लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०८३

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०८२ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ८३
[[लेखकः :|]]
अध्यायः ०८४ →

श्रीनारायण उवाच-
पश्य लक्ष्मि! कियद्वेषा नार्यो स्वार्थार्थमुद्यताः ।
बहुरूपाणि कुर्वन्ति यावत्स्वार्थौ न सिद्ध्यति ।। १ । ।
योगिनीत्वं परित्यज्य देवीत्वं चाऽवगुह्य च ।
काचित् संन्यासिनी काचित् तपस्विनी तु मानवी ।। २ ।।
काचित् बभूव सैरन्ध्री काचित्तु भिक्षुकी तथा ।
काचित्तु मालिनी काचित् नापिती सूतिकाऽभवत् ।। ३ ।।
काचिद्भिषग्वरारोहा काचित् तुलासुविक्रया ।
काचिच्छाकविक्रयिणी काचित् सर्पादिरक्षिका ।। ४ ।।
काचित्तु नर्तकी जाता काचिद् धात्री च किंकरी ।
-अपरा गायिका जाताऽन्या वादित्रप्रवादिनी ।। ५ ।।
काचित् तालकरी चान्या जाता कार्मणमन्त्रदा ।
काचिन्मालागुम्फनज्ञा काचित्तैलादिविक्रया ।। ६ ।।
परा द्यूतविधानज्ञा इतरा गोपवल्लभा ।
काचिन्नटी च काचित्तु रथ्याचत्वरमार्जिका ।। ७ ।।
अन्या मध्वादिव्यापारा रथ्याचीवरमार्गणा ।
अपत्यदाऽपरा जाता श्वपची चर्मकारिणी ।। ८ ।।
साध्वी च कर्षुकी दुग्धरसव्यापारहारिणी ।
तीर्थवासिनी चान्या च मुण्डिनी ग्रामठाऽपरा ।। ९ ।।
काचिद् रेखाचिह्नद्रष्ट्री काचिल्लेखनचित्रिका ।
वशीकरणमन्त्रज्ञा काचिज् ज्वरप्रमार्जिका ।। 1.83.१ ०।।
काचिदंजनकुशला गुटिकासिद्धिबोधिका ।
धात्वादिमिश्रिका काचिद् वास्त्रपत्त्राणकारिणी ।। १ १।।
पुंमोहिनी बहुरूपा वागग्निस्तंभबोधिका ।
अदृश्यत्वखेचरत्वाऽन्याकारत्वादिमन्त्रदा ।। १२।।
उच्चाटनाऽऽकर्षणज्ञा युवचित्तविमोहिनी ।
चिन्तितार्थप्रदा ज्योतिर्विज्ञाऽन्या पशुरक्षिका ।। १२।।
दन्तधावनदात्री च गोशकृत्संग्रहाऽटिनी ।
मृत्तिकायाश्च विक्रेत्री काचित्तु नागरी तथा ।। १४।।
कर्मचारिणि दासी च भूत्वा भूत्वा प्रतिगृहम् ।
प्राविशँस्ताश्च योगिन्योऽहर्निशं विचरन्ति च ।। १५।।
विघ्नार्थं छिद्रमल्पं वा मार्गयन्त्योऽपि नाऽलभन् ।
ततस्ता एत्य गंगायास्तीरे समेत्य निष्फलाः ।। १६।।
किं कर्तव्यं क्व गन्तव्यं दिवोदासे प्रजासु च ।
छिद्रं नो लभ्यते किंचित्कथं दूरं प्रकुर्महे ।। १७।।।
कार्यसिद्धिं विना नैव गन्तव्यं स्वामिनं प्रति ।
संमन्त्र्येति तत्र तस्थुर्न गता मन्दराचलम् ।। १८।।
प्रभोः कार्यमनिष्पाद्य प्रेष्यः को निकटे भवेत् ।
