लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०८४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८३ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८४
[[लेखकः :|]]
अध्यायः ०८५ →

श्रीनारायण उवाच-
लक्ष्मि! देवो महादेवो यं यं प्रेषयति प्रभुम् ।
स सः पुनर्न चायाति चिन्तामग्नो हरोऽभवत् ।। १ ।।
नाद्याप्यायान्ति योगिन्यो नाद्याप्यायाति भास्करः ।
काश्यां वासो न वै स्याच्चेत्! कालो यास्यति केन मे ।। २ ।।
अधाक्षिषमहं कामं कामो मां दुनुयात्तराम् ।
काशीप्रवृत्तिमन्वेष्टुं कं वा प्रहिणुयामितः ।। २ ।।
इति चिन्त्य विधातारं बहुमानपुरःसरम् ।
शिवः प्रोवाच योगिन्यः सूर्यश्च प्रेषिता मया ।। ४ ।।
नाद्यापि ते निवर्तन्ते काश्या विज्ञाय वर्तनम् ।
नाबाधिष्ट तथा क्ष्वेडं मां काशीविरहो यथा ।। ५ ।।
विधे विधेहि मे कार्यं याहि काशीं यतस्व च ।
अद्यैव च मया सत्या गन्तव्यं किन्तु धार्मिकम् ।। ६ ।।
दिवोदासं तु राजानमुल्लंघयितुं नोत्सहे ।
नान्यराज्ये प्रवस्तव्यं नोच्छिष्टं भोज्यमेव च ।। ७ ।।
स्वस्तिमान् गच्छ पन्थास्ते शुभोदर्को भवत्वलम् ।
आदायाऽऽज्ञां विधिर्द्राग्वै काशीमायाद् विहायसा ।। ८ ।।
हंसस्थोऽपश्यदानन्दवाटिकां काशिकां शुभाम् ।
गंगा वृक्षा जनाः सौधा यत्राऽऽनन्दमयाः सदा ।। ९ ।।
काशिभूरालोचिता यैरिन्द्रियैस्तानि सन्ति वै ।
वराणि तृणधान्यानि काश्यां यानि पतन्ति हि ।। 1.84.१ ०।।
अद्य मे सफलं चायुरहो मे भाग्यगौरवम् ।
अद्य मे फलितो वृक्षो देहो यत्काशिदर्शनम् ।। ११ ।।
मया सृष्टिः कृता सर्वा बहुदाक्ष्यपुरःसरा ।
परमन्यादृशी काशी देवेन निर्मिता स्वयम् ।। १ २।।
इति हृष्टमना वेधा वृद्धब्राह्मणवेषधृक् ।
अवतीर्य क्षितौ हंसाद् दिवोदासं ददर्श ह ।। १ ३।।
राज्ञा संमानितो वृद्धब्राह्मणः सत्कृतस्तथा ।
उपविश्यासने रम्ये चाशीर्वादान् ददौ नृपम् ।। १४।।
कोशवृद्धिः सत्यद्रव्येऽसौख्यवृद्धिः समान्तरे ।
गतिवृद्धिः सत्यमार्गे काशवृद्धिस्तवान्तरे ।। १५।।
राजा प्राह कथं द्व्यर्थं भाषसे वृद्धभूसुर! ।
धर्मभक्त्योर्यत्र वृद्धिस्तत्र वृद्धिः सती सदा ।। १६ ।।
अद्रव्ये च अमार्गे च सति वृद्धिर्भयप्रदा ।
अद्रव्ये सत्यण्डवृद्धिरमार्गे सति धावनम् ।। १७।।
वर्षान्तरे ह्यसौख्यं तु धार्मिकस्य न संभवेत् ।
