लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १४२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४२
[[लेखकः :|]]
अध्यायः १४३ →

श्रीनारायण उवाच-
वामनं श्रीहरेः रूपं यन्निमित्तमभूत् प्रिये! ।
तत्सर्वं सुस्फुटं तेऽहं कथयामि यथातथम् ।। १ ।।
सौराष्ट्रे पश्चिमे प्रान्ते रैवताद्रिर्महान्गिरिः ।
यत्र देवगणाऽऽवासाः सिद्धा वसन्ति लक्षशः ।। २ ।।
योगिन्यश्चापि तीर्थानि निवसन्ति निरन्तरम् ।
प्रह्लादस्याऽभवत् पुत्रो विरोचन इतीरतः ।। ३ ।।
तस्य पुत्रो महाबाहुर्बली राजाऽभवद्बली ।
तेन यज्ञाः कृताः श्रेष्ठा बहवो भिन्नभूमिषु ।। ४ ।।
एको यज्ञः कृतस्तत्र रैवताद्रितलस्थले ।
यत्रागत्य स्वयं देवो वामनोऽभ्यर्थयद्बलिम् ।। ५ ।।
तत्कथां परमां दिव्यां पावनीं मोक्षदायिनीम् ।
कथयामि महालक्ष्मि ! तृप्तिर्नास्ति कथामृते ।। ६ ।।
यत्र दामोदरं तीर्थं नारायणह्रदस्तथा ।
किमन्यैर्बहुभिस्तीर्थैस्तयोः स्नात्वा प्रमुच्यते ।। ७ ।।
सिंहारण्यस्योत्तरे वै व्याघ्रारण्यमये स्थले ।
सोमनाथस्य सान्निध्ये ह्युदयान्तो गिरिर्महान् ।। ८ ।।
यः कृतस्मर इत्युक्तो वाडवानलभस्मितः ।
तस्यैव पार्श्वभागे तु रेवताख्यो गिरिः स्मृतः ।
श्रीहरेः कौस्तुभमणेः खण्डोऽयं स्थूलतां गतः ।। ९ ।।
रैवताख्यो मनुस्तत्र तदध्यात्मतया स्थितः ।
सोऽयं वै रैवतगिरिर्दिव्यः कृष्णहृदि स्थितः ।
महतो हस्तिनः कण्ठे स्वर्णघंटाद्वयं यथा ।। 1.142.१० ।।
पूर्णिमायास्तथा सायं चालम्बेते शशी रविः ।
स्वर्गं यावत् तदुच्छ्रायोऽन्तरीक्षं कटिसंश्रितम् ।। ११ ।।
दत्तात्रेयादयः सिद्धा वसन्ति शिखरेऽस्य वै ।
शिखराणां कुक्षिभागे वसन्ति सर्वदेवताः ।। १२।।
पर्वतस्य कटिभागेऽर्हन्नाथगौतमादयः ।
वसन्ति भगवन्तो वै मुनयः साधुयोगिनः ।। १३।।
पर्वतस्योरुभागे तु गान्धर्वाः किन्नरास्तथा ।
विद्याधरास्तथा सौम्याः किंपुरुषा वसन्ति हि ।। १४।।
पर्वतस्य जानुभागे योगिन्यः शंकरप्रियाः ।
देव्यश्च कृत्तिकाश्चैवाऽऽभीराण्यः साध्विकास्तथा ।। १५।।
जंघाभागे पर्वतस्य कामधेनुकुलानि वै ।
देवाश्च देवकरिणः श्वेताश्चतुःसुदन्तकाः ।। १६।।
सिंहा व्याघ्रास्तथा दैवा नरसिंहकुटुम्बिनः ।
वसन्ति व्योमगतयो दिव्याः सूर्यसमप्रभाः ।। १७।।
पादस्थाने रैवतस्य गोप्यः कृष्णप्रियाः शुभाः ।
दिव्यास्तथापि मानुषरूपेण विचरन्ति हि ।। १८।।
मुचुकुन्दस्य महती गुहा पातालसंचरा ।
राधाया मन्दिरं रम्यं स्वर्णरक्षानदीगतम् ।। १ ९।।
रुक्मांगदादिराज्ञां वै राजधानी च वर्तते ।
पत्नीव्रताख्यविप्रस्य चमत्कारा भवन्ति च ।।।1.142.२०।।।
