सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १४१

विकिस्रोतः तः
← अध्यायः १४० लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १४१
[[लेखकः :|]]
अध्यायः १४२ →

श्रीनारायण उवाच-
अथ लक्ष्मि! नृसिंहः स भक्तपरीक्षणाय वै ।
प्राह वरान् ग्रहीतुं च प्रसह्य निजभक्तकम् ।। १ ।।
गृहाण राज्यं पृथ्व्यास्तदासमुद्रं सुखी भव ।
सप्तद्वीपवतीं पृथ्वीं गृहाण त्वं सुखी भव ।। २ ।।
सप्तपातालराज्यं वा स्वीकुरु भक्तपुंगव ।
सप्तस्वर्गमयं राज्यं कुरु ध्रुवपदं तथा ।। ३ ।।
गृहाण नूतनं राज्यं ब्रह्माण्डं चार्पये प्रिय ।
यद्यत्कामयसे भक्त तत्तद्ददामि ते सुखम् ।। ४ ।।
यानानि प्रमदा दास्यो दासा गजास्तुरंगमाः ।
दिव्यानि च विमानानि सिद्धयश्चाऽणिमादिकाः ।। ५ ।।
वेधः पदं शिवपदं विष्णुपदं विराट्पदम् ।
नूतनमेव दास्येऽहं गृहाण यदि रोचते ।। ६ ।।
ब्रह्माण्डानां मदग्रे वै नास्ति वै गणना मनाक् ।
असंख्यानि च वर्तन्ते शासने मम तानि वै ।। ७ ।।
लोकाश्च लोकपालाश्च तथा ब्रह्माण्डपालकाः ।
ब्रह्मविष्णुमहेशाना ह्यसंख्याः सन्ति मद्वशे ।। ८ ।।
तथा त्वामपि चैशं वा वैराजं वैष्णवं च वा ।
धामाऽर्पये स्वतन्त्रं वै ययेच्छसि गृहाण भोः ।। ९ ।।
इत्येवं भ्राम्यमाणोऽपि निःस्पृहः प्राकृतेऽर्थके ।
विना हरेः पदं नैव ययाचे स जनार्दनात् ।। 1.141.१०।।
यद्यद्दित्ससि गोविन्द तवैवाऽस्तु न मे स्पृहा ।
विनाश्यर्थयिता नाऽस्मि प्राकृतं नष्टमेव यत् ।। १ १।।
अविनाशी शाश्वतोऽयं नाशान्तं कथमर्थये ।
तत्सर्वं कृत्रिमं राज्यं नास्त्यकृतः कृतेन वै ।। १२ ।।
अकृतश्च सदा मोक्ष्यः कृतेन कर्मणा नहि ।
आत्मना शरणागत्या नित्यो मोक्षो हि लभ्यते ।। १३।।
प्रकृतिपुरुषस्यात्र प्रधानपुरुषस्य वा ।
वैराजानां महाविष्णोर्विष्णोर्वा वेधसस्तथा ।। १४।।
रुद्रस्य लोकपालानां देवानां फणिनां तथा ।
लोका राज्यानि विभवाः स्थानानि स्मृद्धिमन्ति च ।। १५।।
प्राकृतानीति सर्वाणि रजस्तमोमयानि वा ।
सात्त्विकान्यपि गौणानि प्रोच्यन्ते निरया हि यत् ।। १६।।
परंधामाऽक्षरमृते प्राकृता निरया हि ते ।
नास्ति मे तत्र कुत्रापि स्पृहा हरिपदं विना ।। १७।।
तस्मान्नाथ सदा देहि धाम्नि त्वच्चरणाम्बुजम् ।
तव सेवां सदा देहि तथा त्वद्भक्तसेवनम् ।। १८।।