प्रभुं विनापि काश्यां वै जीविष्यामोऽत्र सर्वदा ।। १९।।
प्रभू रुष्टो हरेद् वृत्त्यं काशी त्वर्थचतुष्टयम् ।
तस्मात्काश्यां प्रवस्तव्यं गन्तव्यं नहि मन्दरम् ।।1.83.२०।।
इत्यारभ्य च योगिन्यः काश्यां तिष्ठन्ति सर्वदा ।
चरित्वा दिक्षु विदिक्षु तिष्ठन्त्यागत्य तत्र वै ।।२१।।
नारायणं प्रभजन्त्यो दिवोदासं नमन्ति च ।
आत्मनः परमं लाभं मन्यन्ते स्म च ताः सदा ।। २२।
काशीसेवाकृतात्पुण्यादीशोऽप्यस्मान् समेष्यति ।
काशीं विना स तत्रापि दुःखितोऽत्राऽऽगतो भवेत् ।।।२३।।
इति निश्चित्य योगिन्यः शंभोरानन्दकानने ।
अतिष्ठन् संस्मरन्त्यस्तं शंकरं लोकशंकरम् ।।।२४।।
तासां नामानि वक्ष्यामि शृण्वत्र कमलालये! ।
गजास्या सिंहवक्त्रा च गृध्रास्या काकतुण्डिका ।।२५।।
उष्ट्रास्याश्वखरग्रीवा वाराहस्या शिवानना ।
उलूकाक्षी घोररवा मायूरी शरभानना ।।२६।।
कोटराक्षी चाष्टवक्त्रा कुब्जा च विकटानना ।
शुष्कोदरी ललज्जिह्वा श्वदंष्ट्रा वानरानना ।।।२७।।
ऋक्षाक्षी केकराक्षी च बृहत्तुण्डा सुराप्रिया ।
कपालहस्ता रक्ताक्षी शुकी श्येनी कपोतिका ।।२८।।
पाशहस्ता दण्डहस्ता प्रचण्डा चण्डविक्रमा ।
शिशुघ्नी पाशहन्त्री च काली रुधिरपायिनी ।।२९।।
वसापाना गर्भभक्षा शवहस्ताऽऽन्त्रमालिका ।
ऋक्षकेशी महाकुक्षिर्नागास्या प्रेतपृष्ठका ।।1.83.३०।।
दन्दशूकधरा क्रौंची मृगशृंगा वृषानना ।
फाटितास्या धूमश्वासा व्योमपादोर्ध्वदृष्टिका ।।३ १।।
तापिनी शोषिणी स्छघोणोष्ठा कोटरी तथा ।
विद्युल्लोला बलाकास्या मार्जारी कटपूतना ।।३२।।
अट्टहास्या च कामाक्षी मृगाक्षी चेति ता मताः ।
चतुःषष्टिस्तु योगिन्यः पूजिता नवरात्रके ।।३३।।
दुष्टबाधां नाशयन्ति गर्भबालादिरक्षिकाः ।
न डाकिन्यो न शाकिन्यो न कूष्माण्डा न राक्षसाः ।।३४।।
तस्य पीडां प्रकुर्वन्ति नामान्येतानि यः पठेत् ।
रणे राजकुले वापि विवादे जयदान्यपि ।।३५।।
बलिपूजोपहारैश्च धूपदीपसमर्पणैः ।
क्षिप्रं प्रसन्ना योगिन्यो प्रयच्छेयुर्मनोरथान् ।।३६।।।
कृष्णचतुर्दशीरात्रावुपवासी नरोत्तमः ।
प्रणवादिचतुर्थ्यन्तनामभिर्हवनं चरेत् ।।३७।।
प्रत्येकं हवनं चासां शतमष्टोत्तरं मतम् ।
ससर्पिषा गुग्गुलुना लघुबदरमानतः ।।३८।।
एकाग्रमनसा शुद्धः स्वेष्टं विचिन्त्य सर्वथा ।
यां यां सिद्धिमभीप्सेतां तां सुप्राप्नोति मानवः ।।३९।।
अथेशो योगिनीचक्रेऽनागते चिरमित्यपि ।
