लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १०३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १०३
[[लेखकः :|]]
अध्यायः १०४ →

श्रीनारायण उवाच--
शृणु प्रिये सहाऽऽलीभिः पार्वती हरसुन्दरी ।।
देव्यः सर्वाश्च दास्यश्च मिलित्वा द्युनदीं सह ।। १ ।।
गताः स्नानार्थमित्यत्र निःशंकं स्नान्ति वारिषु ।
सुगन्धिसारतैलानि सम्मृद्याऽत्यमृतानि च ।। २ ।।
दधीनि मधुभिश्चापि रस्यान्यपि कटूनि च ।
सख्यः स्नानं कारयन्ति पार्वतीं जगतः प्रसूम् ।। ३ ।।
रमयन्ति जले तां वै प्रांजलक्षेपणादिभिः ।।
सुगन्धि सलिलं जातं सुगन्धद्रवमिश्रितम् ।।४।।
स्नाने सखीविहारेऽत्र तृप्तिर्नासां प्रजायते ।।
स्नान्ति चैव पुनः स्नान्ति पतन्ति सलिले मुहुः ।। ५ ॥
विनिर्गत्य पुनः स्नान्ति स्नानान्तं नैव यान्ति हि ।।
संगवो विगतः कालः शंभुर्ध्यानाद् बहिस्तदा ।। ६ ।।
आगतः स्वासनं त्यक्त्वा चैकाकी स्वाश्रमं गतः ।।
गणांश्चान्ये न जानन्ति स्नानलग्नास्तदाऽभवन् ।। ७ ।।
शंभुः स्वाभाविको ध्यानी शनैः शनैः प्रयाति हि ।।
स्वाश्रमस्य महद्द्वारं यावत् प्रविशतीश्वरः ।। ८ ॥
तावत्पार्वत्यात्मजेन निरुद्धो याहि मा त्विति ।।
कस्त्वं कस्मात्समायातः करमाद्विशसि गोपुरम् ॥ ९ ॥
तिष्ठ विवृत्य तं मार्गं याहि येनाऽऽगतोऽत्र वै ।।
नाऽत्र स्थातुं प्रदेयो वै मया कौऽपि जनो नरः ॥1.103.१०॥
आज्ञा नास्त्येव मे मातुस्तस्माद्विगच्छ गोपुरात् ।
तथापि शंकरस्तस्य नैव श्रुत्वा प्रयाति हि ॥११॥
तावत् क्रोधसमाविष्टो गणेशो मातृसेवकः ।
प्रोद्घुष्य च समुत्प्लुत्य प्रदुद्राव हरं प्रति ॥१२॥
गत्वा तन्मार्गमारुध्य मा गच्छोक्त्वा ह्युपस्थितः ।
परागच्छ परागच्छ कोऽसि क्व गच्छसि द्रुतम् ।।१३।।
अत्रोद्याने प्रवेशाय मन्मात्राज्ञा न वर्तते !
