लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०९९

विकिस्रोतः तः
← अध्यायः ०९८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९९
[[लेखकः :|]]
अध्यायः १०० →

श्रीनारायण उवाच
शृणु लक्ष्मि ! तदा लोके भयाऽभये बभूवतुः ।।
देवानामुद्यमं ज्ञात्वा प्रबलस्तारकासुरः ॥ १ ॥
असुरसैन्यकृत्कोट्या ययौ योद्धुं सुरान्प्रति ।
असुरा राक्षसा दैत्या दानवास्तत्र संगताः ।। २ ।।
आक्रोशन्तो महादर्पा निर्ययुर्युद्धवांछया ।
ताडकस्य महत्सैन्यं त्वागतं देवसन्निधौ ॥ ३ ।।
तदा देवान्नभोवाणी प्राह प्रसन्नताऽन्विता ।
स्कन्दं विजयिनं चाग्रे कृत्वा यान्तु जयो भवेत् ।। ४ ।।
विजयार्थं तु पार्वत्या पुत्रः स प्रकटीकृतः ।
येषां स्कन्दोग्रगो युद्धे तेषां वै विजयो ध्रुवः ॥ ५ ॥
श्रुत्वा देवा जहृषुर्वै योद्धुकामाश्च निर्भयाः ।
ब्रह्मणा तत्र तावद्वै नोदितैका कुमारिका ।। ६ ।।
मृत्योः पुत्री समायाता मृत्युसेनाऽभिधा तदा ।।
वरणार्थं कुमारस्य तपः परममाश्रिता ॥ ७ ॥
शत्रूणां मारयित्री सा सुन्दरी वरमालया।
कुमार कार्तिकं तत्र वरयामास मार्त्यवी ॥ ८ ॥
तया युक्तस्तदा स्कन्दः सेनापतिरियाय वै।
रणांगणे तदा घोरा रक्तोत्तेजकगोमुखाः ॥ ९ ॥
महादुन्दुभयो नेदुर्डिण्डिमान्यद्भुतानि च ।
रणकर्कशतूर्याणि मृदंगपटहाऽनकाः ।।1.99.१०।।
खरश्रृंगाणि शंखाश्च भेर्योऽवाद्यन्त उत्कटाः ।।
ऐकपद्येन चोत्तस्थुर्योद्धुकामाः सुराऽसुराः ।।११॥
कुमारं गजमारोप्य देवेन्द्रो ह्यग्रगोऽभवत् ।
सुरसैन्येन महता लोकपालैः समावृतः ॥१२॥
यमोऽपि स्वगणैः सार्धं मरुद्भिश्च समीरणः ।।
यादोभिर्वरुणस्तत्र कुबेरो गुह्यकैर्वृतः ॥१३॥
शंकरः प्रमथैः सार्धं नैर्ऋतो व्याधिभिः सह ।।
अन्तर्वेद्यां स्थिताः सर्वे गाङ्गयामुनमध्यगाः ॥१४॥
पातालाश्च समायातास्तारकस्योपजीविनः ।
दैत्याश्च दानवाश्चैव राक्षसा असुराश्च ये ॥१५॥
गजा उष्ट्रा एडकाश्च हया अश्वतराः खगाः ।।
स्यन्दनानि विचित्राणि विमानानि च भूरिशः ।।१६।।
पदातयो बहवश्चाऽशोभन्त सायुधास्तदा ।
खड्गतोमरनाराचैः पाशमुद्गरपट्टिशैः ॥१७॥
बाणपरिघचक्रैश्च शक्तिशूलपरश्वधैः ।।
तैः सुयुक्ते तदा सैन्ये दैत्यानां च दिवौकसाम् ॥१८॥
शुशुभाते महाकालवक्रदृष्ट्या निरीक्षिते ।।
