लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०८५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८५
[[लेखकः :|]]
अध्यायः ०८६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! महादेवि! मन्दरे निवसन् हरः ।
शुशोच बहुधा तत्र गता नायान्ति वै पुनः ।। १ ।।
किं वै काश्यां स्थितास्ते वाऽकृतकार्या हतौजसः ।
नायान्ति योगिनीसूर्यवेधसः प्रहिणोमि कान् ।। २ ।।
चिन्तयन्निति देवेशो गणानाहूय भूरिशः ।
प्रेषयामास भो यात काशीं विवसितुं द्रुतम् ।। ३ ।।
शंकुकर्णं महाकालं घण्टाकर्णं महोदरम् ।
नन्दिषेणं सोमनन्दिकालपिंगलकुक्कुटान् ।। ४ ।।
कुण्डोदरं मयूराक्षं बाणगोकर्णतारकान् ।
तिलपर्णं स्थूलकर्णं दृमिचण्डं प्रभामयम् ।। ५ ।।
सुकेशं विन्दतिं छागं कपर्दिपिंगलाक्षकौ ।
वीरभद्रं किरातं च चतुर्मुखं निकुंभकम् ।। ६ ।।
पंचाक्षं भारभूतं च क्षेमकं लांगलिं तथा ।
त्र्यक्षं विराधं सुमुखमाषाढिं स्कन्दमेव च ।। ७ ।।
महाशाखं विशाखं च शाखं नन्दिनमेव च ।
भृंगिणं नैगमेयं च प्रेषयामास शंकरः ।। ८ ।।
एते गणा महाभागाः स्वामिभक्ता दृढव्रताः ।
कृत्वा मायां बहुविधां बहुरूपा विचक्षणाः ।। ९ ।।
अनिमेषक्षणास्तस्थुः क्षोणीशच्छिद्रकांक्षिणः ।
धर्मे सत्ये दयायां च दण्डे प्रजाप्रपालने ।। 1.85.१ ०।।
रक्षणे दानधर्मे च राज्यधर्मे श्रुतौ स्मृतौ ।
वर्णाश्रमविपद्धर्मदेशकालादिधर्मसु ।। ११ ।।
पञ्चयज्ञजपभक्तिसेवासत्कारवृत्तिषु ।
क्वापि कुत्राप्यलब्ध्वा वै क्षतिं त्रुटिं सच्छिद्रताम् ।। १ २।।
राजानं चाऽपराभव्यं दिवोदासं प्रपूज्य च ।
सर्वे गणा असिद्धस्वस्वामिकार्याः सुलज्जिताः ।। १३ ।।
स्वस्वनाम्ना महादेवं प्रतिष्ठाप्य निरन्तरम् ।
काश्यामेव निवासान् स्वान् चक्रिरे विगतज्वराः ।। १४।।
न निवृत्ता मन्दरं ते काशीमाहात्म्यबोधनात् ।
वाराणसी न वै त्याज्या स्वर्गादपि गरीयसी ।। १५।।
आनन्दोद्यानसंलब्धसुखतुल्यं न चेतरत् ।
अत्र कैलास एवास्ति वैकुण्ठोऽप्यत्र विद्यते ।। १६।।
कार्शीं त्यक्त्वा कथं कार्या शुष्का मन्दरसंस्थितिः ।
वाराणसीति काशीति आनन्दोद्यान इत्यपि ।। १७।।
मुखेन येन संप्रोक्तं नास्ति तस्य यमाद्भयम् ।
पञ्चक्रोश्या परिमिता तनुस्त्रिदेवसंभवा ।। १८।।
अनाकलितपुण्यानां परिक्षीणधनायुषाम् ।
सर्वोपायविहीनानां गतिर्वाराणसी पुरी ।। १ ९।।
काश्यां वसन्ति ये धीरा आपंचत्वविनिश्चयाः ।
जीवन्मुक्तास्तु ते ज्ञेया वन्द्या पूज्यास्त एव ह ।। 1.85.२० ।।
