लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४४
[[लेखकः :|]]
अध्यायः १४५ →

श्रीनारायण उवाच-
अहं वसामि सत्तीर्थे लोकोद्धारणहेतवे ।
सर्वत्रापि निवसामि चान्तर्यामित्वहेतवे ।। १ ।।
मूर्तौ मूर्तौ सदा वर्ते सेवाग्रहणहेतवे ।
तत्तत्स्थाने वसाम्यत्र भक्तसौहार्दहेतवे ।। २ ।।
क्वचिद्भक्ताऽऽग्रहाद् यद्वा मम संकल्पकारणात् ।
क्वचित्कार्यावश्यकत्वान्निवसामि स्थले स्थले ।। ३ ।।
भारते पश्चिमे भागे यावत्सागरसंगते ।
रैवताद्रिसमं तीर्थं नान्यद् दिव्यं हि वर्तते ।। ४ ।।
तत्रैव दक्षिणेऽरण्ये सोमनाथस्य संस्थितिः ।
उत्तरे स्वर्णनगरेऽनादिकृष्णस्य संस्थितिः ।। ५ ।।
पूर्वे कुंकुमवाप्यां च गोपालकृष्णसंस्थितिः ।
पश्चिमे वामनस्थल्यां त्रिविक्रमस्य मे स्थितिः ।। ६ ।।
एवं सर्वत्र तद्देशे निवसामि स्थले स्थले ।
महत्यां वै राजधान्यां लक्ष्मीनारायणस्थितिः ।। ७ ।।
प्रान्ते प्रान्ते जनोद्धारहेतवे निवसाम्यहम् ।
युगान्ते मम सौधानि विवर्तन्ते त्वितस्ततः ।। ८ ।।
विलीयन्ते तु जीर्णानि कार्यन्ते नूतनानि च ।
यथा भक्ता भवन्त्येव तद्वत्पुनर्भवाम्यहम् ।। ९ ।।
नान्तोऽस्मि मम दिव्यानां स्थानानां युगभेदतः ।
भूमिर्देशास्त एव स्युरहमप्यस्मि चैव सः ।। 1.144.१० ।।
अर्चकस्य तपःश्रैष्ठ्याद् भक्तभक्तिबलात्तथा ।
मूर्तीनामतिसौन्दर्यादहं वर्ते समक्षवत् ।। १ १।।
बलेर्भक्तिं विलोक्यैव कश्यपस्य तपस्तथा ।
दीर्घोऽपि वामनो भूत्वाऽवसं वै रैवताचले ।। १२।।।
कश्यपेन महोग्रं वै तपस्तप्तं नदीतटे ।
ओजस्वत्याश्चोत्तरे वै चूतवृक्षाभिसंवृते ।। १३।।
ऊर्जयन्त्या जलं पीत्वा तत्र वर्षसहस्रकम् ।
पुत्रार्थं निर्जने स्थाने यत्रास्ते वामनस्थली ।। १४।।
तत्राऽदित्या सह तेन कश्यपेन हरिः स्वयम् ।
प्रसादितश्च पुत्रत्वे वृत्तोऽतो वामनोऽभवम् ।। १५।।
तत्कारणं तु ते वच्मि शृणु लक्ष्मि! मनोगतम् ।
हिरण्यकशिपुं हत्वा नृसिंहो भगवान् स्वयम् ।। १६।।
ददाविन्द्राय त्रैलोक्यं प्रह्लादायाऽतलादिकम् ।
काले हरिपदं प्राप्तः प्रह्लादः सात्त्वताग्रगः ।। १७।।
प्रह्लादस्य सुतः श्रेष्ठो विरोचन इतीरितः ।
स वर्षाणामयुतं वै राज्यं कृत्वा दिवं ययौ ।। १८।।
तस्य पुत्रो महाबाहुः सात्वतानां वरो बलिः ।
सत्यप्रतिज्ञो धर्मिष्ठो भक्तः प्रियतमो हरेः ।। १९।।
स जित्वा लोकपालांश्च दिक्पालाँश्च समन्ततः ।
