सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०९८

विकिस्रोतः तः
← अध्यायः ०९७ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ९८
[[लेखकः :|]]
अध्यायः ०९९ →

श्रीनारायण उवाच--
शिवः प्राह तदा देवान् कुमारोऽयं प्रतापवान् ।
जातमात्रो युवा दिव्यो देवानां कार्यकृन्मतः ॥ १ ॥
तद् भवद्भिः सन्नियोज्यो यथेष्टं बलवान् कृती ।।
देवाः प्राहुस्तदा शंभुं सर्वेषां सुखहेतवे ।। २ ।।
तारकाद्भयमस्त्येव सर्वेषां जगतां विभो ।।
तस्मात् सेनापतित्वेऽभिषेचनीयः सुतस्त्वयम् ।। ३ ।।
इत्येवं सम्मतौ तत्र शंकरः सुमुहूर्तके ।।
सैनापत्यप्रदानाय लिलेखोत्सवपत्रिकाः ॥ ४ ॥
गणा मंगलपत्राणि ययुर्नीत्वा चतुर्दश ।।
चतुर्दशसु लोकेषु ऋषिपितृद्युवासिनाम् ।।५।।
यक्षराक्षसगन्धर्वभूतप्रेतपलाशिनाम् ।।
मानवासुरसर्पाणां किन्नरोरगभूभुजाम् ॥ ६ ॥
प्रतिगृहं प्रददुस्ताः पत्रिकाश्च शिवाज्ञया ।।
आययुः ऋषयः सत्यलोकात्तु ब्रह्मणा सह ॥ ७ ॥
पितरश्च तपोलोकादग्निष्वात्तादयस्तथा ।
बर्हिषदा आज्यपाश्च सोमपा वत्सरादयः ।। ८ ॥
पावना वह्नयः सर्वे यमप्रेता दिगीश्वराः ।
समीयुश्च स्थले तत्र मनवो मरुतस्तथा ॥ ९ ॥
इन्द्रः कुबेरो वरुणो यमो यमगणास्तथा ।
बालखिल्यास्तथा सर्वे सप्तर्षयश्च नैर्ऋताः ॥1.98.१०॥
अधर्मधर्मसन्तानाः सुमेधाः स्तनयित्नवः ।
वसन्ताद्या ऋतवश्च कामो बाणादिनाऽन्वितः ॥११॥
विष्णुर्लक्ष्मीपतिर्लक्ष्म्या पार्षदैः सह चागमत् ।।
देव्यः साध्व्यश्चतुर्दशलोकगार्हस्थ्यशोभनाः ॥१२॥
विलासिन्यश्च नर्तक्यः सेविकाश्च पतिव्रताः ।।
समाजग्मुश्च भूदेवा नदा नद्यश्च पर्वताः ॥१३॥
अरण्यानि च तीर्थानि पुर्यों धामानि मूर्तयः ।।
भूतानि प्राणिनस्तत्र सूतमागधबन्दिनः ॥१४॥
मानवा नागसर्पाश्च वृक्षा वल्ल्यश्च पक्षिणः ।।
गगनस्था जलचर्याः स्थलस्थाः स्थास्नुजंगमाः ॥१५॥
दिव्यदेहाः समाजग्मुः सैनापत्यमहोत्सवे ।
गायका नर्तका नर्मकारिणो नाटकंविदः ।।१६।।
वादकाः सेवकाश्चान्ये ये देवाऽदेवजातयः ।
सर्वे तत्र समाहूता आगताः प्रोत्सवार्थिनः ॥१७॥
सैनापत्यस्थानयोग्यं बालकं द्रष्टुमुत्सुकाः ।
विधिं द्रष्टुं समाजग्मुः प्रायो द्रष्टुं स्वरक्षकम् ॥१८॥
समाजं च तथा द्रष्टुं प्रायः सर्वे समागताः ।।
शंकरेण तदा स्वस्य कैलासः सुपरिष्कृतः ॥१९॥
मण्डपो हि महान् स्वर्णरत्नवस्त्रादिभिः कृतः ।।
कदलीस्तंभकलशतोरणोल्लेचशोभितः ॥ 1.98.२०॥
पटमण्डपलक्षाणि कोटिशः पर्णशालिकाः ।।
सभास्थानानि रम्याणि विहारोद्यानगोपुराः ॥२१॥
भक्ष्यभोज्यान्यनन्तानि लेह्यचोष्याणि कोटिशः ।
पेयानि स्वादुमिष्टानि सौगन्धीन्यपि लक्षशः ॥२२॥
दृश्यानि च मनोरंजनकान्यगणितानि वै ।
अमृतानि विविधानि स्वादुफलान्यनेकशः ॥२३॥
पक्वान्नानि सुदिव्यानि सितासुधाज्यवन्ति वै ।।
अतितृप्तिप्रदान्येवं ताम्बूलादीनि चाऽभवन् ॥२४॥
स्थानोपवेशनबृस्यो रत्नसिंहासनानि च ।
जवनिकासुसौधानि विमानानि ह्यनेकशः ॥२५॥
वाहनानि जलव्योमभूगामीनि च कोटिशः ।
भाजनानि च भोग्यानि दर्पणाः केशदन्तुराः ॥२६॥
पुष्पाणि तैलसौगन्ध्यचन्दनानि च भूरिशः ।।
