लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १४३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४३
[[लेखकः :|]]
अध्यायः १४४ →

श्रीनारायण उवाच-
तत्र वस्त्रापथे लक्ष्मि! कार्तिक्यां कुरुते तु यः ।
यात्रां विगाह्य तत्तीर्थे कृतमोक्षः प्रजायते ।। १ ।।
दामोदरे सरित्प्रोक्ता स्वर्णरक्षाभिधा शुभा ।
ब्रह्मकुण्डं तत्र तीर्थं तथा ब्रह्मेश्वरः शिवः ।। २ ।।
कालमेघश्च संप्रोक्तो भवो दामोदरस्तथा ।
गव्यूतिद्वितये दूरे कालिका शिखरोपरि ।। ३ ।।
इन्द्रेश्वरो वायुदिशि मृगीकुण्डो भवान्तिके ।
कृते सारणिकं तीर्थं त्रेतायां हेममारकम् ।। ४ ।।
पश्चिमे उन्नबीलेति क्षेत्रं योजनदूरगम् ।
तत्र तीर्थान्यनेकानि सिद्धस्थानानि षोडश ।। ५ ।।
सूर्यकुण्डस्तत्र तीर्थं गंगेशो मंगलं तथा ।
सिद्धेश्वरमहादेवो गव्यूतिः पश्चि मे पुरे ।। ६ ।।
इन्द्रेश्वरे चक्रतीर्थं हाटकेशस्तु पश्चिमे ।
यक्षेश्वरी महादेवी तत उपरिक्ष्माधरः ।। ७ ।।
सोमलिंगेति मध्यः स यत्र तीर्थान्यनेकशः ।
गजेन्द्रस्य पदं तत्र तत्रैव रसकूपिका ।। ८ ।।
कुण्डानां च शतं तत्र ह्यम्बिका शिखरोपरि ।
प्रद्युम्नश्च तथा साम्बस्तथा गोरक्षकोऽपि च ।। ९ ।।
गणेशो हनुमाँश्चापि रामलक्ष्मणमाधवाः ।
वसन्ति वनमध्ये ते तत्तन्नाम्ना वनानि च ।। 1.143.१० ।।
भवस्तत्र समायातः कथयामि कथामिमाम् ।
कैलासशिखरे रम्ये शिवस्य सन्निधौ क्वचित् ।। ११ ।।
ब्रह्मविष्णुसुरेन्द्राद्या देवास्तत्राऽऽययुर्द्रुतम् ।
विष्णुः प्रोवाच तं शंभुं दैत्यानां च वरप्रदम् ।। १२।।
नाहं पालयितुं शक्तस्त्वं ददासि वरान् बहून् ।
दैत्यानां दानवानां च रक्षसा च महेश्वर ।। १३।।
विकृतिं यान्ति पश्चात् ते कष्टवध्या भवन्ति मे ।
श्रुप्वोवाच तदा शंभुर्वरं यदि ददामि न ।। १४।।
तदा तु तपसा दैत्याः सर्वं कुर्युर्हि भस्मितम् ।
त्वयाऽहं ब्रह्मणा देवैर्वरदानाय योजितः ।। १५।।
मदीया प्रकृतिस्त्वेषा तां कथं त्यक्तुमुत्सहे ।
येन केन प्रकारेण प्रजाः पाल्यास्त्वया प्रभो ।। १६।।
क्षन्तव्यं मे वरदानकर्मापि बहुदं भवेत् ।
त्वां विना श्रीहरे विष्णो दैत्यानामन्तको हि कः ।। १७।।
मया वा ब्रह्मणा वापि वरदानेन योजिताः ।
दैत्या वा दानवा वा च राक्षसा वापि ये च के ।। १८।।
त्वया युक्त्या प्रहन्तव्या नान्यथा कुशलं भवेत् ।