त्रींल्लोकान्स्ववशे कृत्वा राजाऽभूत् त्रिभुवां पतिः ।।1.144.२० ।।
एकातपत्रां पृथिवीं बलिश्चक्रे बलैतिनः ।
अकृष्टपच्या पृथिवी बहुसस्यफलप्रदा ।।२१ ।।
गन्धवन्ति च पुष्पाणि रसवन्ति फलानि च ।
आस्कन्धफलिनो वृक्षा पुटके पुटके मधु ।।२२।।
गावः पूर्णदुघाः सर्वा बलौ राज्ये प्रशासति ।
स्वधर्मनिरताः सर्वे नराः पापविवर्जिताः ।।।२३ ।।
अर्चयन्ति हृषीकेशं सततं वैष्णवीप्रजाः ।
इन्द्रादित्रिदशास्तस्य किंकराः समुपस्थिताः ।।२४।।
ऐश्वर्यं त्रिषु लोकेषु बुभुजे बलदर्पकृत् ।
चतुर्वेदा द्विजास्तस्य राज्ये यज्ञादिकारिणः ।।२१।।
क्षत्रिया रक्षणे सक्ता युद्धशास्त्रार्थकोविदाः ।
गोषु सेवापरा वैश्याः शूद्रा शुश्रूषणे रताः ।।२६।।
दारिद्र्यदुःखमरणैर्विमुक्ताश्चिरजीविनः ।
मणिदीपप्रकाशास्तु दिवेव निशि सन्ति यत् ।।२७।।
सर्वे कुटुम्बिनो हृष्टाः सुखिनः स्वेष्टवस्तुभिः ।
नित्यं वैवाहवादित्रैर्गर्जन्ति यूपमण्डपाः ।।।२८।।
यज्ञे सन्तोषिता देवा नाऽतो युद्धं परस्परम् ।
सापत्निककलिर्नास्ति पशुपक्षिजनेष्वपि ।।२९ ।।
मैत्रीभावं गतं सर्वं जगत् स्थावरजंगमम् ।
तदा तु नारदो युद्धं त्रैलोक्ये नहि पश्यति ।।1.144.३० ।।
तावत्तस्योदरे पीडा महती समजायत ।
किं तर्पणेन स्नानेन जपहोमादिभिश्च किम् ।।३ १ ।।
तत् स्नानं यत्र युद्ध्यन्ते गजा दन्तविघट्टनैः ।
सन्ध्या यत्र रक्तैर्भूः कबन्धानां तु पाटला ।। ३२।।
क्रव्यादा यत्र तृप्यन्ति तर्पणं तन्मम प्रियम् ।
पूजा क्षत्रियशस्त्रौघैर्हन्यन्ते क्षत्रिया रणे ।।३३ ।।
स होमो यत्र हूयन्ते हन्यन्ते नरपुंगवाः ।
युद्धं विना त्रिलोक्यां मे शून्यं तु दृश्यतेऽन्वहम् ।।३४।।
तथा करिष्ये चेन्द्रस्य बलिना कलहो भवेत् ।
नारदस्तद्विचिन्त्यैव ययाविन्द्रं प्रति द्रुतम् ।।३५।।
इन्द्रो ददर्श चायान्तमुदासीनं तु नारदम् ।
सिंहासनं परित्यज्य समुत्थायाऽग्रतः स्थितः ।। ३६ ।।
स्वागतेनाऽभिवन्द्याऽथ बभाषे नारदं हरिः ।
महर्षे कुशलोऽस्यद्य कुतो वाऽऽगम्यते त्वया ।।३७।।
स्नाने सन्घ्यार्चने होमे कुशलं स्विन्नु विद्यते ।
इति पृष्टो विहस्याऽथ नारदः प्राह तं प्रति ।।३८।।
बलिर्यावन्महाँश्चक्रवर्ती भवति सर्वगः ।
तत्र किं कुशलं मेऽस्ति तेऽपि पृच्छामि तन्मृषा ।।३९।।
कुशलं तु तदा मह्यं प्रष्टव्यं यदि संयुगे ।
देवानां विजयं द्रक्ष्ये बलेश्चाधोगतिं तथा ।।1.144.४०।।