यत्रारण्यानि चूतानां क्षीरिकाणां वनानि च ।
कर्मदानां टिम्बुरूणां जाम्बूनां प्रवणानि च ।।२१ ।।
सीताफलानां सौवर्णकदलीनां वनानि च ।
इक्षूणां शर्कराकन्दमूलानां प्रस्थलानि च ।।२२।।
बोरियाख्यमहास्थल्यां देव्यः स्नान्ति वसन्ति च ।
नारायणहृदस्थल्यां योगिन्यो विचरन्ति च ।। २३ ।।
देव्यस्तु काष्ठवाहिन्योऽरण्ये तीर्थे भ्रमन्ति च ।
पारिजातप्रसूनानां कुन्दानां कल्पशाखिनाम् ।
वनान्यत्र भवन्त्येव सुगन्धशतयोजनम् ।। २४।।
परितः पवनो नीत्वा करोति सुरभिस्थलीः ।
अग्नेरुष्णाः प्रकुण्डाश्च क्वचिच्छैत्यजलाशयाः ।। २५ ।।
सरितः स्वर्णरूप्याभा निर्मलोदकसंचराः ।
सरसा ओषधिमिश्ररसवत्यो वहन्ति च ।। २६ ।।
यज्जलानि जनाः पीत्वा देवा देव्यो भवन्ति च ।
पार्थिवा अपि नृनार्यो तज्जलौषधिभोगिकाः ।। २७।।
षोडशाब्दाः सदा हृष्टपुष्टाः कामातिगोज्ज्वलाः ।
चन्द्रमुख्यो विलसन्ति स्वर्गभ्रमणकारिकाः ।। २८ ।।
नवरंगपनसादिफलानां नाल्पता क्वचित् ।
खर्जूराणां श्रीफलानां नारीकेलाऽमृतात्मनाम् ।। २९।।
आमलकत्रिफलानां संघात्संघा भवन्ति वै ।
गुंद्रकाणामिङ्गुदीनां शिम्बिपत्रफलत्वचाम् ।। 1.142.३० ।।
वृक्षाणां वंशमालानां बिल्वतिन्दुकशाखिनाम् ।
उदुम्बरवटसर्जतिलकानां वनानि च ।। ३१ ।।
तुलसीनां वनान्यत्र देवदारुप्रशाखिनाम् ।
द्राक्षाणां नागवल्लीनां तिक्तानां वल्लयस्तथा ।। ३२ ।।
मालतीमल्लिकाश्वेताजीवन्तीस्वर्णवल्लयः ।
फलपुष्पपत्रसम्पद्विलसन्त्योऽत्र भान्ति वै ।। ३३ ।।
स्थले स्थल्यां निर्इारणा जलानां प्रवहन्ति च ।
स्वर्णकारास्ताम्रकाराः कायाकल्पकरास्तथा ।। ३४।।
क्षुत्तृट्विनाशिकाश्चापि वल्ल्यो वृक्षा भवन्ति च ।
कुण्डा दिव्यास्तत्र सन्ति स्नानेनाऽदृश्यता भवेत् ।। ३५।।
स्वर्णजलास्तथा कुण्डा लौहं स्वर्णं भवेज्जलात् ।
पत्रतृणानि वै सन्ति छिन्नो देहः सुसीव्यते ।। ३६ ।।
रक्तं घट्टं भवत्येव संजीवनी च वर्तते ।
जलकुण्डास्तथा सन्ति स्नात्वा नारी नरो भवेत् ।। ३७।।
नरो वा जायते नारी ततस्तु पर्वते गतिः ।
नान्यथा इति सामर्थ्यं रैवताद्रौ समीक्ष्यते ।। ३८ ।।
क्वचित्कुण्डे कृतस्नानात् पक्षौ भवत उड्डने ।
पुनः स्नानान्मानवत्वं यथावस्थं भवेन्ननु ।। ३ ९।।
यद्द्रोण्यां योनिदानेन नार्यो भवन्ति देवताः ।
नरा लिंगप्रदानेन जायन्ते सिद्धयोनयः ।।1.142.४० ।।
क्वचिदोषधयोगेन जनः सिंहवपुर्भवेत् ।
मार्गयित्वा हरिणादीन् पुनश्च मानवो भवेत् ।।४१।।
कामरूपजलाः कुण्डाः स्वल्पकाः सन्ति पर्वते ।
यथेच्छति तथारूपं जायते स्नातुरत्र वै ।
