लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १५२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १५१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १५२
[[लेखकः :|]]
अध्यायः १५३ →

श्रीनारायण उवाच-
तीर्थे पाल्याँश्च नियमान् यमाँश्च वच्मि पद्मजे! ।
नियमानां यमानां च पालनं फलदं भवेत् ।। १ ।।
कामक्रोधविजेता यो लोभमोहादिवर्जितः ।
श्रद्धालुश्चाऽऽस्तिकः शुद्धः स तीर्थफलभाग्भवेत् ।। २ ।।
करपादोदरजिह्वामनःशिश्नानि यस्य हि ।
संयतानि भवेयुर्वै स तीर्थफलमश्नुते ।। ३ ।।
सत्यवाक् सुव्रतः शान्तः सर्वेष्वात्मोपमदृशिः ।
तपोविद्याकृतशुद्धिः सतीर्थफलमश्नुते ।। ४ ।।
तीर्थे ह्युपोषणं कार्यं क्षौरं श्राद्धं सपिण्डकम् ।
भोजनीयाः साधुसाध्व्यो दानं देयं तु भावतः ।। ५ ।।
नारीणां पतिवत्नीनां क्षौरं नैव विधीयते ।
परीक्षा भोजनीयानां कर्तव्या नैव केनचित् ।। ६ ।।
तत्रत्यदेवतानां च कर्तव्यं मुख्यमर्चनम् ।
भूषावासोद्रव्यपात्रफलनैवेद्यवस्तुभिः ।। ७ ।।
अशक्तस्तु नमः कुर्यात् तथा सम्मार्जनादिकम् ।
साधुचरणशुश्रषां सेवां प्रसन्नताप्रदाम् ।। ८ ।।
साधवः सेविता येन तनुमानसवस्तुभिः ।
महापूजाफलं तस्य सर्वं तीर्थफलं भवेत् ।। ९ ।।
साधवस्तोषिता येन सर्वस्वार्पणसाधनैः ।
सर्वदानफलं तस्य साधुर्नारायणो यतः ।। 1.152.१ ०।।
पुण्यतीर्थेषु यत्कार्यं क्रियते सानुसंगमे ।
सहस्रगुणितं चाऽप्यनन्तफलकरं भवेत् ।। १ १।।
कृतं तीर्थे स्वल्पमपि तीर्थबलाद्विवर्धते ।
पुण्यं विवर्धते नित्यं पापं तु लीयते सदा ।। १२।।
तीर्थ कृतानां जीवानां पापलेशो न विद्यते ।
तारयति जनान् यस्मात् तस्मात् तत्तीर्थमुच्यते ।। १३।।
यद्यत् करोति सत् तीर्थे सर्वं तत्पुण्यदं भवेत् ।
नियमेन च तीर्थे वै स्थातव्यं तनुधारिभिः ।। १४।।
मनःशुद्धिं तथा सेवां सतां कुर्याद्धि तीर्थकृत् ।
लुब्धस्य पिशुनस्याथ क्रूरस्य दाभिकस्य च ।। १५।।
मलिनस्य च चौरस्य नास्तिकस्य शठस्य च ।
निन्दकस्य तथा द्रोग्धुर्न स्यात् तीर्थफलं क्वचित् ।। १६।।
शारीरमलसंत्यागे मनो न निर्मलं भवेत् ।
दोषदृष्टिपरित्यागे मनस्तु निर्मलं भवेत् ।। १७।।
रागद्वेषौ मलरूपौ तत्त्यागे निर्मलो भवेत् ।
नारीभिश्च नरैर्वापि तीर्थे वीक्ष्या तु दिव्यता ।। १८।।
दिव्यभावेन स्वस्याऽन्तर्दिव्यता वर्धतेऽन्वहम् ।
दिव्यान्तःकरणे धार्यो भगवान् तीर्थमण्डले ।। १ ९।।
स वै संतारयेद् भक्तं निर्मलं पुण्यभाजनम् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यमनाग्रहः ।। 1.152.२०।।
शौचं तपश्च सन्तोषः स्वाध्यायो भजनं हरेः ।