आदित्याद्या ग्रहाः सर्वे बलिं नमन्ति योजिताः ।
बलेर्यज्ञैस्तथा मेघा वर्षन्ति हविषा भुवि ।।४१ ।।
रोगादिमरणं नास्ति किं यमस्य प्रयोजनम् ।
त्रिलोकीशो महेन्द्रश्च दिक्पालो लोकपालकः ।।४२।।
सुराधिपं बलिं त्वद्य स्तुवन्ति मानवा अपि ।
त्वां तु हसन्ति दैत्येन्द्रा जल्पन्ति निर्बलान्सुरान् ।।।४३।।
वसुन्धरां स्वर्णमयीं स्वायत्तीकृत्य सर्वथा ।
बलिर्न मनुते त्वां वै सुरेश्वर इति स्वयम् ।।४४।।
सुराः सर्वे बल्यधीना बलिक्रतुसुभोजिनः ।
रंभा तिष्ठति बल्यग्रे मनुते त्वां न मेनका ।।।४५।।।
तिलोत्तमा बलिं याति तूर्वशी च बलेर्वशा ।
सुकेशी मत्र्जुघोषा च निरीक्षेते बलिं सदा ।।४६।।
पुलोमा पुलकोद्भेदं न करोति बलिं विना ।
पौलोमी च बलिं स्तौति नमति द्यौर्बलिं सदा ।।४७।।
नारदः पर्वतश्चैव हाहा हूहूश्च तुम्बुरुः ।
बलेः राज्यं प्रशंसन्ति ते किमस्ति प्रयोजनम् ।।४८।।
बृहस्पतिर्यदाचष्टे न तद्वाच्यं मया तव ।
इन्द्राणी तु बलिं चेन्द्रं मत्वा प्रातः प्रपश्यति ।।४९।।
इति श्रुत्वा महेन्द्रस्तु कोपज्वलितमानसः ।
गजं वज्रं प्राह सूतौ रथमानयतं द्रुतम् ।।1.144.५०।।
सूर्यं रुद्रं यमं वायुं सुसज्जान् कुरुतं तथा ।
रणवाद्यानि वाद्यन्तां प्रयान्तु त्वरिता भटाः ।।५१ ।।
इतीन्द्रं क्रुद्धमालोक्य बृहस्पतिरुदारधीः ।
प्राह सामाद्युपायेन बलिर्जय्यो न चान्यथा ।।।५२।।।
यदधीनं जगत्सर्वं विष्णुं सुरसुरक्षकम् ।
मन्त्रयन्तु समाहूयाऽनुतिष्ठन्तु तदारितम् ।।।५३।।
अथवा राजते विष्णुः कार्यार्थं मन्दरे गिरौ ।
गच्छामस्तत्र ऋषयः सेन्द्रा ब्रह्मपुरोगमाः ।।५४।।
गौतमोऽत्रिर्भरद्वाजो विश्वामित्रोऽथ कश्यपः ।
जमदग्निर्वशिष्ठश्च बालखिल्याश्च नारदः ।।५५।।
गताः सर्वे तदा विष्णुर्बालखिल्याँस्तु वामनान् ।
जहासाऽङ्गुष्ठपर्वाभान् भाविकार्यबलाद्धरिः ।।५६।।
तदा सर्वे बालखिल्या उच्चैरूचुः परस्परम् ।
अस्मान् हससि तस्मात्त्वं वामनो वै भविष्यसि ।।९७।।
वस्त्रापथे रैवताद्रौ देवकार्यं विधाय च ।
वामनत्वं परित्यज्य दामोदरो निवत्स्यसि ।।५८।।
इत्युक्तो बालखिल्यैः स विष्णुः स्वागतमाचरत् ।
इन्द्रो बलेस्त्रिलोकाधिपत्यं प्राह सुदुःसहम् ।।९९।।
वशीकृतं तु बलिना दैत्या यज्ञभुजः कृताः ।
तस्माद्बलिर्भ्रष्टराज्यः पातालमधितिष्ठतु ।।1.144.६०।।
सूर्यसोमान्वये कश्चिद् राजा भवतु भूतले ।