तत्रत्यास्तु प्रजाः सर्वा स्वर्गान्न्यूनं न भुंजते ।।४२।।
वनानि विविधान्येव कामपूरणकानि हि ।
सर्वदा फलवन्त्येव पत्रपुष्पादिमन्ति च ।
मेघास्तत्र सदा मध्ये श्रोण्यां वसन्ति वृष्टिदाः ।।।४३ ।।
विद्युतश्च सदा रात्रौ शनैस्तेजो ददत्यमुम् ।
ताराः स्थिराः क्वचित्तत्र वसन्ति श्रमनोदने ।।४४।।
राजत्यः स्वर्णखन्यश्च विविधधातुमिश्रिताः ।
खन्यो हीरकमाणिक्यस्फाटिकरत्नविद्रुमाः ।।४५।।
रसायनानि दिव्यानि पातालमूलवन्ति च ।
विद्यन्तेऽत्र रैवताद्रौ लभ्यन्ते पुण्यशालिभिः ।।४६।।
अप्सरसः स्वर्गवत्योऽत्राऽऽगत्य स्नान्ति यान्ति च ।
यात्रालवो लक्षकोटिसुरमानवसज्जनाः ।
नरा नार्यो महाप्रादक्षिण्यमूर्जे भ्रमन्ति हि ।।४७।।
गणाश्च गणिकाश्चैव शुद्ध्यन्ति तनुदानतः ।
परीसरोवरं तत्र परीणां स्नानकारणात् ।
इन्द्रसरोवरं तद्वद् देवीनां स्नानकारणात् ।।४८।।
रोहसरोवरं तत्र देवाऽऽप्लवनकारणात् ।
दातृसरोवरं द्रोण्यां दातॄणां स्नानकारणात् ।
वीरसरोवरं द्रोण्यां पितॄणां स्नानकारणात् ।।४९।।
सतीसरोवरं श्रेष्ठं सतीनां स्नानकारणात् ।
भवेश्वरतडागं च सर्वौषधिरसायनम् ।
भवन्त्येवं तत्र शैले दिव्यानि च सरांसि च ।।1.142.५० ।।
परितस्तत्र सरितो निःसरन्त्यक्षयैर्जलैः ।
रैवताद्रौ स्थिताः सर्वे पश्यन्ति मेदिनीं दिशम् ।
समुद्रान्पर्वतान्देशान् ग्रामान् लोकान् प्रदेशकान् ।।५१ ।।
सदेहेन यदा वाञ्च्छा स्वर्गं गन्तुं भवेत् तदा ।
रैवताद्रेः शिखरे वै गत्वा स्नानेन सिद्धताम् ।।५२।।
प्राप्य यायात् ततो नैव पतेद् यदि न वासना ।
गौमुख्यां स्नानमात्राच्च कमण्डलुजलाप्लवात् ।
दत्तात्रेयजलबिन्दुपानात् सिद्धा भवन्ति हि ।।५३।।
ग्रहास्तच्छिखरे श्रान्तिं लब्ध्वा यान्ति दिशान्तरम् ।
दिवोजुषां विमानानि तत्र विश्रम्य यान्ति च ।।५४।।
ब्राह्मं चैशं वैष्णवं च मोक्षीयं चैश्वरं तथा ।
याम्यं स्वर्ग्यं च पन्थानं तच्छृंगाद् यान्ति वै जनाः ।।५५।।
भीरवजपनामानं स्थलमासाद्य मानवः ।
पतत्यरण्ये तस्यैव तत्र स्वर्गं भवत्यपि ।।५६।।
न स्वर्गान्न्यूनता तत्र किंचिन्मात्रमपि ध्रुवम् ।
तत्र तीर्थानि देवानामनेकानि भवन्ति वै ।।५७।।
रैवताद्रिं प्रदक्षिणं कर्तुमायान्ति देवताः ।
ऋषयो मुनयः स्वर्ग्याः पितरो योगिनस्तथा ।।५८।।
सिद्धा विद्याधराश्चैव चारणा देवयोनयः ।
साधुरूपेषु देवाश्च सिद्धाः क्राम्यन्ति तं परि ।।५९।।
साध्वीरूपेषु देव्यश्च परिक्राम्यन्ति तं गिरिम् ।
श्रीकृष्णः श्रीरामचन्द्रो दत्तात्रेयश्च नृहरिः ।।1.142.६० ।।
कपिलो वामनो हंसः ऋषभो नारदस्तथा ।