यत्र काश्यां मृतो जन्तुर्ब्रह्मनारायणादिभिः ।
प्रबद्धमूर्धाञ्जलिभिर्नमस्येताऽतियत्नतः ।। २१ ।।
मरणं मंगलं यत्र विभूतिर्यत्र भूषणम् ।
कौपीनं यत्र कौशेयं काशी कुत्रोपमीयते ।।२२ ।।
अपास्य सोदरान्दारान्पुत्रं क्षेत्रं गृहं वसु ।
अप्यंगीकृत्य निधनं वस्तव्यमत्र चैव ह ।।२३ ।।
इति ते निर्णयं कृत्वा काश्यामेव व्यवस्थिताः ।
अथ शंभुर्गतान्काश्यां स्थितान्पुनरनागतान् ।। २४।।
गणान् ज्ञात्वा च हेरम्बं प्राहिणोत्तु गजाननम् ।
गच्छ पुत्र विना त्वां वै कश्चिन्न पारयेन्नृपम् ।। २५।।
यथाबुद्धि यथाकालं यथायोग्यं प्रकल्प्य च ।
दिवोदासं विनिष्कास्य काशीं करगतां कुरु ।।२६ ।।
तत्र स्थितोपि संसिद्ध्यै यतस्व सहितो गणैः ।
निर्विघ्नं कुरु चास्माकं नृपे विघ्नं समाचर ।।२७।।।
आज्ञामादाय शिरसा प्रणिपत्य च धूर्जटिम् ।
प्रतस्थे त्वरितः काशीं गणेशः पितृसिद्धये ।।।२८ ।।
शंभोः काश्यागमोपायं चिन्तयन्वाडवोऽभवत् ।
स्थूलवेष्टनपंचांगपत्रधृक् शकुनं दिशन् ।। २९ ।।
नक्षत्रज्ञो महाज्योतिश्चक्रवेत्ताऽऽविशत्पुरीम् ।
चचार प्रत्यवरोधं स्थवीरो रेखया दिशन् ।। 1.85.३० ।।
हस्तरेखां शकुनानि भाग्यं जन्माक्षराणि च ।
सुदृष्ट्वा गणितं कृत्वा पौराणां प्रीतिमानभूत् ।। ३१ ।।
स्वयमेव निशायां तु स्वप्नं सदर्शयन्नृणाम् ।
प्रातस्तेषां गृहं गत्वा तेषां वक्ति शुभाऽशुभम् ।। ३ २।।
प्रश्नान् संकारयित्वा तान् फलं स्वाप्नं जगाद तान् ।
स्वप्ने रात्रौ भवान् मज्जन् जले मज्जन् तटं गतः ।। ३३ ।।
तटस्थकर्दमे मग्नः पुनर्मग्नोऽसि भूरिशः ।
स्वप्नस्याऽस्य फलं दुष्टं जले घातो भवेत्तव ।। ३४।।
अन्यस्यापि गृहे गत्वा फलं स्वाप्नं ह्यवर्णयत् ।
मुण्डी काशाम्बरधरः प्रैक्षि स्वप्ने त्वया ततः ।। ३५ ।।
मरणतुल्यदुःखं वा मरणं वा फलं भवेत् ।
स्वप्ने सूर्यग्रहो दृष्टो मृतिर्वा तत्समं फलम् ।। ३६ ।।
ऐन्द्रं धनुर्द्वयं रात्रौ यदलोकि ध्रुवा मतिः ।
पश्चिमायां स्वयं सूर्य उदयं प्राप्य शीतगुम् ।। ३७।।
प्रोद्यन्तं व्योममार्गाद्वै पातयामास भूतले ।
इति स्वप्ने त्वया दृष्टं राज्यनाशो भवेद् ध्रुवम् ।।३८।।
धूमकेतुद्वयं युध्यमानं व्योम्नि व्यलोकि - यत् ।
तच्चापि राष्ट्रभंगाय फलं स्वाप्नं विनाशकृत् ।।३९।।
विशीर्य त्वेकदशनं नीयमानं च दक्षिणे ।
आत्मानं यत् समद्राक्षीः मृतिः कुटुम्बभीषणा ।।1.85.४०।।
त्वयैक्षताऽपररात्रौ प्रासादध्वजभंजनम् ।
राज्यक्षयकरं चैतन्महोत्पातः प्रजासु च ।।४१।।