अपराधस्तु सोढव्यः करुणासागरो भवान् ।। १९।।
जालन्धरो हिरण्याक्षो हिरण्यकशिपुस्तथा ।
अन्ये चासुरमूर्धन्या युक्त्या त्वयैव घातिताः ।।1.143.२० ।।
यथा युक्तिं भवान्वेत्ति तथा जानाति नाऽपरः ।
वयं तु वरदास्तेषां भवाँस्तेषां तु शान्तिकृत् ।।।२१ ।।
इत्यस्माभिश्चालितं वै संसारचक्रकं महत् ।
तथैवैतत् संचलति क्षमस्व पुरुषोत्तम ।।२२।।
अहं व्यक्तो विचरामि तेनाऽऽगच्छन्ति देवताः ।
दैत्याश्च वरलाभार्थं ततोऽव्यक्तो भवाम्यहम् ।।।२३।।
देवीं तु पार्वतीं रक्ष गच्छाम्यविदितस्थलम् ।
इति कृत्वा महादेवस्तत्रैवान्तरधीयत ।।२४।।
कैलासं तु परित्यज्य रैवताचलमागतः ।
गिरीणां मध्यमास्थाय त्यक्त्वा दिव्ये च वाससी ।।२५।।
गजाऽजितं परित्यज्य त्यक्त्वा मूर्तं सुरूपकम् ।
भित्त्वा भूमितलं शंभुः स्थाणुरूपो बभूव ह ।।२६।।
यस्मात्स्वयं बभूवेति भवेश्वरः स्वयं शिवः ।
स्वयंभूर्वै भवो जातो भवेश्वरतडागके ।।।२७।।
अत्रान्तरे तु कैलासे ते न पश्यन्ति शंकरम् ।
ततो देवाः प्रचलिताः कृत्वा गौरीं पुरःसराम् ।।२८।।
नन्दिभद्रादयः सर्वे देवा इन्द्रादयस्तथा ।
पुत्रेण सहिता देवी सिंहारूढा स्वयं ययौ ।। २९।।
अधिरुह्य गरुत्मन्तं ययौ विष्णुः सनातनः ।
हंसाधिरूढो भगवान् ब्रह्मा चायाति पृष्ठतः ।। 1.143.३० ।।
ऐरावतं समारुह्य देवराजो गतः स्वयम् ।
गंगा सरस्वती देवी यमुना च शरद्वती ।। ३१ ।।
देवताश्चागताः सर्वा नागा यक्षाश्च किन्नराः ।
अधिरुह्य गिरेः शृंगमम्बादेवी व्यवस्थिता ।।३२।।
ब्रह्मा विष्णुस्तथा देवा मार्गयांचक्रुरीश्वरम् ।
ददृशुस्तं तडागस्य निम्नभूमौ महेश्वरम् ।।३३।।
किमर्थं वा कथं चात्रा समायाताः सुरादयः ।
मया त्वत्रैव वस्तव्यं भवेश्वरसुरूपतः ।। ३४।।
भवन्तो यदि सन्तुष्टाः सुरा नद्यश्च सेवकाः ।
गिरौ रैवतके विष्णुरम्बा सर्वेऽत्र वाहकाः ।।३५।।
सिंहादयोऽपि तिष्ठन्तु कैलासोऽन्य इवात्र वै ।
सुवर्णा भगवत्पत्नी स्वर्णरेखा नदी मता ।। ६।।
तत्र गंगासरस्वत्यादयो वसन्तु सर्वदा ।
पर्वते स्वर्णरक्षा सा स्वर्णरेखा तु सा भुवि ।।३७।।
एवं शंभुर्भवेशाख्यो विष्णुर्दामोदरः स्वयम् ।
ब्रह्मा स्वयंभूस्तत्रास्ति चेन्द्र इन्द्रेश्वरे स्थितः ।। ३८।।
अन्याऽन्ये यत्र सारल्यं तत्र तत्र व्यवस्थिताः ।