पर्शुरामश्च वै व्यासः कुमारो बुद्ध इत्यपि ।।६१ ।।
सनन्दनादयः सर्वे व्यूहा ब्रह्मादयस्तथा ।
कार्तिक्यां तु प्रबोधिन्यां पूर्णिमायां च यावता ।।६२।।
सवे देवाश्च तीर्थानि पूर्यः क्षेत्राणि धाम च ।
पर्वताः सरितः सर्वे सागरा भूमयस्तथा ।।६३।।
आयान्ति च वसन्त्यत्र रैवताद्रौ स्थले स्थले ।
पत्रे पत्रे वसन्त्येते देवाः कर्तुं प्रदक्षिणम् ।।६४।।
रैवताद्रेस्तदानीं वै कृतं येन प्रदक्षिणम् ।
कृतं तेन पृथिव्यां वै सविधानप्रदक्षिणम् ।।६५।।
रैवताद्रिपरिक्रामयितारो मानवास्तदा ।
मनुष्या नहि द्रष्टव्या द्रष्टव्या देवकोटयः ।।६६।।
तेषां पादरजोलाभे मुच्यन्ते जन्मकोटयः ।
बालाः कुमाराः स्थविरा नरा नार्योपि ये तदा ।।६७।।
रैवतं परिक्रामन्ति पावनास्ते हरिश्रिताः ।
साधुः साध्वी च सन्यासी सन्यासिनी विरागिणी ।।६८।।
वैष्णवी शांकरी देवी वैष्णवः शांकरोऽथवा ।
गाणपत्याश्च वा मोक्षमार्गगास्ते तु देवताः ।।६९।।
तेभ्यो वै भोजनं दानं वस्त्रं वाऽन्यत् स्वकं भवेत्। ।
तद्दातव्यं समस्तं वै सेवायां स्वर्गदं भवेत् ।।1.142.७० ।।
यस्याग्रे यद्भवेद्वस्तु तद्देयं तत्र सर्वथा ।
सन्तः साध्व्यस्तोषणीयाः कायवाङ्मानसैरपि ।।७१।।
सर्वस्वार्पणकर्त्रे वै नारायणहरिः स्वयम् ।
स्वीयं सर्वं ददात्येव भक्ताय ब्रह्मरूपिणे ।।७२।।।
दामोदरेऽतितीर्थे ये मृता वै यत्र तत्र हि ।
ते वसन्ति हरेर्गेहे न पतन्ति भवे क्वचित् ।।७३।।
स्वार्पणं प्रथमं दानं द्वितीयं तु धनार्पणम् ।
क्षेत्रादिकं तृतीयं च नैजार्पणं चतुर्थकम् ।।७४।।
एतत्सर्वं गिरेस्तस्य परिक्रमणजं फलम् ।
लभ्यते तत्र पापानि ज्वलन्ति नोद्भवन्ति वै ।।७५।।
यत्किंचिद्वा परोपकाराख्यं स्वार्थं परार्थकम् ।
दैह्यं चैन्द्रियिकं हार्दं कृतं पुण्यं च मोक्षकृत् ।।७६।।
जयेद् ब्रह्मात्मभावस्तु देहभावः पराजयेत् ।
असंशयो विमुच्येत संशयात्मा विनश्यति ।।७७।।
तन्ममापि महालक्ष्मि! स्थानं रैवतपर्वकम् ।
अतीव रोचते तत्र दामोदरो वसाम्यहम् ।।७८।।
रुक्मदुर्गे मन्दिरेऽहं त्रिविक्रमो वसामि वै ।
मध्येनगरं नृसिंहरूपेणापि वसाम्यहम् ।।७९।।
स्थले वृक्षे सुमे पत्रे मूले रजसि पर्वते ।
सरित्सु भूतले वाप्यां तडागे च वने जले ।।1.142.८०।।
तत्रत्ये कमले पद्मे कुमुदे स्थलपद्मके ।
पाषाणे भूविवरे च वल्मीके तरुगुल्मके ।।८ १।।
यत्र क्वापि रैवतोस्ति तत्सर्वत्र वसाम्यहम् ।
अहं वै रैवतगिरिः रैवतोऽहं न भिन्नता ।।।८२।।
मम भूषा मम तनुः रैवतः पावनः परः ।
सौराष्ट्रवासिनां नैव यमाः पश्यन्ति वै गृहम् ।।८३।।
