लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १०२

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०१ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १०२
[[लेखकः :|]]
अध्यायः १०३ →

श्रीनारायण उवाच--
शृणु लक्ष्मि ! ततो यद्वै सम्पन्नं कथयाम्यहम् ।
इत्यभ्यर्थ्य स्वपितरं शंकरं लोकशंकरम् ।। १ ।।
तूष्णीमास यदा विप्रः शंभुराश्वास्य तं द्विजम् ।।
गृहान्तरे गतः शंभुः पार्वतीं निद्रितां प्रियाम् ॥ २ ॥
शीघ्रं प्रबोधयामास भिक्षार्थं च द्विजातये ।।
सर्वं निवेदयामास यद्यदिच्छति वाडवः ।। ३ ।।
पार्वती करपादादि शोधयित्वा जलेन च ।
विप्रेप्सितानि वस्तून्याहारयामास चांगणे ।। ४ ।।
संकल्पेन तु सिद्धानि यान्यप्यन्यानि वाञ्च्छति ।
तत्सर्वं तत्र वृद्धाय ब्राह्मणाय समर्पयत् ॥ ५ ॥
न वै न्यूनमभूत् किंचित् तुतोषाति स वाडवः ।।
वस्तून्यादाय विप्रः सः श्रीकृष्णः परमेश्वरः ।।६।।
पुत्रो भवितुमिच्छन् वै तत्रैवाऽदृश्यतां गतः ।।
पार्वत्यास्तु शरीरे यो धातुर्लग्नोऽस्ति शांकरः ॥ ७ ॥
तत्र धातौ प्रविष्टोऽयं श्रीकृष्णः पुरुषोत्तमः ।।
पार्वत्यपि तदा स्वांगेष्वभिलग्नं सचेतनम् ॥ ८ ॥
धातुं दृष्ट्वा शारीरं तन् मलं धूल्यादिसंभवम् ।
मत्वा शुद्धिं तदा नैव चकार परमेश्वरी ।। ९ ।।
शरीरं बहुधूल्यादिमलाढ्यं प्रविलोक्य च ।।
स्नानं विशालं सोद्गन्धं करिष्येऽद्य दिने शनैः ॥1.102.१०॥
निर्मलं वै शरीरं च नद्यामेव भविष्यति ।
एवं विचारं दधती स्थिता प्रातः शुभासने ।।११।।
स्नानयोग्यविचित्राणि गन्धद्रव्याण्यकारयत् ।।
दासीभिर्गृहकार्याणि मंगलादीन्यकारयेत् ।।१२।।
अथ शंभुः स्वयं देवनद्यां स्नानाय निर्गतः ।।
गणैः सह स वै यातोऽन्ये गणास्तमनुद्रुताः ॥१३॥
केलासे पार्वतीक्षेत्रे गोपुरे नास्ति रक्षकः ।।
सर्वे गणास्तदा याता ज्ञात्वा स्नानोत्सवं परम् ॥१४॥
शंभुमर्घ्यैश्चन्दनैश्च तैलैः सुगन्धिभिस्तथा ।
सौरभैस्तिलपिष्टैश्च कैसरेः कर्पुरैस्तथा ॥१५॥
उपमृद्य महादेवं स्नापयन्ति स्म धारया ।।
गणानामपि सर्वेषां विहारस्नानतारणैः ।।१६।।
जलकेल्यादिभिस्तत्र सुमहानुत्सवोऽभवत् ।
स्नानान्ते तु गणैः शंभोः संस्कृता तु शिरोजटा ॥१७॥
भस्मपुष्पसुगन्ध्यादिद्रवैः संप्रोक्षिताऽभवत् ।
ललाटे बालचन्द्रस्य रेखया सह चन्दनम् ॥१८॥
लेखया कृतरेखं तु चर्चितं पुण्ड्रकं यथा ।।
कर्णपूरौ च रुद्राक्षैः कृतौ कण्ठे च वासुकिः ॥१९॥
हारो रुद्राक्षसम्पन्नो मुण्डमालाऽपि पौरटी ।।
कर्णयोर्धत्त्तूरपुष्पे रुद्राक्षद्वयवुट्टिके ॥1.102.२०॥
भुजयोः सर्पराजौ च प्रकोष्ठे भुजगद्वयम् ।।
कौश्यस्तु मुद्रिका रत्नश्रृंखलेंऽगुलिहस्तयोः ॥२१॥