सत्सु रतिं सदा देहि वासं प्रयच्छ धामनि ।
त्वयि प्रेमास्पदं देहि चैकां निष्ठां सदा त्वयि ।। १९।।
देहि चात्मकृतानन्दं त्वय्येव शाश्वतं परम् ।
नाऽन्याऽऽनन्दं समीहेऽत्र परत्राऽशाश्वतं क्षयम् ।। 1.141.२०।।
तवेच्छाया यदा यत्र यस्य यस्माच्च यत्कृते ।
येन यं वा योऽहं कुर्यां तत्त्वय्यैव तवार्थतः ।।२१ ।।
भवत्सम्बन्धकं सर्वं कृष्णार्पणं सदाऽस्तु मे ।
देहेन्द्रियमनोबुद्धिप्राणास्तृप्ताः कदापि न ।।।२२।।
त्वयि स्याच्छाश्वतीतृप्तिस्तां वृणे देहि नाथ मे ।
त्वय्यारामं सदा यच्छ त्वद्विनाऽन्यद् विदारय ।।२३।।।
मोक्षं यच्छ सतां सेवां प्रयच्छ शरणप्रद ।
इत्यभ्यर्थ्य विरराम प्रह्लादो ज्ञानिनां वरः ।।२४।।
भगवानाह तं भक्त यो नेच्छति ददामि ते ।
य इच्छेन्न ददाम्यस्मै इति मे वक्रवर्तनम् ।।२५।।
मयाज्ञया गृहाणेदं राज्यं तव पितुर्हि यत् ।
तत्र त्वं बन्धनं नैव मन्नियोगात्प्रयास्यसि ।।२६।।
मदर्पणं विना नैव भोक्तव्यमपि वस्तु सत् ।
शरीरे मानसे वापि मां सदा स्मर कर्मणि ।।२७।।
बालोऽसि वृद्धविज्ञोऽसि भक्तोऽसि नित्यमुक्तवत् ।
तस्माद् गृहाण राज्यं वै सप्तपातालसंभवम् ।।१८।।
आशया भजते यो मां न वै भजामि तं जनम् ।
अनाशया भजन् भक्तो लभतेऽर्घ्यं ममाऽग्रतः ।।२९।।
अहं स्वाम्यस्पृहे भक्ते दृष्ट्वा भक्तं तु सस्पृहम् ।
दूरं यामि नान्तिकं वै निष्कामं यामि सर्वथा ।।।1.141.३ ०।।
अतो मन्वन्तरं राज्यं दैत्यानामनुभुंक्ष्व तत् ।
कथां शृण्वँश्च कथयन् मदीयां मोक्षदायिनीम् ।।३१ ।।
कर्माणि चार्पयन्मह्यं कुरु राज्यमकंटकम् ।
सदा मामनुसन्धाय कुरु नैष्कर्म्यमेव हि ।।३ २।।
कृतस्य कुरु भोगेन क्षपणं नूतनं च यत् ।
तत्तु समर्पणेनैवाऽभोग्याऽऽयति विधापय ।।३३ ।।
कालेन देहे विलये मामुपैष्यसि सद्यशाः ।
प्रह्लादः प्राह देवेश वरं मे पितृशोधनम् ।।३४।।
देहि तवापराधं स कृतवान् निन्दया घृणी ।
तव भक्ते मयि चाप्यपराधं कृतवान् स हि ।।३५।।
तदस्मात्पाप्मनः सद्यः पूयेत त्वत्कृपाश्रयः ।
भवेदिति वृणे नान्यद् वृणे नाथ नमोऽस्तु ते ।।।३६।।
हरिः प्राह त्वया वंश्याश्चैकविंशतिसंख्यया ।
तारिता भक्तवर्येण किमत्राऽस्ति प्रशंसनम् ।।३७।।
यत्र मे साधवः सन्ति प्रशान्ताः समदर्शिनः ।
तद्देशा म्लेच्छकाऽऽचारास्तत्रत्या मानवा अपि ।।३८।।