समुद्रेण पुरं चैतत्प्लावितं यददर्शि तत् ।
द्विमासाऽभ्यन्तरे एव महानाशः पुरौकसाम् ।।४२।।
स्वप्ने वानरयानेन त्वं प्रयातोऽसि दक्षिणाम् ।
अतस्तव विनाशो वा पुरत्यागोऽथवा ध्रुवः ।।४३।।
रुदती या त्वया दृष्टा नारी रात्रौ दिगम्बरा ।
मुक्तकेशी व्योमगाऽभूत् फलं राज्यविपर्ययः ।।४४।।
देवालयस्य कलशः पतन् दृष्टस्त्वया यतः ।
द्राक् स्वल्पैर्दिवसैरेव राज्यभंगो भवेद् ध्रुवम् ।।४५।।
पुरीं परित आगत्य मृगाः शिवादयो मुहुः ।
रोरूयमाणा दृश्यन्ते तन्मासे नोद्वसीं क्रियात् ।।४६।।
घूकश्येनबकगृध्रा उड्डयन्त्यभितः पुरीम् ।
सूचयन्ति महाकष्टं भविष्यत्यत्रवासिनाम् ।।४७।।
गदामादाय हनुमान् पृष्ठे लग्नो ध्रुवं क्षयः ।
यमदूताः प्रदृश्यन्ते महिषाऽनःपरस्थिताः ।।४८।।
प्रजामादाय गच्छन्ति प्रजानाशो भवेद् ध्रुवः ।
परराज्यभटश्चात्रऽऽगत्येमान् ताडयन्ति तत् ।।४९।।
फलं काशीपरिभंगो लोकानां कदनं भवेत् ।
तस्मान्मासान्तरे एव गन्तव्यमितरत्र वै ।।1.85.५० ।।
नात्र वासो हि सुखदो भवेन्मासद्वयोत्तरम् ।
एवं निर्वासयामास शंसन्बहून् प्रजाजनान् ।।५१।।
प्रायशोऽर्धं प्रजायास्तु गतं देशान्तरं प्रति ।
अथापि ग्रहचारं वै विलोक्याह जनान्पुनः ।।५२ ।।
एकराशौ स्थिताः शुक्रशनिर्भौमा विनाशकाः ।
धूमकेतुरयं व्योम्नि भित्त्वा सप्तर्षिमण्डलम् ।।५३ ।।
संयाति पश्चिमामाशां वैश्यानां नाशको भवेत् ।
शनिश्चरः समुल्लंघ्य राशिं वक्रः प्रयाति वै ।।।५४।।
राहुकेतुभौमयुक्तो महाविनाशकृद्धि सः ।
सायंकाले तु भूकम्पोऽवश्यं नाशकरो भवेत् ।।५५।।
उतराद्दक्षिणां याता व्योम्न्युल्का गर्जनाकरी ।
लीना चापि तु सैवाऽस्याः सूचयत्येव नाशनम् ।।५६।।
चत्वरस्थचैत्यवृक्षो वातेनोन्मूलितोऽपि सः ।
सूचयत्येव काश्याश्च प्रजानां कदनं महत् ।।।५७।।
प्रातः सूर्योदये प्राच्यां काको वक्ति भयं भवेत् ।
काशीमध्ये मृगौ कौचिदारण्यकौ प्रविश्य च ।।५८।।
जनदृष्टिं प्रविच्याव्य गतावुद्वाससूचकौ ।
शरदि दृश्यते चाम्रशालपुष्पं फलांकुरम् ।
महाकालभयं मन्ये पुर्यामस्यामकालजम् ।।५९।।।
साध्वसं जनयित्वेति गणेशेन द्विजेन वै ।
उच्चाटिता धनाढ्याश्च भूमन्तोऽपि कुटुम्बिनः ।।1.85.६०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने
शंकरेण द्विचत्वारिंशद्गणानां प्रेषणं गणेशप्रेषणं कृतं
तेन च विविधस्वाप्नप्रत्यक्षादिशकुनोत्पातादिवर्णनेन
प्रजानां काशीतो निष्कासनं कृतमितिवर्णननामा
पञ्चाशीतितमोऽध्यायः ।। ८५ ।।