कुंकुमानि च धूपाश्च दीपा वाद्यानि भूरिशः ॥२७॥
स्थले स्थले पृतनाधिपत्यसूचकसुध्वजाः ।।
प्रस्फुरन्ति स्मान्तरीक्षे गीयन्ते जयगीतिकाः ॥२८॥
मुहूर्तेऽभिजिति प्राप्ते स्वस्तिवाचनपूर्वकम् ।
वेदघोषान् प्रचक्रुर्वै भूदेवाः ऋषयस्तथा ॥२९॥
यज्ञोपवीतं रक्षायाः सूत्रं जयमणिं तदा ।।
धारयामास तं स्कन्दं बृहस्पतिरुदारधीः ॥1.98.३०॥
तिलकं साक्षतश्चन्द्रः कौंकुमश्च कृतः शुभः ।।
गुरुणा गांगतोयैश्च प्रोक्षणं च कृतं शुभम् ॥३१॥
मन्त्रा बलप्रदास्तत्र योजिता दक्षकर्णके ।
दर्भः कर्णोपरि न्यस्तो मंगलं मस्तके तथा ॥३२॥
द्रव्यं तु प्रोक्षितं मूर्ध्नि मुकुटो ब्रह्मणाऽर्पितः ।।
कर्णयोः कुण्डले दत्ते कुबेरेण तदा शुभे ॥३३॥
समुद्रेण तदा रत्नहारास्तस्य गलेऽर्पिताः ।।
हिमालयेन स्वर्णानां भूषणान्यर्पितानि वै ॥३४॥
दिक्पालैस्तत्तत्प्रदेशोद्भवद्वस्तु समर्पितम् ।।
वरुणेनार्पितं छत्रं श्वेतं चन्द्रसमं तदा ॥३५॥
गंगया रमया तत्र चामरे करयोर्धृते ।
इन्द्रेण कवचं दत्तं सैनापत्यस्य रक्षकम् ॥३६॥
सैनापत्यस्य वेषश्च दत्तो वै विष्णुना स्वयम् ।
आदित्येन रथो दत्तो रणाऽक्षतदृढांगकः ॥३७॥
खड्गं चर्म प्रदत्ते वै दृढे तु विश्वकर्मणा ।।
शंभुना तु धनुर्दत्तमिषुध्यक्षय्यसायकौ ॥३८॥
चक्रं तु हरिणा दत्तं गदादण्डौ यमेन वै !
वज्रं तदाऽग्निना दत्तं शक्तिश्च वायुनाऽर्पिता ॥३९॥
मयूराऽश्वगजा दत्ताः पर्वतैर्व्योमगामिनः ।।
अस्त्रशस्त्रायुधहेतिपाशर्ष्टितोमरादयः ॥1.98.४०॥
प्रदत्ता विविधैर्देवैः तदुत्सवसमागतैः ।
देवीभिर्विविधास्तस्मै प्रदत्ताः शक्तयोऽक्षयाः ॥४१॥
पार्वत्याऽऽशीर्वचो दत्तं सर्वदा विजयी भव ।
सेनाभोग्यः परिकरो मुनिभिश्चार्पितस्तदा ॥४२॥
न्यूनं सर्वं पूरितं च तदा दक्षादिराजकैः ।।
ततो विजयघोषोऽभूत्कार्तिकस्य महात्मनः ॥४३॥
अवाद्यन्त च वाद्यानि बभूवुर्जयघोषणाः ।।
आसन्नुग्राः सुरपक्षाः सेनापतिकृतावनाः ॥४४॥
मंगलानि विविधानि जातानि सुरयोषिताम् ।
समाजस्तत्र लोकेभ्यश्चतुर्दशभ्य आगतः ॥४५॥
भोज्यैर्मिष्टैर्मिष्टपानैः सुवास्यैश्च सुतर्पितः ।
पुरुषाः प्रमदाश्चैव वर्धयन्ति स्म शांकरम् ॥४६॥
सेनापतिं महाशक्तं दुर्धर्षं सर्वतोऽधिकम् ।।
सैन्यान्यपि सुक्लृप्तानि लोकपालैस्तदा ततः ॥४७॥
तदन्येभ्यस्तु संदत्वा पाथेयान्युपदास्तथा ।।
शंभुना प्रेषिताः सर्वे स्वस्वधामानि ते ययुः ॥४८॥
अथ सम्मिलिता देवाः ब्रह्मविष्णुपुरोगमाः ।।
मन्त्रयांचक्रुरद्यैव दिवानिशि महासुरः ॥४९॥
दिविषदां तारकाख्यस्त्रासयते महाबलः ।।
अयं स्कन्दो महासत्वो हनिष्यति तु तारकम् ॥1.98.५०॥
दिनानि सप्तजातानि जन्मतोऽस्य तथापि वै ।।
महासेनापतिर्जातो देवदत्तबलैर्बली ॥५१॥
तस्मादद्यैव यास्यामस्तारकं हन्तुमुद्यताः ।।
मत्वा तथेति सहसा निर्जग्मुस्तारकासुरम् ॥५२॥
तदा भेर्यो मृदंगाश्च पटहाऽऽनकगोमुखाः ।
अवाद्यन्त च वाद्यानि तूर्याणि विविधानि च ॥५३॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने कार्तिकेयस्य सेनापतित्वधिकारतदंगायुधादिवर्णननामाऽष्टनवतितमोऽध्यायः ॥९८॥