लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १०४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १०४
[[लेखकः :|]]
अध्यायः १०५ →

श्रीनारायण उवाच
एतस्मिन्नन्तरे तत्र वाग् बभूवाऽशरीरिणी ।
मा शोकं कुरु देवेशि ! सुतस्ते कृष्ण ईश्वरः ।। १ ।।
यत्तेजो योगिनः शश्वद् ध्यायन्ति सततं मुदा ।
ध्यायन्ति वैष्णवा देवा ब्रह्मविष्णुशिवादयः ॥ २ ॥
यस्य पूज्यस्य सर्वाग्रे कल्पे कल्पे च पूजनम् ।
यस्य स्मरणमात्रेण सर्वविघ्नो विनश्यति ।। ३ ।।
नासीत् स भिक्षुको विप्रः स आसीद्वै जनार्दनः ।।
किं वा विलापं कुरुषे न नाशस्तव शांकरेः ॥ ४ ॥
एषां सरस्वतीं श्रुत्वा धैर्य चालम्ब्य यत्नतः ।।
तथापि विरहात् साऽभूद् विलप्य क्षणमूर्छिता ॥ ५ ॥
विस्मितास्ते सुराः सर्वे पुत्रदेहोपरिप्रगाम् ।।
मृतामिव प्रपश्यन्ति चित्रपुत्तलिकां यथा ।। ६ ।।
देव्यश्चैव सुराश्चैव सर्वेऽपि दुःखमूर्छिताः ।।
तान्सर्वांस्तु तदवस्थान् दृष्ट्वा कृष्णः स्वयं हरिः । ७ ।।
सद्वाक्यैर्बोधयामास शीताद्भिर्व्यजनैस्तथा ।।
सुखयित्वाऽकरोत् तत्र प्रस्ताव शांकरिकृते ॥ ८ ॥
किं कार्यमस्य बालस्य मस्तकस्य सुयोजने ।
प्राण आत्मा तु पार्वत्याः शक्त्या निहित एव वै ।। ९ ।।
स चात्र पुनरागच्छेत्पार्वत्यास्तु प्रभावतः ।।
मस्तकं तु गणेशस्य कृष्णे विलीनतां गतम् ॥1.104.१०॥
तस्माद् द्वितीयमाप्तव्यं मस्तकं तु शिवादिभिः ।।
गणेशो जीवितो भूयादस्माभिः पूजितो भवेत् ॥११॥
ब्रह्मा प्राह तदा विष्णुं भवान् सर्वज्ञ उच्यते ।।
कर्मणां गतिवेत्ता त्वं ऋणानुबन्धभानवान् ॥१२॥
कस्य केन समं कर्म भोग्यं वेत्ति न चाऽपरः ।।
वृक्षशाखा परिच्छिन्ना भुवि न्यस्ताऽपि रोहति ॥१३॥
तत्र बीजं विना जीवः कर्मबलात् सुयुज्यते ।
केचिद् बीजाच्च केचिद्वै देहात् कीटादयोऽपरे ॥१४॥
पार्थिवकर्दमादन्ये स्तम्बात् काण्डाच्च मांसतः ।।
अन्नादन्ये देहयोगाद्धातुयोगात् तथाऽपरे ॥१५॥
जायन्ते जन्तवस्तेषां स्वस्वकर्मानुसारतः ।।
तस्मात् त्वमेव विज्ञाता मस्तकं कीदृशं भवेत् ॥१६॥
यस्माऽनेन शरीरेण मस्तकस्यऋणं भवेत् ।
तस्यैव मस्तकं त्वत्र कबन्धे योज्यमेव वै ।।१७।।
ब्रह्मा प्राह तदा सर्वान् यमो गच्छेद् वनान्तरे।
प्रथमं यो मिलेत् प्राणी तदा तस्यैव मस्तकम् ।।१८॥
गृहीत्वा च समागत्य गणस्कन्धे नियोजयेत् ।।
विष्णुः प्राह तदा तत्र मम शृण्वन्तु देवताः ॥१९॥
उत्तरस्यां दिशि पुष्पभद्रायाः सरितस्तटे ।
अस्य ऋणानुबन्ध्येको हस्ती वर्तत इत्यमुम् ।।1.104.२०।।
हस्तिनं प्रति गत्वाऽहं मस्तकं तस्य शोभनम् ।।
कबन्धैतत्परिणाहमानग्रीवसुमण्डलम् ॥२१॥
