लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ०६५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०६४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ६५
[[लेखकः :|]]
अध्यायः ०६६ →

श्रीनारायण उवाच---
शृणु लक्ष्मि ! याम्यपुरे श्रावणा द्वादशोऽनुगाः ।
ब्रह्मपुत्राः प्रतीहाराः मनुष्याणां तु चेष्टितम् ॥ १ ॥
शुभाऽशुभं तु यत्कर्म विचार्य्यैव पुनः पुनः ।
श्रावयन्ति तदानीं वै चित्रगुप्ते यमे तथा ।। २ ।।
नरैस्तुष्टैश्च रुष्टैश्च यद्यत्कर्म कृतं भवेत् ।
सर्वमावेदयन्ति स्म यथार्थं यादृशं च यत् ।। ३ ।।
दूराछ्रवणविज्ञानं दूराद् दर्शनगोचरम् ।
स्वर्भूःपातालवासानां चेष्टाज्ञानं च दूरतः ॥ ४ ॥
एवं तेषां शक्तिरस्ति मर्त्यादौ गुप्तबोधिनी ।
ते वै प्रेतस्य यावद्धि कर्म गायन्ति तत्र च ।। ५ ॥
श्रीलक्ष्मीरुवाच--
श्रावणाः कस्य पुत्रास्ते कथं यमपुरे स्थिताः ।
त्रिलोकस्थैः कृतं कर्म कथं जानन्ति ते प्रभो ! ॥ ६ ॥
कथं शृण्वन्ति ते सर्वे कस्माज्ज्ञानं समागतम् ।
कदा ते च समुत्पन्ना ब्रूहि मे कान्त सर्वथा ॥ ७ ॥
श्रीनारायण उवाच--
आदौ जगत्समुत्पन्नं ब्रह्मया निर्मितं हि तत् ।
मया तु पालितं तद्वै रुद्रः संहारकृत् ततः ॥ ८ ॥
धर्मराजो मया सृष्टश्चित्रगुप्तेन संयुतः ।
स्वस्वकार्यं निर्वहन्ति त्रयो देवाः स्वतन्त्रतः ॥ ९ ॥
सर्वेऽप्याद्ये सत्ययुगे स्वतन्त्रा ह्यभवन् जनाः ।
सर्वे त्रिदेवसदृशा न तेषु कस्य शासनम् ॥1.65.१०॥
त्रेतायामपि तद्वच्च स्वतन्त्राः कर्म चक्रिरे ।
शास्तॄणां तदविदितं शास्तृत्वं कुत्र सार्थकम् ॥११॥
तदा देवास्र्तयस्तत्र मिलिताश्चिन्तनाय वै ।
प्राणिनां तु स्वतन्त्राणां कर्मज्ञानं न नो यदि ॥१२॥
न जानीमः कथं शासयितव्याः प्राणिनस्तदा ।
विचार्येत्थं विममृशुः स्रष्टव्यास्तादृशाः सुताः ॥१३॥
तदा ब्रह्मा शिवविष्ण्वोर्मतमादाय मन्त्रयुक्।
गृहीत्वा द्वादशकुशान् जलं संप्रोक्ष्य तत्र च ॥१४॥
ददौ धर्माय सजलकुशान् द्वादश चेतनान् ।
यमो हस्ते गृहीत्वा तान् संकल्पयति पुत्रकान् ॥१५॥
तेजोराशीन् विशालाक्षान् दूरश्रवणदर्शनान् ।
आत्मद्रष्टॄर्निगितज्ञान् परसंकल्पबोधकान् ॥१६॥
अदृश्यान् दृश्यरूपाँश्च सोऽसृजद् द्वादशात्मजान् ।
यमपुत्रा इमे लोके सर्वत्र कर्णनेत्रगाः ॥१७॥
यो यं वदति लोकेऽस्मिन् यत् करोति शुभाऽशुभम् ।
प्रापयन्ति च ते शीघ्रं यमस्य कर्णगोचरे ॥१८॥
दूराच्छ्रवणविज्ञानं दूराद्दर्शनगोचरम् ।
सर्वं शृण्वन्ति ते सर्वे तेनैव श्रावणा मताः ॥१९॥
विचरन्ति वायुरूपाः स्थित्वा चाकाशवर्मनि ।
जन्तूनां चेष्टितं ज्ञात्वा यमाय प्रवदन्ति ते ॥1.65.२०॥