आनर्तेन तपः कृत्वा गोलोकात् क्षत्रियेण वै ।
कृष्णात्प्राप्याऽत्र च मणेर्भागो बै स्थापितोऽस्ति सः ।।८४।।
सौराष्ट्र इतिविख्यातस्तत्रत्यानां कुतोभयम् ।
तदस्मिन्पर्वते दिव्ये गतानां तु कुतो भयम् ।।८५।।
यत्र वै धातवो रक्ताः श्वेता नीलाः सितास्तथा ।
पाषाणा कुंजराकाराः सन्त्यन्ये स्वर्णराजताः ।।८६।।
चणकाकृतयश्चान्या बालुका गोक्षुरायताः ।
दिव्याश्च तरवो वल्ल्यो गुल्माः सन्तानपादपाः ।।८७।।
सर्वं तेजोमयं स्वर्णं मूलं पुष्पं फलं दलम् ।
नहि पश्यति पापात्मा मुक्तः पापेन पश्यति ।।८८।।
सेव्यते स गिरिर्नित्यं धात्वादिखनिमार्गणैः ।
वर्णाश्चाश्रमिणस्तत्र भ्रमन्ति च वसन्ति च ।।८९।।
पक्षिणस्तत्र बहवः सारसा व्योमवासिनः ।
कोकिलाश्चातका मेना हंसा मयूरकास्तथा ।।1.142.९०।।
गरुडा गृध्रजातीयाः कपोता दीर्घदर्शिनः ।
चक्रवाकाः कृकवाकुः तित्तिरा दिव्यजातयः ।।९१।।
सर्वे शुभाक्षरभाषाः शिवाः शिवकराः सदा । १
मृगाश्च वानरेन्द्राश्च व्याघ्राः सिंहास्तथैव च ।।९२।।
भल्लुकाश्च गजाश्चैव दैवाश्वाः सात्त्वतास्तथा ।
तस्य तीर्थप्रभावेण दुष्टं नैवाऽऽचरन्ति ते ।।९३।।
कालेन निधनं चाप्ताः पशुपक्षिसरीसृपाः ।
सर्वे विमानमारूढा गच्छन्ति वैष्णवं पदम् ।।९४।।
वायुना पतितं यच्च पत्रपुष्पफलादिकम् ।
स्वर्णरक्षाजले तत्र सर्वं वै मुक्तिमेति यत् ।।९५।।
सुवर्णाख्या हरेः पत्नी प्रेमद्रवेण सर्वदा ।
दामोदरस्य सेवायां नदीरूपेण वर्तते ।।९६।।
नदी सुवर्णरक्षा सा स्वर्णवालुकया युता ।
चकास्ति स्वर्णमय्येव स्वर्णांश्चान्यान् करोति च ।।९७।।
तत्र स्नातुं नागराजो भित्वा भूमिं तु वासुकिः ।
तेन मार्गेण मूलेन विवरेणाऽऽगते ह्यभूत् ।।९८।।
स्वर्गादागत्य चेन्द्रोऽपि यष्ट्वा यज्ञेषु पुष्कलम् ।
पुण्यमादाय मुक्त्यर्थं गतः स्वर्गं निरामयम् ।।९९।।
कुर्वन्त्यनशनं चैकदिवसीयमथो जनाः ।
ते श्रीहरेः प्रतापेन चाप्नुयुर्धाम वै हरेः ।। 1.142.१०० ।।
वासुदेवोऽनिरुद्धश्च प्रद्युम्नश्च सुकर्षणः ।
तथाऽन्ये त्वीश्वराः शतलक्षकोट्यो वसन्ति हि ।। १० १।।
प्रक्रीडन्ति प्रियास्तेषां नित्यं दामोदराग्रतः ।
सुचन्द्रवदना गौर्यः श्यामाश्च दृढमध्यमाः ।। १०२।।
नितम्बिन्यः सुकेश्यश्च सुनासायतलोचनाः ।
सुगुल्फाः सुभ्रुवस्तत्र सुकुक्ष्यः सुपयोधराः ।। १ ०३।।
शोभनास्याः सुजंघाश्च सुपादांघ्र्युदरास्तथा ।
रैवताख्ये गिरौ तस्मिन् रमन्ते च हसन्ति च ।। १ ०४।।
तत्राऽस्ति रेवतीकुण्डस्तत्र स्नात्वा तु याऽङ्गना ।
दद्यात् स्वर्णादिदानानि पुत्रिणी सुभगा भवेत् ।। १०५।।