जपश्च पूजनं देवदर्शनं श्रवणं नतिः ।।।२१।।
कर्तव्यानि विशेषेण पूर्णं तीर्थफलं भवेत् ।
क्रोधस्तीर्थे न कर्तव्यः पुण्यप्रज्वालको हि सः ।।।२२।
तीर्थेऽन्यस्य न भोक्तव्यं पेयं नान्यस्य वै क्वचित् ।
प्रतिग्रहश्च न ग्राह्यस्तपस्तेजोहरो हि सः ।।।२३।।
लड्डुकैर्मौक्तिकैः रम्यैः कसारैर्घृतपूरकैः ।
संयावपायसाऽपूपैः शष्कुलीखाजकादिभिः ।।।२४।।
पर्पिकापिण्डकाद्यैश्च व्यञ्जनैर्द्विदलादिभिः ।
दधिदुग्धैश्च तक्रैश्च श्रीखण्डदौग्धसद्रसैः ।।२५।।
घृतशर्करसुपक्वैश्चान्यैर्भक्ष्यसुलेह्यकैः ।
तर्पणीयाः साधुविप्रसाध्व्यश्च दीनबालकाः ।।२६।।।
पितरस्तेन तृप्ताः स्युस्तस्य पुण्यमनन्तकम् ।
भोक्तव्यं भोजनीयाश्च तीर्थस्य फलमिच्छता ।।।२७।।
वन्ध्यं तीर्थं न वै कुर्यात् यदि सौख्यं समीहते ।
जडतीर्थात् चेतनं तु तीर्थं तीर्थोत्तमं मतम् ।।२८।।
सन्तः साध्व्यो योगिनश्च यतयो ब्रह्मचारिणः ।
ते सर्वे चेतनं तीर्थं तल्लाभे सुकृतं महत् ।।२९।।
चातुर्मास्ये विशेषेण तीर्थसेवा विधीयते ।
तपोनियमसत्काले फलं त्वनन्तकं भवेत् ।। 1.152.३० ।।
अल्पायासान् बहुफलान् पुत्रलक्ष्मीप्रदायकान् ।
चातुर्मास्यव्रतश्रेष्ठान् कुर्वतः फलमक्षयम् ।।३ १।।
गां स्पृष्ट्वा ब्राह्मणं नत्वा सम्पूज्य साधुदैवतान् ।
तपस्विनं यतिं शान्तं श्रोत्रियं ब्रह्मचारिणम् ।।।३२।।
मातापितरौ भगिनीं तत्पतिं दुहितुः पतिम् ।
भागिनेयं च दौहित्रं मित्रसम्बन्धिबान्धवान् ।।।३३।।
साध्वीः सतीश्च कन्याश्च दीनान्धकृपणान् जनान् ।
बालान् वृद्धानातुराँश्च गाश्चाऽतिथीननाथकान् ।।३४।।
भिक्षुकान् क्षुधितान् श्रान्तान् पथिकान् तीर्थवासिनः ।
भोजयित्वा पातकैः संमुच्यन्ते गृहमेधिनः ।।३५।।
राजा गजाश्वनकुलसतीवृषमहीधराः ।
आदर्शक्षीरवृक्षान्नप्रदाः साधुजनास्तथा ।।।३६।।
जलस्थलात्मतीर्थानि देवमन्दिरमूर्तयः ।
दृष्टमात्राः पुनन्त्येते चातुर्मास्यव्रतस्थिताः ।।३७।।
वेदधर्मकथां श्रुत्वा दृष्ट्वा मुक्तिपरान्नरान् ।
स्मृत्वा लक्ष्मीं हरिं शंभुं शिवां गंगां च स्वर्णदीम् ।।३८।।
कृत्वा जागरणं विष्णोर्दत्वा दानं च शक्तितः ।
ताम्बूलं कुसुमं दीपं नैवेद्यं तुलसीदलम् ।।३९।।
गीतं नृत्यं च वाद्यं च विधाय सुरमन्दिरे ।
महोदयमवाप्नोति फलं स्वर्ग्यं च मोक्षदम् ।।1.152.४०।।
इन्द्रियाणां च मनस ऐकाग्र्यं तप उत्तमम् ।
तदैकाग्र्यं वासुदेवे कार्यं ध्यानादिना जनैः ।।४१ ।।
ऋषयो मुनयश्चातुर्मास्ये जैह्वं रसं द्रुतम् ।
जित्वा तपः प्रकुर्वन्ति तीर्थयात्राफलाप्तये ।।४२।।
फलाहारः पयःपानं चैकभुक्तमथापि वा ।
शाकत्यागोऽथवा शाकमात्राहारस्तिलादनम् ।।४३ ।।