मृत्योरुत्तरकाले ते यथाकर्म यथाकृतम् ।
धर्मं चार्थं च कामं च यद्वा मोक्षं यथा कृतम् ॥२१॥
तथा सर्वं प्राणिनां तु चित्रगुप्ताय सत्वरम् ।
निवेदयन्ति पश्चाद्वै यमायाऽऽवेदयन्ति च ।।२२॥
श्रावणास्ते बहुरूपाण्यपि धारयितुं क्षमाः ।
चतुर्दशभुवनेषु नैकरूपैश्चरन्ति ते ॥२३॥
धर्मचरा जना ये ते यान्ति विमानसंस्थिताः ।
अर्थदास्तेऽज्ञप्यप्सरोभिर्यान्ति विमानसंस्थिताः ॥२४॥
कामदानप्रदातारो यान्त्यश्वयुक्तसद्रथैः ।
हंसहस्तिविमानैश्च मोक्षभाजः प्रयान्ति वै ॥२५॥
अधार्मिकास्तु पद्भ्यां वै यान्ति मार्गं सुदुःसहम् ।
पाषाणैः कण्टकैः क्लिष्टं ह्यसिपत्रवनात्मकम् ॥२६॥
तप्तवालुकया व्याप्तं पाशबद्धाः प्रयान्ति वै ।
तेषां सुखप्रवासार्थं दानं देयं यथाबलम् ॥२७॥
छत्रोपानहवस्त्राणि मुद्रिका च कमण्डलुः ।।
आसनं भाजनं चैव वाहनं भूषणं जलम् ।।२८।।
अन्नमाज्यमुपवीतं गोमहिष्यादिकं धनम् ।
दातव्यं प्रेतमुद्दिश्य मार्गं सुखकरं भवेत् ।।२९॥
मृतोद्देशेन यत्किंचिद् दीयते स्वगृहे प्रिये ।
जलात्मा साक्षिकस्तद्धि वरुणो वेत्ति सर्वथा ॥1.65.३०॥
गृह्णाति वरुणो दानं मम हस्ते प्रयच्छति ।
अहं नारायणस्ततोऽर्पयामि भास्करे रवौ ॥३१॥
भास्करात् स च वै प्रेतः संगृह्याऽश्नाति चेत्यतः ।
देयं प्रेतसुखार्थं वै दानं बहुविधं प्रिये ! ॥३२॥
यस्तु धर्मः कृतो नैव दानं पश्चान्न दीयते ।
पुण्यं तु नाऽर्जितं स्वैश्च नरकान् याति दारुणान् ॥३३।।
चतुरशीतिलक्षास्ते नरकाः सन्ति दुःखदाः ।
तेषां मध्ये मुख्यतमा धौरेयास्त्वेकविंशतिः ॥३४॥
तामिस्रश्चान्धतामिस्रो महारौरवरौरवौ ।
कुंभीपाकः कालसूत्रमसिपत्रवनं तथा ॥३५॥
सूकरास्यमन्धकूपः कृमिभोजनमित्यपि ।
संदंशस्तप्तसूर्मिश्च वज्रकंटकशाल्मली ॥३६॥
पूयोदो वैतरणी च प्राणरोधो विशंसनम् ।
अयःपानमवीचिश्च श्वादनं लाळभक्षणम् ॥३७॥
इत्येते मुख्यरूपा वै यमपूर्यां मतास्तथा ।
तेभ्योऽधस्तात्परे सप्त सन्त्यन्ये नामतः शृणु ॥३८॥
क्षारकर्दम एकोऽन्यो, रक्षोगणप्रभोजनः ।
शूलप्रोतो दन्दशूकोऽवटनिरोधनस्तथा ॥३९॥
पर्यावर्तनकश्चैव सूचीमुखमिति पृथक् ।
अथाऽन्ये नरकग्रामास्तत्र सन्ति निबोध तान् ॥1.65.४०॥
तलपातो महाज्वालः शबलश्च विकर्तनः ।
अधःशिरा रुधिरान्धश्चक्षुःशूलःप्रपाचनम् ॥४१॥
शैलपातो लोहशंकुप्रतोदनिगडास्तथा ।
लोहयन्त्रश्च काकोलो मृतजीवनवैशसौ ॥४२॥
नरकाणीति चान्यानि भेदप्रभेदतस्तथा ।
भवन्ति पापकर्तॄणां निष्कृत्यर्थं कृतानि वै ।।४३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने द्वादशश्रवणाख्यदूतानामष्टाविंशत्यादिनरकाणामुद्देशनामा पञ्चषष्टितमोऽध्यायः ।। ६५ ॥