इत्याश्रुत्य स्वयं प्राह करिष्ये च तथा हरिः ।।६ १।।
ऋषयस्तत्र गच्छन्तु कारयन्तु महामखम् ।
अहं तत्र समागत्य साधयिष्यामि तं बलिम् ।।६२।।
इत्युक्ता मुनयः सर्वे स्वस्वस्थानं ययुस्तदा ।
कालं प्रतीक्षमाणास्ते प्रतीक्षन्ते हरेर्जनिम् ।।६३।।
कश्यपोऽपि सुतं त्विन्द्रं भ्रष्टराज्यं विलोक्य च ।
आदित्या सह सौराष्ट्रे तपस्तेपे पयोवृतम् ।।६४।।
अर्चयामास देवेशं पद्मनाभं जनार्दनम् ।
शरीरे तु तयोस्तत्र पिपीलिकाभिरावृते ।।६५।।
तेजो महत्तयोव्याप्तं सौराष्ट्रे परितस्तदा ।
लोकास्तु विस्मितास्तेन तौ स्तुवन्ति पुनः पुनः ।।६६।।
हरिर्वर्षसहस्रान्ते प्रसन्नस्तपसा तयोः ।
तत्रैवाविरभूत् तस्य देव्या सह सनातनः ।।६७।।
तं दृष्ट्वा पुण्डरीकाक्षं शंखचक्रगदाधरम् ।
इन्दीवरदलश्यामं सर्वाभरणशोभितम् ।।६८।।
किरीटहारकेयूरकुण्डलशृंखलान्वितम्
पीतांबरं श्रीवत्सांककौस्तुभहारवक्षसम् ।।६९।।
लक्ष्मीयुक्तं गरुडस्थं प्रसन्नं जगदीश्वरम् ।
हर्षनिर्भरहृदयस्तुष्टाव कश्यपो हरिम् ।।1.144.७० ।।
नमो नमस्ते लक्ष्मीश सर्वेश भुवनेश्वर ।
स्वाश्रितानां सुखदात्रे भक्तकार्यकृते नमः ।।७१ ।।
आदिमध्यान्तरहितनित्यरूपाय ते नमः ।
नमः सर्वत्राणकृते वेदवेदांगचक्षुषे ।।७२।।
सूक्ष्माय स्थूलरूपाय नारायणाय ते नमः ।
कल्याणगुणपूर्णाय परात्मने च ते नमः ।।७३ ।।
नमस्ते योगिगम्याय भक्तेच्छापूरकाय ते ।
नित्यमुक्तैकभोगाय परधामेश्वराय च ।।७४।।
चतुरात्मन्नमस्तुभ्यं व्यूहात्मने च ते नमः ।
पंचपंचस्वरूपाय पंचसंस्कारिणे नमः ।।७५।।
नारायणाय कृष्णाय वासुदेवाय ते नमः ।
शार्ङ्गिणे विश्वरूपाय धात्रे त्रात्रे च ते नमः ।।७६९।।
विष्णवे जिष्णवे तुभ्यं शुद्धसत्वाय ते नमः ।
बलेर्बलं महज्जातं तन्निषूदय माधव ।।७७।।
देवास्तदा सुखिनः स्युरिति चाभ्यर्थनाऽस्ति मे ।
यद्यपि बलिराजोऽसौ भक्तोऽस्ति सुरमेलनः ।।७८।।
किन्तु सुरातिक्रमणं मास्तु दैत्यस्य माधव।
तस्मात् त्रिलोकगं राज्यं त्विन्द्रस्यैव सदाऽस्तु वै ।।७९।।
बलेस्त्वासुरराज्यं च पातालादौ यथास्तु च ।
तथाऽस्त्यभ्यर्थनीयं मे यथेच्छसि तथा कुरु ।।1.144.८० ।।
उक्त्वा तु कश्यपस्तत्र विरराम हरेः पुरः ।
अदितिः प्राह देवेशं नत्वा स्तुत्वा जगत्प्रभुम् ।।८ १।।
हे नाथ यदि देवानां शास्तृत्व चासुरे भवेत् ।
तदाऽस्मत्पुत्रबाहुल्ये नास्ति किञ्चित्प्रयोजनम् ।।।८२।।
यदि शृगालाः काकाश्च स्युर्देवस्य विभूतयः ।