दधिप्राशो घृतत्यागश्चैकान्नभोजनं तथा ।
माषमुद्गादिमात्रस्य भोजनं व्रतमेव वा ।।४४।।
भूशयनं जलस्नानं तैलाभ्यंगादिवर्जनम् ।
भजनं पूजनं मालाजपः श्रीहरिकीर्तनम् ।।४५।।
कथायाः श्रवणं नित्यमिष्टदेवस्य दर्शनम् ।
साधूनां सेवनं तीर्थे व्रतं पुण्यप्रदं बहु ।।४६।।
ब्राह्मणः साधवश्चार्च्या भोजनीयाश्च सद्रसैः ।
षोडशोपचारवर्यैर्नित्यं कृष्णार्हणं व्रतम् ।।४७।।
साधूनां पूजनं नित्यं यद्वा होमो व्रतं परम् ।
घृतैक्षवलवणादेर्वर्जनं च व्रत मतम् ।।४८ ।।
नित्यं भगवतेऽर्प्यैव पेयं खाद्यं च तद्व्रतम् ।
कृतेन कर्मणा येन साधवो भगवाँस्तथा ।।४९ ।।
प्रीयेरन् तद्व्रतं श्रेष्ठं कर्तव्यं मोक्षदं यतः ।
मातापित्रोर्गुरोः सेवा व्रतानां व्रतमुत्तमम् ।।1.152.५ ० ।।
पत्युः सेवा व्रतं पत्न्याः पत्नीतोषं पतिव्रतम् ।
शिष्यव्रतं गुरोः सेवा शिष्यतोषो गुरोर्व्रतम् ।।५ १ ।।
रैवते कार्तिकव्रतं कर्तव्यं तु विशेषतः ।
वटताले हरिहरक्षेत्रे च कपिलाश्रमे ।।५२ ।।
व्रतं मासोपवासाख्यमथवा चान्द्रकालिकम् ।
चान्द्रायणं व्रतं कार्य पूर्णिमातस्तपः शुभम् ।।।५३ ।।
आश्वीनपूर्णिमायां वै कवला दश पञ्च च ।
कार्तिककृष्णप्रतिपद्दिने ग्रासाश्चतुर्दश ।।५४।।
एकैकस्य तिथिक्रमाद्ध्रासो वै कवलस्य च ।
अमायामुपवासः स्यात्प्रतिपद्येक एव च ।।५५।।
ग्रासद्वयं द्वितीयायामेवमापूर्णिमावधि ।
ग्रासवृद्धिर्यथातिथिवृद्धि कार्यं च तद्व्रतम् । ।५६ ।।
ग्रासश्चैकेन यत्नेन गलाधो याति तादृशः ।
न न्यूनो नाऽधिको वाऽपि व्रतार्थे सम्मतः सदा ।।५७।।
यद्वाऽन्यत् तीर्थकर्तॄणां तपोव्रतमुदीर्यते ।
उदयास्तावधि दिवा जलकृच्छ्रं जले स्थितिः ।। ५८ ।।
दशम्यां गोमूत्रशकृद्घृतदुग्धदधिग्रहः ।
एकादश्यामुपवासो हरिकृच्छ्रव्रतं हि तत् ।।५ ९ ।।
सप्तमीतः क्रमाद्ग्राह्यं जलं क्षीरं दधिघृतम् ।
एकादश्यामुपवासः कृच्छ्रः पैतामहस्तु सः ।। 1.152.६० ।।
षष्ठीतस्त्रिदिनं दुग्धपानं त्र्यहमुपोषणम् ।
माहेन्द्रकृच्छ्र इत्युक्तस्तीर्थे कार्यो विशेषतः । ।६ १ ।।
तृतीयातस्त्र्यहं भोज्यं निवारादि ततस्त्र्यहम् ।
यवादिकं त्र्यहमुपोषणं कृच्छ्रः स वैष्णवः ।।६ २।।
पञ्चदिनं पयःपानं पञ्चाहं दधिभोजनम् ।
एकादश्यामुपवासो भास्करकृच्छ्र उच्यते ।।६ ३ ।।
पञ्चमीतः क्रमात् भाजीं यवान् शाकं दधि क्षीरम् ।
घृतं जलमेकादश्याम् ऋषिकृच्छ्रः स उच्यते ।।६४। ।
पलाशबिल्वदर्भाब्जोदुम्बरपर्णसुशृतम् ।
पयः पेयं प्रतिपदः षष्ठ्या कुर्यादुपोषणम् । । ६५।।
तदिदं व्रतमाग्नेयकृच्छ्राख्यं समुदीरितम् ।
सप्तमीतः पयोबिल्वांबुजमृणालभक्षणम् ।।६६ ।।