युद्धारंभध्वजौ दृष्ट्वा मुमुचुः सायकाँस्तदा ॥१९॥
बाणान्ववर्षुरातीक्ष्णान् क्षुरधारान्समन्ततः ।
शिखानर्धचन्द्राँश्च त्रिधारान्पंचधारकान् ॥1.99.२०॥
बाणैराच्छादितं व्योमाऽविध्यन्त विशिखैर्भटाः ।
प्रफुल्लकिंशुका यद्वद् राजन्ते कर्तिता भटाः ॥२१॥
सैन्ये परस्परं बाणैश्छन्ने गर्जन्ति तद्भटाः ।
भूमौ च पतिताः केचित्केचिन्मुण्डा लुठन्ति वै ॥२२॥
केषांचिद्बाहवछिन्नाः कंधराश्च विदारिताः ।
हृदयानि विनिर्भिन्नान्यन्येषां चूर्णिता कटिः ॥२३॥
पाशैर्भल्लैरंकुशैश्च कुन्तैश्च ऋषिभिस्तथा ।
भटाश्च बहवस्तत्र भूशय्या ह्यभवन्क्षणात् ॥२४॥
सदंशौष्ठशिरांस्याच्छादयद्वै रणमण्डलम् ।
नृत्यमानकबन्धानि धावन्त्वन्यजिघृक्षया ॥२५॥
भौमश्चैवाऽऽन्तरिक्षश्च संग्रामो दारुणोऽभवत् ।।
नास्ते परिचयस्तत्र शस्त्रपातनकर्मणि ॥२६॥
जल्पन्तं शत्रुमादाय चूर्णयन्ति गदादिभिः ।।
नद्यः प्रवर्तिता रक्तप्रवाहिन्यः शवस्तराः ॥२७॥
रक्ते रणांगणे रक्तश्छिन्ना भिन्ना भटास्तदा ।।
द्वन्द्वयुद्धं च कुर्वन्तो जयाय बहवो हताः ॥२८॥
कुजंभो वायुना सार्धं जंभः सार्धं यमेन वै ।।
वरुणेन बलश्चाथ कुबेरेण सह त्रिपात् ॥२९॥
अग्निना सह संह्रादो नैऋतेन महाहनुः ।।
ईशेन सह मेघाभ इन्द्रेण सह तारकः ॥1.99.३०॥
यक्षाः पिशाची उरगाः पतंगाः पितरस्तथा । ।
व्याधयः सन्निपाताश्च ज्वर भूताश्च गुह्यकाः ॥३१॥
युयुधुः प्रमथा अस्त्रशस्त्रैश्च बहुभिस्तदा ।।
एवं युद्धे सुतुमुले देवदानवसंकुले ॥३२॥
तारकेणैव देवेन्द्रः शक्त्या परमया हतः ।।
सद्यः पपात नागाद्वै पृथिव्यां मूर्छितोऽभवत् ॥३३॥
स्वस्थो द्रागेव संभूत्वा वज्रमादाय वेगतः ।।
विव्याध तारकं वक्षस्थले दैत्योऽपतद् भुवि ॥३४॥
मूर्छितश्छिन्नहृदयो भिन्नपृष्ठाऽस्थिदण्डकः ।।
शुक्रेण सन्धिनीवल्लीबलेन सन्धितः पुनः ॥३५॥
उत्थितश्च जघानेन्द्रं ब्रह्मास्त्रं प्राणनाशकम् ।।
विष्णुर्नारायणस्तद्वै जग्रास जिह्वया द्रुतम् ॥३६॥
इन्द्रस्ततो महारोषान्महाकालाऽस्त्रमादधे ।
विष्णुः प्राह तदा त्विन्द्रं मा मा मारय तं हरे ! ॥३७॥
तस्य हन्ता कुमारोऽयं समुद्भूतः शिवात्मजः ।
तस्माद्भवद्भिः स्थातव्यं बालेन युध्यता सह ।।३८॥
सेनानीताडकौ चोग्रौ युद्धयमानौ महाबलौ ।
शुशुभातेऽतिसंरब्धौ प्रहारैर्जर्जरीकृतौ ॥३९।।
