां कुर्याद् योगिनी साऽऽन्तरस्थिता ।
कामदेवस्य विद्रावाद् योगिन्या उष्णतावशात् ।।५३।।
यौवनोद्भेदवेगाच्च सहक्रीडनकादिकात् ।
स्तम्भितोऽपि तदा धातुर्वेगाच्च पतितो जले ।।५४।।
प्रवाहेण सह धातुर्नारायणह्रदे गतः ।
तत्रैका हरिणी वारि पपौ तद्धातुमिश्रितम् ।।५५।।
तद्गर्भे मम वासोऽभूत् पूर्वकर्मानुसारतः ।
अहमुद्दालकऋषेः पुत्री जाता मृगानना ।।५६।।
योगिनीभिर्वर्धिताऽस्मि योगिनीनां सुता यतः ।
योगिन्यस्मि मृगीमुखा दिव्याऽपि मानुषी तथा ।।५७।।।
राजँस्तव तथा मेऽपि सप्तमं जन्म विद्यते ।
जानात्ययमृषिः सारस्वतो योगबलाद्धि तत् ।।५८
प्रविश्याऽग्नौ मृता पूर्वे त्वया सार्धं तु सप्तमे ।
त्वां विना मे पतिर्मा भून्मरणे याचितं मया ।।५९।।
तदाऽन्तरीक्षे राजेन्द्र वागुवाचाऽशरीरिणी ।
राजाऽसौ दुष्टकर्माऽस्ति हिंस्रः क्रूरोऽतिलुब्धकः ।।1.149.६ ०।।
न वेदशास्त्रकुशलो दयाधर्मविवर्जितः ।
कामी मानी महाक्रोधी सत्याचारविवर्जितः ।।६१।।
न देवं न गुरुं विप्रान्न जानाति दुराशयः ।
न साधून्न च साध्वींश्च पूजयत्यतिमानवान् ।।६२।।
असत्यवादी दुष्टात्मा यज्ञधर्मविनाशकः ।
पललाशी च वै विष्णोर्निन्दको वृत्तिहारकः ।।६३।।।
वेश्यागामी स्नानदानधर्मकर्मविवर्जितः ।
चण्डालतामयं प्राप्तस्तस्य पापं कियद्गुणम् ।।६४।।
गणयितुं न शक्येत तादृशः पापवानयम् ।
यद्यपि त्वं सती नारी दग्धा भवसि तेन वै ।।६५ ।।
ततस्त्वं सप्तजन्मानि सहयुक्ता भविष्यसि ।
किन्तु चाऽस्य महापापैः स्वर्गं नाऽस्य भविष्यति ।।६६ ।।
आदौ पापफलं भुक्त्वा पश्चाद् राज्यं भविष्यति ।
अष्टमं चास्य सज्जन्म देवजन्म भविष्यति ।।६७।।
तदा त्वं मानुषी भूत्वा पश्चात्स्वर्गं गमिष्यसि ।
इत्युक्त्वा सा विरराम सर्वं स्मरामि योगतः ।।६८ ।।
अपि मे मस्तकस्यास्ति खर्परं वंशसंस्थितम् ।
यदि वस्त्रापथे गत्वा शिरः कश्चिद् विमुञ्चति ।।६९ ।।
स्वर्णरक्षाजले राजन् मानुषं स्यान्मुखं मम ।
अस्म्यहं मानुषवक्त्रा दृश्यतेऽन्यैर्मृगानना ।।1.149.७० ।।
पापच्छायावृतं चैतन्मृगाकृतिमुखं मम ।
श्रुत्वैतद्भोजराजेन प्रतीहारस्तु तत्स्थलम् ।।७ १ ।।
प्रेषितस्तेन दृष्टं तत् स्वर्णरेखाजलोपरि ।
वर्तते तन्मृगशिरो वंशप्रोतं महावने ।।७२ ।।
गृहीत्वा पातितं यावत् स्वर्णरेखाजले तदा ।
भोजराजगृहे तस्या मुखं चन्द्रसमं शुभम् ।।७३ ।।