तत एतन्महत्तीर्थं मृत्युसंसारतारकम् ।। ३९।।
बहुरात्रं हरिस्तत्र कृत्वा दैत्यनिबर्हणम् ।
समागत्य च विश्रान्तिं नयत्येव दयानिधिः ।।1.143.४० ।।
रेमे रैवतके विष्णुर्यावदाभूतसंप्लवम् ।
हिरण्यकशिपुं हत्वा गत्वा च रैवते गिरौ ।।४१।।
शरभं शिवमास्कन्द्य नारसिंहं मुमोच सः ।
हिरण्याक्षं तथा हत्वा गत्वा रैवतके गिरौ ।।।४२।।
वने व्याघ्रमवस्कन्द्य वाराहं समुमोच वै ।
पृथ्वीं कृत्वा समां देवः पृथुश्चोवास रैवते ।।४३ ।। १
जयमाला पृथुना दामोदरांसे निवेशिता ।
ब्रह्मघ्नश्च सुरापश्च भ्रूणहा गुरुतल्पगः ।।।४४।।
स्वर्णरक्षाजले स्नातो मुच्यते सर्वपातकैः ।
भवदामोदराऽम्बानां दर्शनाद्याति धाम तत् ।।४५।।
वामनस्तु बलिं प्राप्य जित्वा रैवतके स्थितः ।
कैलासपर्वतं त्यक्त्वा देवीं देवांश्च संगतान् ।।४६।।
वैशाखे पंचदश्यां तु भूमिं भित्त्वा भवोऽभवत् ।
तस्मिन्नेव दिने लक्ष्मि! स्वर्णरक्षानदीजलात् ।।४७।।
पन्थानं वासुकिः प्राप सर्वपापप्रणाशनम् ।
ऐरावतपदाक्रान्त ऊर्जयन्तो महागिरिः ।।४८।।
सुस्राव तोयं बहुधा गजपादोद्भवं शुचि ।
वस्त्रापथस्य क्षेत्रस्य प्रमाणं शृणु पद्मजे ।।४९।।
हरस्य भ्रमतो भूमौ पतितं वस्त्रभूषणम् ।
तावन्मात्रं हि तत्क्षेत्रं देवैर्वस्त्रापथं कृतम् ।।1.143.५०।।
उत्तरेण नदी भद्रा पूर्वं कुंकुमवापिका ।
दक्षिणे च बलेः स्थानमूर्जयन्तीनदीमनु ।।५ १।।
पश्चिमायां परं नद्योः संगमो वामनात्पुरः ।
एतद्वस्त्रापथं क्षेत्रं भुक्तिमुक्तिप्रदायकम् ।।५२।।
ज्ञेयः क्षेत्रस्य चायामो योजनानां चतुष्टयम् ।
क्षेत्रस्य दीर्घता योजनानां द्वादशकं मता ।।५३।।
भूमौ लुण्ठन्दण्डवच्च कृत्वा प्रक्रामति क्रमात् ।
दण्डप्रमाणभूमेर्वा प्रक्रमेद् धूलिकां वहन् ।।।५४।।
स सप्तसागरां पृथ्वीं शासित्वाऽन्ने हरेः पदम् ।
शतभौमविमानस्थो दिव्यदेहो व्रजत्यथ ।।।५५।।।
विधाय भुजबन्धं वा पादौ बध्वा शनैः शनैः ।
मौनेन मानुषो यायाद् दामोदरं भवेश्वरम् ।।५६।।
सर्वपापैः प्रमुच्येत मोक्षमन्ते ह्यवाप्नुयात् ।
वस्त्रापथे महाक्षेत्रे नगरे वामनस्थले ।।५७।।
वशिष्ठो भगवाँस्तप्तुं तपस्तत्राजगाम ह ।
ईशानकोणे नगरात् स्वर्णरेखानदीजले ।।५८।।
स्नात्वा ध्यात्वा हरिं देवं प्रणनाम मुनिर्यदा ।
तदा हरिहरौ तत्र समायातौ तमूचतुः ।।५९।।