महाँस्तत्र गणो वीरो वीरभद्रो रुषान्वितः ।।
गणैः सुबहुभिर्युक्तस्तारकं हन्तुमुद्यतः ॥1.99.४०॥
त्रिशूलैर्ऋष्टिभिः प्रासैः खड्गैः परिघपट्टिशैः ।।
जघ्नतुः समरेऽन्योन्यं सुराऽसुरविमर्दने ॥४१॥
तारको वीरभद्रेण त्रिशूलेन हतो भृशम् ।
पपात सहसा तत्र क्षणं मूर्छामवाप च ॥४२॥
उत्थाय च मुहूर्ताद्वै शक्त्या तु तारको बली ।।
शिवस्याऽनुचरं शूलं वीरभद्रं जघान ह ॥४३॥
त्रिशूलेन तु घोरेण वीरभद्रोऽपि तारकम् ।।
जघान हृदये वेगात्तारकः पोथितो भुवि ।।४४॥
हरिः प्राह तदा वीरभद्रं तु तारकोऽसुरः ।।
कार्तिकेयस्य वध्योऽस्ति मा कुरु त्वं परिश्रमम् ॥४५॥
न रोचतेऽस्य तद्वाक्यं तारकस्य वधं प्रति ।
वीरभद्रो रुषाविष्टो जगर्ज जलदोपमः ॥४६॥
अतारकां महीं चाऽद्य करिष्ये नाऽत्र संशयः ।।
तावत्कपर्दिनोऽनेके जटाजूटविभूषिताः ॥४७॥
वृषारूढा दशहस्ताः शूराः क्रूरास्त्रिलोचनाः ।
पञ्चास्या नीलकण्ठाश्च गणा वै चन्द्रशेखराः ॥४८॥
युयुधुस्ते महादैत्यैस्तारकासुरजीविभिः ।।
देवदानवदैत्यानां सन्निपातो महानभूत् ॥४९॥
अश्ववाराश्च वाजिस्थान् गजिनो गजिनस्तथा ।
जघ्नू रथस्थान् रथिनो व्योमगा व्योमगामिनः ॥1.99.५०॥
वीरभद्रस्तारकं संगृह्य वै पादयोस्तदा ।
भ्रामयित्वाऽन्तरीक्षेऽथ पोथयामास भूतले ॥५१॥
क्षयं प्रणीता बहवोऽपरे याता रसातलम् ।
पलायमाना बहवो भीताः प्रांजलयोऽपरे ॥५२॥
शरण्याश्च रणाद्भग्ना मृताः केचिद्भुवस्तले ।।
निपेतुः शिखराणीव वीरभद्रादिनाशिताः ॥५३॥
एवं भ्रष्टं स्वकं सैन्यं दृष्ट्वा वै ताड़कासुरः ।।
भुजानामयुतं कृत्वा हन्तुं देवगणान् ययौ ॥५४॥
विष्णुः प्राह तदा स्कन्दं नाऽन्यो हन्ताऽस्ति कर्तिक !।
तस्मात् त्वयैव नेतव्यस्तारको यमसादनम् ॥५५॥
तारकेण पुरा वीर ! तपस्तप्तं भयावहम् ।
तपसा तेन चोग्रेण ह्यजेयत्वमवाप्तवान् ॥५६॥
जिता इन्द्रादिलोकेशास्त्रैलोक्यं च जितं तथा ।
तस्मात् त्वया निहन्तव्यः शान्तिः स्याच्च तदा परा ॥५७॥
इत्याश्रुत्य तदा स्कंदः शक्तिमादाय पारगाम् ।
अधावत्तारकं तावत्तारकः शक्तिमाददे ॥५८॥
प्रोवाच दैत्यो गर्विष्ठो देवानविगणय्य तु ।।
इन्द्रः पलायितोऽथापि यूयं देवा गतत्रपाः ।।५९।।
कुमारं यत्पुरस्कृत्य रणाग्रेऽत्र व्यवस्थिताः ।।
मरुतो घातिता गर्भे धर्षिता गौतमप्रिया ॥1.99.६०।।