स्नानं कुर्वन्ति सख्यश्च मन्मात्रा सह वारिभिः ॥१४॥
मा याहि नैव गन्तव्यं विगच्छेतो बहिः पिवन् ! ।
शंभुः प्राह तमज्ञात्वा कोऽसि रोद्धा मम गृहम् ॥१५॥
ममोद्यानं तु गच्छामि कस्त्वं रोद्धा ममापि च ।।
गच्छ याहि त्वितः स्थानात् कया त्वं योजितोऽत्र वै ।।१६॥
बहिर्गच्छ मम द्वाराद्गोपुरान्मम रक्षितात् ।
इत्याक्रुश्य हरेण स्वमविज्ञाय तु बालकम् ॥१७॥
हस्ते धृत्वा गोपुरात् स बहिर्निष्कासितो बलात् ।
तावद्गणेशस्तद्धस्ताद्धस्तं स्वं प्रवियुज्य च ॥१८॥
शंभुं हस्तद्वये धृत्वा चाक्रुश्य नीतवान् बहिः ।
प्राह शंभुं याहि दूरं मा मुखं मे प्रदर्शय ॥१९॥
शंभुनाऽपि तदा ज्ञातं मत्तोऽपि बलवानयम् ।
न वै शारीरयुद्धेन जेतुं शक्यो भवेदयम् ॥1.103.२०॥
अहो मदीयः कैलासो गृहोद्यानश्च रक्षसा ।।
स्वायत्तीकृत एवैत्य केनाऽपि ध्रुवमर्थतः ॥२१॥
क्व स्याद् देवी मम पत्नी किमभूद् विपरीतकम् ।
किं कर्तव्यं मया चाद्य ह्ययं तु बलवानिति ॥२२॥
यदि गत्वा गणान् वक्ष्ये तदा मे बलहीनता ।।
हास्यास्पदत्वमाप्नुयां युद्धे चापि पराजयम् ॥२३॥
स्वस्य मानं धनं मन्त्रं चावमानं च मैथुनम् ।
दानं धर्मं गृहक्लेशं कार्यं नैव प्रकाशयेत् ॥२४॥
ततः किमिति वै कार्यं बालोऽयं बलवानिति ।
पार्वती चेद् विजानीयाद् युद्धे शंभुः पराजितः ॥२५॥
तदग्रे च मया भाव्यं नतकंधरवर्तिना ।
वक्त्ययं पार्वतीपुत्रः किमेवं संभवेदिति ॥२६॥
सर्वस्माज्जयमिच्छेद्वै पुत्राच्छिष्यात्पराजयम् ।।
अतः साम्ना बोधयित्वा गच्छामि मम मन्दिरम् ॥२७॥
विचार्येत्थं क्षणं स्थित्वा यावद्वदति शंकरः ।
गणेशोऽपि तदा द्वारं निरुद्ध्य प्रतितिष्ठति ॥२८॥
शंभुः प्राह ममैषो वै कैलासो वर्तते गृहम् ।।
पत्नी भार्या मम देवी पार्वती वर्ततेंऽगज ! ॥२९॥
माऽहं त्वया निरोद्धव्यो गन्तुं देहि मम गृहम् ।।
श्रुत्वैतत्स गणेशस्तु प्राह तं रोषतः खलु ॥1.103.३०॥
मा वोचः शठ पत्नीति भार्येति चांगजेति च ।।
मारयिष्यामि च त्वां वै नो चेद् गच्छसि दूरतः ॥३१॥
स्थूलो महानरण्यस्थो गच्छ दूरं न ते गमः ।
शंभुः प्राह च तं ज्ञात्वा मातृभक्तं समुद्यतम् ॥३२॥
अहो बाल ! न ते माता न पिता तेऽस्ति कश्चन् ।
माता पितेति नाम्ना वै स्वार्थमात्रनिबन्धना ॥३३॥
कथं प्राणान् प्रियाँस्त्यक्तुमीहसे मातृनामतः ।।
हनिष्ये त्वां त्रिशूलेन नो चेन्मुञ्चसि मार्गकम् ३४
इत्युक्त्वा तं हरश्चाऽपासारयत् स्वकरेण वै ।
गणेशोऽपि हरं चापासारयत् स्वकरेण हि ।।३५।।