छित्वा सुदर्शनेनैव नयामि तत्र यामि च ।।
इत्याश्वास्य च तान्सर्वानारुह्य गरुडं हरिः ॥२२॥
जगाम पुष्पभद्रायास्तटे यत्र स ईभराट् ।
सुघट्टवृक्षवल्ल्यादिसंवृते तत्र कानने ॥२३॥
गजेन्द्रं दिव्यवपुषं श्वेतं स्वहस्तिनीयुतम् ।
तथोदकशिरसं रम्यं सुखिनं सुरतश्रमात् ॥२४॥
परितः शावकान् कृत्वा परमानन्दमानसम् ।।
ददर्श भगवाँस्तं वै प्राह चैनं गजाधिपम् ॥२५॥
सुखितोऽसि कुटुम्बेन दारापत्यजनादिभिः ।।
अथोत्तरं महत्सौख्यं लभ्यं दानादिकर्मभिः ॥२६॥
गजः प्राह भवान् कोऽस्ति मेऽतिथिः प्रसमागतः ।।
कदलीवनजातानि स्वर्णानि कदलानि वै ॥२७॥
दास्ये भुंक्ष्व परं श्रेयः कुर्वस्माकं वनंजुषाम् ।।
पशूनां नेदृशो लाभो कदापि भवति प्रभो ॥२८॥
पूर्वजातिस्मरात् त्वां वै मन्ये कृष्णः समागतः ।
मत्पूर्वकर्मणः पाशाद् बन्धनं पाशवं मया ॥२९॥
ज्ञातं च ज्ञास्यते यद्वै भावि तदपि मे कुरु ।।
भगवानपि तद्दत्तं जग्राह यावदर्हणम् ॥1.104.३०॥
त्वरा मेऽस्ति मम प्रार्थ्यं देहि श्रेयो भविष्यति ।
गजः प्राह प्रभुः साक्षान्मदर्थं तु समागतः ॥३१॥
तस्मात्पुत्रैः स्त्रिया चान्यैर्मा शोकस्तु विधीयताम् ।।
नाथ गृहाण यन्नेयं शीघ्रं कुरु प्रसन्नताम् ॥३२॥
तव योगान्मम मुक्तिः कुटुम्बस्यापि वै ध्रुवा ।।
इति प्रोच्य प्रणम्याऽथ समीपे समुपस्थिता ॥३३॥
हरिः सुदर्शनेनैव चिच्छेदे तच्छिरो मुदा ।।
गरुडे स्थापयामास रुधिराक्तं मनोहरम् ॥३४॥
विच्छिन्नांगं पतिं दृष्ट्वा रुरोद हस्तिनी प्रिया ।
रुरुदुः शावकारतस्य विलप्य च शुचातुराः ॥३५॥
सा तुष्टाव रमाकान्तं शान्तं सस्मितमास्थितम् ।।
शंखचक्रगदापद्मधरं पीताम्बरं हरिम् ॥३६॥
गरुडस्थं जगन्नाथं भ्रामयन्तं सुदर्शनम् ।।
संसारसुखदातारं तद्धर्तारं नमाम्यहम् ॥३७॥
अनाथिन्यै पुनर्नाथप्रदातारं नमाम्यहम् ।
भक्तायाः सुखकर्तारं नमामि पतिजीवनम् ॥३८॥
प्रभुस्तत्स्तवनात्तुष्टस्तस्यै प्राह प्रहर्षितः ।
तव कार्यं पुनः कृत्वा जीवयित्वा पतिं तव ।।३९॥
ततो गमिष्ये भद्रं ते क्षणं शोकं परित्यज ।।
इत्युक्त्वा च महारण्यं जगाम तत्र यूथपः ॥1.104.४०॥
प्राप्तः कालवशाच्छुभ्रो मृतोऽभूत्कश्चिदीभराट् ।
अखण्डितशरीरस्य तस्यैव मृतमस्तकम् ॥४१॥
पृथक्कृत्य युयुजेऽत्राऽऽगत्य कबन्धमण्डले।
यद्यपि भगवान् कृष्णः सर्वसामर्थ्यवान् विभुः ॥४२॥
गणेशस्य मस्तकं वै योक्तुं तदेव चार्हति ।।
नवं वा मस्तकं तत्र चांकुरयितुमर्हति ॥४३॥
हस्तिनोऽपि मस्तकं तद् द्वितीयं कर्तुमर्हति ।।
तथापि यत्कृतं चात्र स्वेच्छाया ऋणबन्धनात् ।।४४॥
एवं तं जीवयामास हस्तिनं चरणांबुजम् ।।
सर्वांगे योजयामास परिवारं पवित्रयन् ॥४५॥