यज्ञोपवीतं शुभगं हस्तिचर्मसुकंचुकम् ।।
सिंहचर्मकृतधौत्रं कट्यां च मुञ्जमेखला ।।२२।।
त्रिशूलं हस्तसन्न्यस्तं कौपीनं मृगचर्मणः ।।
सत्काष्ठपादुके रम्ये शरीरे भस्म संधृतम् ॥२३॥
अथ नेत्रे ध्यानयुक्ते परावृत्याऽर्धमेलिते ।।
व्याघ्रचर्मणा प्रातर्वै सन्ध्यार्थं संस्थितो हरः ।।२४।।
अपां कमण्डलुः पार्श्वे पञ्चपात्राणि चाग्रतः ।।
कुशपुष्पाऽक्षतधूपदीपचन्दनकुंकुमम् ॥२५॥
न्यस्तं गणैः स्वयं देवो ध्यानमग्नो बभूव ह ।।
समाधिं स्वात्मनि प्राप्तो निस्पृहः सर्वथा सदा ॥२६॥
यदा तिष्ठति ध्याने वा समाधौ शंकरस्तदा ।।
नास्ति कालस्य नियमो निस्पृहस्य तृणं जगत् ॥२७॥
समाधौ संस्थितो देवो गणास्तत्र त्वितस्ततः ।
नृत्यन्ति च प्रगायन्ति रमन्ते च वनादिषु ॥२८॥
वृक्षेष्वारोहाऽवरोहौ कुर्वन्ति च स्वपन्ति च ।
फलमूलान्याहरन्ति गृह्णन्ति मादकानि च ।।२९।।
पुष्पपत्राणि चिन्वन्ति नयन्ति हरसन्निधौ ।।
निवेद्य ध्यानमग्नाय शंभवेऽथ च ते गणाः ॥1.102.३०॥
फलकन्दादि खादन्ति रसानास्वादयन्ति च । ।
एवमुत्सवकर्तृणां संगवस्तत्र वै गतः ॥३१॥
गणाः शंभुं विहायैव न चायान्ति हरगृहम् ।।
प्रतीक्षते पार्वती तु नाऽऽयादेकोऽपि सेवकः ।।३२।।
ततः स्नातुं समीहाना तैलसौरभवारिभिः ।।
सुगन्धितद्रवैर्देवी सकेशं स्नानमिच्छति ।।३३।।
द्वारे कश्चिन्मया स्थाप्यो द्वारपालो निरोधकः ।।
स्नाने कश्चिन्न चाऽऽगच्छेद् रहसीति विचार्य वै ॥३४॥
स्वस्या धूल्यादिकं लग्नं शंभुधातुमयं मलम् ।
स्वेदमिश्रं द्रवं मत्वा विश्लिष्य कृतपेशिकम् ॥३५॥
पुत्तलं सुन्दरं तस्य सर्वावयवशोभितम् ।।
सत्यः पुत्रो यथा वा स्यात् तादृशं विरचय्य च ।।३६॥
यावत्करेण देहं तं स्निग्धचिक्कणताप्तये ।।
परिमार्जयते मोहात्तावत् तावत्तु तत् स्वयम् ॥३७॥
चैतन्ये सद्रूपे भावे विवृतिं प्राप्य शोभते ।
शिरः करतलेनैव यावन्मार्जयते शिवा ।।३८॥
तावत्तु मस्तकं तस्य सकेशं सूज्ज्वलं ह्यभूत् ।।
ललाटे मुखनेत्रादौ यावद्धस्तौ सुयोजितौ ॥३९॥
तावन्नेत्रे सुरूपे सुग्राहकेऽभवतां तदा ।
कपोलौ प्रोल्लसद्गोलौ ललाटं चारुचन्द्रकम् ॥1.102.४०॥
ओष्ठौ रक्तौ मुखं मन्दहास्यकृत् कलिदन्तवत् ।।
सुनासं च सुरूपं च निर्वृत्तं तत्क्षणाच्छुभम् ॥४१॥
तावत्तु पार्वती देवी सहास्या स्वसखीस्तदा ।।
आह्वयते प्रपश्यन्तु बालोऽयं निर्मितो मया ॥४२॥
हसन् बालोऽपि मन्दं स्वनेत्रे तुद्घाट्य पश्यति ।
मातरं तत्सखीश्चेति सर्वानन्दकरोऽभवत् ।।४३।।
ततो मात्रा कृतं स्वस्ति पुत्रस्य करयोस्तथा ।
पृष्ठे वक्षसि कट्यां च सक्थ्नोस्तथैव जानुनोः ।।४४।।
जंघयोः पादयोश्चांगुलिषु प्रोक्ष्यद्रवैः शुभैः ।।