सूर्यं संप्रेषयामास ज्ञातुं काशीप्रवर्तनम् ।।1.83.४० ।।
प्राह शंभुस्तु सूर्यं वै दिवोदासस्य वै रवे! ।
धर्मक्षत्या निवासः स्यात्तथा कुरु दिवाकर! ।।४१ ।।
धर्ममार्गस्थितस्यात्र भक्तस्य योऽवमाननम् ।
करोति तस्य सर्वस्वनाशो भवति भास्कर! ।।।४२।।
यावद्धर्मे स्थिरा बुद्धिर्यावद्भक्तिश्च माधवे ।
तावद्विघ्नोदयो नास्ति तथापि कुरु चेष्टितम् ।।४३।।
रविः शंभोर्वचसा चाऽगमत्काश्यां मनुष्यवत् ।
अन्तर्बहिश्चरन्काश्यां दिवोदासे प्रजासु च ।।४४।।
धर्मभक्तिप्रवाहे तु मनाक् क्षतिं न चैक्षत ।
वत्सरं विचरन्सूर्योऽतिथिर्भूत्वाऽऽर्थयच्च तम् ।।४९।।
सर्वं संप्राप्तवान् पश्चाद् बहुरूपाण्यधारयत् ।
याचको बहुदो दीनो गणको मन्त्रदोऽप्यभूत् ।।४६।।
कदाचिन्नास्तिको धूर्तो जटिलश्च दिगम्बरः ।
जांगलिको विषवैद्यः पाखण्डी ब्रह्मवाद्यपि ।।४७।।
व्रतकृदैन्द्रजालज्ञः कथाकारः कपालधृक् ।
द्विजो ज्ञानी धातुवेत्ता खगोलज्ञः सुमन्त्रवित् ।।४८।।
साधुः सन्यासधर्मा वै सन्यासिनीस्वरूपधृक् ।
विप्रः क्षत्रियवैश्यौ च शूद्रो ब्रह्मचरो गृही ।।४९।।
वनस्थः संकररूपोऽथापि चाण्डालरूपधृक् ।
इत्येवं विचरन् काश्यां क्वापि छिद्रं न चाप सः ।।1.83.५०।।
तदाह्यकृतकार्योऽसौ गन्तुं तु मन्दर पुनः ।
नेयेषाऽवमानभयाद् दिवोदासबलात्तथा ।।५१।।
काश्यामेव कृतावासो भक्तिलग्नहृदन्तरः ।
अनिवेदनजन्यैनोनाशो भक्त्या भविष्यति ।।५२।।
धर्मो हि रक्षितो येन सर्वं तेन तु रक्षितम् ।
अयमेव हि सद्धर्मः काशीसेवनसंभवः ।।५३।।
पुत्रमित्रकलत्राणि क्षेत्राणि च धनानि च ।
प्रतिजन्मेह लभ्यन्ते काश्येका नैव लभ्यते ।।५४।।
दिवोदाससमो भक्तो नैवाऽन्यत्र क्वचिन्मिलेत् ।
तस्मादत्रैव वस्तव्यं निश्चित्यैवं दिवाकरः ।।।५५।।
भूत्वा द्वादशरूपोऽसौ काशीपुर्यां व्यवस्थितः ।
लोकार्क उत्तरार्कश्च साम्बादित्यः खखोलकः ।।५६।।
द्रुपदादित्यो मयूखाऽऽदित्यस्तथाऽरुणाऽऽह्वयः ।
वृद्धार्कः केशवार्कश्च विमलार्को यमाह्वयः ।।५७।।
गंगादित्यौ द्वादशेतिरूपैः काश्यां व्यवस्थितः ।।
भजते श्रीहरिं नित्यं दिवोदाससमागमे ।।५८।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने दिवोदासछिद्रान्वेषणाय चतुःषष्टियोगिनीनां रूपान्तरधृतिः काश्यामेव वासो रवेश्चापि तथैव तत्कार्यार्थमागमनं काश्यामेव द्वादशरूपैर्वासश्चेत्यादिप्रदर्शननामा त्र्यशीतितमोऽध्यायः ।।८३।।