त्वं जीवाऽऽकल्पपर्यन्तं परिवारैः समं गज ।
इत्युक्त्वा च गरुडेन कैलासं ह्याजगाम वै ॥४६॥
कबन्धं तु गणेशस्य नीत्वा स्वस्यैव वक्षसि ।
रुचिरं तच्छिरः सम्यग् योजयामास बालके ॥४७॥
जीवयामास तं शीघ्र हुंकारोच्चारणेन च ।।
सर्वे प्रसन्नाः संजाताः कण्ठे तु सन्धिनीं दधौ ॥४८॥
गणेशः पुत्ररूपोऽसौ प्रणनामाऽऽगतान्मुहुः ।
सर्वैः सभाजितो देवैराशीर्भिश्चिरजीविता ॥४९॥
प्रदत्ताऽथ ततो विष्णुरुवाच पार्वतीं सतीम् ।।
ब्रह्मादिकीटपर्यन्तं फलं भुंक्ते स्वकर्मणः ॥1.104.५०॥
शुभाऽशुभं कृतं यद्यत् प्रतियोनौ प्रपद्यते ।
इन्द्रः स्वकर्मणा कीटयोनौ जन्म व्रजेत् सति ! ॥५१॥
कीटश्चापि भवेदिन्द्रः पूर्वकर्मफलेन वै ।।
सिंहोऽपि मक्षिकां हन्तुमक्षमः प्राक्तनं विना ॥५२॥
मशको हस्तिनं हन्तुं क्षमः प्राक्तनकर्मणा ।।
सुखं दुःखं भयं शोकमानन्दः कर्मणः फलम् ॥५३॥
सुकर्मणः सुखं हर्षमितरे पापकर्मणः ।।
इहैव कर्मणां भोगः परत्र च शुभाशुभैः ॥५४॥
गोलोकनाथः श्रीकृष्णः परिपूर्णतमः स्वयम् ।।
तव पुत्रः समुत्पन्नः श्रुत्वा तुष्टा च पार्वती ॥५५॥
स्तनं ददौ च शिशवे तं प्रणम्य गदाधरम् ।।
तुष्टाव प्रांजलिर्भक्त्या विष्णुं तं कमलापतिम् ॥५६॥
आशिषं युयुजे विष्णुः शिशुं च शिशुमातरम् ।
ददौ कण्ठे बालकस्य कौस्तुभं च स्वभूषणम् ॥५७॥
ब्रह्मा ददौ मुकुटं च धर्मो वै रत्नभूषणम् ।
सिद्धासनं ददौ धर्मस्तस्मै वेधाः कमण्डलुम् ॥५८॥
शंकरो योगपट्टं च तत्त्वज्ञानं सुदुर्लभम् ।।
रत्नसिंहासनं शक्रः सूर्यश्च मणिकुण्डले ॥५९॥
माणिक्यमालां चन्द्रश्च कुबेरश्च किरीटकम् ।।
वह्निशुद्धं च वसनं ददौ तस्मै हुताशनः ॥1.104.६०॥
रत्नछत्रं च वरुणो वायू रत्नांगुलीयकम् ।।
क्षीरोदोद्भवसद्रत्नरचितं वलयं वरम् ॥६१॥
मञ्जीरं चापि केयूरं ददौ लक्ष्मीर्हरिप्रिया ।।
कण्ठभूषां च सावित्री भारती हारमुज्ज्वलम् ॥६२।।
क्रमेण सर्वे देवाश्च देव्यश्च यौतकं ददुः ।
मुनयः पर्वतांचैव रत्नानि विविधानि च ॥६३॥
वसुन्धरा ददौ तस्मै वाहनाय च मूषकम् ।
क्रमेण देवा देव्यश्च मुनयः पर्वतादयः ॥६४॥
गन्धर्वाः किन्नरा यक्षा मनवो मानवास्तथा ।
नानाविधानि द्रव्याणि स्वादूनि मधुराणि च ॥६५॥
पूजां चक्रुश्च ते सर्वे क्रमाद्वै भक्तिपूर्वकम् ।
पार्वती जगतां माता स्मेराननसरोरुहा ॥६६॥
रत्नसिंहासने पुत्रं वासयामास जीवितम् ।
कर्तुं पूजां ततस्तस्य विशेषेणोपचक्रमे ॥६७॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने व्योमवाण्या श्रीकृष्णोऽयं गणेश इति विज्ञापिते श्रीहरिणा हस्तिमस्तकसन्धानं कृतं ब्रह्मादिभि
रुपदादानं कृतमित्यादिनिरूपणनामा चतुरधिकशततमोऽध्यायः ।।१०४॥