अधार्मिकस्याऽऽन्तरे तु असौख्यं सदृशं भवेत् ।। १८।।
स्तुतौ प्रकाशवृद्धिः स्यादन्तरे नान्यथाऽविले ।
किमिच्छसि वृद्धविप्र! द्रव्यहीनः कुमार्गगः ।। १९।।
हृदि मे किं दंभवृद्धिर्वर्षपूर्वं च दुःखभाक् ।
भवाम्यहं दिवोदासः इतीच्छसि किमीच्छसि ।।।1.84.२०।।
काश्याः पलायनं मे स्यादितीच्छसि किमिच्छसि ।
कूटवाग् ब्राह्मणो यत्र भूसुरः कूटवेषधृक् ।।२१।।
कूटधर्मो भवेत्तत्र कूटाशीर्वादवान् भव ।
ब्रह्मा प्राहात्र कूटं च कापट्यं शृंगगौरवम् ।।२२।।।
श्रेषवाग् ब्राह्मणो यत्र भूसुरः श्रेष्ठवेषधृक् ।
श्रेष्ठधर्मो भवेत्तत्र श्रेष्ठाशीर्वादवानहम् ।।२३।।
कापट्यं यदि शाठ्यं वै तदा तादृङ् न चाऽन्यथा ।
शाठ्यवाग् ब्राह्मणो यत्र भूसुरः शाठ्यवेषधृक् ।।।२४।।
शाठ्यधर्मो भवेत्तत्र शाठ्याशीर्वादवान् भवेत् ।
राजा प्राह तदा विप्रं ब्रह्माणं कूटधर्मकम् ।।।२५।।
यद्येवं धर्ममूर्तिस्त्वं कथं शाठ्ये प्रवर्तसे ।
शाठ्ये पराजयो भाव्यः शाठ्यपादः पतत्यधः ।।२६।।
एहि विप्र! स्वागतं ते करोम्यशाठ्यधर्मतः ।
पाद्यं भोज्यं फलं गांगजलं पेयं प्रसाधनम् ।।२७।।
सर्वं गृहाण विप्रेन्द्र! वृणु यद् हृदि वर्तते ।
ब्रह्मोवाच गृहीतं तत् भक्त्या प्रवर्धसे नृप! ।।२८।।
विद्यया सत्यबोधिन्या जयसे धर्मणा नृप! ।
राजानो बहवो दृष्टा यज्वानो भूरिदक्षिणाः ।।२९।।
श्रोत्रिया नीतिनिपुणाः सत्त्वशीला जितेन्द्रियाः ।
क्षमादयासुगांभीर्यदाक्षिण्यसौम्यभूमयः ।। 1.84.३०।।
परं तेभ्यस्त्वयि राजन् गुणा द्वित्रा विशेषतः ।
प्रजा एव कुटुम्बं ते ब्राह्मणा एव दैवतम् ।।३ १।।
भक्तिधर्मौ सहायौ ते तपस्विनां सहायकः ।
एते नान्येषु दृश्यन्ते धन्यो मान्योऽसि वै सताम् ।।३२।।
सद्गुणैः पूजनीयोऽसि भक्त्या धर्मेण वर्धसे ।
देवा द्रोहं च ते कर्तुमपि बिभ्यति धार्मिक! ।।।३३।।
अहं तु ब्राह्मणो राजन् यज्ञान् कर्तुमिहागतः ।
त्वादृशं भक्तमासाद्य मम वासोऽत्र भूयताम् ।।३४।।
अन्यत्तु मन्त्रितं दूरं तत्सदा दूरमस्तु वै ।
अत्र तीर्थत्रयं राजन्! त्वं गंगा भूः परात्परम् ।।३५ ।।
यत्र कृतानां कार्याणां संवर्तेऽपि न संक्षयः ।
संचितं यद्धनं यत्नाद् विनियुज्येत तन्मखे ।।३६।।
इति जोषं स्थितं विप्रं दिवोदास उवाच ह ।
हरिं यियक्षमाणस्य तव दासोऽस्मि सर्वथा ।।३७।।