त्वं वै वर्षशतं चात्र घोरे तपसि संस्थितः ।
महर्षे तव तुष्टौ स्वः किं ते प्रार्थ्यं वदस्व तत् ।।1.143.६०।।
वसिष्ठः प्राह देवेशौ यदि देयो वरो मम ।
तदा भवद्भ्यामत्रैव स्थेयमाचन्द्रतारकम् ।।६१।।
ममापि दर्शनं सेवा युवयोः सर्वदा भवेत्। ।
अत्र ये पापिनो लोका जलं पीत्वा क्षणं च वा ।।।६२।।
ग्रहीष्यन्ति च विश्रामं तेषां पापलयो भवेत् ।
ह्येतद्वासिष्ठसंज्ञं च तीर्थं ख्यातं भवेत्सदा ।।६३।।
तथास्त्विति समुच्चार्य देवौ चांशेन तिष्ठतः ।
स्वर्णदुर्गे तु नगरे कृष्णाया उत्तरे तटे ।।६४।।
दातारस्य तु दैत्यस्य विनाशाय सुदर्शनम् ।
चक्रं वै प्रहितं तच्च दग्ध्वा ऽसुरमुपागतम् ।।६५।।
तदा नारायणो यत्र विश्रामं प्राप्तवान् हरिः ।
तत्र त्रिविक्रमो देवः सिद्धेश्वरश्च शंकरः ।।६६।।
श्रीकृष्णो राधया साकं गणेशो हनुमाँस्तथा ।
देवाश्चान्ये समायाता नारायणदिदृक्षया ।।६७।।
पर्वतीयजनैः शुद्धैः कल्याणीयसुमार्गगैः ।
दिव्यदृष्ट्या तु ते देवा दृष्टास्तत्र समागताः ।।६८।।
तैर्भक्तपुंगवैर्देवाः सात्त्वतैः समपूजिताः ।
नमस्कृतास्तथा देवाः प्रसन्ना जगदुश्च तान् ।।६९।।
भक्त्या तु भवतां तुष्टा वदन्तु किमपेक्षितम् ।
प्राहुस्ते तु तदा देवान् यदि देयो वरो भवेत् ।।1.143.७० ।।
वसन्तु चात्र संस्थाने कल्याणाय तु देहिनाम् ।
पर्वतीयास्तथाऽरण्यवासिनोऽपि त्वदीक्षणात् ।।७१ ।।
मुक्तिं यास्यन्ति तस्माद्वै संप्रयच्छन्तु तद्वरम् ।
तथास्त्विति वरं दत्वा स्थिताश्चांशैस्तु मन्दिरे ।।७२।।।
सुवर्णसिंहराज्ञा वै कारितेऽत्र महत्तरे ।
सुवर्णकलशैः स्वर्णाऽऽसनद्वारैः सुशोभिते ।।७३।।
रक्तपीतैः श्वेतनीलैर्मणिभिः कृतभूमिके ।
स्फाटिकाद्यैश्च सुक्लृप्तसोपानभित्तिमण्डले ।।७४।।
अत्रागत्य तु ये लोका करिष्यन्तीक्षणादिकम् ।
दानं पुण्यं जप होमं साधुसाध्व्यादितर्पणम् ।।७५।।
श्राद्धं तथोत्सवं दैवं तेषां पुण्यमनन्तकम् ।
उद्यापनं करिष्यन्ति जीर्णोद्धारं च ये जनाः ।।७६।।
नैवेद्यं फलदानादि सतां सेवां धनादिभिः ।
तनुभिश्च करिष्यन्ति ते यास्यन्त्यक्षरं पदम् ।।७७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रैवते वस्त्रापथे विविधतीर्थभवेश्वरदामोदरस्वयंभूत्रिविक्रमवासिष्ठस्वर्णरक्षादिनिवासकारणप्रदर्शनादिनामा त्रिचत्वारिंशदधिकशततमोऽध्यायः ।। १४३।।