गोपुरान्निर्गतौ बाह्ये देशे युयुधतुश्च तौ ।।
केशाकेशि मुष्टामुष्टि दण्डादण्डि निजघ्नतुः ॥३६॥
बहुबलेन पाशेन बाहुभिर्जानुभिस्तथा ।
कफोणिकाभिरन्योन्यं ताडयामासतुर्मुहुः ॥३७
तयोस्तु ताडनं तत्र त्वाकण्ठाग्रं यदा ह्यभूत् ।।
गणेशस्तु तदा शंभुमूर्ध्वमुत्तोल्य वेगतः ॥३८॥
भुवि प्रक्षिप्य तद्वक्षः प्रपीड्योपरि संस्थितः ।।
युवा क्रुद्धो गणेशस्तं मूढमारममारयत् ॥३९॥
शंभुः प्राह अहो हा हा मृतोऽस्मि मुञ्च मां यदि ।
तदा ते लड्डुकान्दत्वा पूजयिष्यामि चाग्रतः ।।1.103.४०।।
गणेशस्तु तदा त्यक्त्वा शंभुं पार्श्वे स्थितोऽभवत् ।
शंभुर्जटां समां कृत्वा धुलीर्देहादमार्जयत् ॥४१॥
स्वस्थो भूत्वा च यावद्वै गोपुरान्तर्विविक्षति ।।
त्रिशूलं तु गणस्तावत् समादाय रुणद्धितम् ॥४२॥
शंभुश्चापि महाक्रुद्धः प्राह बालमनिन्दितम् ।।
कथं प्राणान् विहातुं त्वं मया विरोधमिच्छसि ।।४३॥
गच्छाऽन्तः पृच्छ जननीं शंकरः को भवेत्तव ।।
यदि सा कथयेन्मां स्वपतिं देहि प्रवेशनम् ४४॥
गणेशः प्राह धूर्तस्त्वं वध्यो भवसि शस्त्रतः ।
शंभुः प्राह वराकस्त्वं वध्यो भवसि शूलतः ॥४५॥
गणः प्राह स्वमात्रार्थं यदि प्राणाः परेतकाः ।।
तदापि मे शुभं भूयात् स्वर्गं विन्दामि सेवया ॥४६॥
मात्रर्थं जनकार्थं च पत्न्यर्थं च सतां कृते ।।
प्राणाद्यर्पयिता याति स्वर्गं वा मोक्षमित्यपि ॥४७॥
यदि प्राणा मम यान्ति मात्रर्थं सफलं जनुः ।
हतो यद्यज्ञातपित्रा तथापि सफलं जनुः ४८।।
एवमुक्त्वा नमः कृत्वा जग्राह च त्रिशूलकम् ।
शंभूरपि वरं पुत्रहस्तान्मृत्युमुपस्थितम् ।।४९।।
यावदज्ञातचर्यौ स्वस्तावत् स्नेहः कुतो मतः ।।
मृत्युर्बुद्धिमताऽपोह्यो यावद्बुद्धिबलोदयम् ॥1.103.५०॥
विचार्येत्थं हरिं स्मृत्वा जग्राह स्वत्रिशूलकम् ।।
परस्परं प्रजघ्नतुर्दयां कृत्वा तु पृष्ठतः ॥५१।।
गणेशेन तदा शंभोस्त्रिशूलं परिगृह्य च ।
द्विवृत्तं वलयं कृत्वा क्षेपितं भूतले द्रुतम् ॥५२॥
दृष्ट्वा बालबलं शंभुः क्षणमात्रं सुमोहितः ।
पुनः परशुमादाय जघान गणकंधरे ॥५३॥
गणस्तं परशुं स्वस्य कुठारेण बभंज वै ।।
द्वेधा जातं तु परशुं त्यक्त्वा शक्तिमुपाददे ॥५४।।
गणेशोऽपि त्वरितः सन् उत्प्लुत्य व्योमवर्त्मनि ।
शक्तिं विधृत्य च बलाच्छंभुं तया जघान सः ॥५५॥
मूर्छितो रोषमापन्नो निषसाद हरो भुवि ।।
पुनरुत्थाय यावद्वै खड्गं गृह्णाति शंकरः ॥५६॥
गजस्तावत् त्रिशूलेन खड्गं द्वेधा बभंज ह ।।
शंकरश्चातिखिन्नः सन् महाकालसुरूपधृक् ॥५७।।