किं सिंहेन च हंसेन तदा वै महिमा तव ।।८३।।।
यदि दैत्याः सार्वभौमा भ्रातरस्ते च किंकराः ।
अलं तर्हि जीवितेन त्वदित्या रमया श्रिया ।।८४।।
यदि भवान्महैश्वर्यो दैत्योऽपि तादृशो भवेत् ।
अलं भगवता तर्हि दैत्यो वै माधवो भवेत् ।।८५।।
तस्मात्पात्राधिकारेण देया स्मृद्धिर्हि नाऽन्यथा ।
यदि लौहं गले न्यस्तं शोभते रूपभासुरम् ।।८६।।
कृतं तर्हि सुवर्णेन व्यर्थ सृष्टं हि हाटकम् ।
यदि दैत्यौ भवेदिन्द्रो व्यर्था ह्यसरसस्तथा ।।८७।।
राजमातरो राक्षस्यश्चेदिन्द्राण्या ह्यलं तदा ।
किंबहूक्तेन मे नाथ व्यवस्थां कुरु केशव ।।८८।।
इत्यभ्यर्थित एवाऽयं श्रीपतिः परमेश्वरः ।
प्राह तौ वै वरार्थाय कश्यपः प्राह तं तदा ।।८९।।
पुत्रत्वं मम देवेश संप्राप्य त्रैदशं हितम् ।
प्रकुरुष्वेन्द्रावरजो भूत्वोपेन्द्रो मम प्रियः ।।1.144.९०।।
येन केनाप्युपायेन बलिं निर्जित्य लीलया ।
त्रैलोक्यं देहि देवाय शक्रायेति सुखं कुरु । ।९ १।।
इत्युक्तस्तेन विप्रेण तथेत्याह जनार्दनः ।
अदितिः कश्यपश्चैनं पूजयामासतुर्बहु ।।९२।।
देवैः संस्तूयमानः श्रीहरिस्त्वन्तरधीयत ।
अदितिः कश्यपश्चैतौ मध्यदेशं गतौ तदा ।।९३।।
हिमालयस्य भूमौ वै कंचित्कालं समूषतुः ।
एतस्मिन्नेव समये कश्यपस्य महात्मनः ।।९४।।
अदित्या गर्भमागच्छद् भगवान् माधवः स्वयम् ।
प्राविर्भावमगमत् स देवस्त्र्यंगुलदेहवान् ।।९५।।
दशवर्षवयस्कः स वितस्तिदेहवानभूत् ।
मात्रे पित्रे वने तत्रैकदा ह्यासुरसैन्यपः ।।९६।।
अदृश्यत बलिः पृथ्व्यां जेतुं सर्वान् समागतः ।
ततो देवान् मुनीन् पितॄन् जेतुं यास्यति यावता ।। १७।।
तावता ह्यदितिः प्राह कश्यपं प्राणवल्लभम् ।
बलिः सैन्येन देवान्वै जित्वा स्मृद्धिं हरिष्यति ।।९८।।
किं कर्तव्यं मम पुत्रोऽद्यापि वितस्तिमात्रकः ।
रक्षणं दुर्लभं चास्य देवानां तु कथं हि तत् ।।९९।।
तथा भवतु यद्भावि हरिः रक्षां करिष्यति ।
इति दीनां मातृवाचं संश्रुत्वा गुप्तमाधवः ।। 1.144.१०० ।।
तदा प्रादर्शयन्मात्रे वितस्तिविग्रहे शुभे ।
अनन्तानन्तसृष्ट्यण्डकोटीर्याश्चाणुरूपिणीः ।। १० १।।
उड्डीयन्ते स्म चाण्डानि सप्तावरणवन्ति तु ।
लोकालोकश्च मेरुश्चाऽद्रयोऽन्ये तत्र दर्शिताः ।। १०२।
आपगाश्चाब्धयश्चापि नक्षत्रग्रहतारकाः ।
मेघा वनानि पातालालयास्तेषां गृहाणि च ।। १० ३।।