स्वहस्तौ भ्रामितौ तस्यांगानि प्रमार्जितानि च ।।४५॥
यत्र यत्र प्रदेशे च स्पृष्टे हस्ततले शुभे ।
पार्वत्यास्तत्र तत्रायं बालो भवति चेतनः ॥४६॥
सुरूपः सुष्ठ्ववयवः पुष्टश्च मातृजो यथा ।
क्रीडया पुत्तलं सृष्टं पुत्रो जातः स चेतनः ॥४७॥
इत्याश्चर्यं महत्प्राप्य पूजनं प्राणरक्षणम् ।।
सर्वावयवपूर्णत्वं कृतं देव्या विशेषतः ॥४८॥
संस्मृत्य पार्वती कृष्णप्रदत्तं वरदानकम् ।।
अयोनिजोऽग्रपूज्यस्ते पुत्रश्चान्यो भवेदिति ।।४९।।
तदिदं वरदानं वै कृष्णरूपं सुपुत्रकम् ।
मत्वा निश्चयतस्तस्य महापूजनमाचरत् ॥1.102.५०॥
सुगन्धैः स्नापितो द्रव्यैरर्चितो भोजितस्तथा ।
श्रृंगारवस्तुभिः सम्यक शोभितो बोधितस्तया ॥५१॥
मम पुत्रेति चाहूय चुम्बनं सा व्यधान्मुहुः ।
स्तन्यपानं निधायांऽकेऽकारयत्प्राह पार्वती ॥५२।।
मम रक्षाकरः पुत्रः कृष्णोऽयं भगवान् स्वयम् ।
प्रादुर्भूतो मम कल्पवादपः फलितोऽधुना ॥५३।।
अहो सख्यः कुमारं मे वर्धयन्तु शुभाशिषा ।।
सख्य आयान्तु पुत्रं मे बलं ददतु रक्षकम् ॥५४॥
अहो आल्यः कुमारं मे शिरस्त्राणं सुकंचुकम् ।
यज्ञोपवीतकं रम्यं हारं कांचनजं तथा ।।५५॥
रत्नहीरकभूषाश्च धारयन्तु यथास्थलम् ।
धौत्रं पीताम्बरं कटिसूत्रं च कटिबन्धनम् ।।५६॥
समर्पयन्तु तद्योग्यं ददत्वन्यदपेक्षितम् ।।
कुर्वन्तु जयतिलकं चन्द्रकं साक्षतं तथा ॥५७।।
एवं श्रृंगारितश्चापि वर्धितश्च सखीजनैः ।।
सत्या च बोधितो मे त्वं रक्षको भव गोपुरे ॥५८॥
दत्तान्यस्मै महद्धार्यं त्रिशूलं चर्म खड्गकम् ।
शक्तिः पाशः कुठारश्च रक्षाया मालिकेति च ।।५९॥
एवं सुसज्ज्य पुत्रं तं शंभोरन्यूनसद्बलम् ।।
स्वस्नानोद्यानमार्गस्य गोपुरेऽस्थापयत् सती ।।1.102.६०।।
तयाऽऽज्ञप्तो वयं स्नामो देवनद्या हृदे शुभे ।।
उद्याने संस्थिते तत्र जलागाधे रमामहे ।।६१॥
मम पुत्रो गणेशस्त्वं मा प्रवेशय कंचन ।
यावद्वयं निवृत्ताः स्म स्नानादत्र गृहांगणे ॥६॥
तावत्कश्चिज्जनो नायाद् गोपुरान्तरमित्ययम् ।।
आदेशो मे त्वया रक्ष्यो मा पुमान् विशतु स्थलीम् ॥६३॥
यदि प्रसह्य चागच्छेद् बलात्तं विनिवार्य वै ।
रक्षणं तव मातुस्तु पार्वत्या मे करोत्विति ॥६४॥
यावत्स्नानानि जायन्ते तावन्न प्रविशेन्नर ।
एवमुक्त्वा दृढयित्वाऽर्पयित्वा चाऽऽयुधानि सा ॥६५॥
मन्त्राण्यपि तदा दत्वाऽतिष्ठिपद्गणनायकम् ।।
सोऽयं गोपुरमवति यथादेशमतन्द्रितः ॥६६॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कृष्णात्मकविप्रस्य भिक्षाप्राप्त्युत्तरमदृश्यता, पार्वत्याः शारीरधातुमलाद् गणेशोत्पत्तिः सप्राणगणेशस्य पार्वत्याः स्नानकाले गोपुररक्षार्थं नियुक्तिश्चेत्यादिवर्णननामा द्व्यधिकशततमोऽध्यायः ॥ १०२ ।।