लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः १००

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०९९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः १००
[[लेखकः :|]]
अध्यायः १०१ →

श्रीश्वेतव्यास उवाच
एवं सुशिख ! सन्नष्टं तारकं लोकहारकम् ।।
नष्टं श्रुत्वा स्वयं लक्ष्मीर्नारायणमुवाच ह ॥ १ ॥
श्रीलक्ष्मीरुवाच--
नारायण महाविष्णो दैत्यः स तारकासुरः ।।
क आसीच्च कथं कस्माद्वरं प्राप्तोऽत्र मे वद ॥ २ ॥
श्रीनारायण उवाच--
शृणु चैकहृदा देवि ! वज्रांगसुततारकम् ।
मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः ।
तेन कन्या दितिर्दत्ता कश्यपाय महात्मने ॥ ३ ॥
तस्या गर्भे मरुत्देवा महेन्द्रेण विकर्तिताः ।
एकोनपञ्चाशज्जाता देवास्ते मरुतो मताः ।
किन्तु दितिस्तुराषाहो विनाशाय तपोऽकरोत् ॥ ४ ॥
दशवर्षसहस्राणि तेन वज्रांगदः सुतः ।
समुत्पन्नो जन्मतः स वज्रसारमयांऽगकः ॥ ५ ॥
जातमात्रो महायोद्धा शस्त्रशास्त्रप्रपारगः ।।
उवाच मातरं भक्त्या मातः किं करवाण्यहम् ॥ ६ ॥
माता प्राह सुरेन्द्रेण सुता मे बहवो हताः ।
तेषामपचितिं चिकीर्षामि शक्रवधादहम् ।। ७ ।।
बाढमित्येवमुक्त्वा स जगाम त्रिदिवं तदा ।
पादेनाऽऽकृष्य चैवेन्द्रं मातुरन्तिकमानयत् ।। ८ ।।
ब्रह्मा तावत्कश्यपश्च प्रोचतुर्मुञ्च वज्रिणम् ।
अवमानं मृत्युरस्य त्वया मातुर्वचः कृतम् ॥ ९ ॥
तथा पितुर्वचः कार्यं मुञ्चाऽमुं तु सुरेश्वरम् ।।
नत्वा स पित्रोश्चरणे तं मुमोच शतक्रतुम् ॥1.100.१०॥
वज्रांगदस्ततो यातो वने कर्तुं तपो महत् ।।
ब्रह्मणा च तदानीं तु वरांगी कन्यकाऽर्पिता ॥११॥
तां पत्नीं तु समादाय वज्रांगो ह्यगमद्वनम् ।
ऊर्ध्वबाहुः स दैत्येन्द्रोऽतिष्ठदब्दसहस्रकम् ।।१२।
तावन्नधोमुखः कालं तावत्पंचाग्निसाधकः ।
ततः सोऽन्तर्जले चक्रे तपो वर्षसहस्रकम् ॥१३॥
तत्पत्नी सरसस्तीरे तपस्तेपे पतिव्रता ।
इन्द्रो विभीषणाश्चक्रे भूत्वा वै मर्कटः स्वयम् ॥१४॥
जलकुंभं बभंजाऽस्या मेषरूपो भयं ददौ ।
सर्परूपस्ततो भूत्वा बबन्ध चरणावुभौ ॥१५॥
गोमायूश्च ततो भूत्वा रौति सन्निधिमागतः ।।
अग्निरूपस्ततो भूत्वा तस्या ददाह वस्त्रकम् ।।१६॥
वायुर्भूत्वा चकर्षैनां सिंहो भूत्वा ह्यभीषयत् ।
तावद्वर्षसहस्रं तु व्यतीतं च पितामहः ॥१७॥
आययावथ वज्रांगो धर्मवृत्तिं ततोऽवृणोत् ।
एवमस्त्विति दत्वा तद्वरं ब्रह्मा तिरोदधे ।।१८॥
शोकार्तां स्वां स्त्रियं राजा वज्रांगोऽपश्यदाह च ।
किं ते कार्यं ददामीह मा शोकं कुरु भामिनि ॥१९॥
पत्नी प्राह कृपा चेन्मे पुत्रं दुःखस्य तारकम् ।
देहि चेन्द्रः सदा मां तु त्रासं ददाति चेत्यतः ॥1.100.२०॥
वज्रांगस्तु विरक्तोऽपि ह्यनुकम्प्या प्रियेति यत् ।।
मत्वा तथेति जायायै पुनस्तपश्चकार ह ॥२१॥
यावदब्दसहस्त्रं वै निराहारं तपोऽकरोत् ।।
ब्रह्मा प्राह पुनस्तस्मै कथं विधीयते तपः ॥२२॥
प्राह दैत्यो देहि पुत्रं गीर्वाणदर्पनाशकम् ।।
ब्रह्मोवाच तव पत्न्यां पुत्रो वै दुःखतारकः ॥२३॥
देवसीमन्तिनीनां यो धम्मिलकविमोक्षकः ।।
भविष्यतीति तत्स्थानात् दंपती तौ प्रजग्मतुः ॥२४॥
स्वाश्रमं चाथ सा गर्भं दितिर्दधार तारकम् ।