मानुष चाऽभवद् दिव्यं पद्मपत्रसुलोचनम् ।
सुशोभनं दीर्घकेशं दीर्घकर्णं शुभद्विजम् ।।७४।।
कम्बुग्रीवं पद्मगन्धं सर्वलक्षणसंयुतम् ।
न देवी न च गान्धर्वी नाऽऽसुरी न च किन्नरी ।।७५।।
यादृशी सा तदा जाता तीर्थभावेन सुन्दरी ।
परिणीता तु सा तेन भोजराजेन सुन्दरी ।।७६ ।।
मृगाननेति विख्याता देवी सा भोजसुन्दरी ।
कुताऽसौ पट्टमहिषी भोजराजेन धीमता ।।७७।।
देशानां प्रवरो देशो गिरीणां प्रवरो गिरिः ।
क्षेत्राणामुत्तमं क्षेत्रं वनानामुत्तमं वनम् ।।७८ ।।
गंगासरस्वतीरेवाः स्वर्णरेखाजले स्थिताः ।
ब्रह्मा विष्णुश्च सूर्यश्च सर्वे रुद्रादयः सुराः ।।७९ ।।
नागा यक्षाश्च गन्धर्वा अस्मिन् क्षेत्रे व्यवस्थिताः ।
स्वर्णरक्षानदीवार्षु स्नात्वा नारायणे ह्रदे ।।1.149.८ ० ।।
मृगीतीर्थे तथा स्नात्वा कुण्डे दामोदराभिधे ।
तथा च रेवतीकुण्डे स्नात्वा स्वर्मोक्षमाप्नुयात् ।।८ १ ।।
गंगा सरस्वती पुण्या यमुना स्वर्णरूपिणी ।
नद्यामागत्य तिष्ठन्ति दृश्यन्ते स्वर्णपत्रिकाः ।।।८२ ।।
सरस्वती स्वर्णरूपा गंगा रजतपत्रिकाः ।
यमुना ताम्रपत्राणि नद्यप्सु प्रचकासति ।।८ ३ ।।
एवं सुवर्णरक्षाख्या स्वर्णरेखाभिरन्विता ।
सरित् सा रैवते भूध्रे वर्तते मोक्षदायिनी ।।८४।।
ब्रह्मघ्नश्च सुरापश्च भ्रूणहा गुरुतल्पगः ।
स्वर्णरेखाजले स्नात्वा मुच्यते सर्वपातकैः ।।८५।।
ये च कीटपतंगाद्याः स्वर्णरेखाजले मृताः ।
वृक्षवल्लीतरुगुल्मास्तेऽपि यान्ति परां गतिम् ।।८६ ।।
भोजः सारस्वतं विप्रं स्तुत्वा वचनमब्रवीत् ।
ब्रह्मा विष्णुर्हरः सूर्यं इन्द्रोऽग्निर्मरुतां गणाः ।।८७।।
ब्रह्मचर्येण तपसा त्वया सन्तोषिताः प्रभो ।
त्वया सह मया चापि यात्रार्थं रैवते गिरौ ।।८८।।
कृपा चेत् तर्हि गन्तव्यं कृतार्थश्च भवाम्यहम् ।
किं ग्राह्यं किं च भोक्तव्यं किं देयं किं न दीयते ।।८९।।
तीर्थोपवासः स्नानं च सन्ध्यास्नानविधिक्रमः ।
पूजा निद्रा जपो रात्रौ सर्वं संक्षेपतो वद ।।1.149.९० ।।
इति सारस्वतः पृष्ठो भूभृता प्राह तद्विधिम् ।
दानादिकं फलं सर्वं प्राह विप्रो यथातथम् ।।९ १ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पूर्वकृतयुगे भोजाख्यराज्ञस्तत्पत्न्याश्च मृगाननायाः सप्तजन्मवृत्तान्तमुखेन स्वर्णरक्षानद्या माहात्म्यवर्णननामोनपंचाशदधिकशततमोऽध्यायः ।। १४९।।