पूयन्ते त्वादृशभक्तयोगादत्र न संशयः ।
कुरु पितुः प्रेतकार्यं स च यास्यति वैधसे ।।३ ९।।
सत्ये लोके पुना रामे जन्मनि राक्षसो भवेत् ।
रावणाख्यस्तृतीये तु कार्ष्णे जन्मनि मेऽनघ ।।1.141.४० ।।
शिशुपालोऽसुरो भावी ततो मोक्षं गमिष्यति ।
प्रह्लाद पार्षदौ मे यौ जयश्च विजयश्च तौ ।।४१ ।।
सनकाद्यपराधेन भ्रातरौ द्वौ बभूवतुः ।
हिरण्यकशिपुर्ज्येष्ठो हिरण्याक्षस्ततोऽनुजः ।।४२।।
तावेव रावणो ज्येष्ठः कुंभकर्णस्तयोऽनुजः ।
तावेव दन्तवक्त्रश्च शिशुपालो भविष्यतः ।।४३ ।।
ततो शापाद् विमुक्तौ तावेष्यतः पार्षदं पक्ष ।
भक्तयोरेतयोर्योगात् मम जन्मकथामयम् ।।४४।।
गास्यन्ति चरितं लोकास्तेन यास्यन्ति मोक्षणम् ।
तव भक्त्या च भक्तानां दार्ढ्यं भक्तौ भविष्यति ।।४५।।
एवं प्रसन्नो लक्ष्मीशस्तस्मायिष्टान्वरान्ददौ ।
ततो देवगणैः सार्धं सर्वेशो भक्तवत्सलः ।।४६।।
प्रह्लादं सर्वदैत्यानां चक्रे राजानमव्ययम् ।
आश्वास्य भक्तं प्रह्लादं चाभिषिच्य सुरोत्तमैः ।।४७।।
दत्त्वा नैष्कर्म्यरूपां च भक्तिमव्यभिचारिणीम् ।
हरिर्देवगणैः सार्धं स्तूयमानो नृकेसरी ।।४८।।
विकीर्णः पुष्पवर्षैस्तु सिंहारण्ये जगाम हे ।
तत्र शरभरूपेण शंभुना कृतवान् रणम् ।।४९।।
परस्परं परित्यज्य देहावदृश्यतां गतो ।
सिंहः शिला नारसिंही शंभुस्तु शरभेश्वरः ।।1.141.५०।।
वर्तिष्येते च यावद्वै सृष्टिः स्थास्यति तावता ।
ततः सुरगणाः सर्वे स्वं स्वं स्थानं प्रपेदिरे ।।५१ ।।
पुनश्च यज्ञभागाँश्च बुभुजुः प्रीतमानसाः ।
प्रह्लादस्तु तदा चक्रे राज्यं वैष्णवधर्मतः ।।५२।।
बहुभिर्यज्ञदानाद्यैरर्चयित्वा हरिं ततः ।
यास्यत्यन्ते हरेर्धाम योगिगम्यं सनातनम् ।।५३।।
इत्येतत्प्रह्लादचरितं श्रोष्यन्ति ये हरेर्जनाः ।
ते सर्वे पापनिर्मुक्ता यास्यन्ति श्रीहरेः पदम् ।।५४।।
एतत्ते कथितं लक्ष्मि! नृसिंहवैभवं हरेः ।
तद्वंश्या सिंहमूर्धन्याः रैवतारण्यवासिनः ।।५५।।
अथ वामनरूपं ते कथयिष्ये शृणु प्रिये! ।
रैवताद्रौ दिव्यगिरौ वामनोऽयात् स्वयं हरिः ।।५६।।
इति श्रीलक्ष्मोनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने नृहरिणा प्रह्लादाय वरदानं पितृराज्येऽभिषेचनं नृसिंहस्याऽरण्येऽदृश्यता चेति कथननामा
एकचत्वारिंशदधिकशततमोऽध्यायः ।। १४१ ।।