पूर्णं वर्षसहस्रं तु दधारोदर एव वै ।।२५॥
ततो जाते सुपुत्रे तु प्रचचाल वसुन्धराः ।।
चेलुर्धराधराः सर्वे ववुर्वाताः प्रभीषणाः ॥२६॥
सूर्याद्याश्च जहुः कान्तिं नीहाराच्छादिता दिशाः ।।
विषण्णमनसो देवा दानवास्तु महोत्सवाः ॥२७॥
जातमात्रस्तु दैत्येन्द्रो ह्यभिषिक्तोऽसुरादिभिः ।।
महाराज्येऽथ सर्वान्स प्राह सुरजिगीषया ॥२८॥
सुरास्तु शत्रवोऽस्माकं जय्यास्ते तपसो बलात् ।
तपः कर्तुं तु गच्छामि पारियात्रगिरेर्दरीम् ॥२९॥
तत्र गतः शिवं ध्यात्वा शिवमन्त्रं जजाप सः ।।
निराहारः पञ्चतपास्तथावर्षाऽयुतं गतम् ।।1.100.३०।।
ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने ।
मांसस्याऽग्नौ जुहावैव ततो निर्मांसतां गतः ॥३१॥
देहश्चाग्निमयो जातस्तेन भूतानि जज्वलुः ।।
ब्रह्मा तस्मै वरं दातुं सुप्रसन्नो जगाम ह ॥३२॥
ब्रह्मोवाचोत्तिष्ठ पुत्र ! वरं वृणीष्व चेप्सितम् ।
तारकः प्राञ्जलिर्भूत्वा वरं वव्रे तदेप्सितम् ।।३३।।
जातिवैरेण देवास्तु सर्वदा त्रासयन्ति नः ।
अतो दैत्यसमुद्धर्ता भवेयमिति मे मतिः ॥३४॥
अवध्य सर्वभूतानामस्त्राणां च महौजसाम् ।
स्यामहं चाऽमरश्चैष वरो देयो मदीप्सितः ॥३५॥
ब्रह्मा प्राह च तं मृत्युमृते देही न जायते ।।
जातस्य हि ध्रुवो मृत्युस्तस्मादन्यद् वृणु प्रियम् ।।३६।।
मोहितोऽपि स दैत्येन्द्रः शिशोरासप्तवासरात् ।।
वव्रे मृत्युं तथेत्याह ब्रह्मा शंकरवाक्यतः ।।३७
दैत्यो जगाम राज्ये स्वे महार्णवतटोत्तरे।।
सर्वस्मृद्धिपरिष्वक्तो मोदते स सभाजितः ॥३८।।
सर्वाऽस्त्रज्ञश्च शस्त्रज्ञो युद्धरीतिविशारदः ।।
सर्वान्दैत्यान्दानवाँश्चाऽसुरान्नीत्वा स्वराययौ ॥३९।।
दिक्पालान् लोकपालाँश्च जित्वा देवान्ग्रहाँस्तथा ।।
त्रिलोक्याश्च स्वयं राज्यं चक्रे देवान् व्यवासयत् ।।1.100.४०॥
स्वयमिन्द्रो निमिर्वह्निः कालनेमिर्यमोऽपि च ।।
जम्भश्च निऋतिस्थाने महिषो वरुणस्तथा ।।४१।।
मेषो वाताऽधिकारश्च कुजंभो धनदोऽभवत् ।
अन्येषां चाधिकाराँश्च दैत्येभ्यस्तारको ददौ ।।४२।।
एवं विप्रकृता देवा महेन्द्रसहितास्तदा ।।
ययुः स्वायंभुवं धाम तुष्टुवुः परमेष्ठिनम् ।।४३।।
नमो जगत्प्रसूत्यै ते हेतवे पालकाय च ।
संहर्त्रे च नमस्तुभ्यं तारकाद् रक्षणं कुरु ।।४४।।
ब्रह्मा प्राह तदा सर्वान् जाने युष्मान् विवासितान् ।।
तस्य हन्ता च नाद्यापि स जातो भुवने पुमान् ॥४५॥
स च वव्रे वधं दैत्यः शिशुतः सप्तवासरात् ।
स वै सप्तदिनो बालः स्कन्दाख्यः शंकरोद्भवः ॥४६॥
कालरात्रिर्मम तनुः दक्षपुत्री सती च या ।
तनुं त्यक्त्वा पुनः सा च पार्वती संभविष्यति ।।४७॥
विवाहः शंभुना तस्या भविष्यति यदा तदा ।
स्कन्दाख्यः खलु पुत्रो यो भविष्यति महाबलः ॥४८॥
सप्तदिनो हनिष्यति सेनानीस्तारकासुरम् ।
प्राप्ते तु समये सर्वं भविष्यति हरीच्छया ॥४९॥
इत्यनेनागते काले सेनान्या च रणांगणे ।।
हतो वै तारको दैत्यः शान्तिमापुस्तदा सुराः ॥1.100.५०॥
अथ सेनान्यनुजस्य गणेशस्य च तां कथाम् ।।
शृणु वच्मि ततो लक्ष्मि ! श्रीकृष्णस्मारिकां शुभाम् ॥५१॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने तारकासुरस्य ब्रह्मणो वरदानजन्मादिकथननामा शततमोऽध्यायः ॥१००॥