कोशाद् गृहाण मे यज्ञसंभारान् समपेक्षितान् ।
स्वाम्यमात्यसुहृत्कोशराष्ट्रदुर्गसुसैन्यकम् ।।३८।।
विनियुंक्ष्वाऽऽवश्यकं तत्स्वार्थं तन्न मनागपि ।
पुत्रैः कलत्रैर्देहेन राजा प्रजास्तु रंजयेत् ।।३९।।
प्रजासन्तापजो वह्निर्वज्रादपि भयंकरः ।
द्वित्रान् विनाशयेद् वज्रं तापो राज्यं कुलं तनुम् ।।1.84.४०।।
विप्रपादरजोभिस्तु करोम्यवभृथं सदा ।
विप्रानने प्रहुतं तन्मन्ये यज्ञाद्विशिष्टकम् ।।४१।।
एकैवाद्यापि जागर्ति समीहा ब्राह्मणकृते ।
स्वदेहोऽपि तदर्थं वै चार्पणात् सफलो भवेत् ।।४२।।
अद्य मे सफलं जयेम कुरु यज्ञान् सुदक्षिणान्।
यज देवान् कृतं विद्धि साहाय्यं सर्ववस्तुभिः ।।।४३।।
श्रुत्वा राज्ञो वचो विप्रब्रह्मा संभारमाहरत् ।
इयाज दशभिर्गंगातीरेऽश्वमेधयज्ञकैः ।।४४।।
यत्र स्थले च तत्तीर्थं पूर्वां रुद्रसरोऽभिधाम् ।
त्यक्त्वा दशाश्वमेधाख्यामापेदे विश्रुतं तथा ।।४५।।
दिवोदासस्य भक्तस्य छिद्रं नाऽवाप किंचन ।
किं वदेन्मन्दरं गत्वा शंभोरग्रे तु विश्वसृक् ।।४६।।
अतो दशाश्वमेधेशं लिंगं ब्रह्मेश्वरं तथा ।
स्वकां मूर्तिं च संस्थाप्य विधिस्तत्रैव चाऽवसत् ।।४७।।
दिवोदासस्य सत्संगाद् हरेर्भक्तोऽभवत् सदा ।
सत्यलोके च वैराजे वैष्णवे शांभवे पदे ।।४८।।
मोक्षाख्यं यद्भवेत्सौख्यं तद्वै काशिनिषेवणात् ।
ज्येष्ठशुक्लप्रतिपदि स्नात्वा मुच्येत बन्धनात् ।।४९।।
स्नानं दानं जपो होमः स्वाध्यायः पितृतर्पणम् ।
संध्या देवार्चनं श्राद्धं कृतं तत्राऽक्षयं भवेत् ।।1.84.५० ।।
स्नात्वा दशहरायां च लिंगं सम्पूज्य चाऽऽप्नुयात् ।
पुण्यं दशाश्वमेधीयं न पुनर्गर्भमाविशेत् ।।५१ ।।
ब्रह्मा ब्राह्मणरूपेण स्थितो यावच्छिवागमः ।
ब्रह्मणे तु दिवोदासो ब्रह्मशालामकारयत् ।।५२।।
अहल्यया कृता तत्र ब्रह्मपुरी सुशोभिता ।
इत्येषा भूः सदा ब्राह्मी ब्रह्मलोकप्रदायिनी ।।५३ ।।
दिवोदासो महाभक्तः कीदृशो मेऽभवत् प्रिये! ।
यस्य ब्रह्मादयो देवाः प्रतिकर्तुं न चाऽशकन् ।।५४।।
इतिश्रीलक्ष्मीनारायणीयसंहिताया प्रथमे कृतयुगसन्ताने मन्दराचलतः शंभुप्रेषितब्रह्माऽपि विप्ररूपेण कूटश्लोकद्वाराऽऽशीर्वादान् ददौ, तत्संवादोत्तरं दशाश्व-
मेधयज्ञान् कृत्वा काश्यामेवोवासेत्यादिकथननामा चतुरशीतितमोऽध्यायः ।।८४।।