एकादश्यामुपवासो लक्ष्मीकृच्छ्र उदीरितः ।
एकादशदिनेष्वेव पर्णादः पर्णकृच्छ्रकृत् ।। ६७।।
त्र्यहं प्रातस्त्र्यहं सायं त्र्यहं भोज्यमयाचितम् ।
त्र्यहं चोपवसेत् कृच्छ्रः प्राजापत्य उदीरितः । ।६८ ।।
द्वादशाहोपवासैस्तु पाराककृच्छ्र उच्यते ।
फलमात्रग्रहणेन फलकृच्छ्रः प्रकीर्त्यते । ।६९ ।।
जलमात्रग्रहणेन जलकृच्छ्रः स उच्यते ।
दलमात्रग्रहणेन दलकृच्छ्रस्तथोच्यते । ।1.152.७ ० ।।
पुष्पमात्रग्रहणेन पुष्पकृच्छ्रः प्रकीर्त्यते ।
बीजमात्रग्रहणेन बीजकृच्छ्रः स भण्यते ।।७ १ ।।
तिलमात्रग्रहणेन चणकग्रहणेन च ।
भर्जिततण्डुलग्राहे तत्तत्कृच्छ्रः स उच्यते ।।७२।।
पक्वकृच्छ्रश्चामकृच्छ्रः सक्तुकृच्छ्रौदनव्रते ।
कार्तिके शुक्लपक्षे ते कृच्छ्राः कार्या विधानतः ।।७३ ।।
तत्तद्भगवतो भक्त्या सहिता एव सर्वथा ।
भुक्तिमुक्तिफलदास्तेऽन्यथा तु स्वर्गदा मताः ।।७४।।
कृच्छ्रमध्ये भवेन्मूर्छा गोक्षीरं पाययेत्तदा ।
जलं मूलं फलं दुग्धं पत्रं पुष्पं घृतं दधि । ।७५ ।।
तक्रं तैलं शर्करादि मुन्यन्नं शाकमब्धिजम् ।
कर्पूरं त्वङ्लवंगैलातिक्तमरीचमौषधम् ।।७६ ।।
मुखशुद्धिकरद्रव्यमार्द्रकं क्वाथमित्यपि ।
चतुर्विशतितत्त्वान्यव्रतघ्नानि भवन्ति हि । । ७७ ।।
अथवाऽयाचितं भैक्ष्यमपक्वाशनमेव वा ।
शाकत्यागः फलत्यागो रसत्यागोऽन्नसुत्यजिः ।।७८ । ।
क्षारत्यागो दौग्धवस्तुत्याग ऐक्षवसुत्यजिः ।
व्रतान्येतानि सूक्तानि भुक्तिमुक्तिकराणि वै ।।७ ९ ।।
तीर्थे कार्याणि चैतानि वर्षासु कार्तिकेऽथवा ।
अन्नदानं जलदानं वस्त्रदानं सहायकृत् ।।1.152.८ ० ।।
यानदानं भुवो दानं कन्यादानं गवार्पणम् ।
स्वर्णदानं तिलदानं दीपदानं गृहार्पणम् ।।८ १ ।।
एवं स्वापेक्षितं सर्वं दातव्यं पुनरिच्छता ।
रमादामोदरस्यापि पूजनं व्रतमुच्यते ।।८ २।।
केतकीजात्यगस्तीनां कुसुमैरम्बुजैरपि ।
कमलैस्तुलसीपत्रैर्लक्षेण पूजयेद्धरिम् ।।८ ३ ।।
पत्रे पत्रे च कुसुमेऽश्वमेधफलमाप्नुयात् ।
धात्रीफलरसाक्तांगो धात्रीफलसुभोजनः ।।८४ ।।
धात्रीफलभूषितांगो धात्रीछायासमाश्रितः ।
दामोदरं समभ्यर्च्य व्रजेन्नारायणं पदम् ।।८५।।
देयं आकाशदीपश्च देवालये निशामुखे ।
पक्वान्नानि प्रदेयानि देवाय धनिभिः सदा ।।८६ ।।
गृह्णीयात् कार्तिके दीक्षां महाभागवतीं जनः ।
हरेः पदार्पितां मालां तुलसीजां गले धरेत् ।।८७।।
सा व्यक्तिर्मुच्यते नूनं जन्मसंसारबन्धनात् ।
एकेनापि व्रतेनोर्जे चातुर्मास्यफलं लभेत् ।।८८।।
इति श्रीलक्ष्मीनारायणीयसहितायां प्रथमे कृतयुगसन्ताने पालनीययमनियमदानकृच्छ्रव्रतादिनिरूपणनामा द्विपंचाशदधिकशततमोऽध्यायः ।। १५२।।