गणस्यैव त्रिशूलं त्वास्कन्द्य प्रामारयद् गले ।।
छिन्नः कण्ठो गणेशस्य पतितं मस्तकं भुवि ॥५८॥
कृष्णे तल्लीनतां प्राप्तं कबन्धो वर्ततेऽत्र तु ।
शंभुः सरोषताम्राक्षः स्नात्वा स्वां पार्वतीं प्रति ॥५९।।
तत्र स्थाने गतो यावद् दृश्यते कालरूपधृक् ।
पार्वती भयमापन्ना द्रागेव पादयोर्गता ॥1.103.६०।।
क्षमापय महादेव ! किं क्रोधो देहरक्तता ।
किं कृतं भवता स्वामिन् कथं रक्तप्लुतो भवान् ॥६१।।
क्व युद्धं केन साकं वा जातं चाऽनिष्टमागतम् ।
शंभुस्तदा प्रियाश्लिष्टः शान्तो भूत्वाऽब्रवीदिदम् ।।६२।।
कोऽयं गोपुरसंरोद्धा त्वया रक्षित उज्जडः ।
किं किं देव कृतं किं वा किं जातं वद मे भ्रमः ॥६३॥
तव पुत्रो गणेशः स बहुना तपसाऽर्थितः ।।
मया स्नानप्रकालस्येतरप्रवेशरोधकः ॥६४
निषादितः किमनिष्टं जातं प्राणद मे वद ।
इति कृत्वा गले लग्नां शंभुः प्राह मृतो ह्ययम् ॥६५॥
मया त्रिशूलघातेन नाशितः काद्वियोजितः ।
पार्वती तु समाश्रुत्य रोदिती कुररीव सा ॥६६॥
अहो पुत्रजनेः सौख्यं निधने दुःखमित्यपि ।।
पतिं त्यक्त्वा सत्वरं सो दुद्राव गोपुरं प्रति ॥६७।।
पतितं तत्कबन्धं तु स्वांके स्थाप्यरुरोद ह ।।
स्वात्माभिमानजं दुःखं सति ज्ञाने निवर्तते ॥६८॥
पुत्रं शोचामि किं वा मे पतिं शोचामि नाशकम् ।
गृहे हन्ता च घात्यश्च कं शोचामि गृहिण्यहम् ॥६९॥
रे पुत्र त्वं स्वयं कृष्णो ह जनिमृतिरेव ह ।
न वै ते मरणं योग्यं ह्येवं चेच्च म्रियेऽप्यहम् ।।1.103.७०।।
यदि त्वां न जीवयते शंकरस्ते विनाशकः ।।
अनाहारव्रतं कृत्वा यात्रापारं करोम्यहम् ॥७१॥
इत्युक्त्वा ह्यशनं त्यक्त्वा विललाप मुहुर्मुहुः ।।
संगृह्य गोपुरस्थाने कबन्धं तत्र संस्थिता ।।७२॥
अहो हो लोकमाता सा ह्यशोकाऽपि शुचान्विता ।
लोकोऽयं देहसम्बद्धो ज्ञानिनामपि शोककृत् ।।७३॥
क्षणं भवति संमोहाद्भ्रामकः का विचित्रता ।
श्रुत्वा विलापं पार्वत्याः सख्यस्तत्र समागताः ॥७४॥
शंभुश्च कार्तिकेयश्च ब्रह्मविष्णुसुरादयः ।
गणाश्च प्राययुः सर्वे विलोपं चक्रिरे तदा ।।७५॥
चतुर्दशसु लोकेषु शोकोऽयं प्रसृतो द्रुतम् ।।
आजग्मुस्तत्क्षणे तत्र चतुर्दशबिलस्थिताः ॥७६॥
शोकार्तां पार्वतीं देव्यो बोधयन्ति नरास्तथा ।
शंभुः स्वयं विचारं संचक्रे तज्जीवनाय च ।।७७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने गणेशशंकरयोर्युद्धे गणेशमस्तकच्छेदतज्जन्यशोकश्चेत्यादिनिरूपणनामा त्र्यधिकशततमोऽध्यायः ।। १०३ ॥