विश्वरूपो हतो विप्रो वृत्रो येन निषूदितः ।।
कारयितुं कुमारस्य घातं क्व प्रगतो हरिः ॥६१॥
दक्षयज्ञे त्वनेकेषां विप्राणां नाशको ह्ययम् ।
न बालो वै वीरभद्रः सन्निधौ मम तिष्ठतु ।।६।।
वीरं चेन्द्रं कुमारं च नयामि यमसादनम् ।।
उक्त्वैवं तु तदा शक्तित्रयं जग्राह तारकः ।।६३॥
तावदिन्द्रो बहुधारं वज्रं चिक्षेप तारके ।
पतितोऽपि समुत्थाय शक्त्येन्द्रं प्राहरद्रुषा ॥६४॥
पतितं चेन्द्रमालोक्य गत्वा पदा निपीड्य च ।
वज्रं तस्याऽहरत्पश्चाद्यावदिन्द्रं जिघांसति ॥६५॥
तावत् त्रिशूलमुद्यम्य वीरभद्रेण ताडितः ।।
पतितश्चासुरो भूमौ द्रागेव पुनरुत्थितः ॥६६॥
प्रजघान त्रिशूलेन वीरवक्षसि वेगतः ।।
वीरभद्रस्ततः क्रुद्धस्त्रिशूलेन जिघांसति ॥६७॥
कुमारेण निषिद्धो यत् मम नाश्यो ह्ययं त्विति ।।
अथो जयेत्यभिप्रोक्तो देवैराकाशसंस्थितैः ॥६८॥
जगर्ज च महातेजाः कार्तिकेयो महाबलः ।।
मूर्ध्नि कण्ठे चोदरेऽपि जान्वोश्चैव कटिभ्रमौ ॥६९॥
वक्षसि पृष्ठ उरसि त्वन्योन्यं प्रविजघ्नतुः ।
न ववौ च तदा वायुर्निष्प्रभोऽभूद्दिवाकरः ॥1.99.७०॥
चचाल वसुधा सर्वा सशैलबहुकानना ।।
हिमालयादयः सर्वे पर्वताश्च चकम्पिरे ॥७१।।
कुमारः प्राह पापिष्ठ देवानां दुःखदायक ।
घातयामि महाशक्त्या स्मर स्वेष्टं स्थिरो भव ॥७२॥
इति क्षिप्ता महाशक्तिस्तीक्ष्णाग्राऽष्टप्रधारिका ।
तारके वक्षसि शीर्णे पारं पृष्ठे जगाम सा ।।७३।।
तारकं विद्धमादाय पृथ्व्यामर्धा विवेश सा ।
विशीर्णस्तारकश्चायं पुनः स्कन्देन मारितः ॥७४।।
ददृशुस्तं सुरगणाः ऋषयो गुह्यकाः खगाः ।
किन्नराश्चारणाश्चापि सिद्धाश्चाप्सरसां गणाः ॥७५॥
परमेण प्रहर्षेण तुष्टुवुस्तं कुमारकम् ।।
विद्याधर्यश्च ननृतुर्गायकाश्च जगुस्तथा ॥७६॥
देवा निरामया जाताः सन्तुष्टाश्च शिवादयः ।।
गिरिजा हर्षमापन्ना स्वांकमारोप्य चात्मजम् ॥७७॥
परिष्वज्य शुभाशीर्भिर्युयोज जयिनं सुतम् ।
परिश्रमं क्षतं देहे स्फाटितं वा प्रफुल्लितम् ॥७८॥
पार्वती स्वकरस्पर्शान्नीरुजं त्वकरोत्क्षणात् ।
देवाः कल्याणरूपाय नमश्चक्रुस्तदा मुदा ॥७९॥
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने मृत्युपुत्र्या सेनया वृणीतेन कार्तिकेयेन युद्धे तारकासुरो हत इत्यभिवर्णननामा नवनवतितमोऽध्यायः ।। ९९ ॥