उच्चावचानि सर्वाणि स्थलानि दर्शितानि वै ।
तत्र हिमगिरिस्तस्य वनानि तत्र कश्यपः ।। १०४।।
अदितिश्च स्वयं कृष्णो वितस्तिमात्रविग्रहः ।
बलेः सैन्यं तथा सर्वं दर्शितं तत्र वामने ।। १ ०५।।
वामनेन महादीर्घे देहे प्रदर्श्य तत्तनुम् ।
क्षणात्तिरोहितं तत्राऽभवद्वितस्तिमानकः ।। १ ०६।।
अथैवं दर्शने जाते पित्रोराश्वासनं ह्यभूत् ।
देवानां भयहर्ताऽयं प्राप्ते काले भवेदिति ।। १ ०७।।
ततः षोडशवर्षोऽयं हस्तमात्रप्रमाणकः ।
प्राप्तमश्रुस्वर्णरेखः कौस्तुभेन विराजितः ।। १ ०८।।
स्वर्णान्तमेघवत्स्निग्धकेशयूथसुमस्तकः ।
पद्मपत्रनिभनेत्रश्चन्द्रोज्ज्वलास्यशोभनः ।। १ ०९।।
सुदृढपक्वशरीरः कोमलः करपत्तलैः ।
हस्ते स्वल्पं त्वातपत्रं यष्टिका रत्नपौरटी ।। 1.144.११ ०।।
मालिका शुक्लमणिभिः कृता करगता शुभा ।
चन्दनस्योर्ध्वपुंड्रं च भाले कुंकुमचन्द्रकः ।। ११ १।।
सुवर्णवर्णं स्वल्पं सुयज्ञोपवीतमंसके ।
रक्तोर्णायाः पटं मूर्ध्नि कौस्तुभो हृदये तदा ।। १ १२।।
स्वर्णप्रान्तं श्वेतवस्त्रमुत्तरीयं च कंचुकम् ।
कट्यां तु कोमला चार्द्रा शुभा मुञ्जस्य मेखला ।। ११ ३।।
पीताम्बरं स्वर्णवर्णं पादुके स्वर्णभूषिते ।
काष्ठकमण्डलुर्हस्ते रज्जूः कार्पासनिर्मिता ।। १ १४।।
करे पुरुषविष्णुनारायणसूक्तपुस्तकम् ।
पूजार्थं वंशपात्रं च ग्रथितं राजते करे ।। १ १५।।
आसनं चाजिनं कुक्षौ धृत्वा नत्वा च पादयोः ।
पित्रोराशीः समादाय विजयायाऽभिजित्क्षणे ।। १ १६।।
तत्स्थलात्स विनिर्यातो यात्रानिमित्तमच्युतः ।
अथापि बलिभूपः सः पृथ्वीं जित्वा दिवं तथा ।। १ १७।।
आजगाम भुवं रम्यां रैवताचलयोगिनीम् ।
रैवताद्रेर्निर्ऋतायां दक्षिणे वामनात्पुरात् ।। १ १८।।
आम्रारण्यं नदीं चोजस्वतीं देशं सुपल्लवम् ।
जलस्थलतरुच्छायासुखं सर्वं विलोक्य च ।। ११ ९।।
उवास यज्ञखातानि कारयामास वै बलिः ।
बलिखातप्रदेशः सो बलिमखेति विश्रुतः ।। 1.144.१२०।।
भूमिं तां संस्कृतां कारयित्वा च मखमण्डपम् ।
द्वादशाहं महायज्ञं प्रारभत् सर्वदक्षिणम् ।। १२१।।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नारायणस्य सत्तीर्थवासो बलिगुणवर्णनं नारदस्येन्द्रं प्रति गमनं बलेः पातनमन्त्रणा कश्यपादित्योः सौराष्ट्रे तपश्चर्या नारायणाद्वरप्राप्तिर्वामनजन्म-बलिदिग्विजयः सौराष्ट्रे बलिमखारंभश्चेतिवर्णननामा चतुश्चत्वारिंशदधिकशततमोऽध्यायः ।। १४४।।