गीतिकानर्तनैर्दामोदराग्रे तु पुनः पुनः ।
देशभाषाविभाषिण्यो रामा जाग्रति कार्तिके ।। १ ०६।।
तास्तु भूत्वा रमा लक्ष्म्यो यान्ति श्रीहरिमन्दिरम् ।
पञ्चपाषाणकं रम्यं सुन्दरं हरिमन्दिरम् ।। १ ०७।।
कृत्वा वा शिखरं दैवं बहुरूपसमन्वितम् ।
सर्वान् कामानतिक्रम्य परंब्रह्माऽधिगच्छति ।। १ ०८।।
पंचवर्णं ध्वजं दद्याद् दामोदरगृहोपरि ।
तन्तुप्रमाणवर्षाणि दिव्यानि विष्णुलोकगः ।। १ ०९।।
दामोदरस्वरूपेण वामनोऽत्र विराजते ।
तस्य षड्गव्यूतिमात्रं क्षेत्रं वस्त्रापथं शुभम् ।। 1.142.११ ०।।
गिरेरारोहणाद् यावत् पश्चिमे वामनस्थलीम् ।
साषट्गव्यूतिदीर्घा वस्त्रापथाऽऽन्तरभूमिका ।। ११ १।।
गयो राजा हरेर्भक्तो ह्येकवारं समागतः ।
विष्णुयागं स कृतवान् प्रजाभिः सह वैष्णवः ।। १ १२।।
दत्वा दानान्यनेकानि हविर्हुत्वा हुताशने ।
विष्णुयागं चकारात्र रैवताचलसन्निधौ ।। ११३ ।।
केचित् तदानी तद्यज्ञेऽपिबन् धूममधोमुखाः ।
शुष्कपत्राशनाश्चान्येऽपरे वै फलभोजनाः ।। १ १४।।
मूलानां भक्षकाश्चान्ये परे वाय्वशना द्विजाः ।
पंचाग्निसाधकाः केचित्केचिच्च सलिलासनाः ।। ११५।।
केचिज्जपन्ति गायत्रीं दैवीमन्ये सरस्वतीम् ।
केचिज्जपन्ति सूक्तानि द्वादशार्णं जपन्ति च ।। ११ ६।।
अष्टाक्षरं तथा केचित् कश्चिद्धरिरिति गृणन् ।
एकभक्तं तथा नक्तमयाचितमुपोषितम् ।। १ १७।।
एवमादीनि पुण्यानि कृत्वा दामोदराग्रतः ।
कृतकृत्याश्च ते जाता विष्णुयागे महामखे ।। ११८ ।।
गयो राजा तु ऋष्याद्यैर्यावद्भिः सह राजते ।
विमानानां सहस्राणां सहस्राण्यागतानि च ।। ११ ९।।
गन्धर्वाऽप्सरसस्तत्र सिद्धचारणकिन्नराः ।
विष्णोस्तु पार्षदैः साकं वैकुण्ठं नेतुमागताः । । 1.142.१२ ० ।।
समारूढा विमानेषु ऋष्यादयस्तदा प्रजाः ।
सर्वैर्जानिपदैः सार्धं स राजा भार्यया सह ।। १२१ ।।
गतो विमानमारूढो विष्णोर्लोकं निरामयम् ।
तत्र क्षेत्रे वामनस्तु बलिं भिक्षामयाचत ।। १ २२।।
तादृशं तत्परं क्षेत्रं न भूतं न भविष्यति ।
यत्र वासाद्भवेन्मुक्तिः कर्तव्यं नावशिष्यते ।। १२३ ।।
तत्र बहूनि तीर्थानि सन्ति तानि वदाम्यहम् ।
स्थानं बलवता पुंसा बलवद् भवतीत्यतः ।। १ २४।।
तीर्थानि तत्र चायान्ति स्वपावित्र्याय पद्मजे ।
तानि वै प्रथमं स्मृत्वा वक्ष्ये त्रिविक्रमं ततः ।। १२५ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने रैवताचले दामोदराख्यवामनप्रतापदेवादिनिवासचमत्कारिकमाहात्म्यविभूतिकार्तिकपरिक्रमणदिव्यवसतिगयकृतयज्ञादिनिरूपणनामा द्विचत्वा-
रिंशदधिकशततमोऽध्यायः ।। १४२ ।।